TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

भाद्रपदमास: - स्यमन्तकोपाख्यानप्रारम्भ:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


स्यमन्तकोपाख्यानप्रारम्भ:
॥ अथ स्यमन्तकोपाख्यानप्रारम्भ: ॥

नन्दिकेश्वर उवाच । श्रृणुष्वैकाग्रचित्त:सन्‌ व्रतं गाणेश्वरं महत्‌ । चतुर्थ्यां शुक्लपक्षे तु सदा कार्यं प्रयत्नत: ॥ सनत्कुमार योगीन्द्र यदीच्छेच्छुभमात्मन: । नारी वा पुरुषो वापि य: कुर्याद्विधिवद व्रतम्‌ ॥ मोचयत्याशु विप्रेन्द्र सङ्कष्टाद व्रतिनं हित तत्‌ । अपवादहरं चैव सर्वविघ्नप्रणाशनम्‌ ॥ कान्तारे विषमे वापि रणे राजकुलेऽथवा । सर्वसिद्धिकरं विद्धि व्रतानामुत्तमं व्रतम्‌ ॥ गजाननप्रियं चाथ त्रिषु लोकेषु विश्रतम्‌ । अतो न विद्यते ब्रह्मन्‌ सर्वसङ्कष्टनाशनम्‌ ॥ सनत्कुमार उवाच । केन चादौ पुरा चीर्णं मर्त्यलोके कथं गतम् । एतत्समस्तं विस्तार्य ब्रूहिगाणेश्वरं महत्‌ ॥ नन्दिकेश्वर उवाच । चक्रे व्रतं जगन्नाथो वासुदेव: प्रतापवान्‌ । आदिष्टो नारदेनैव वृथा लाञ्चनमुक्तये ॥ सनत्कुमार उवा० । षडगुणैश्वर्यसम्पन्न: मृष्टिसंहारकारक: । वासुदेवो जगद्वयापी प्राप्तवान्‌ लाञ्छनं कथम्‌ ॥ एतदाश्चर्यमाख्यानं ब्रूहि त्वं नन्दिकेश्वर । नन्दिकेश्वर उवाच । भूमिभारनिवृत्त्यर्थं वसुदेवसुतावुभौ ॥ रामकृष्णौ समुत्पन्नौ पद्मनाभफणीश्वरौ । जरासन्धभयात्कृष्णो द्वारकां समकल्पयत्‌ ॥१०॥
विश्वकर्माणमाहूय पुरीं हाटकनिर्मिताम्‌ । तत्र षोडश साहस्त्रं स्त्रीणां चैव शताधिकम्‌ ॥ भवनानि मनोज्ञानि तेषां मध्ये व्यकल्पयत्‌
पारिजाततरुं मध्ये तासां भोगाय कल्पयत्‌ ॥ यादवानां गृहास्तत्र षट्‌ पञ्चाशतकोटय: । अन्येऽपि बहवो लोका वसन्ति विगतज्वरा: ॥ यत्‌ किञ्चित्‌ त्रिषु लोकेषु सुन्दरं तत्रद्दश्यते । सत्राजितप्रसेनाख्यौ पुत्रावुग्रस्य विश्रुतौ ॥ अम्भौधितीरमासाद्य तत्र तप्तुं मनोदधे । सत्राजितस्तपस्तेपे सूर्यमुद्दिश्य बुद्धिमान्‌ ॥ व्रतं निरशनं गृह्य सूर्यसम्बद्धलोचन । तत: प्रसन्नो भगवान्‌ सत्राजितपुरस्थित: ॥ सत्राजितोऽपि तुष्टाव द्दष्ट्वा देवं दिवाकरम्‌ । तेजोराशे नमस्तेऽस्तु नमस्ते सर्वतोमुख ॥ विश्वव्यापिन्नमस्तेऽस्तु हरिदश्व नमोऽस्तु ते । ग्रहराज नमस्तेऽस्तु नमस्ते चण्डरोचिषे ॥ वेदत्रय नमस्तेऽस्तु सर्वदेव नमोऽस्तु ते । प्रसीद पाहि देवेश सुद्दष्टया मां दिवाकर ॥ इत्थं संस्तूयमानोऽसौ देवदेवो दिवाकर: । स्निग्धगम्भीरमधुरं सत्राजितमुवाच ह ॥ सूर्य उवाच । वरं ब्रूहि प्रदास्यापि यत्ते मनसि वर्तते । सत्राजित महाभाग तुष्टोऽहं तव निश्चयात्‌ ॥ सत्राजित उवा० । स्यमन्तकमणिं देहि यदि तुष्टोऽसि भास्कर । ददौ तस्य च तद्रत्नं स्वकण्ठादवतार्य स: ॥ भास्कर उवाच । भाराष्टकं शातकुम्भं स्रवतेऽसौ महामणि: । शुचिष्मता सदाधार्यं रत्नमेतन्महोत्तमम्‌ ॥ सत्राजित क्षणेनैतद्धन्ति ह्यशुभमानसम्‌ । इत्युक्त्वान्तर्दधे देवस्तेजोराशिर्दिवाकर: ॥ तत्कण्ठरत्नज्वलमानरूपी पुरीं स कृष्णस्य विवेश सत्वरम्‌ । द्दष्टवा तु लोका मनसा दिवाकरं संचिन्तयन्तो हविनष्टद्दष्टय: ॥ समागतोऽयं हरिदश्वदीधितिर्जनार्दनं द्रष्टुमसंशयेन । नायं सहस्रांशुरितीह लोका: सत्राजितोऽयं मणिकण्ठभास्वान्‌ ॥ स्यमन्तकं महारत्नं द्दष्ट्वा तत्कण्ठमण्डले । स्पृहां चक्रे जगन्नाथो न जहार मणिं तत: ॥ सत्राजितो जातभयो याचयिष्यति मां हरि: । प्रसेनाय ददौ भ्रात्रे धार्योऽयं शुचिना त्वया ॥ एकदा कण्ठदेशेऽसौ क्षिप्त्वा तं मणिमुत्तमम्‌ । मृगयाक्रीडनार्थाय ययौ कृष्णेन संयुत: । अश्वारूढोऽशुचिश्वासौ हत: सिंहेन तत्क्षणात्‌ । रत्नमादाय सिंहोऽपि गच्छन्‌ जाम्बवता हत: ॥ नीत्वा स विवरे रत्नं ददौ पुत्राय जाम्बवान्‌ ॥ पुरीं । विवेश कृष्णोऽपि स्वकै: सर्वै: समावृत: । प्रसेनोऽद्यापि नायाति हत: कृष्णेन निश्चितम्‌ । मणिलोभेन हा कष्टं बान्धव: पापिना हत: । द्वारकावासिन: सर्वे जना ऊचु: परस्परम्‌ । वृथापवादसन्तप्त: कृष्णोऽपि निरगाच्छनै: । सहैव तैर्यथारण्ये द्दष्ट्वा सिंहेन पातितम्‌ ॥ प्रसेनं वाहनयुतं तत्पदानुचरा: शनै: । ऋक्षेण निहतं द्दष्ट्वा कृष्णश्चर्क्षबिलं गत: ॥ विवेश योजनशतमन्धकारं स्वतेजसा ॥ निवारयन्ददर्शाग्रे प्रासादं बद्धभूमिकम्‌ ॥ कुमारीं जाम्बवन्तस्य दोलायाममितद्युतिम्‌ । माणिक्यं लम्बमानं च ददर्श भगवान्‌ हरि: ॥ रूपयौवनसम्पन्नां कन्यां जाम्बवतीं पुन: ॥ दोलां दोलयमानां च ददर्श कमलेक्षण: ॥ महान्तं विस्मयं चक्रे द्दष्ट्वा तां चारुहासिनीम्‌ । दोलां दोलयमानां च जगौ गीतमिदं मुहु: ॥ सिंह: प्रसेनमवधीत्सिंहो जाम्बवता हत: । सुकुमारक मारोदीस्तव ह्येष स्यमन्तक: ॥ मदनज्वरदाहार्ता द्दष्ट्वा तं कमलेक्षणम्‌ । उवाच ललितं बाला गम्यतां गम्यतामिति ॥ रत्नं गृहीत्वा वेगेन यावच्छेते तु जाम्बवान्‌ । इत्याकर्ण्य वच: शौरि:शङ्खं दध्मौ प्रतापवान्‌ ॥ आकर्ण्य सहसोत्थाय युयुधे यक्षराट तत: । तयोर्युद्धमभूद घोरं हरिजाम्बवतोस्तदा ॥ द्वारकावासिन: सर्वे गतास्ते सप्तमे दिने । तृत: कृष्णे निरीक्षन्तो नि संदिग्धं विचार्य च ॥ परलोकक्रियां चक्रु: परेतस्य तु ते तदा । एकविंशद्दिनं यावद बाहुप्रहरणो विभु: ॥ युयुधे तेन ऋक्षेण युद्धकर्मणि तोषित: । जाम्बवान्‌ प्राक्तनं स्मृत्वा द्दप्ट्वा देवबलं महत्‌ ॥ जाम्बवानुवाच । अजेयोऽहं सुरै: सर्वैर्यक्षराक्षसदानवै: । त्वया जितोऽहं देवेश देवस्त्वमसि निश्चितम्‌ ॥ जाने त्वां वैष्णवं तेजो नान्यथा बलमीद्दशम् । इति प्रसाद्य देवेशं ददौ माणिक्यमुत्तमम्‌ ॥ सुतां जाम्बवतीं नाम भार्यार्थं वरवर्णिनीम्‌ । पाणिं वै ग्राहयामासदेवदेवं च जाम्बवान्‌ ॥ मणिमादाय देवोऽपि जाम्बवत्यापि संयुत: । तद्‌ वृत्तान्तं समाचष्टे द्वारकावासिनां स्वयम्‌ ॥ सत्राजितस्य माणिक्यं द्त्तवान्‌ संसदि स्थित: । मिथ्यापवादसंशुर्द्धी प्राप्तवान्मधुसूदन: ॥ स त्राजितोऽपि संत्रस्त: कृष्णाय प्रददौ सुताम्‌ । सत्यभामां महाबुद्धिर्ददौ सर्वगुणान्विताम्‌ ॥ शतधन्वाक्रूरमुखा यादवा दुष्टमानसा: । सत्राजितेन ते वैरं चक्रू रत्नाभिलाषिण: ॥ दुरात्मा शतधन्वापि गते कृष्णे च पाण्डवान्‌ । सत्राजितं निहत्याशु मणिं जग्राह पापधी: ॥ कृष्णस्य पुरत: सत्या समाचष्टे विचेष्टितम्‌ । अन्तर्हृष्टो बहि: कोपी कृष्ण: कपटिनायक: ॥ बलदेवपुरी वाक्यमुवाच धरणीधर: । ह्त्वा सत्राजितं द्दष्ट्वा मणिमादाय गच्छति ॥ निहत्य शतधन्वानं गृहीत्वा रत्नमावयो: । मम भोग्यं च तद्रत्नं भविष्यति सुनिश्चितम्‌ ॥ एतच्छुत्वा भयात्त्रस्त: शतधन्वापि यादव: । आहूयाक्रूरनामानं माणिक्यं प्रददौ च स: ॥ आरुह्य वडवां वेगान्निर्गतो दक्षिणां दिशम्‌ । रथस्थावनुगच्छेतां तदा रामजनार्दनौ ॥ शतयोजनमात्रेण ममार वडवा तदा । पलायमानो निहत: कृष्णेन च पदा तिना ॥ रथस्थे बलदेवे तु हते रत्नस्य लोभत: । न द्दष्टं तत्र तद्रत्नं बलदेवपुरोऽवदत्‌ ॥ तदाकर्ण्य महारोषादुवाच वचनं बली । कपटी त्वं सदा कृष्ण लोभी पाणी सुनिश्चितम्‌ ॥ अर्थाय स्वजनं हंसि कस्त्वं बन्धुं समाश्रयेत्‌ । अनेकशपथै: कृष्णो बलदेवं प्रसादयन्‌ । सोऽपि धिक्कष्टमित्युक्त्वा ययौ वैदर्भमण्डलम्‌ । कृष्णोऽपिरथमारह्य द्वारकां प्रययौ पुन: ॥ तथैवोचुर्जना: सर्वेन साधीयानयं हरि: । निष्काशितो रत्नलोभाज्ज्येष्ठो भ्राता बलो बली ॥ तच्छुत्वा दीनवदन: पापीयानिव संस्थित: । वृथाभिशापात्सन्तप्तो बभूव स जगत्पति: ॥ अक्रूरोऽपि विनिष्कम्य तीर्थयात्रानिमित्तत: । काशीं गत्वा सुखेनासौ यजन्यज्ञपतिं प्रभुम्‌ ॥ तोषमुत्पादयामास तेन द्रव्येण बुद्धिमान्‌ । सुरालयगृहैश्चित्रैर्नगरं समकल्पयत्‌ ॥ नदुर्भिक्षं न वै रोगा ईतयो न च विडवरम्‌ । शुचिना धार्यते तत्र मणि: सूर्यस्य निश्चितम्‌ ॥ जानन्नपि हि तत्सर्वं मानुषं भावमाश्रित: । लोकाचारं तथा मायामज्ञानं च समाश्रित: ॥ बन्धुवैरं समुत्पन्नं लाञ्छनं समुपस्थितम्‌ । वृथापवादबहुलं जायमानं कथं हरे: ॥ इति चिन्तातुर कृष्णं नारद: समुपरियत: । गृहीत्वा तत्कृतां पूजां सुखासनगतोऽब्रवीत्‌ ॥ नारद उवाच । किमर्थं खिद्यसे देव किं वा ते शोककारणम्‌ । यथावृत्तं समाचष्टे नारदाय च केशव: ॥ जानामि कारणं देव यदर्थं लाञ्छनं तव । त्वया भाद्रपदे शुक्ले चतुर्थ्यां चन्द्रदर्शनम्‌ ॥ कृतं तेन समुत्पन्नं लाञ्छनं तु वृथैव हि । श्रीकृष्ण उवाच । वद नारद मे शीघ्रं को दोषश्चन्द्रदर्शने ॥ किमर्थं तु द्वितीयायां तस्य कुर्वन्ति दर्शनम्‌ । नारद उवाच । गणनाथेन संशप्तश्चन्द्रमा रूपगर्वत: ॥ तद्दर्शने नराणां हि वृथा निन्दा भविष्यति । श्रीकृष्ण उवाच ॥ किमर्थं गणनाथेन शप्तश्चन्द्र: सुधामय: ॥ इदमाख्यानकं श्रेष्ठं यथावद्वक्तुमर्हसि । नारद उवाच । गणानामाधिपत्ये च रुद्रेण विहित: पुरा ॥ अणिमा महिमा चैव लघिमा गरिमा तथा । प्राप्ति: प्राकाम्यमीशत्वं वशित्वं चाष्टसिद्धय: ॥ भार्यार्थं प्रददौ देवो गणेशस्य प्रजापति: । पूजयित्वा गणाध्यक्षं स्तुतिं कर्तुं प्रचक्रमे ॥ ब्रह्मोवाच । गजवकत्र गणाध्यक्ष लम्बोदर वरप्रद । विघ्नराजाधिदेवेश सृष्टिसंहारकारक ॥ सम्पूजयेद गणाध्यक्षं मोदकाद्यै: प्रयत्नत: । तेषां प्रजायते सिद्धिर्निर्विघ्नेन न संशय: ॥ असम्पूज्य गणाध्यक्षं ये वाञ्छन्ति सुरासुरा: । न तेषां जायते सिद्धि: कल्पकोटिशतैरपि ॥ त्वद्भक्त्या तु गणाध्यक्ष विष्णु:पालयते सदा । रुद्रोऽपि संहरत्त्याशु त्वद्भक्त्यैव करोम्यहम्‌ ॥ इत्थं संस्तूयमानोऽसौ देवदेवो गजानन: । उवाच परमप्रीतो ब्रह्माणं जगतां पतिम्‌ ॥ श्रीगणेश उवाच । वरं ब्रूहि प्रदास्यामि यत्ते मनसि वर्तते । ब्रह्मोवाच । क्रियमाणस्य मे सृष्टिर्निर्विघ्नं जायतां प्रभो ॥ एवमस्त्विति देवोऽसौ गृहीत्वा मोदकान्करे । सत्यलोकात्समागत्य स्वेच्छया गगने शनै: ॥ चन्द्रलोकं समासाद्य चलितो गणनायक: । उपहासं तदा चक्रे सोमो रूपमुदान्वित: ॥ तं द्दष्ट्वा कोपताम्राक्षो गणनाथ: शशाप ह । दर्शनीय: सुरूपोऽहं सुन्दरश्चाह मित्य्थ ॥ गर्बितोऽसि शशाङ्क त्वं फलं प्राप्स्यसि सत्वरम्‌ । अद्यप्रभृति लोकास्त्वां न हि पश्यन्ति पापिनम्‌ ॥ ये पश्यन्ति प्रमादेन त्वां नरा मृगलाञ्छनम्‌ ॥ मिथ्याभिशापसंयुक्ता भविष्यन्तीह ते ध्रवम्‌ ॥ हाहाकारो महान्‌ जात: श्रत्वा शापं च भीषणम्‌ । अत्यन्तं म्लानवदनश्चन्द्रो जलमथाविशत्‌ ॥ कुमुदं कौमुदीनाथ: स्थितस्तत्र कृतालय: । ततो देवर्षिगन्धर्वा निराशोद्विग्नमानसा: ॥ तुराषाहं पुरोधाय जग्मुस्ते तं पितामहम्‌ । देवं शशंसुश्चन्द्रस्य गणेशस्य च चेष्टितम्‌ ॥ दत्त: शापो गणेशेन कथयामासुरादरात्‌ । विचार्य भगवान्ब्रह्मा तान्सुरानिदमब्रवीत्‌ ॥ गणेशशापो देवेन्द्री शक्यते केन वाऽन्यथा । कर्तुं रुद्रेण न मया विष्णुना चापि निश्चितम्‌ । तमेव देवदेवेशं व्रजध्वं शरणं सुरा: । स एव शापमोक्षं च करिष्यति न संशय: ॥ देवा ऊ० ॥ केनोपायेन वरदो गजवकत्रो गणेश्वर: । पितामह महाप्राज्ञ तदस्माकं वद प्रभो । पितामह उवा० । चतुर्थ्यां देवदेवोऽसौ पूजनीय: सदैव हि ॥ कृष्णपक्षे विशेषेण नक्तं कुर्याच्च तद व्रतम्‌ । अपूपैर्घृतसंयुक्तैर्मोदकै: परितोषयेत् । मधुरान्नं हविष्यं च स्वयं भुञ्जीत वाग्यत: । स्वर्णरूपं गणेशस्य दातव्यं द्विजसत्तमे ॥ शक्त्या च दक्षिणां दद्याद्वित्तशाठयं न कारयेत्‌ । एवं समेतैस्तै: सर्वैर्गीष्पति: प्रेषितस्तदा ॥ स गत्वा कथयामास चन्द्राय ब्रह्मणोदितम्‌ ॥ व्रतं चक्रे ततश्चन्द्रो यथोक्तं ब्रह्मणा पुरा । आविर्बभूव भगवान्‌ गणेशो व्रततोषित: ॥ तं क्रीडमानं गणनायकं च तुष्टाव द्दष्ट्वा तु कलानिधान: ॥ त्वं कारणं कारणकारणानां वेत्तासि वेद्यं च विभो प्रसीद । प्रसीद देवेश जगन्निवास गणेश लम्बोदर वक्रतुण्ड ॥ विरिञ्चनारायणपूज्यमान क्षमस्व मे गर्वकृतं च हास्यम्‌ । ये त्वामसम्पूज्य गणेश नूनं वाञ्छन्ति मूढा: सुकृतार्थसिद्धिम्‌ । ते दैवनष्टा विश्रुतं च लोके ज्ञातो मया ते सकल: प्रभाव: ॥ ये चाप्युदासीनतरास्तु पापास्ते यान्ति वासं नरके सदैव । हेरम्ब लग्बोदर मे क्षमस्व दुश्चेष्टितं तत्करुणासमुद्र ॥ एवं संस्तूयमानोऽसौ चन्द्रेणाथ गजानन: । तुष्टोऽहं तव दास्यामि वरं ब्रूहि निशाकर ॥ चन्द्र उवाच । लोकानां दर्शनीयोऽहं भवामि पुनरेव हि । विपापोहं विशापोऽहं त्वत्प्रसादाद गणेश्वर ॥ गणेश उवाच । वरमन्यं प्रदास्यामि नैतद्देय मया तव ॥ ततो ब्रह्मादय: सर्वे समाजग्मुर्भयार्दितो: विशापं कुरु देवेश प्रार्थयामो वयं तव । विशापमकरोच्चन्द्रं कमलासनगौरवात्‌ ॥ शुक्लपक्षे चतुर्थ्यां तु ये पश्यन्ति सदैव हि । मिथ्यापवादमावर्षं प्राप्त्यन्तीह न संशय: ॥ मासादौ पूर्वमेव त्वां ये पश्यन्ति सदा जना: । चतुर्थ्यां शुक्ल्पक्षस्य तेषां न जायते ॥ तदाप्रभृति लोकोऽयं द्वितीयायां कृतादर: ॥ पुनरेव तु पप्रच्छ कलावान्‌ गणनायकम्‌ ॥ केनोपायेन देवेश तुष्टो भत्रसि तद्वद । गणेश उवा० । सदा कृष्णचतुर्थ्यां तु मोदकाद्यै: प्रपूज्य माम्‌ । रोहिण्या सहितं त्वां च समभ्यर्च्य विधानत: ॥ यथाशक्त्या च मद्रूपं स्वर्णेन परिकल्पितम्‌ । दत्वा द्विजाय भुक्त्वाऽथ कथां श्रुत्वा विधानत: ॥ सदा तस्य करिष्यामि सङ्कष्टस्य निवारणम्‌ । भाद्रशुक्लचतुर्थ्यां तु मृन्मयी प्रतिमा शुभा ॥ हेमाभावे तु कर्तव्या नानापुष्पै: प्रपूज्य माम्‌ ॥ ब्राह्मणान्‌ भोजयेत्पश्चाज्जागरं च विशेषत: । स्थापयेदव्रणं कुम्भं धान्यस्योपरि शोभितम्‌ । यथाशक्त्या च मद्रूपं शातकुम्भेन निर्मितम्‌ । वस्त्रद्वयसमाच्छन्नं मोदकाद्यै: प्रपूज्य माम्‌ ॥ रक्ताम्बरधरो मर्त्यो ब्रह्मचर्यव्रत: शुचि: । राजतस्य तु रूपं मे यथाशक्त्या विनिर्मितम्‌ ॥ वस्त्रं शिवप्रियायेति उपवस्त्रं गणाधिपे । गन्धं लम्बोदरायेति पुष्पं सिद्धिप्रदायके ॥ धूपं गजमुखायेति दीपं मूषकवाहने । विघ्ननाथाय नैवेद्यं फलं सर्वार्थसिद्धिदे ॥ ताम्बूलं कामरूपाय दक्षिणां धनदाय च ॥ इक्षुदण्डैर्मोदकैश्च होमं कुर्याच्च नामभि: । विसर्जनं तत: कुर्यात्सर्वसिद्धिप्रदायकम्‌ ॥ एवं सम्पूज्य विघ्नेशं कथां श्रुत्वा विधानत: । मन्त्रेणानेन तत्सर्वं ब्राह्मणाय निवेदयेत्‌ ॥ दानेनानेन देवेश प्रीतो भव गणेश्वर । सर्वत्र सर्वदा देव निर्विघ्नं कुरु सर्वदा ॥ मानोन्नतिं च राज्यं च पुत्रपौत्रान्प्रदेहि मे ॥ गाश्च धान्यं च वासांसि दद्यात्सर्वं स्वशक्तित: । दत्वा तु ब्राह्मणै: सर्वै: स्वयं भुञ्जीत वाग्यत: ॥ मोदकापूपमधुरं लवणक्षारवर्जितम्‌ । एवं करोति यश्चन्द्र तस्याहं सर्वदा जयम्‌ ॥ सिद्धिं च धनधान्ये च ददामि विपुलां प्रजाम्‌ । इत्युक्त्वान्तर्दधे देवो विघ्नराजो विनायक: । तद व्रतं क्रुरु कृष्ण त्वं तत: सिद्धिमवाप्स्यसि ॥ नारदेनैवमुक्तश्च व्रतं चक्रे हरि: स्वयम्‌ । मिथ्यापवादं निर्मृज्य तत: कृष्णोऽभवच्छुचि: । ये श्रृण्वन्ति तवाख्यानं स्यमन्तकमणीयकम्‌ । चन्द्रस्य चरितं सर्वं तेषां दोषोअ न जायते । भाद्रशुक्लचतुर्थ्यां तु क्वचिच्चन्द्रस्य दर्शनम्‌ । जातं तत्परिहारार्थं श्रोतव्यं सर्वमेव हि ॥ यदा यदा मन:कष्टं सन्देह उपजायते । तदा तदा च श्रोतव्यमाख्यानं कष्टनाशनम्‌ ॥ एवमुक्त्वा गतो देवो गणेश: कृष्णतोषित: । श्रावणस्य सिते पक्षे चतुर्थ्यामेकभुग्व्रती ॥ व्रतं कुर्याद गणेशस्य यावद वर्षसपञ्चमम्‌ । सर्वसिद्धिकरं नणां स्त्रीणां वैव ऋषीश्वरा: ॥ एवं चक्रे व्रतं कृष्ण: नारदस्योपदेशत: । व्रतं कुर्याद गणेशस्य सर्वसिद्धिप्रदायकम्‌ ॥ यदा यदा चर्यसि कार्य उत्थिते नारी नरश्चाथ करोति तद्‌ व्रतम्‌ । सिद्धयन्ति कार्याणि मनेप्सितानि किं दुर्लभं विघ्नहरे प्रसन्ने ॥ इति श्रीस्कन्दपुराणे नन्दिकेश्वरसनत्कुमारसंवादे स्यमन्तकोपाख्यानं सम्पूर्णम्‌ ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:50:54.3030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

energy band model

  • ऊर्जा पट्ट प्रतिकृति 
RANDOM WORD

Did you know?

’ एकोद्दिष्ट श्राद्ध ’ बद्दल माहिती द्यावी.
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.