हिंदी सूची|पूजा एवं विधी|पूजा विधी|प्रकार १|
नवग्रह मण्डल पूजन

पूजा विधी - नवग्रह मण्डल पूजन

जो मनुष्य प्राणी श्रद्धा भक्तिसे जीवनके अंतपर्यंत प्रतिदिन स्नान , पूजा , संध्या , देवपूजन आदि नित्यकर्म करता है वह निःसंदेह स्वर्गलोक प्राप्त करता है ।

 


॥ नवग्रह मण्डल - पूजन ॥

सूर्यः - ॐ आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च । हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥ जपाकुसुम संकाशं काश्यपेयं महाद्युतिम् । तमोऽरिसर्वपापघ्नं सूर्य मावाहयाम्यहम् ॥

ॐ भू र्भुव : स्व : कलिङ्ग देशोद्भव काश्यप गौत्र रक्तवर्ण भो सुर्य । इहागच्छ , इह तिष्ठ ॐ सूर्याय नमः , श्री सूर्य मावाहयामि , स्थापयामि ।

चन्द्रः - ॐ इमं देवा असपत्न सुवध्वं महते क्षत्राय महते ज्यैष्ठयाय महते जान राज्यायेन्द्र स्येन्द्रियाय ।

इमम मुष्य पुत्रम मुष्यै पुत्रमस्यै विश एष वोऽमी राजा सोमोऽस्माकं ब्राह्मणाना राजा ॥

दधि शङ्खतुषाराभं क्षीरोदार्णव सम्भवम् । ज्योत्स्नापतिं निशानाथं सोममावहयाम्यहम् ॥

ॐ भू र्भुव : स्व यमुनातीरोद्भव आत्रेय गोत्र शुक्ल वर्ण भो सोम । इहागच्छ , इहतिष्ठ ॐ सोमाय नम :, सोम मावाहयामि , स्थापयामि ।

मंगलः - ॐ अग्निर्मूर्धा दिव : ककुत्पति : पृथिव्या अयम् । अपा रेता सि जिन्वति ॥

धरणी गर्भ सम्भूतं विधुतेजस्समप्रभम् । कुमारं शक्ति हस्तं च भौममावाहयाम्यहम् ॥

ॐ भू र्भुव : स्व : अवन्तिदेशोद्भव भारद्वाज गौत्र रक्त वर्ण भो भौम । इहागच्छ , इहतिष्ठ ॐ भौमाय नमः भौमामावाहयामि , स्थापयामि ।

बुध :- ॐ उद्‌बुध्यस्वाग्ने , प्रति जागृहि त्वमिष्ठापूर्ते स सृजेथामयं च । अस्मिन्त्सधस्थे अध्युत्तरस्मिन् विश्वे देवा यजमानश्च सीदत् ॥

प्रियड्गुकलिकानासं रूपेणाप्रतिमं बुधम् । सौम्यं सौम्यगुणोपेतं बुधमावाहयाम्यहम् ॥

ॐ भू र्भुव : स्व : मगधदेशोद्भव आत्रेय गोत्र पीतवर्ण भो बुध इहागच्छ , इहतिष्ठ ॐ बुधाय नमः बुध मावाहयामि , स्थापयामि ।

बृहस्पतिः - ॐ बृहस्पते अति यदर्यो अर्हाद् घुमद्विभाति क्रतुमञ्चनेषु । यद्दीदयच्छवस ऋत प्रजात तदस्मासु द्रविणं धेहि चित्रम् ।

उपयाम गृहीतोऽसि बृहस्पतये त्वैष ते योनि र्बहस्पतये त्वा ॥

देवानां च मुनीनां च गुरुं काञ्चनसंनिभम् । वन्धभूतं त्रिलोकानां गुरुमावाहयाम्यहम् ॥

ॐ भू र्भुव : स्व : सिन्धुदेशोद्भव आङ्गिरस गौत्र पीत वर्ण भो गुरो । इहाच्छ , इहातिष्ठ ॐ बृहस्पतये नमः , बृहस्पति मावाहयामि , स्थापयामि ।

शुक्रः - ॐ अन्नात्परिस्त्रुसो रसं ब्रह्मणा व्यपिबत्क्षत्रं पय : सोमं प्रजापति । ऋतेन सत्यमिन्द्रियं विपान शुकमन्धस इन्द्रस्येन्द्रिय मिदं पयोऽमृतं मधु ॥

हिमकुन्द मृणालाभं दैत्यानां परमं गुरुम् । सर्वशास्त्र प्रवक्तारं शुक्रमावाहयाम्यहम् ॥

ॐ भू र्भुव : स्व : भोज कट देशोद्भव भार्गव गौत्र शुक्ल वर्ण भो शुक्र । इहागच्छ , इह तिष्ठ ॐ शुक्राय नम : शुक्रमावहयामि स्थापयामि ।

शनिः - ॐ शं नो देवीर भिष्टय आपो भवन्तु पीतये । शं योरभि स्त्रवन्तु न : ॥

नीलाम्बुज समाभासं रविपुत्रं यमाग्रजम् । छाया मार्तण्ड सम्भूतं शनि मावाहयाम्यहम् ॥

ॐ भू र्भुव : स्व : सौराष्ट्र देशोद्भव काश्यप गौत्र कृष्ण वर्ण भो शनैश्चर । इहागच्छ , इह तिष्ठ ॐ शनैश्चराय नमः , शनैश्चरमावाहयामि , स्थापयामि ।

राहू :- ॐ कया नश्चित्र आ भुवदूति सदावृध : सखा । कया शचिष्ठया वृता । अर्धकायं महावीर्यं चन्द्रादित्य विमर्दनम् । सिंहिकागर्भ सम्भूतं राहुमावाहयामि , स्थापयामि ।

ॐ भू र्भुव : स्व : राठिन पुरोद्भव पैठीन सगौत्र कृष्ण - वर्ण भो राहो । इहागच्छ , इहतिष्ठ ॐ राहवे नम : राहुमावाहयामि स्थापयामि ।

केतुः - ॐ केतु कृण्वन्न केतवे पेशो मर्या अपेशसे । समुषद्धिर जायथा : ॥

पलाश धूम्र संङ्काशं तारकाग्रहमस्तकम् । रौद्रं रौद्रात्मकं घोरं केतुमावाहयाम्यहम् ॥

ॐ भू र्भुव : स्व : अन्तर्वेदि समुद्भव जैमिनिगौत्र धूम्रवर्ण भो केतो । इहागच्छ इहतिष्ठ ॐ केतवे नमः , केतु मावाहयामि , स्थापयामि ।

प्रतिष्ठाः - ॐ मनो जूति र्जुषतामाज्यस्य बृहस्पति र्यज्ञमिमं तनोत्वरिष्टं यज्ञ समिमं दधातु । विश्वे देवास इह मादयन्तामो ३ प्रतिष्ठ : ॥

अस्मिन् नवग्रह मण्डले आवाहिता : सूर्यादिनवग्रहा देवा : सुप्रतिष्ठिता वरदा भवन्तु ।

तदन्तर यजमान षोडशोपचार पूजन करें :---

तत : पादयोपाद्यं समर्पयामि । हस्तयोर्घ्यं समर्पयामि । र्स्वांगे स्नानीयं समर्पयामि । पंचामृत स्नानं समर्पयामि । शुद्धोदक स्नानं समर्पयामि । मुखे आचमनीय समर्पयामि । पुनराचमन समर्पयामि । वस्त्रोप वस्त्रार्थे समर्पयामि । यज्ञोपवीतं समर्पयामि । पुनराचमनीयं समर्पयामि । गन्द्यं समर्पयामि । गंद्यान्तेऽक्षतान समर्पयामि अबीरं गुलालं हरिद्राचूर्णञ्च समर्पयामि । सौभाग्य द्रव्याणि समर्पयामि । सिन्दूरं समर्पयामि । नाना सुगंधि द्रव्याणि समर्पयामि । पुष्पाणि समर्पयामि । दुर्वाकुंराणि समर्पयामि । धूपमाघ्रापयामि । प्रत्यक्ष दीपं दर्शयामि । करोदुवर्तनार्थे पुनर्गन्धं समर्पयामि । मुखवासनार्थे ताम्बूलं पूंगीफलं समर्पयामि । कृताया : पूजाया : सादगुन्यार्थे यथाशक्ति दक्षिणा समर्पयामि ।

आरती :- ॐ कर्पूर गौरं करुणावतारं संसार सारं भुजगेन्द्र हारम् । सदा वसन्तं हृदयार विन्दे भवं भवानी सहितं नमामि । कदली गर्भ सम्भूतं कर्पूरं तु प्रदीपितम् । आरार्तिकमहं कुर्वे पश्य में वरदो भव ॥

पुष्पाञ्जली :- ॐ यज्ञेन यज्ञमयजन्त देवा स्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमान : सचन्त यत्र पूर्वे साध्या : सन्ति देवा : ॥

नाना सुगन्धि पुष्पाणि यथाकालोद्भवानि च पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वर : ॥

मन्त्र पुष्पाञ्जलिं समर्पयामि नमः ।

प्रदक्षिणाः - यानि कानि च पापानि जन्मान्तर कृतानि च ।

तानि सर्वाणि नश्यन्तु प्रदक्षिण पदे पदे ॥

प्रार्थनाः - ब्रह्मा मुरारीस्त्रि पुरांतकारी भानुः शशी : भूमि सुतो बुधश्च । गुरुश्च शुक्र शनि राहु केतव : सर्वे ग्रहा : शान्तिकरा : भवन्तु ॥

ॐ ग्रहा उर्जाहुत योव्यन्तो प्रियायमतिम् । तेषां विशि प्रियाणां वोहमिष मूर्ज : समग्रभमुपयाम गृहीतो सीन्द्रायत्वाजुष्ट गृह्यम्येप्रते , योनिरिन्द्रायत्वा जुष्टतमम् ॥१॥

ॐ सम्पृचौस्तथ : संमाभद्रेण पृङ्कक्तं विप्रचौस्थो विमापाभना पृङ्कतम् ग्रहा राज्यं प्रयच्छंति ग्रहाराज्यं हरंति च । ग्रहैस्तु व्यापितं सर्व त्रैलोक्यं स चराचरम् ॥ कल्याणानि दिवामणि : सुललिता कान्ति कलानां निधि । लक्ष्मीक्ष्मातनयो बुधश्च बुधता , जीवश्चिरञ्जीविताम् ॥

साम्राज्यं भृगुजो ऽर्कजो विजयतो , राहुर्बलोत्कर्षतां । केतुर्यच्छतु वांछितफलं , सुख संपदाम् ॥

सूर्य : शौर्यमथेन्दु रूच्च पदवीं सन्मङ्गलं मङ्गल : सद्‌बुद्धि च बुधो गुरुश्च गुरुतां शुक्र : सुखं शं शनिः । राहु र्बाहुबलं करोतु सततं केतुं : कुलस्योन्नतिं नित्यं प्रीतिकरा भवन्तु मम ते सर्वेऽनुकूला ग्रहा : ॥

अनया पूजया सूर्यादिनवग्रहा : देवता : प्रीयन्तां न ममा ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP