TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

भाद्रपदमास: - हरितालिकापूजाविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


हरितालिकापूजाविधि:
॥ शुक्लतृतीयायां हरितालिकापूजाविधि: ॥

तृतीया च परयुता ग्राह्या, यदा परदिने विधिवशान्नास्ति तदा पूर्वयुतापि ग्राह्या । तत्र प्रातस्तिलामलककलकेन केशान्‌ संशोध्य स्नात्वा पट्टवस्त्रं परिधाय वालुकामयी उमामहेश्वरमूर्तिं विधाय, कदलीस्तम्भमण्डिते पीठे संस्थाप्य पूजयेत्‌ । अथ पूजाप्रयोग: । आचम्य मासपक्षाद्युल्लिख्य ममेह जन्मनि सप्तजन्माखण्डितराज्यसुखसौभाग्यपुत्रपौत्राद्यभिवृद्धयर्थं श्रीउमामहेश्वरप्रीत्यर्थं हरितालिकाव्रताङ्गभूतं यथामिलितोपचारद्रव्यै: श्रीउमामहेश्वरपूजनमहं करिष्ये । तदङ्गं गणपतिपूजनं कलशघण्टापू० । महागण० । वक्रतुण्ड० । कलशस्य० । वरुणाय० । अपवित्र:० पूजासम्भारान्‌ प्रोक्ष्य, ब्राह्मणद्वारा प्राणप्रतिष्ठां कृत्वा ध्यायेत्‌ । पीतकौशेयवसनां हेमाभां कमलासनाम्‌ । भक्तानां वरदां नित्यं पार्वतीं चिन्तयाम्यहम्‌ ॥१॥
मन्दारमालाकुलितालकायै कपालमालाङ्कितशेखराय । दिव्याम्बरायै च दिगम्बराय नम: शिवायै च नम: शिवाय ॥२॥
श्रीउमामहेश्वराभ्यां नम: उमामहेश्वरौ ध्यायामि ॥ देवि देव समागच्छ प्रार्थयेऽहंजगन्मये । इमां मया कृतां पूजां गृहाण सुरसत्तमे ॥ श्री० आवाहनं० ॥ भवानि त्वं महादेवि सर्वसौभाग्यदायिके । अनेकरत्नसंयुक्तमासनं प्रति० ॥ आसनं० ॥ सुचारु शीतलं दिव्यं नानागन्धसमन्वितम्‌ । पाद्यं गृहाण देवेशि महादेवि नमोऽस्तु ते ॥ पाद्यं० ॥ श्रीपार्वति महाभागे शङ्करप्रियवादिनि । अर्ध्यं गृहाण कल्याणि भर्त्रा सह पतिव्रते ॥ अर्ध्य० ॥ गङ्गाजलं समानीतं सुवर्णकलशे स्थितम्‌ । आचम्यतां महाभागे रुद्रेण सहितेऽनघे ॥ आचमनीयं० ॥ गङ्गासरस्वतीरेवापयोष्णीनर्मदाजलै: । स्नापितासि मया देवि तथा शान्तिं कुरुष्व मे ॥ स्नानं० ॥ कामधेनुसमुद्भूतं दुग्धं चामृतमुत्तमम्‌ । स्नानार्थं च मयाऽऽनीतं गृहा० ॥ पयस्स्नानं० ॥ शुद्धोदकस्नानं० एवं सर्वत्र ॥ गोदुग्धं विकृतं देवि दधिरूपं गुणान्वितम्‌ । स्नानार्थं च मया दत्तं स्वीकुरु त्वं जगत्प्रिये ॥ दधिस्नानं० ॥ गोघृतं च मयाऽऽनीतं देवानां हविरुत्तमम्‌ । पावनं सर्वलोकानां गृहाण सुरसुन्दरि ॥ घृतस्नानं० ॥ पुष्पेभ्य: सारमादाय मक्षिकाभि: कृतं मधु । स्नानार्थं च मया दत्तं गृहाण सुरपूजिते ॥ मधुस्नानं० । शर्करा च सिता श्रेष्ठा इक्षुसारसमुद्भवा । स्नानार्थं च मया दत्ता गृहाण० ॥ शर्करास्नानं० ॥ गन्धोदकस्नानं० ॥ अभ्यङ्गार्थं मयाऽऽनीतं तैलं पुष्पादिवासितम्‌ । प्रयत्नेनार्जितम शुद्धं गृहा० ॥ सुगन्धतैलस्नानं० ॥ अङ्गोद्वर्तनकं देवि कस्तूर्या कुङ्कुमेन च। अन्यै: सुगन्धद्रव्यैश्च निर्मितं प्रति० ॥ अङ्गोद्वर्तनकं स० ॥ नानातीर्थादाहृतं च तोयमुष्णं मया कृतम्‌ । स्नानार्थं च मया दत्तं गृह्यतां० ॥ उष्णोदस्नानं० ॥ पञ्चोपचारपूजां कृत्वा, अभिषेक: । महिम्न: पारन्ते० सुरास्त्वा० इत्यादिभि: । स्नानानन्तरेण आचमनीयं० । पार्वति प्रतिगृह्ण त्वमम्बिके शिववल्लभे । सुवेषकारकं वासो लज्जाया वारणं परम्‌ ॥ वस्त्रं० ॥ पीततन्तुयुतां दिव्यां रक्तकौशेयसम्भवाम्‌ । मुञ्चन्मुक्तावलीयुक्तांकञ्चुकीं प्रति० ॥ कञ्चुकीं सम० ॥ उमाकान्त नमस्तुभ्यं रक्ष मां भवसागरात्‌ । उपवीतं सोत्तरीयं गृहाण जगदीश्वर ॥ यज्ञोपवीतं० ॥ कण्ठसूत्रं ताडपत्रं हरिद्रां कुङ्कुमाञ्जनम्‌ । सिन्दूरादि प्रदास्यामि सौभाग्यं देहि मेऽव्ययम्‌ । सौभाग्यद्रव्यं ० ॥ कुङ्कुमागरुकर्पूरकस्तुरीरोचनायुतम्‌ । विलेपनं महादेवि गन्धं दास्यामि भक्तित: ॥ चन्दनं० ॥ रञ्जिता: कुङ्कुमाद्येन अक्षताश्चातिशोभना: । भक्त्या समर्पितास्तुभ्यं प्रसन्ना भव पार्वति ॥ अक्षतान्‌० ॥ सेवन्तिकाबकुलचम्पकपाटलाब्जै: पुन्नागजातिकरवीररसालपुष्पै: । बिल्वप्रवालतुलसी दलमालतीभिस्त्वां पूजयामि जगदीश्वरि मे प्रसीद ॥ पुष्पाणि० ॥

॥ अथाङ्गपूजा ॥

१. उमायै नम:पादौ पूजयामि ।
२. गौर्यै नम: जङ्घे पूजयामि ।
३. पार्वत्यै० जानुनी पू० ।
४. जगद्धात्र्यै० ऊरू पूज० ।
५. जगत्प्रतिष्ठायै० कटी पू० ।
६. शान्तिरूपिण्यै० नाभिं० ।
७. देव्यै नम: उदरं पू० ।
८. लोकवन्दितायै० स्तनौ० ।
९. कल्याण्यै० हस्तौ पू० ।
१०. काल्यै न० कण्ठं पू० ।
११. शिवायै० मुखं पू० ।
१२. भवान्यै न० नेत्रे पू० ।
१३. रुद्राण्यै० कर्णी पू० ।
१४. शर्वाण्यै० ललाटं० ।
१५. मङ्गलदात्र्यै० शिर:० ।
१६. पार्वत्यै न० सर्वाङ्गं० ।

॥ अथ पत्रपूजा ॥

१. दुर्गायै न० अपामार्गप० ।
२. कात्यायन्यै० दाडिमप० ।
३. मङ्गलायै० अर्कपत्रं० ।
४. सुभद्रायै० जातीपत्रं० ।
५. भवान्यै न० बदरीपत्रं० ।
६. शिववल्लभा० देवदारु० ।
७. अम्बिकायै० धत्तूरपत्रं० ।
८. पार्वत्यै न० भृङ्गिराजप० ।
९. कल्याण्यै० अगस्तिप० ।
१०. रुद्राण्यै० बिल्वपत्रं० ।
११. शिवायै न० शतपत्रं० ।
१२. दक्षयज्ञविध्वंसिन्यै० करवीरपत्रं० ।
१३. विन्ध्यवा सिन्यै० चम्पक०
१४. महिषासुरमर्दिन्यै० दूर्वापत्रं० ।
१५. परमेश्वर्यै० शमीप० ।
१६. वाराह्यै० तुलसीप० ।
१७. वृषभवाहिन्यै० अर्जुनपत्रं० ।
१८. भक्तवत्सलायै० विष्णुकान्तपत्रं० ।

देवद्रुमरसोद्‌भूत: कृष्णागरुसमन्वित: । आनीतोऽयं मया धूपो भवानि प्रति० ॥ धूपं० ॥ त्वं ज्योति: सर्वदेवानां तेजसां तेज उत्तमम्‌ । आत्मज्योति: परं धाम दीपोऽयं प्रति० ॥ दीपंद० । अन्नं चतुर्वि० नैवेद्यं० ॥ आचमनीयं० ॥ मलयाचलसम्भूतं कर्पूरेण समन्वितम्‌ । करोद्वर्तनकं चारु गृ० ॥ करोद्वर्तनं० ॥ नारिकेलं सनारिङ्गं कदली पनसं तथा । जम्बीरं श्रीफलं पूगं मातस्त्वं प्रति० ॥ फलं स० ॥ कर्पूरैलालवङ्गादिनागवल्लीदलैर्युतम्‌ । खदिरक्रमुकैर्युक्तं ताम्बूलं प्रति० ॥ ताम्बूलं० ॥ प्रजाफलप्रसिध्यर्थं तवाग्रे स्वर्णमीश्वरि । दक्षिणार्थं मया भक्त्या कल्पितं प्रति० ॥ दक्षिणां० ॥ आर्तिक्यं गिरिजे तुभ्यं मया दत्तं शिवप्रिये । तेन सन्तानवृद्धिं मे कुरु कल्याणकारके ॥ कर्पूरदीपं० आर्तिक्यदीपं स० ॥ भवानि कमले देवि शङ्करप्राणवल्लभे । त्वमेव सर्वदेवानां पूजनीया सदाशिवा ॥ पुष्पाञ्जलिं० ॥ यानि कानि च० प्रद्क्षिणां० ॥ नम: सर्वहितार्थायै जगत: सर्वहेतवे ॥ साष्टाङ्गोऽयं प्रणामोऽस्ति प्रणयेन मया कृत: ॥ नमस्कारान्‌० । पुत्रान्देहि धनं देहि सौभाग्यं देहि सुव्रते । अन्यांश्च सर्वकामांश्च देहि देवि नमोऽस्तु ते ॥ प्रार्थनां० ॥ यस्य स्मृ० । अनेन मया कृतेन पूजनेन श्रीउमामहेश्वरौ प्रीये ताम्‌ । तत:वायनं दद्यात्‌ ॥ अद्य० र्थं पूजासाङ्गतासिध्यर्थं ब्राह्मणाय सौभाग्यद्रव्यसहितवायनप्रदानं तदङ्गं बाह्मणपूजनं च करिष्ये । गन्धा: पान्तु स्वस्त्यस्तु दी० । अन्नं सद्वंशपात्रस्थं सवस्त्रफलदक्षिणम्‌ । वायनं गौरि विप्राय ददामि प्रीतये तव ॥ सौभाग्यारोग्यकामानां सर्वसम्पत्समृद्धये । गौरीगिरीशतुष्टर्थं वायनं ते ददाम्यहम्‌ ॥ इदं सौभाग्यवायनं अमुकश० ददे । प्रति० प्र० । दानसाङ्गतासिध्यर्थं इमां दक्षि० । अनेन वायनदानेन श्रीउमामहेश्वरौ प्रीयेताम्‌ । रात्रौ पञ्चोपचारपूजां कृत्वा नृत्यगीतपुर:सरं जागरंणं कुर्यात्‌ । कथां श्रृणुयात्‌ । तत प्रभाते पञ्चोपचारपूजां कृत्वा दधिभक्तनैवेद्यं समर्प्य यान्तुदेवेति विसृज्य, नद्यां प्रक्षिपेत्‌ । स्वयं पारणां कुर्यात्‌ ।

॥ अथ हरितालिकाकथाप्रारम्भ: ॥

सूत उवाच । मन्दारमालाकुलितालकायै कपालमालाङ्कितशेखराय । दिव्याम्बरायै च दिगम्बराय नम: शिवायै च नम: शिवाय । कैलासशिखरे रम्ये गौरी पृच्छति शङ्करम्‌ । गुह्याद्‌ गुह्यतरं गुह्यं कथयस्व महेश्वर ॥ सर्वेषां सर्वधर्मस्वमल्पायासेन यत्फलम्‌ । प्रसन्नोऽसि जगन्नाथ तथ्यं ब्रूहि जगत्प्रभो ॥ केन व्रतप्रभावेण तपोदानेन शङ्कर । अनादिमध्यनिधनो भर्त्ता त्वं च जगत्प्रभु: ॥ मया प्राप्तोऽसि देवेश न जाने तत्सदाशिव । कथयस्व महादेव यद्यहं तव वल्लभा ॥ ईश्वर उवाच ॥ श्रृणु देवि प्रवक्ष्यामि तवाग्रे व्रतमुत्तमम । येन व्रतप्रभावेण प्राप्तमर्धासनं प्रिये ॥ यद्‌ गुह्यं मम सर्वस्य कथयामि तव प्रिये । यथा ह्युडुगणे चन्द्रो ग्रहाणां भानुरेव च ॥ वर्णानां तु यथा विप्रो देवानां विष्णुरुत्तम: । नदीनां तु यथा गङ्गा पुराणानां तु भारतम्‌ ॥ वेदानां तु यथा साम इन्द्रियाणां मनो यथा । पुराणवेदसर्वस्वमागमेषु यथोदितम्‌ ॥ तदेकाग्रेण मनसा श्रृणुष्वेदं सनातनम्‌ । भाद्रे मासि सिते पक्षे तृतीया हस्तसोमयुक्‌ ॥१०॥
तस्यानुष्ठानमात्रेण सर्वान्‌ कामानवाप्नुयात्‌ । श्रृणु पूर्वं तु यद्देवि त्वया तस्यामनुष्ठितम्‌ ॥ तत्सर्वं कथयिष्यामि यथा वृत्तं हिमाचले । पार्वत्युवाच ॥ कथं पूर्वं मया चीर्णं व्रतानामुत्तमं वतम्‌ ॥ तत्सर्वं श्रोतुमिच्छामि त्वत्सकाशाद वृषध्वज । ईश्वर उवाच ॥ अस्ति तत्र महान्‌ दिव्यो हिमवान्‌ पर्वतेश्वर: ॥ नानासिंहसमायुक्तो नानाद्रुमसमाकुल: । नानापक्षिगणैर्युक्तो नानामृगनिषेवित: ॥ यत्र देवा: सगन्धर्वा: सिद्धचारणगुह्यका: । विचरन्ति सदा हृष्टा गन्धर्वा गीततत्परा: ॥ स्फाटिकै: काञ्चनै: श्रृङ्गैर्मणिवैडूर्यमण्डितै: । भुजैर्लिखति चाकाशं चित्रको मन्दिरं यथा ॥ हिमेनापूरित: सर्वो गङ्गाध्वनिविराजित: । नृत्यन्त्यप्सरसो यत्रशोभमानो नगेश्वर: ॥ तत्र त्वं पार्वती बाल्ये आचरन्ती महत्तप: । द्वादशाब्दानि देवेशि धूमपानमधोमुखी ॥ भूत्वा त्वं मन्निमित्तेन मदाराधनतत्परा । संवत्सरचतुःषष्टि पक्वपर्णाशनं त्वया ॥ द्दष्ट्वा तातेन ते कष्टं दु:खितश्चिन्तया भृशम्‌ । इत्येवं चिन्तयाविष्टो देवर्षिर्नारदोऽभ्यगात्‌ ॥२०॥
पाद्यार्घ्याचमनं स्थानं नारदाय ददौ गिरि: । हिमवानुवाच ॥ अद्य मे सफलं जन्म अद्यमे सफला: क्रिया: ॥ गतं चाद्य जडत्त्वंमे यज्जातं तव दर्शनम्‌ । गताद्य मानसी चिन्ता ययाहं दुःखितो भृशम्‌ ॥ कन्यारत्नमिदं कस्मै देयं तद ब्रहि मे मुने । नारद उवाच ॥ शृणु शैलेन्द्र मद्वाक्यं विष्णुना प्रेषितोऽस्म्यहम्‌ ॥ योग्यं योग्याय दातव्यं कन्यारत्नमिदं त्वया । वासुदेवसमो नास्ति ब्रह्माद्या ये सुरेश्वरा: ॥ चतुर्वर्गस्य दात्रे वै दीयतां मम संमतम्‌ । गिरिरुवाच ॥ वासुदेवसमो देव: कन्यां प्रार्थयते यदि ॥ तस्मै देया मया कन्या त्वदागमनगौरवात्‌ । इत्येवं गदितं श्रुत्वा वैकुण्ठं नारदोत:ययौ ॥ प्रीत:पीताम्बरधरं शङ्खचक्रगदाधरम्‌ । चतुर्भुजं वासुदेवं नमस्कृत्वाभ्यभाषत ॥ श्रृणु देव विवाहार्थं गन्तव्यं शैलजां प्रति । तेन दत्तं प्रतिग्राह्यं कन्यारत्नं सुशोभम्‌ ॥ हिमवांस्तु तदा गौरीमुवाचातीव हर्षित: । द्त्तासि त्वं मया देवि देवराट्‌ गरुडध्वजे ॥ श्रुत्वा वाक्यं पितुर्देवी सख्या सार्धं वनान्तरम्‌ । गता ह्यनशनं ग्राह्यं तपस्तप्तुं सुदुःखिता ॥३०॥
सख्युवाच ॥ किमर्थं नगपुत्रि त्वं दु:खिता तप्यसे पुन: । को वा कामोऽभिलषित: सखि ज्ञातो न वै शुभे ॥ पार्वत्युवाच ॥ सखि श्रृणु महान्‌ कामो मनसा चिन्तितो मया । अल्पेन तपसा किं स प्राप्यते माद्दशै:खलु ॥ अतस्त्वया सह पुन:प्राप्ता तप्तुं वनान्तरम्‌ । सख्युवाच ॥ को वा कामोऽभिलषितो योऽल्पेन तपसा नरै: ॥ न प्राप्यते स मे ब्रूहि उपायञ्चिन्तयामि वै । पार्वत्युवाच ॥ कैलासशिखरासीनं देवदेवं वृषध्वजम्‌ ॥ भर्तृत्वेनैव मनसा कामेनाहं न संशय: । सोऽयं कामो महानद्य तातेन कृतमन्यथा ॥ तस्माद देहपरित्यागं करिष्ये तन्मनस्कका । पार्वत्या वचनं श्रुत्वा सखीवचनमब्रवीत्‌ ॥ नगपुत्रि महद्भाग्यं प्रार्थिता विष्णुना यत: । स सेव्यो दैवतै: सर्वैर्महेन्द्रादिपुरोगमै: ॥ यस्यैकगुणलेशेन गुणवन्तो भवन्ति हि । सगुणानामनन्तत्वादनन्त इति विश्रुत: ॥ देवानां कन्यका भद्रे स्वकीयां चेष्टदेवताम्‌ । सम्पूज्य यस्य दास्यन्ता: प्रार्थयन्ति दिवानिशम्‌ ॥ अतिभाग्यवशाद देवि माहिष्यं प्राप्यते त्वया । किञ्च या पायसं त्यक्त्वा भिक्षार्थं गम्यतेऽन्यत: ॥४०॥
प्राप्यापि कामदं देवं प्रार्थ्यते कामदाहक: । अस्ति काचित्‌ क्वचिद देवि त्रिलोक्यां त्वद्विना प्रिये ॥ नरोत्तमाय दत्तासि तव पित्रा शुभं कृतम्‌ । मा शोचस्व निवर्त्तस्व न जानासि गुणांस्तयो: ॥ भ्रामितास्यथवा केन श्रृणुष्वेकमनानघे । किरीटी केशवो देवो जटी मृत्युञ्जयोऽनघे ॥ केशव: सुमुखो भद्रे स च भीममुख:सदा । सुपङक्ती रक्तदन्तश्च विपङ्क्ती दीर्घदंष्ट्रक: ॥ रत्नकुण्डलवान्‌ विष्णुर्नागकुण्डलवान्‌ शिव: । विष्णु: कमलनेत्रश्च ज्वलन्नेत्र: सदाशिव: ॥ चतुर्भुजधरो विष्णु: स वै द्शभुजो महान्‌ । श्रीवत्सं लांछनं विष्णो: शिवस्य ब्रह्मण: शिर: ॥ पीताम्बरधरो विष्णु: स च चर्माम्बर: सदा । पद्मपाणिर्युवा विष्णु: स वृद्ध: शूलपाणिधृक ॥ अम्लानपद्ममालास्यो मुण्डमालाप्रिय: स च कण्ठेऽस्य कौस्तुभं रत्नं तस्य कण्ठे विषं सदा ॥ वाहनं गरुडो देवि जरठोक्षा शिवस्य च । शेषपर्यङ्कशायी स्याच्चिताभस्मशय: स च ॥ गन्धर्वध्वनिना हृष्टो भूतानां रोदनेन स: । विष्णुर्भोगी स योगी च कथं चकमसे शिवम्‌ ॥५०॥
पार्वत्युवाच ॥ न जानासि विमूढा त्वं योगिनं शूलपाणिनम्‌ । यस्याज्ञा सात्विको विष्णुस्त्रिलोकीं पाति नान्यथा ॥ राजसेन स्वरूपेण ब्रह्मा सृष्टिं विधास्यति । तामसेन स्वरूपेण रुद्रोऽत्ति सकलं रुषा ॥ गुणातीतस्य वै शम्भौ: को वेत्ति महिमां शुभाम्‌ । यस्याज्ञा कमठो भूत्वा विष्णु: पृथ्वीं दधार वै ॥ पुन: स शूकरो भूत्वा तां च दन्ते दधार वै । यद्दत्तान्‌ भुञ्जते भोगान्‌ विष्णुर्भोगीति वक्ष्यते ॥ सहस्त्रकमलै: पूर्वं विष्णुनाऽऽराधित: शिव: । विकुण्ठं स श्रियं तेजस्तेन दत्तं निजं क्षणात्‌ ॥ इन्द्रादीनां तु यो दाता स देवो न श्रुतस्त्वया । यद्दत्तं देवराज्यं तु इन्द्रो वै भुञ्जते सुखम्‌ ॥ कुबेरेणापि महती श्रीरवाप्ता वरानने । वरुणेन जलेशत्वं शेष:पातालसंस्थितिम्‌ ॥ सूर्यस्तपति यद्भीत्या वायुर्वाति दिवानिशम्‌ । यम: संयमनीशत्वं स देव: किं न वेत्स्यसि ॥ यस्याज्ञया स्वकालेऽपि मेघा वर्षन्ति सर्वत: । पावक: सर्वदेवानां वदनं भविताऽनघे ॥ पितर: पितृलोकत्वं मत्पिता पर्वतेशताम्‌ । चन्द्रो ह्युडुगणेशत्वं समुद्रो वै गभीरताम्‌ । यस्याज्ञया स्वकाले वै वर्त्तन्त्यादेशवर्तिन: ॥ वृष्टि: शीतं च घर्मश्च स्वकाले च गमागम: । शक्राद्या अपि दिक्पाला: स्वदिशं पालयन्ति ते ॥ येषु कृत्येषु ये देवा योजितास्ते तु तत्परा: । अन्यथा करणे तेषां स च दण्डं विधास्यति ॥ परात्परा: स वै देवो निर्गुण: सगुणोऽपि स: । निराकारश्च साकारो योगी भोगी स एव हि ॥ केवलो निर्गुण: साक्षी क्षरश्चाक्षर एव स: । को वेद तस्य तद्रूपं यद ब्रह्मेति प्रचक्षते ॥ ब्रह्माद्या देवता: सर्वा ऋषयश्च तपोधना: । योगिगो ज्ञाननिष्ठा ये यदर्थे त्यक्तबन्धना: ॥ तेऽपि तस्य न जानन्ति स्वरूपं सखि शूलिन: । अतस्तं चकमेऽहं वै शूलिनं तं पर्ति शुभे ॥ सख्युवाच ॥ सम्यक्कामोऽभिलषितस्तदर्थे त्यक्तजीविता । यत्र वै निश्चिता वुद्धि: स कामो भवति ध्रुवम्‌ ॥ ममापि च महद्भाग्यं यतस्त्वत्कर्मकारिका । किञ्चिद्विज्ञप्तुमिच्छामि यदि त्वं श्रूयसे वच: ॥ अम्बिकापूजनं कार्यं तन्मया कामदं श्रुतम्‌ । तवेष्टकर्त्री या देवी सापि पूज्या प्रयत्नत: ॥७०॥
मयि चानुग्रहो देवि मयि प्रीतिरनुत्तमा । अनुज्ञादानमात्रेण निजं सफलतां नय ॥ करिष्याम्यहमप्येतद गौर्या: पूजनमुत्तमम्‌ । तथेति संमतं कृत्वा नीतासि त्वं महद्वनम्‌ ॥ पिता निरीक्षयामास हिमवांस्तु गृहे गृहे । केन नीता त्वसौ पुत्री देवदानवकिन्नरै: ॥ सत्यं कृतं च ऋषिणा किं दास्ये गरूड्ध्वजे । इत्येवं चिन्तयाविष्टो मूर्छितो निपपायात ह ॥ हाहा कृत्वा ततो लोका: प्रधावन्ति गिरिं प्रति । आगत्य मुनय: सर्वे पप्रच्छुस्तं हिमाचलम्‌ ॥ किमर्थं मूर्छतां प्राप्त: कथयस्व हृदि स्थितम्‌ । गिरिरुवाच ॥ सदर्थं दुःखसम्भ्रान्त: कन्यारत्नं हृतंमम ॥ दष्टा वा कालसर्पेण सिंहव्याघ्रेण वा हता । न जाने क्व गता पुत्री केन दुष्टेन वा हृता ॥ पतित: शोकसन्तप्तो वातेनेव तरुर्यथा । निर्गतो गिरिराजस्तु दुहिताया गवेषणो ॥ महादेव उवाच ॥ गत्वाऽथ विपिनं घोरं सिंहशार्दूलसङ्कुलम्‌ । व्याघ्रसिंहैश्च भल्लूकैर्युध्यमानैमहागजै: ॥ तस्मिन्वने महाघोरे व्रजन्ती सखिभिर्युता । द्दष्ट्वा तत्र नदी रम्यां वनमध्ये गुहान्तरे ॥८०॥
उपविष्टाऽऽलिभि:साकमन्नाहारविवर्जिता । संस्थाप्य वालुकापिण्डं पार्वत्या सहितं मम ॥ हरतनक्षत्रसंयुक्ता मासि भाद्रे सिता जया । तत्र वाद्येन गीतेन रात्रौ जागरणं कृतम्‌ ॥ तेन व्रतप्रभावेण त्वासनं चलितं मम । प्राप्तोऽहं देवि तत्रैव यत्र त्वं सखिभि:सह ॥ प्रकरोषि मम प्रीत्या मदाराधनमुत्तमम्‌ । गुरुपदिष्टविधिना तेन तुष्टो भृशं मुदा ॥ पसन्नोऽस्मि वरं ब्रूहि मया पोक्तं वरानने । प्रसन्नोऽसि यदा देव ददस्व मनसेप्सितम्‌ ॥ सर्वज्ञस्य न चाज्ञातं किञ्चदस्ति महीतले । महादेव उवाच ॥ व्रतमेतद्धि कुरु ते या नारी द्दढमानसा ॥ प्राप्यापि सकलान्‌ कामानन्ते ब्रह्मणि लीयते । इत्युत्क्वा च ततो देवि कैलासमहमागत: ॥ तत: प्रभातसमये नद्यामेव विसर्जनम् । पारणं तु तत: कृत्वा यत्प्राप्तं वनमध्यगम्‌ ॥ पुनस्तत्रैव सुप्तासि सख्या सार्द्धं सरित्तटे । हिमवानपि तत्रैव सम्प्राप्तस्त्वदगवेषणे ॥ अन्विष्यंस्त्वां चतुर्दिक्षु ह्यन्नपानविवर्जित: । सुप्तं द्दष्टं नदीतीरे दूरत: कन्यकाद्वयम्‌ ॥९०॥
उत्थायोत्सङ्गमानीय रुदन्तीं त्वामुवाच ह । सिंहव्याघादिभिर्दुष्टै: सेवितं हि महावनम्‌ ॥ पुत्रि प्राप्ता किमर्थं त्वं प्रियं किं करवाणि ते । पार्वत्युवाच । श्रृणु तात मया ज्ञातं मां दास्यसि च शूलिने ॥ तदन्यथा कृतं तात तेनाहं वनमागता । तथेत्युक्तं हिमवता नीतासि त्वं गृहं प्रति ॥ तेन प्रोक्तोऽस्म्यहं देवि विवाहार्थं त्वया सह । पार्वत्युवाच ॥ किं कृतं गिरिणा तत्र विवाहोऽभूत्कथं मम ॥ त्वयाऽव किं कृतं नाथ श्रोतुमिच्छामि विस्तरात्‌ ॥ ऋषय: सप्त भोदेवि त्वदर्थे प्रेषिता मया ॥ द्दष्टास्ते नगराजेन पप्रच्छ मुदितानन: । कुत आगमनं जातं यूयं देवेन प्रेषिता: ॥ अन्यथा महतां प्रासिर्जडानं वै कथं भवेत्‌ । ऋषय ऊचु: ॥ नगराज वयं तावच्छङ्कराज्ञाविधायिन: ॥ त्वत्समीपे तु कन्याथे दीयतां यांद रोचते । महादेवोयदा मत्त: कन्यां प्रार्थयते तदा ॥ कन्यया च कृतं सम्यक यदर्थे दुष्करं तप: । अतस्तेन प्रसादोऽस्या: कत्तव्य: शूलपाणिना ॥ ऋषिभिर्भहुभिर्गीतं स देवो भक्तवत्सल: । इति श्रुत्वा गता विप्रा महादेवस्य सन्निधौ ॥१००॥
तदवृत्तान्तं समाकर्ण्य आजगाम महेश्वर: । आजग्मुस्तत्र वे सर्वे देवा इन्द्रपुरोगमा: ॥ पातालादागत: शेष: क्षीराब्धिशयनाद्विभु: । यत्र यत्र स्थिता देवा गन्धर्वा: सिद्धचारणा: ॥ ते तत्स्थानात्समाजग्मुस्तन्महोत्सवसम्भ्रमा: । विष्णुनाऽथ धृतं छत्रं श्वेतं चार्कशतप्रभम्‌ ॥ इद्रो वै चामरे दिव्ये कुबेर: कोशधारक: । स्वफणामणिभि: शेषो दीपमालां बिभर्त्तिस स: ॥ सहसयोजनायामं तेनाकारि सुमण्डपम्‌ । एकस्तम्भमयं प्रोच्चं योजनानां शतादहो ॥ ब्रह्मबृहस्पती देवौ मन्त्राशीर्भि: समूचतु: । जयशब्दैस्तथा देवा ऋशयश्च तपोधना: ॥ नृत्यन्त्यप्सरसस्तत्र गन्धर्वा ललितं जगु: । वाद्यानां ध्वनिवन्मेघो मन्दं मन्दं च गर्जति ॥ अवाकिरच्चतुर्द्दिक्षु तुषारकुसुमानि स: । देवकन्या नागकन्या लाजाभि: कृतमङ्गला: ॥ सरस्वती रमादेवी शच्याद्या दैवतस्त्रिय: । स्वर्णपात्रे निधायाशु पुष्पचन्दनमक्षतान्‌ ॥ दधिदूर्वाश्च सिद्धार्थान्‌  हरिद्रारत्नदीपकान्‌ । नीराजनं प्रकुर्वन्ति गिरिजाया: शिवस्य च ॥११०॥
पुष्पवृष्टिं प्रकुर्वन्ति देवा: सव्यापसव्यत: । महोत्सव: सम्प्रवृत्तो हिमालयगिरौ तदा ॥ गिरिणा च तदा तस्मै दत्तं जामातृतोषकम्‌ । गजानां दशसाहस्त्रमश्वानां नियुतं तथा ॥ अनर्ध्याणि च रत्नानि ददौ तस्मै गिरि: स्वयम्‌ । मुक्तानां दशकोटयश्च शतकोटयश्च विद्रुमा: ॥ हाटं कोटिकोटयस्तु पारिबर्हं ददौ गिरि: । असङ्ख्यातास्तु वै दास्यो मन:सन्तु ष्टिकारका: ॥ मैनाकस्त्वत्प्रियार्थं वै गिरिण प्रेषित: स्वयम्‌ । एवं गिरिजया सार्द्धं कैलासमहमागत: ॥ आगत्य देवता: । सर्वा: स्वे स्वे स्थाने स्थाने समादिशम्‌ । महादेव उवाच । तेन व्रतप्रभावेण सौभाग्यमतुलं त्वया ॥ प्राप्तमर्द्धासनं देवि सा सखी विजयाऽभवत्‌ । अद्यारभ्य व्रतं देवि कस्याग्रे न निवेदितम्‌ ॥ यद्‌गोप्यं हृदगतं देवि यन्नोक्तं नन्दिने मया । तदुक्तं त्वत्समीपे तु त्वत्सौभाग्यविमोहित: ॥ तदारभ्य व्रतस्यास्य श्रृणु देवि यथाऽभवत्‌ । आलिभिर्हरिता यस्मात्तस्मात्सा हरितालिका ॥ पार्वत्युवाच ॥ श्रुतं पूर्वं कृतं नाथ विधिं चास्य वद प्रभो । किं पुण्यं किं फलं चास्य कैश्च वा क्रियते नरै: ॥१२०॥
महादेव उ० । श्रृणु देवि विधिं वक्ष्ये नारीणां व्रतमुत्तमम्‌ । कर्तव्यं तु प्रयत्नेन यदि सौभाग्यमिच्छति ॥ तोरणादिप्रकर्तव्यं कदलीस्तम्भमण्डितम्‌ । आच्छाद्य पट्टवस्त्रैश्च नानावर्णविचित्रकै: ॥ चन्दनादिसुगन्धेन लेपयेत्तं च मण्डपम्‌ । शङ्खभेरीमृदङ्गैश्च वादयेद बहु वाद्यकान्‌ ॥ नानामङ्गलसंरम्भ: कर्तव्यो मम सद्मनि । स्थापयेत्प्रतिमां तत्र पार्वत्या सहितस्य मे ॥ नानाकारैश्च नैवेद्यैर्नानाभक्ष्योपहारकै: । नानोपचारताम्बूलैरुपवाससजागरै: ॥ नारिकेलै: पूगफलैर्दाडिमै: पनसादिभि: । बीजपूरै: सनारिङ्गै: फलैरन्यैरुपासयेत्‌ ॥ ऋतुदेशोद्भवे: सर्वै: फलैश्च विविधै: शुभै: । गन्धाक्षतैस्तथा पुष्पैर्धूपैर्दीपैर्मनोरमै: ॥ पूर्वोक्तेन विधानेन पूजयेदुमया सह । कथां श्रुत्वैकचित्तेन दद्याद्दानानि भूरिश: ॥ आचार्याय प्रदातव्यं वस्त्रं धेनुहिरण्यकम्‌ । अन्येभ्यो भूयसीं दद्यात्स्त्रोभ्यो वा भूषणादिकम्‌ ॥ ततो वाद्येन गीतेन सा निशा कौतुकादिना । नयेदतन्द्रिता देवि यदि सौभाग्यमिच्छति ॥१३०॥
तस्मिन्नहनि या नारी भोजनं कुरुते यदि । सप्त जन्म भवेद्वन्ध्या बैधव्यं च पुन: पुन: ॥ दारिद्यं पुत्रशोकं च कर्कशा दुःखभागिनी । पतेत्सा नरके घोरे नोपवासं करोति या ॥ पय: पानादहिर्मत्सी फलाहारे च मण्डुकि: । शर्करागुडखाद्यादिभक्षणात्तु पिपीलिका ॥ श्रृङ्गिपिष्टं तथान्यं वै पञ्चखाद्यादिकं तथा । क्षुधार्ता याश्च भक्षन्ति मूषक्यस्ता भवन्ति हि ॥ दधि भक्षति मार्जारी या स्त्री विज्ञानसंयुता । फलं भक्षति या नारी सा भवेद्वानरी ध्रुवम्‌ ॥ राजतं काञ्चनं ताम्रं वेणुजं वापि मृन्मयम्‌ । सम्पुटीकृत्य तन्मध्ये फलानि विविधानि च ॥ हरिद्रां कुङ्कुमं चैव अञ्जनादि प्रकल्पयेत ॥ बस्त्राण्याभरणादीनि ताम्बूलं सहिरण्यकम्‌ ॥ दानं च द्विजवर्याय दद्यादन्ते च पारणा ॥ एवं विधिं या कुरुते च नारी भर्त्रा समं सा रमते सुखेन । भोगाननेकान्‌ भुवि भुज्यमाना सायुज्यमन्ते लभते हरेण ॥ अश्वमेधसहस्त्राणि वाजपेयशतानि च । कथाश्रवणमात्रेण तत्पुण्यं लभते नर: ॥ एतत्ते कथितं देवि तवाग्रे त्रत मुत्तमम्‌ । कोटियज्ञकृतं पुण्यमस्यानुष्ठानमात्रत: ॥ इति श्रीस्कन्दपुराने उमामहेश्वरसंवादे हरितालिकाकथा समाप्ता ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:50:54.0370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

law of large numbers

  • गुरुसंख्या नियम 
  • गुरुसंख्या नियम 
  • बृहत संख्या नियम 
RANDOM WORD

Did you know?

विवाह जमवतांना गुणमेलनाचे महत्व काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.