TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

प्रथमैकरात्रः - चतुर्दशोऽध्यायः

‘श्रीनारदपञ्चरात्रम‘ हा ग्रंथ वाचल्याने सामान्यज्ञानात भर पडते.


चतुर्दशोऽध्यायः
श्रीशुक उवाच
प्रयाते राधिकानाथे गोलोकं च निरामयं ।
बभूव किं रहस्यं च गते गन्धर्वपुङ्गवे ॥१॥

श्रीव्यास उवाच
सर्वे देवाश्च मुनयः प्रयाते परमात्मनि ।
सर्वे बभूवुस्ते तूष्णीं वयांसीव दिनात्यये ॥२॥

उवाच शम्भुर्ब्रह्माणं नीतिसारविशारदं ।
ज्ञानाधिदेवो भगवान्परिणामसुखं वचः ॥३॥

श्रीमहादेव उवाच
रक्षिता यस्य भगवान्कल्याणं तस्य सन्ततं ।
स यस्य विघ्नकर्ता च रक्षितुं तं च कः क्षमः ॥४॥

स्मृतिमात्रेण निर्विघ्ना ये च कृष्णपरायणः ।
विघ्नं कर्तुं के समर्थास्तेषां च मुनयः सुराः ॥५॥

कोपाग्निनां स्थलं कुत्र स्तम्भितानां च साम्प्रतं ।
देवानां च मुनीनां च क्षणेनैवेश्वरेच्छया ॥६॥

यदि तिष्ठन्ति भूमौ च दग्धशस्या वसुन्धरा ।
जले यदि ततस्तप्तं नष्ठास्ते जलजन्तवः ॥७॥

स्थाले दहन्ति लोकांश्च वृक्षांश्च प्रलयाग्नयः ।
विधानं कर्तुं उचितं एषां च जगतां विधे ॥८॥

त्वं एव धाता जगतां पिता च विष्णुरीश्वरः ।
कालाग्निरुद्रः संहर्ता नेदानी प्रलयक्षमः ॥९॥

एते विषयिणः सर्वे कृष्णस्य परमात्मनः ।
आज्ञावहाश्च सततं दिक्पालाश्च दिगीश्वराः ॥१०॥

तस्यैवाज्ञावहो धर्मः साक्षी च कर्मणां नृणां ।
भ्रमन्ति विषये शश्वन्मोहिता मायया हरेः ॥११॥

अहं न पाता न स्रष्टा न संहर्ता च जीवनां ।
निर्लिप्तोऽ हं तपस्वी च हरेराराधनोन्मुखः ॥१२॥

संहारविषयं मह्यं श्रीकृष्णश्च पुरा ददौ ।
दत्वा रुद्राय तदहं तपस्यासु रतो हरेः ॥१३॥

तदर्चनेन ध्यानेन तपसा पूजनेन च ।
स्तवेन कवचनेनैव नाममन्त्रजपेन च ॥१४॥

मृत्युञ्जयोऽ हं अधुना न च कालाद्भयं मम ।
कालः संहरते सर्वं मां विना च तथेश्वरं ॥१५॥

पुरा सर्वादिसर्गे च कस्यचित्स्रष्टुरेव च ।
भालोद्भवाश्च ते रुद्रास्तेष्वेकोऽ हं शङ्करः ॥१६॥

कल्पश्च ब्रह्मणः पाते लये प्राकृतिके तथा ।
सर्वे नष्टा विषयिणो न भक्ताश्च यथेश्वरः ॥१७॥

असंख्यब्रह्मणः पातः कल्पश्चासंख्य एव च ।
समतीतः कतिविधो भविता या पुनः पुनः ॥१८॥

श्रीकृष्णस्य निमेषेण ब्रह्मणः पतनं भवेथ् ।
तत्र प्राकृतिकाः सर्वे तिरोभूताः पुनः पुनः ॥१९॥

न प्राकृतो न विषयी नित्यदेही च वैष्णवः ।
हरेर्वरेणामरोऽहं शिवाधारस्ततस्ततः ॥२०॥

जलप्लुतं च विश्वौघं लये प्राकृतिके ध्रुवं ।
आब्रह्मलोकपर्यन्तं परं कृष्णालयं विना ॥२१॥

सर्वा देव्यो विलीनाश्च कृष्णः सत्यं सुनिश्चितं ।
सर्वे पुमांसो लीनाश्च सत्ये नित्ये सनातने ॥२२॥

अहं कृष्णश्च प्रकृतिः पार्षदप्रवरो हरेः ।
नित्यं नित्या विद्यमाना गोलोके च निरामये ॥२३॥

एक ईशो न द्वितीय इति सर्वादिसर्गतः ।
नहि नश्यन्ति तद्भक्ताः प्रकृतिप्राकृते लये ॥२४॥

तस्य भक्तोत्तमानां च सततं स्मरणेन च ।
आयुर्व्ययो नहि भवेत्कथं मृत्युर्भविष्यति ॥२५॥

न वासुदेवभक्तानां अशुभं विद्यते क्वचिथ् ।
तेषां भक्तोत्तमानां च सततं स्मरणेन च ॥२६॥

जन्ममृत्युजराव्याधिभयं नाप्युपजायते ।
अत्र कल्पे भवान्ब्रह्मा व्यवस्थाता च कर्मसु ॥२७॥

स्थलं कोपानलानां च विधानं यद्विधे कुरु ।
शम्भोश्च वचनं श्रुत्वा कम्पितः कमलासनः ।
स्थलं चकार वह्नीनां आज्ञया शङ्करस्य च ॥२८॥

ब्रह्मोवच
ज्वरस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः ।
भस्मप्रहरणो रौद्रः कालान्तकयमोपमः ॥२९॥

भवे भवतु सर्वत्र भवकोपानलोऽधुना ।
प्राकृतेषु च देहेषु व्यापारोऽस्य मया कृतः ॥३०॥

मम कोपानलः शम्भो संस्कृताग्निर्द्विजस्य च ।
भवे भवतु सर्वत्र व्यापारोऽस्य मया कृतः ॥३१॥

शेषस्य कोपवह्निश्च शेषास्येऽस्त्वधुना शिव ।
यतो विश्वं च प्रलये दहेद्गोमयपिण्डवथ् ॥३२॥

वह्नेर्मुख्यानलो विश्वे व्यवहाराग्निरीश्वरः ।
भ्वत्वेव हि सर्वत्र सर्वेषां उपकारकः ॥३३॥

धर्मास्यकोपवह्निश्च कृष्णाग्निश्च भवत्वयं ।
अधर्मं कुर्वतां सर्वं दाहनं च करिष्यति ॥३४॥

सूर्यकोपानलश्चायं दावाग्निश्च वनेषु च ।
स्थितिरस्य तरोः स्कन्धे तद्भक्ष्याः पशुपक्षिणः ॥३५॥

चन्द्रकोपानलो विश्वे कामिनां विरहानलः ।
दम्पत्योर्विरहे शश्वद्भक्ष्यति स्म द्वयोस्तनुं ॥३६॥

इन्द्रकोपानलः सद्यो वज्राग्निश्च बभूव ह ।
उपेन्द्रस्यानलश्चैव विद्युदेव भ्वत्वयं ॥३७॥

रुद्राणां आस्यवह्निश्च महोल्काग्निर्भवत्वयं ।
गणेशाग्निः पृथिव्यां तु यथास्थाने तु तिष्ठति ॥३८॥

यत्र तिष्ठेत्तदुषरं एवं एवं विदुर्बुधाः ।
स्कन्दकोपानलश्चैव रणास्त्राग्निर्बभूव ह ॥३९॥

कामेतराणां देवानां मुनीनां च मुखानलः ।
जग्राहौर्वमुनिस्तत्र तेजसि ब्रह्मणः सुतः ॥४०॥

स्वदक्षिणोरौ स मुनिः संस्थाप्य वेदमन्त्रतः ।
ब्रह्मणं च नमस्कृत्य शङ्करं तपसे ययौ ॥४१॥

कालेन तस्मान्निःसृत्य समुद्रे वाडवानलः ।
स बभूव पुरा पुत्र परमौर्वानलः स्वयं ॥४२॥

कामाग्निं उल्वणं दृष्ट्वा विचिन्त्य मनसा विधिः ।
समालोच्य सुरैः सार्धं मुनीन्द्रैः सह संसदि ॥४३॥

अजुहाव स्त्रियः सर्वाः सुव्रताश्च पतिव्रताः ।
आयुयुर्योषितः सर्वास्ता ऊचुः कमलोद्भवं ॥४४॥

स्त्रिय ऊचुः
किं अस्मान्ब्रूहि भगवन्शाधि नः करवाम किं ।
आलोच्य मनसा सर्वं देहि भारं वयं स्त्रियः ॥४५॥

ब्रह्मोवाच
गृहीत्वा मदनाग्निं च मैथुने सुखदायकं ।
विश्वे च योषितः सर्वाः शश्वत्कामा भवन्तु च ॥४६॥

ब्रह्मणश्च वचः श्रुत्वा कोपरक्तास्यलोचनः ।
तं ऊचुः योषितः सर्वा भयं त्यक्त्वा च संसदि ॥४७॥

स्त्रिय ऊचुः
धिक्त्वां जगद्विधिं व्यर्थं चकार परमेश्वरः ।
अपूज्यो मोहिनीशापात्पुत्रशापेन साम्प्रतं ॥४८॥

गृहीत्वा मदनाग्निं च पुरुषाश्च तथा स्त्रियः ।
नित्यं दहन्ति सततं वास्तवं दुःसहं परं ॥४९॥

तदेकभागः पुरुषे त्रिभागश्चापि योषिति ।
तेन दुग्धाः स्त्रियः सर्वाश्चास्माकं अपरेण किं ॥५०॥

समर्पणं चेत्पुरुषे यद्यस्मासु स्मरानलः ।
भस्मीभूतं करिष्यामो रक्षिता को भवेत्तव ॥५१॥

पतिव्रतावचः श्रुत्वा तं उवाच शिवः स्वयं ।
हितं सत्यं नितिसारं परिणामसुखावहं ॥५२॥

अथ कुलटोत्पत्तिः
श्रीमहादेव उवाच
त्यज द्वन्द्वं महाभाग सुव्रताभिः सहाधुना ।
पतिव्रतानां तेजश्च सर्वेभ्यश्च परं भवेथ् ॥५३॥

निर्माणं कुरु देवेन्द्र कृत्यां स्त्रीजातिं ईश्वर ।
तस्यै देहि दुःखबीजं कामकोपानलं परं ॥५४॥

शङ्करस्य वचः श्रुत्वा सत्वरं जगतां विधिः ।
ससृजे तत्क्षणं मूर्तिं स्त्रीरूपां सुमनोहरां ॥५५॥

अहो रूपं अहो वेशं अहो अस्या नवं वयः ।
अहो चक्षुः कटाक्षं च मुनीनां मोहयन्मनः ॥५६॥

अहो कठिनं चारु स्तनयुग्मं सुवर्तुलं ।
विचित्रं कठिनं स्थूलं श्रोणियुग्मं च सुन्दरं ॥५७॥

नितम्बयुग्मं वलितं चक्राकारं सुकोमलं ।
श्वेतचम्पकवर्णाभं सर्वावयं ईप्सितं ॥५८॥

शरत्पार्वणकोटीन्दुविनिन्दास्यं सुशोभनं ।
ईषद्धास्यप्रसन्नास्यं वस्त्रेणाच्छादितं मुदा ॥५९॥

वपुः सुकोमलं चालं नातिदीर्घं न वखरं ।
वह्निशुद्धांशुकं रत्नभूषणैर्भूषितं सदा ॥६०॥

दाडिम्बकुमुदाकारं सान्द्रं सिन्दूरसुन्दरं ।
कस्तूरीविन्दुना सार्धं स्निग्धचन्दनविन्दुभिः ॥६१॥

पक्वबिम्बफलाकारं अधरौष्ठपुटं परं ।
दन्तपंक्तियुगं चैव दाडिम्बबीजसन्निभं ॥६२॥

सुचारु कवरीभारं मालतीमाल्यमण्डितं ।
तस्यै ददौ च कामाग्निं दृष्ट्वा तां कमलोद्भवः ॥६३॥

दृष्ट्वा सा चन्द्ररूपं च कामोन्मत्ता विचेतना ।
कृत्वा कटाक्षं स्मेराश्या मां भजस्वेत्युवाच सा ॥६४॥

सस्पितः प्रययौ चन्द्रो लज्जया च सभातलाथ् ।
कामं दृष्ट्वा च चकमे कामार्ता सा गतत्रपा ॥६५॥

दुद्राव कामस्तस्माच्च तत्पश्चात्सा दधाव च ।
जहसुर्देवताः सर्वा मुनयश्चापि संसदि ॥६६॥

लज्जिता योषितह्सर्वास्तां वारयितुं अक्षमाः ।
सर्वे चक्रुः परीहासं स्त्रीवर्गं शङ्करादयः ॥६७॥

कामं न लब्ध्वा सा च स्त्री निवृत्यागत्य संसदि ।
तं अश्विनीकुमारं चाप्युवाच सुरसन्निधौ ॥६८॥

कृत्याकामिन्युवाच
मां भजस्व रवेः पुत्र प्रियां रसवतीं मुदा ।
शृङ्गारे सुखदां शान्तां परां कामातुरां वरां ॥६९॥

त्वया शार्धं भ्रमिष्यामि सुन्दरे गहने वने ।
रहसि रहसि क्रीडां करिष्यामि दिवानिशं ॥७०॥

मधुपानं च दास्यामि वासितं चामलं जलं ।
सकर्पूरं च ताम्बूलं भोगवस्तु मनोहरं ॥७१॥

शय्यां मनोरमां कृत्वा सपुष्पचन्दनार्चितां ।
भगवन्तं करिष्यामि पुष्पचन्दनचर्चितं ॥७२॥

कुमार उवाच
वचनं वद वामे मां आत्मनो हृदयङ्गम ।
विहाय कपटं कान्ते कपटं धर्मनाशनं ॥७३॥

स्त्रीधर्मं स्त्रीमनस्कामं स्त्रीस्वभावं च कीदृशं ।
तदाचारं कतिविधं तन्मां व्याख्यातुं अर्हसि ॥७४॥

अश्विनीजवचः श्रुत्वा कामार्ता तं उवाच सा ।
कामार्तानां क्व लज्जा च क्व भयं मानं एव च ॥७५॥

अथ कुलटास्वभावकथनम्
कामिन्युवाच
स्थानं नास्ति क्षणं नास्ति नास्ति दूती तदुत्तमा ।
तेनैव युवतीनां च सतीत्वं उपजायते ॥७६॥

सुवेशं कामुकं दृष्ट्वा कामिनी मदनातुरा ।
तद्रात्रं च पुलकितं योनौ कण्डूयनं परं ॥७७॥

विचेतना भवेत्सा च कामज्वरप्रपीडिता ।
सर्वं त्यजति तद्धेतोः पुत्रं कान्तं गृहं धनं ॥७८ ।॥

लब्ध्वा युवानं पुरुषं देशत्यागं करोति सा ।
तदुत्तमं पुनर्लब्ध्वा तं त्यजेत्सा क्षणेन च ॥७९॥

विषं दातुं समर्था सा स्वामिनं गुणिनां वरं ।
म्लेच्छं युवानं सम्प्राप्य सर्वस्वं दातुं उत्सुका ॥८०॥

त्यजेत्कुलभयं लज्जां धर्मं बन्धुं यशः श्रियं ।
सम्प्राप्य रतिशूरं च युवानं सुरतोन्मुखं ॥८१॥

सुदृश्यं सुन्दरमुखं शश्वन्मधुरितं वचः ।
हृदयं क्षुरधाराभं को वा जानाति तन्मनः ॥८२॥

विद्युच्छटा जले रेखा चास्थिरा च यथाम्बरे ।
तथास्थिरा च कुलटाप्रीतिः स्वप्नं च तद्वचः ॥८३॥

कुलटानां न सत्यं च न च धर्मो भयं दया ।
न लौकिकं न लज्जा स्याज्जारजिन्ता निरन्तरं ॥८४॥

स्वप्ने जागरणे चैव भोजने शयने सदा ।
निरन्तरं कामचिन्ता जारे स्नेहो न चान्यतः ॥८५॥

कुलटा नरघातिभ्यो निर्दया दुष्टमानसाः ।
जारार्थे च सुतं हन्ति बान्धवस्य च का कथा ॥८६॥

न हि वेदा विदन्त्येवं कुलताहृदयङ्गमं ।
कथं देवास्च मुनयः सन्तो जानन्ति निश्चयं ॥८७॥

रतिशूरं प्रियं दृष्ट्वा क्षीरं घृतं इवाचरेथ् ।
गते वयसि जीर्णं तं विषं दृष्ट्वा त्यजेत्क्षणाथ् ॥८८॥

न विश्वसेयुस्तां दुष्टो तस्मात्सन्तो हि सन्ततं ।
न रिपुः पुरुषाणां च दुष्टस्त्रीभ्यः परो भुवि ॥८९॥

विषं मन्त्रादुपशमं जलाद्वह्निश्च निश्चितं ।
अग्नेश्च कण्ठकोच्छन्नं दुर्जनः स्तवनाद्वशः ॥९०॥

लुब्धो धनेन राजा च सेवया सततं वशः ।
मिश्रं स्वच्छस्वभावेन भयेन च रिपुर्वशः ॥९१॥

आदरेण वशो विप्रो यौवती प्रेमभारतः ।
बन्धुर्वशः समतया गुरुः प्रणतिभिः सदा ॥९२॥

मूर्खो वशः कथायां च विद्वान्विद्याविचारतः ।
न हि दुष्टा च कुलटा पुंसश्च वशगा भवेथ् ॥९३॥

स्वकार्ये तत्परा शश्वत्प्रीतिः कार्यानुरोधतः ।
न सर्वस्य वशीभूता विना शृङ्गारं उल्वणं ॥९४॥

न प्रीत्या न धनेनैव न स्तवान्न सेवया ।
न प्राणदानतो वेश्या वशीभूता भवेत्क्षणं ॥९५॥

आहारो द्विगुणस्तासां बुद्धिस्तासां चतुर्गुणा ।
षड्गुणा मन्त्रणा तासां कामश्चाष्टगुनः स्मृतः ॥९६॥

शश्वत्कामा च कुलटा न च तृप्तिश्च क्रीडया ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥९७॥

दिवानिशं च शृङ्गारं कुरुते तत्पुमान्यदि ।
न तृप्तिः कुलटानां च पुमांसं ग्रस्तुं इच्छति ॥९८॥

नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां नासां तृप्यति सम्पदां ॥९९॥

न श्रेयसां मनस्तृप्तं वाडवाग्निर्न पाथसां ।
वसुन्धरा न रजसां न पुंसां कुलटा तथा ॥१००॥

इत्येवं कथितं किंचिथ्सर्वं वक्तुं च नोचितं ।
लज्जा बीजं योषितां च निबोध भास्करात्मज ॥१०१॥

श्रुत्वा च कृत्यास्त्रीवाक्यं जहसुर्मुनयः सुराः ।
चुकुपुर्योषितः सर्वाः पद्माद्या लज्जिताः सुत ॥१०२॥

लज्जानतानना लक्ष्मीर्निर्ययौ देवमण्डलाथ् ।
तत्पश्चात्पार्वती सार्धं सरस्वत्या नतानना ॥१०३॥

सावित्री रोहिनी स्वाहा वारुणी च रतिः शची ।
सर्वा बभूवुरेकत्र प्रचक्रुर्मन्त्रणां च ताः ॥१०४॥

कृत्यास्त्रियः समाहूय ता ऊचुश्च क्रमेण च ।
रोधयां आसुरिष्टां तां सुगोप्यां अपि योषितः ॥१०५॥

तस्या मुखे ददौ हस्तं सुशीला कमलालया ।
सलज्जिता भव सुते शान्ता चेति शुभाशिषं ॥१०६॥

सरस्वती ददौ तस्यै चाभिमानं च धैर्यतां ।
मौखर्यं वावदूकत्वं मन्त्रणां आत्मरक्षणं ॥१०७॥

सावित्री च ददौ तस्यै सौशील्यं चातिदुर्लभं ।
आत्मसंगोपनं चैव गाम्भीर्यं कुलतो भयं ॥१०८॥

पार्वत्युवाच
धिक्त्वां स्वभावकुलटां लज्जिता भव सुन्दरि ।
स्वमानं गौरवं रक्ष ह्यस्माकं च स्मरातुर ॥१०९॥

जनि लभ पृथिव्यां च कायव्यूहं विधाय च ।
पुंसां अष्टगुणं कामं लभस्व च पृथक्प्रृथक् ॥११०॥

लज्जां चतुर्गुणां चापि द्विगुणां धैर्यतां तथा ।
अभोगेच्छधमे गच्छ दूरं गच्छ ममान्तिकाथ् ॥१११॥

पुंसां च द्विगुणः कामो वास्तवीणां च योषितां ।
लज्जा चाष्टगुणा चापि धैर्यता च चतुर्गुणा ॥११२॥

कुलधर्मः कुलभयं सौशील्यं मानं ऊर्जितं ।
शश्वत्तिष्ठतु पुंस्येव स्त्रीषु च ममाज्ञया ॥११३॥

यस्मात्सदसि सर्वेभ्यो लज्जाहीनः सुराधमः ।
स्त्रीस्वभावं च पप्रच्छ यज्ञभाक्न भवेत्ततः ॥११४॥

अद्यप्रभृति विश्वेषु नाग्राह्यं पापसंयुतं ।
चिकित्सकानां विदुषां न भक्ष्य ममाज्ञया ॥११५॥

इत्येवं उक्त्वा प्रययुर्देव्यश्च सर्वयोषितः ।
देवाश्च मुनयश्चापि ये चान्ये च समागतः ॥११६॥

देवाश्च मुनयश्चापि ये चान्ये सर्वतः सुत ।
पतिव्रताणां स्त्रीणां च लज्जा बीजस्वरूपिणी ॥११७॥

इति श्रीनारदपञ्चरात्रे ज्ञाणामृतसारे प्रथमैकरात्रे कुलटोत्त्पतिर्नाम चतुर्दशोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2013-01-23T06:07:14.2330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

shell core machine

  • कवच क्रोड यंत्र 
RANDOM WORD

Did you know?

’ एकोद्दिष्ट श्राद्ध ’ बद्दल माहिती द्यावी.
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site