विधीः - दुर्गापूजनविधि:

जो मनुष्य प्राणी श्रद्धा भक्तिसे जीवनके अंतपर्यंत प्रतिदिन स्नान, पूजा, संध्या, देवपूजन आदि नित्यकर्म करता है वह निःसंदेह स्वर्गलोक प्राप्त करता है ।


दुर्गापूजनविधि:
पूजनकर्ता शुभासने प्राङमुख उपविश्य ॐ केशवाय नम: ।
ॐ नारायणाय नम: । ॐ माधवाय नम: । इति चिराचम्य,
ॐ पवित्त्रेस्थो व्वैष्णव्यौ सवितुर्व्व: प्रसव ऽउत्पुनाम्म्य-च्छिद्रेण पवित्त्रेण सूर्व्वस्य रश्मिभि: ।
तस्यते पवित्र-पते पवित्त्रपूतस्य वत्काम: पुने तच्छकेयम् ॥
इति मन्त्रेण पवित्रधारणं कृत्वा प्राणायामत्रयं कुर्यात् ।
ॐ अपवित्र: पवित्रो वा सर्वावस्थां गतोऽपि वा ।
य: स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तर: शुचि: ॥
‘ॐ पुण्डरीकाक्ष: पुनातु’ इति कुशोदकैरात्मानं पूजासामग्रीं च सम्प्रोक्षयेत् ।
तत: स्वस्तिवाचनादिकं कृत्वा सङ्कल्पं कुर्यात् ।

सङ्कल्प:
देशकालौ सङ्कीर्त्य, “अमुकगोत्रोत्पङ्गोऽहम् अमुकशर्माऽहं (अमुकवर्माऽहम, अमुकगुप्तोऽहम् ) मम सकुटुम्बस्य सपरिवारस्य सर्वविध-बाधानिवृत्तिपूर्वकं धन-धान्य-पुत्र-पौत्र-दीर्घायुरारोग्यैश्वर्यादिप्राप्त्यर्थं धर्मार्थकाममोक्षचतुविधपुरुषार्थसिद्धिद्वारा श्रीदुर्गादेव्या: प्रीत्यर्थं यथोप-चारै: दुर्गापूजनमहं करिष्ये ।”

अथ नवार्णविधि:
विनियोग:--- ॐ अस्य श्रीनवार्णमन्त्रस्य ब्रह्मविष्णुरुद्रा ऋषय:, गायत्र्युष्णिगनुष्टुभश्छदांसि, श्रीमहाकाली-महालक्ष्मी-महासरस्वत्यो देवता:, ऐं बीजम्, ह्नीं शक्ति:, क्लीं कीलकम्, श्रीमहाकाली-महालक्ष्मी-महासरस्वतीप्रीत्यर्थे न्यासे पूजने च विनियोग: ।

ऋष्यादिन्यास:--- ब्रह्मविष्णुरुद्रऋषिभ्यो नम: शिरसि । गायत्र्युष्णिण-गनुष्टुप्छन्दोभ्यो नम: मुखे । महाकाली-महालक्ष्मी-महासरस्वतीदेवताभ्यो नम: हृदि । ऐं बीजाय नम: गुह्ये । ह्वीं शक्तये नम: पादयो: । क्लीं कीलकाय नम: नाभौ ।
ॐ ऐं ह्वीं क्लीं चामुण्डायै विच्चै इति करतल-करपृष्ठाभ्यां नम: ।

करन्यास:--- ॐ ऐं अङ्गुष्ठाभ्यां नम: । ॐ ह्नीं तर्जनीभ्यां नम: । ॐ क्लीं मध्यमाभ्यां नम: । ॐ चामुण्डायै अनामिकाभ्यां नम: । ॐ विच्चे कनिष्ठिकाभ्यां नम: । ॐ ऐं ह्नीं क्लीं चामुण्डायै विच्चे करतल-करपृष्ठाभ्यां नम: ।

हृदयादिन्यास:--- ॐ ऐं हृदयाय नम: । ॐ ह्नीं शिरसे स्वाहा । ॐ क्लीं शिखायै वषट् । ॐ चामुण्डायै कवचाय हुम् । ॐ विच्चे नेत्रत्रयाय वौषट् । ॐ ऐं ह्नीं क्लीं चामुण्डायै विच्चे अस्त्राय फट् ।

अक्षरन्यास:--- ॐ ऐं नम: शिखायाम् । ॐ ह्नीं नमो दक्षिणनेत्रे । ॐ क्लीं नमो वामनेत्रे । ॐ चां नमो दक्षिणकर्णे । ॐ मुं नमो वामकर्णे । ॐ डां नमो दक्षिणनासायाम् । ॐ यैं नमो वामनासायाम् । ॐ विं नमो मुखे । ॐ च्चें नमो गुह्ये । एवं विन्यस्य ‘ॐ ऐं ह्नीं क्लीं चामुण्डायै विच्चे’  इति नवार्णमन्त्रेण अष्टवारं व्यापकं कुर्यात् ।

दिङ्न्यास:--- ॐ ऐं प्राच्यै नम: । ॐ ऐं आग्नेय्यै नम: । ॐ ह्नीं नैऋत्यै नम: । ॐ क्लीं प्रतीच्यै नम: । ॐ क्लीं वायव्यै नम: । ॐ चामुण्डायै उदीच्यै नम: । ॐ चामुण्डायै ऐशान्यै नम: । ॐ ऐं ह्नीं क्लीं चामुण्डायै विच्चे ऊर्ध्वायै नम: । ॐ ऐं ह्नीं क्लीं चामुण्डायै विच्चे भूम्यै नम: ।

ध्यानम्
खड्गं चक्रगदेषुचापपरिधाञ्छूलं भुशुण्डीं शिर:
शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् ।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम् ॥१॥
अक्षस्नक्‌परशुं गदेषुकुलिशं पद्मं धनुष्कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं धण्टां सुरभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तै: प्रसन्नाननां
सेवे सैरिभमदिंनीमिह महालक्ष्मीं सरोजस्थिताम् ॥२॥
धण्टाशूलहलानि शङ्खमुसले चकं धनु: सायकं
हस्ताब्जैर्दधतीं घनान्तविलसच्छोतांशुतुल्यप्रभाप् ।
गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा-पूर्वामत्र
सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ॥३॥
ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: श्री दुर्गां ध्यायामि ।

आवाहनम्
ॐ हिरण्यवर्णां हरिणों सुवर्णरजतस्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥
आगच्छ वरदे देवि दैत्यदर्पनिषूदिनि ।
पूजां गृहाण सुमुखि नमस्ते शङ्करप्रिये ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: आवाहनं समर्पयामि ।
आवाहनार्थे पुष्पाणि समर्पयामि ।

आसनम्
ॐ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥
अनेकरत्नसंयुक्तं नानामणिसमन्वितम् ।
कार्तस्वरमयं दिव्यमासनं प्रतिगृह्यताम् ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: आसनं. समर्पयामि ।
आसनार्थे अक्षतान् समर्पयामि ।

पाद्यम्
ॐ अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीम् ।
श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥
गङ्गादिसर्वतीर्थेभ्यो मया प्रार्थनयाहृतम् ।
तोयमेतत्सुखस्पर्शं पाद्यार्थं प्रतिगृह्यताम् ॥

ॐ भूर्भुव: स्व दुर्गादेव्यै नम: पाद्यं समर्पयामि ।

अर्ध्यम्
ॐ कांसोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ।
गन्धपुष्पाक्षतैर्युक्तमर्ध्यं सम्पादितं मया ।
गृहाण त्वं महादेवि प्रसन्ना भव सर्वदा ॥

ॐ भूर्भुव: स्व दुर्गादेव्यै नम: अर्ध्यं समर्पयामि ।

मधुपर्क:
ॐ यन्मधुनो मधव्यं परमर्ठ० रूपमन्नाद्यम् ।
तेनाहं मधुनो मधव्येन परमेण रूपेणाद्यान्नेन परमो मधव्योऽन्नादोऽसानि ॥
दधिमध्वाज्यसंयुक्तं पात्रयुग्मसमन्वितम् ।
मधुपर्कं गृहाण त्वं वरदा भव शोभने ॥

ॐ भूर्भुव: स्व दुर्गादेव्यै नम: मधुपर्कं समर्पयामि ।

आचमनम्
आचम्यतां त्वया देवि भक्तिं मे ह्यचलां कुरु ।
ईप्सितं मे वरं देहि परत्र च पराङ्गतिम् ॥

ॐ भूर्भुव: स्व दुर्गादेव्यै नम: आचमनीयं जलं समर्पयामि ।

स्नानम्
ॐ चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।
तां पद्मनीमीं शरणमहं प्रपद्ये अलक्ष्मीर्मे नश्यतां त्वां वृणोमि ॥
जाह्नवीतोयमानीतं शुभं कर्पूरसंयुतम् ।
स्नापयामि सुरश्रेष्ठे त्वां पुत्रादिफलप्रदाम् ॥

ॐ भूर्भुव: स्व दुर्गादेव्यै नम: स्नानीयं जलं समर्पयामि ।

पञ्चामृतस्नानम्
ॐ पञ्च नद्य: सरस्वतीमपियन्ति सस्रोतस: ।
सरस्वती तु पञ्चधा सो देशेऽभवत्सरित् ॥
पयो दधि घृतं क्षौद्रं सितया च समन्वितम् ।
पञ्चामृतमनेनाद्य कुरु स्नानं दयानिधे ॥

ॐ भूर्भुव: स्व दुर्गादेव्यै नम: पञ्चामृतस्नानं समर्पयामि ।
पञ्चामृतस्नानान्ते शुद्धोदकस्नानं समर्पयामि ।
आचमनीयं जलं समर्पयामि ।

शुद्धोदकस्नानम्
ॐ शुद्धबाल: सर्व्वशुद्धबालो मणिवालस्त ऽआश्विना: ।
श्येत: श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्ण्णा वामा
ऽअवलिप्ता रौद्‌द्रा नभोरूपा: पार्ज्जन्या: ॥
परमानन्दबोधाब्धनिमग्ननिजमूर्तये ।
साङ्गोपाङ्गमिदं स्नानं कल्पयाम्यहमीशिते ।

ॐ भूर्भुव: स्व दुर्गादेव्यै नम: शुद्धोदकस्नानं समर्पयामि ।
शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि ।

वस्त्रम्
ॐ सुजातो ज्ज्योतिषा सह शर्म्म व्वरूथ मासदत्स्व: ।
व्वासो ऽअग्ने व्विश्वरूपर्ठ० संव्ययस्व व्विभावसो ॥
वस्त्रञ्च सोमदैवात्यं लज्जायास्तु निवारणम् ।
मया निवेदितं भक्त्या गृहाण परमेश्वरि ॥

ॐ भूर्भुव: स्व दुर्गादेव्यै नम: वस्त्रं समर्पयामि ।
आचमनीयं जलं समर्पयामि ।

उपवस्त्रम्
ॐ आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्व: ।
तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्मा अलक्ष्मी: ॥
यामाश्रित्य महामाया जगत्सम्मोहिनी सदा ।
तस्यै ते परमेशायै कल्पयाम्युत्तरीयकम् ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: उपवस्त्रं समर्पयामि ।
आचमनीयं जलं समर्पयामि ।

यज्ञोपवीवम्
ॐ उपैतु मां देवसख: कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रे ऽस्मिन् कीर्तिं वृद्धिं ददातु मे ॥
स्वर्णसूत्रमयं दिव्यं ब्रह्मणा निर्मितं पुरा ।
उपवीतं मया दत्तं गृहाण परमेश्वरि ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम:  यज्ञोपवीतं समर्पयामि ।
यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि ।

सौभाग्यस्‌त्रम्
ॐ सौभाग्यसूत्रं वरदे ! सुवर्ण-मणि-संयुतम् ।
कण्ठे बध्नामि देवेशि ! सौभाग्यं देहि मे सदा ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: सौभाग्यसूत्रं समर्पयामि ।

हरिद्राचूर्णम्
ॐ क्षुप्तिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥
ॐ तत्सूर्यस्य देवत्वं तन्महित्वं
मध्या कर्तोर्व्विततर्ठ० सं जभार ।
वदेदयुक्त हरित: सधस्थादाद्रात्री ।
व्वासस्तनुते सिमस्मै ॥
हरिद्रारञ्जिते देवि सुख-सौभाग्यदायिनि ।
तस्मात्त्वां पूजयाम्यत्र मुखं शान्तिं प्रयच्छ मे ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम:  हरिद्राचूर्णं समर्पयामि ।

गन्ध: चन्दनम्
ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥
श्रीखण्डं चन्दनं दिव्यं गन्धाढयं सुमनोहरम्
विलेपनं च देवेशि चन्दनं प्रतिगृह्यताम् ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: गन्धं समर्पयामि ।

अक्षता:
ॐ अक्षन्नमीमदन्त ह्यव प्प्रिया ऽअधूषत् ।
अस्तोषत स्वभानवो व्विप्प्रा नविष्ठया मती वोजान्विन्द्रते हरी ॥
अक्षतान्निर्मलान् दिव्यान् कुङ्कुमाक्तान् सुशोभनान् ।
गृहाणेमान् महादेवि प्रसीद परमेश्वरि ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: अक्षतान् समर्पयामि ।

कुङ्कुमम् (गुलालम्)
कुङ्कुमं कान्तिदं दिव्यं कामिनीकामसम्भवम् ।
कुङ्कुमेनार्चिते देवि प्रसीद परमेश्वरि ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: कुङ्कुमं समर्पयामि ।

सिन्दूरम्
ॐ सिन्धोरिव प्राद्‌ध्वने शूधनासो
व्वातप्प्रमिय: पतयन्ति वह्वा: ।
घृतस्य धारा ऽअरुषो न व्वाजी
काष्ठा भिन्दन्नूर्मिभि: पिन्वमान: ॥
सिन्दूरमरुणाभासं जपा-कुसुम-सन्निभम् ।
पूजितासि मया देवि प्रसीद परमेश्वरि ।

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम:  सिन्दूरं समर्पयामि ।

कज्जलम्
ॐ व्वृत्त्रस्यासि कनीनकश्चक्षुर्द्दा ऽअसि चक्षुर्म्मे देहि ॥
चक्षुर्भ्यां कज्जलं रम्यं सुभगे शान्तिकारकम् ।
कर्पूरज्योतिरुत्पन्नं गृहाण परमेश्वरि ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: कज्जलं समर्पयामि ।

दूर्वाङ्कुरा:
ॐ काण्डात्काण्डात्प्ररोहन्ती परुष: परुषस्परि ।
एवा नो दूर्व्वे प्प्रतनु सहस्रेण शतेन च ॥
दूर्बादले श्यामले त्वं महीरूपे हरिप्रिये ।
दूर्वाभिराभिर्भवती पूजयामि सदा शिवे ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: दूर्वाङ्कुरान् समर्पयामि ।

बिल्वपत्राणि
ॐ नमो बिल्मिने च कवचिने च
नमो व्वर्म्मिणे च व्वरूथिने च
नम: श्श्रुताय च श्श्रुतसेनाय च
नमो दुन्दुब्भ्याय चाहनन्याय च ॥
अमृतोद्भव: श्रीवृक्षो महादेवप्रिय: सदा ।
बिल्वपत्रं प्रयच्छामि पवित्रं ते सुरेश्वरि ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: बिल्वपत्राणि समर्पयामि ।

आभूषणम्
ॐ मनस: काममाकूर्ति व्वाच: सत्यमशीमहि ।
पशूनां रूपमन्नस्य मयि श्री: श्रयतां यशा: ॥
हार-कङ्कण-केयूर-मेखला-कुण्डलादिभि: ।
रत्नाढयं कुण्डलोपेतं भूषणं प्रतिगृह्यताम् ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: आभूषणं समर्पयामि ।

पुष्पमाला
ॐ श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्त्रे
पार्श्वे नक्षत्त्राणि रूपमश्विनौ व्यात्तम् ।
इष्ण्णन्निषाणामुम्म ऽइषाण
सर्व्वलोकं म ऽइषाण ॥
सुरभि: पुष्पनिचयै: ग्रथितां शुभमालिकाम् ।
ददामि तव शोभार्थं गृहाण परमेश्वरि ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: पुष्पमालां समर्पयामि ।

नानापरिमलद्रव्याणि
ॐ अहिरिव भोगै: पर्व्वेति बाहुँ
ज्ज्याया हेतिं परिबाधमान: ।
हस्तघ्नो व्विश्वा व्वयुनानि व्विद्वान्
पुमान् पुमा सं परिपातु व्विश्वत: ॥
अवीरं च गुलालं च हरिद्रादिसमन्वितम् ।
नानापरिमलं द्रव्यं गृहाण परमेश्वरि ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: नानापरिमलद्रव्याणि समर्पपामि ।

सौभाग्यद्रव्याणि (सौभाग्यपिटारी)
ॐ कर्दमेन प्रजा भूता मयि सम्भव कर्दम ।
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥
हरिद्रा कुङ्कुमं चैव सिन्दूरादिसमन्वितम् ।
सौभाग्यद्रव्यमेतद्वै गृहाण परमेश्वरि ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: सौभाग्यद्रव्यं समर्पयामि ।

सुगन्धिद्रब्यम्
ॐ त्र्यम्बकं वजामहे सुगर्न्धि पुष्टिवर्द्धनम् ।
उर्व्वारुकमित्र बन्धनान्मृत्योर्मुक्षीयमाऽमृतात् ॥
चन्दनागुरुकर्पूरै: संयुतं कुङ्कुमं तथा ।
कस्तूर्यादिसुगन्धांश्च सर्वाङ्गेषु विलेपनम् ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: सुगन्धिद्रव्यं समर्पयामि ।

अङ्गपूजनम्
ॐ दुर्गायै नम: पादौ पूजयामि । ॐ महाकाल्यै नम: गुल्फौ पूजयामि । ॐ मङ्गलायै नम: जानुद्वयं पूजयामि । ॐ कात्यायन्यै नम: ऊरुद्वयं पूजयामि । ॐ भद्रकाल्यै नम: कटिं पूजयामि ।  ॐ कमलवासिन्यै नम: नाभिं पूजयामि । ॐ शिवायै नम: उदरं पूजयामि । ॐ क्षमायै नम: हृदयं पूजयामि ।  ॐ कौमार्यै नम: स्तनौ पूजयामि । ॐ उमायै नम: हस्तौ पूजयामि । ॐ महागौर्यै नम: दक्षिणबाहुं पूजयामि ।  ॐ बैष्णव्यै नम: वामबाहुं पूजयामि ।  ॐ रमायै नम: स्कन्धौ पूजयामि । ॐ स्कन्दमात्रे नम: कण्ठं पूजयामि ।  ॐ महिषासुरमर्दिन्यै नम: नेत्रे पूजयामि ।  ॐ सिंहवाहिन्यै नम: मुखं पूजयामि ।  ॐ माहेश्वर्यै नम: शिर: पूजयामि ।  ॐ कात्यायन्यै नम: सर्वाङ्गं पूजयामि ।

इत्यङ्गपूजनम् ।

अथ आवरणपूजनम्
तत्र यन्त्रषट्‌कोणस्थपश्चिमकोणे महालक्ष्मीपृष्ठभागे सरस्वतीब्रह्मभ्यां नम:, सरस्वतीब्रह्माणावाहयामीत्येवं सर्वत्रावाहने वाच्यम् १।
एवं नैऋत्यकोणे-गौरीरुद्राभ्यां०२ । वायुकोणे-लक्ष्मीहृषीकेशाभ्यां०३ । पूर्वकोणे-अष्टादशभुजायै०४ । अग्निकोणे-दशाननायै०५ । ईशानकोणे-अष्टभुजायै०६ । दयाब्बे त्राहि संसारसर्पान्मां शरणा-गतम् । भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् । अनेन प्रथमा-वरणार्चनेन भगवती श्रीमहाकाली० ३ प्रीयताम् ॥१॥

पुन: षट्‌कोणेषु प्रागादिषु- ॐ नं नन्दजायै०१ । ॐ रं रक्तदन्तिकायै०२ । ॐ शां शाकम्भर्यै०३ । ॐ दुं दुर्गायै०४ । ॐ भीं भीमायै०५ । ॐ भ्रां भ्रामर्यै०६ । दयाब्धे त्राहि० द्वितीयावरणार्चनम् । अनेन द्वितीयावरणा० ॥२॥

षट्‌कोणाद् बहिराग्नेयादिचतुर्भागेषु-ॐ जं जयायै०१ । ॐ विं विजयायै०२ । ॐ जं जयन्त्यै० ३। ॐ अं अपराजितायै०४ । षट्‌कोण-पार्श्वयो: दक्षिणभागे- ॐ सिंहाय०५ । उत्तरभागे- ॐ महिषाय०६ । दयाब्धे० तृतीयावरणार्चनम् । अनेन० ॥३॥

अष्टपत्रेषु प्रागादिषु- ॐ ब्रां ब्राहृयै०१ । ॐ मां माहैश्वर्यै०२ । ॐ कौं कौमार्यै०३ । ॐ वैं वैष्णब्यै०४ । ॐ वां वाराह्यै०५ । ॐ नां नारसिंह्यै०६ । ॐ ऐं ऐन्द्रयै०७ । ॐ शिं शिवदूत्यै नम:०८ । ॐ चां चामुण्डायै०९ । दयाब्धे० चतुर्थावरणार्चनम् । अनेन० ॥४॥

पुनरष्टदलेषु प्रागादिषु- ॐ अं असितांगभैरवाय०१ । ॐ रूं रुरुभैरवाय० २ । ॐ चं चण्डभैरवाय०३ । ॐ क्रों क्रोधभैरवाय०४ ।
ॐ उं उन्मत्तभैरवाय०५ । ॐ कं कपालभैरवाय०६ । ॐ भीं भीषणभैरवाय०७ । ॐ सं संहारभैरवाय०८ । दयाब्धे० पञ्चमाव-रणार्चनम् । अनेन० ॥५॥

चतुर्विंशतिदलेषु प्रागादिक्रमेण- ॐ विं विष्णुमायायै०१ । ॐ चें चेतनायै०२ । ॐ बुं बुद्धयै०३ । ॐ निं निद्रायै०४ । ॐ क्षुं क्षुधायै०५ । ॐ छां छायायै०६ । ॐ शं शक्त्यै०७ । ॐ तृं तृष्णायै०८ । ॐ क्षां क्षान्त्यै०६ । ॐ जां जात्यै०१० । ॐ लं लज्जायै०११ । ॐ शां शान्त्यै०१२ । ॐ श्रं श्रद्धायै०१३ । ॐ कां कान्त्यै०१४ । ॐ लं लक्ष्म्यै०१५ । ॐ धृं धृत्यै०१६ । ॐ बृं बृत्त्यै०१७ । ॐ स्मृं स्मृत्यै०१८ । ॐ दं दयायै०१९ । ॐ तुं तुष्टयै०२० । ॐ पुं पुष्टयै०२१ । ॐ मां मात्रे०२२ । ॐ भ्रां भ्रान्त्यै०२३ । ॐ चिं चित्यै०२४ । दयाब्धे० षष्ठाख्यावरणार्चनम् । अनेन० ॥६॥

भूगृहरव्युदयप्रागादिषु- ॐ लं इन्द्राय०१ । ॐ रं अग्नये०२ । ॐ मं यमाय०३ । ॐ क्षं निऋवये०४ । ॐ वं वरुणाय०५ । ॐ यं वायवे०६ । ॐ सं सोमाय०७ । ॐ हं रुद्राय०८ । ऐशानीप्रागन्तराले- ॐ आं ब्रह्मणे०९ : वरुणनिऋत्यन्तराले- ॐ ह्नीं शेषाय०१० दयाब्धे० सप्तमावरणार्श्वनम् । अनेन० ॥७॥

पुनस्तेनैव क्रमेण- ॐ वं वज्राय०१ । ॐ शं शक्त्यै०२ । ॐ दं द्ण्डाय०३ । ॐ खं खडगाय०४ । ॐ पां पाशाय०५ । ॐ अं अंकुशाय०६ । ॐ गं गदायै०७ । ॐ त्रिं त्रिशूलाय०८ । ॐ पं पद्माय०९ । ॐ चं चक्राय०१० । दयाब्धे० अष्टमावरणार्चंनम् । अनेन० ॥८॥

भूगृहाद् बहि: प्रागादि-दिक्षु- ॐ गं गणपतये०१ । ॐ क्षें क्षेत्रपालाय०२ । ॐ वं वटुकाय०३ । ॐ यों योगिन्यै०४ । दयाब्धे० नवमावरणार्चनम् । अनेन नवमावरणार्चनेन भगवती श्रीमहाकाली०३ ॥९॥

ॐ आवरणदेवताभ्यो नम: । इति पञ्चोपचारै: पूजयेत् ।
देव्या: दक्षिणे-ॐ कालाय नम: । ॐ रुद्राय नम: ।
देव्या: वामे-ॐ मृत्यवे नम: । ॐ विनायकाय नम: ।

इत्यावरणपूजनम्

धूप:
ॐ धूरसि धूर्व्व धूर्व्वन्तं धूर्व्व तं वोऽस्मान् धूर्व्वति तं धूर्व्व यं व्वयं धूर्व्वाम: ।
देवानामसि व्वह्नितमर्ठ० सस्नितमं पप्प्रितमं जुष्टतमं देवहूतमम् ॥
दशाङ्गुग्गुलं धूपं चन्दनागुरुसंयुतम् ।
समर्पितं मया भक्त्या महादेवि प्रगृह्यताम् ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: धूपमाघ्रापयमि ।

दीप:
ॐ चन्द्रमा मनसो जातश्चक्षो: सूर्व्वो ऽअजायत ।
श्रोञ्राद् व्वायुश्च प्प्राणश्च मुखादग्निरजायत ॥
घृतवर्तिसमायुक्तं महातेजो महोज्ज्वलप् ।
दीपं दास्यामि देवेशि सुप्रीता भव सर्वदा ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: दीपं सर्शयामि ।

नैवेद्यम्
ॐ आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्यमालिनीम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥
अन्नं बहुविधं स्वादु रसै: षड्‌भि: समन्वितम् ।
नैवेद्यं गृह्यतां देवि भक्तिं मे ह्यचलां कुरु ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम:  नैवेद्यं निवेदयामि ।

तत: घण्टां वादयेत् । तत: ग्रासमुद्रां प्रदर्श्य, ॐ प्राणाय स्वाहा ।
ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा । ॐ समानाय स्वाहा ।
ॐ उदानाय स्वाहा । इति प्रदर्शयेत् । मध्ये-मध्ये आचमनीयं जलं
समर्पयामि । उत्तरापोशनार्थे च जलं समर्पयामि । पुनराचमनीयं जलं समर्पयामि ।

करोद्वर्त्तनम् (गन्ध:)
ॐ अर्ठ० सुनाते अर्ठ० शु: पृच्यतां परुषा परु: ।
गन्धस्ते सोममवतु मदाय रसो ऽअच्युत: ॥
करोद्वर्त्तनकं देवि ! सुगन्धै: परिवासितै: ।
गृहीत्वा मे वरं देहि परत्र च परां गतिम् ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम:  करोद्वर्त्तनार्थे गन्धं समर्पयामि ।
हस्तप्रक्षालनार्थं जलं समर्पयामि ।

ऋतुफलानि
ॐ वा: फलिनीर्व्वा ऽअफला ऽअपुष्पावाश्च पुष्पिणी: ।
बृहस्पतिप्प्रसूतास्तानो मुञ्चन्त्वर्ठ० हस: ॥
नारिकेलं च नारिङ्गं कलिङ्गं मञ्जिरं तथा ।
उर्वारुकं च देवेशि फलान्येतानि गृह्मताम् ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: ऋतुफलानि समर्पयामि ।

ताम्बूलम् (एला-लवंगसहितं पूगफलम्)
ॐ उत स्मास्य द्‌द्रवतस्तुरण्यत:
पर्ण्णन्न वेरनुवाति प्प्रगर्द्धिन: ।
श्येनस्येव द्‌ध्रजतो ऽअङ्कसम्परिदधि-
क्राब्ण: सहोर्ज्जा तरित्रत: स्वाहा ॥
एला-लवङ्ग-कस्तूरी-कर्पूरै: पुष्पवासिताम् ।
वीटिकां मुखवासार्थमर्पयामि सुरेश्वरि ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: मुखवासार्थे ताम्बूलं समर्पयामि ।

दक्षिणा
ॐ हिरण्यगर्ब्भ: समवर्त्तताग्ग्रे भूतस्य जात: पतिरेक ऽआसीत् ।
स दाधार पृथिवीं द्यामुते मां कस्मै देवाय हविषा व्विधेम ॥
पूजाफलसमृद्धयर्थं तवाग्रे परमेश्वरि ।
अर्पितं तेन मे प्रीता पूर्णान् कुरु मनोरथान् ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम:  दक्षिणां समर्पयामि ।

नमस्कार:
ॐ आर्द्रां य: करिणीं यष्टिं सुवर्णां हेममालिनीम् ।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥
नम: सर्वहितार्थाय जगदाधारहेतवे ।
नमस्ते जगतां धात्रि नसस्ते भक्तवत्सले ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम:  नमस्कारं समर्पयामि ।

प्रदक्षिणा
ॐ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं प्रभूतिं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् ॥
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिणपदे पदे ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: प्रदक्षिणां समर्पयामि ।

पुष्पाञ्जलि:
ॐ य: शुचि: प्रयतो भूत्वा जुहुयादाज्यमन्वहम् ।
सूक्तं पञ्चदशर्चं च श्रीकाम: सततं जपेत् ॥
ॐ वज्ञेन वज्ञमयजन्त देवास्तानि धर्म्माणि प्रथमान्यासन् ।
ते ह नाकं महिमान: सचन्त वत्र पूर्व्वे साध्या: सन्ति देवा: ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: पुष्पाञ्जलिं समर्पयामि ।

आरार्तिक्यम्
ॐ इदर्ठ० हवि: प्रजननं मे ऽअस्तु दशवीरर्ठ० सर्व्वगणर्ठ० स्वस्तये ।
आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि ।
अग्नि: प्रजां बहुलां मे करोत्त्वन्नं पयो रेतो ऽअस्मासु धत्त ॥१॥
ॐ आ राञ्रि पार्थिवर्ठ० रज: पितुरप्प्रायि धामभि: ।
दिव: सदा, सि बृहती व्वि तिष्ठस ऽआ त्त्वेषं व्वर्त्तते तम: ॥२॥
ॐ अग्निर्द्देवता व्वातो देवता सूर्व्वो देवता चन्द्रमा देवता
व्वसवो देवता रुद्‌द्रा देवताऽऽदित्या देवता मरुतो
देवता व्विश्वे देवा देवता बृहस्पतिर्द्देवतेन्द्रो देवता व्वरूणो देवता ॥३॥
कर्पूरगौरं करुणावतारं संसारसारं भुजगेम्द्रहारम् ।
सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥

ॐ जय अम्बे गौरी मैया जय श्यामागौरी ।
तुमको निशिदिन ध्यावत हरि ब्रह्मा शिव री ॥ जय अम्बे० ॥१॥
माँग सिन्दूर विराजत टीको मृदमदको ।
उज्ज्वलसे दोउ नैना, चन्द्रवदन नीको ॥ जय अम्बे० ॥२॥
कनक समान कलेवर रक्ताम्बर राजै ।
रक्तपुष्प गलमाला, कण्ठनपर साजै ॥जय अम्बे० ॥३॥
केहरि बाहन राजत, खडग खपरधारी ।
सुर-नर-मुनि-जनसेवत, तिनके दुःखहारी ॥जय अम्बे० ॥४॥
कानन कुण्डल शोभित, नासाग्रे मोती ।
कोटिक चन्द्र दिवाकर राजत सम ज्योर्ता ॥जय अम्बे० ॥५॥
शुम्भ निशुम्भ विदारे, महिषासुर-घाती ।
धूम्रविलोचन नैना निशिदिन मदमाती ॥जय अम्बे० ॥६॥
चण्ड मुण्ड संहारे, शोणितबीजहरे ।
मधु कैटभ दोउ मारे, सुर भयहीन करे ॥जय अम्बे० ॥७॥
बह्माणी रुद्राणी, तुम कमलारानी ।
आगम-निगम-बखानी, तुम शिवपटरानी ॥जय अम्बे० ॥८॥
चौंसठ योगिनि गावत, नृत्य करत भैरुँ ।
बाजत ताल मृदंगा, औ बाजत डमरू ॥जय अम्बे० ॥९॥
तुम ही जगकी माता, तुम ही हो भरता ।
भक्तनकी दुख हरता, सुख-सम्पत्ति करता ॥जय अम्बे० ॥१०॥
भुजा चार अति शोभित, वर-मुद्रा धारी ।
मनवाञ्छित फल पावत, सेवत नर-नारी ॥जय अम्बे० ॥११॥
कंचन थाल विराजत अगर कपुर बाती ।
श्रीमालकेतुमें राजत कोटिरतन ज्योती ॥जय अम्बे० ॥१२॥
श्रीअम्बेजी की आरती जो कोई नर गावे ।
कहत शिवानन्द स्वामी, सुख सम्पति पावे ॥जय अम्बे० ॥१३॥

मन्त्रपुष्पाञ्जलि:
ॐ वज्ञेन यज्ञमयन्त देवास्तानि धर्म्माणि प्रथमान्यासन् ।
ते ह नाकं महिमान: सचन्त वत्र पूर्व्वे साध्या: सन्ति देवा: ॥
ॐ राजाधिराजाय प्रसह्य साहिने । नमो वयं वैश्रबणाय कुर्महे ।
स मे कामान् कामकामाय मह्यम् । कामेश्वरो वैश्रवणो ददातु ।
कुवेराय वैश्रवणाय महाराजाय नम: ॥
ॐ स्वस्ति । साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्टयं
राज्यं महाराज्यमाधिपत्यमयं सर्वान्तपर्यायी स्यात् , सार्वभौम:
सार्वायुष आन्तादापरार्धात्, पृथिव्यै समुद्रपर्यन्ताया एकराडिति ॥
तदप्येष श्लोकोऽभिगीतो मरुत: परिवेष्टारो मरुत्तस्यावसन् गृहे ।
आविक्षितस्य कामप्रेर्विश्वेदेवा: सभासद इति ॥
ॐ व्विश्वतश्चक्षुरुत व्विश्वतो मुखो व्विश्वतो बाहुरुत व्विश्वतस्पात् ।
सम्बाहुभ्यां धमति सम्पतत्त्रैर्द्यावाभूमी जनयन्देव ऽएक: ॥

दुर्गागायत्री

ॐ कात्यायन्यै च विद्यहे कन्यकुमारी च धीमहि ।
तन्नो दुर्गि: प्रचोदयात् ॥
सेवन्तिकावकुल-चम्पक-पाटलाब्जै:
पुन्नाग-जाति-करवीर-रसाल-पुष्पै: ।
बिल्व-प्रवाल-तुलसीदल-मञ्जरीभि:
त्वां पूजयामि जगदीश्वरि मे प्रसीद ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम:  मन्त्रपुष्पाञ्जलिं समर्पयामि ।

प्रदक्षिणा
ॐ ये तीर्थांनि प्रचरन्ति सृका हस्ता निषङ्गिण: ।
तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिणपदे पदे ॥

प्रणाम:
ॐ दुर्गां शिवां शान्तिकरीं ब्रह्माणीं ब्रह्मण: प्रियाम् ।
सर्वलोकप्रणेत्रीं च प्रणमामि सदा शिवाम् ॥१॥
नमस्ते देव-देवेशि नमस्ते ईप्सितप्रदे ।
नमस्ते जगतां धात्रि नमस्ते शङ्करप्रिये ॥२॥
नमस्ते सर्वहितार्थायै जगदाधारहेतवे ।
साष्टाङ्गोऽयं प्रणामस्ते प्रसन्नेन मया कृत: ॥३॥

क्षमाप्रार्थना
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां चैव न जानामि क्षमस्व परमेश्वरि ॥१॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि ।
यत्पूजितं मया देवि परिपूर्णं तदस्तु मे ॥२॥
कर्मणा मनसा वाचा पूजनं यन्मया कृतम् ।
तेन तुष्टिं समासाद्य प्रसीद परमेश्वरि ॥३॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव: ।
पाहि मां सर्वदा मात: सर्वापापहरा भव ॥४॥

दुर्गास्तुति:
दुर्गे स्मृता हरसि भीतिमशेषजन्तो:
स्वस्थै: स्मृता मतिमतीव शुभां ददासि ।
दारिद्रयदुःखभयहारिणि का त्वदन्या ।
सर्वोपकारकरणाय सदार्द्रचित्ता ॥१॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥२॥
शरणागतदीनार्तपरित्राणपरायणे
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥३॥
त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देव देव ॥४॥

इति दुर्गापूजनविधि: ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP