TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

प्रथमैकरात्रः - दशमोऽध्यायः

‘श्रीनारदपञ्चरात्रम‘ हा ग्रंथ वाचल्याने सामान्यज्ञानात भर पडते.


दशमोऽध्यायः
श्रीशुक उवाच
नारदो हि महाज्ञानी देवर्षिर्ब्रह्मणः सुतः ।
सर्ववेदविदां श्रेष्ठो गरिष्ठश्च वरिष्ठकः ॥१॥

कथं स नोपदिष्टश्च ज्ञानहीनो महामुनिः ।
तन्मां बोधय विभो सन्देहभञ्जनं कुरु ॥२॥

श्रीव्यास उवाच
नारदो ब्रह्मणः पुत्रः पुराकल्पे बभूव सः ।
सर्वज्ञानं ददौ तस्मै विधाता जगतां अपि ॥३॥

वेदांश्च पाठयां आस वेदाङ्गान्यपि सुव्रत ।
सिद्धविद्यां शिल्पविद्यां योगशास्त्रं पुराणकं ॥४॥

भगवानेकदा पुत्रं कथयां आस संसदि ।
सृष्टिं कुरु महाभाग कृत्वा दारपरिग्रहं ॥५॥

ब्रह्मणश्च वचः श्रुत्वा कोपरक्तास्यलोचनः ।
उवाच पितरं कोपात्परं कृष्णपरायनः ॥६॥

श्रीनारद उवाच
सर्वेषां अपि वन्द्यानां पिता चैव महागुरुः ।
ज्ञानदातुः परो वन्द्यो न भूतो न भविष्यति ॥७॥

स्तनदात्री गर्भधात्री स्नेहकर्त्री सदाम्बिका ।
जन्मदातान्नदाता स्यात्स्नेहकर्ता पिता सदा ॥८॥

न क्षमौ तौ च पितरौ पुत्रस्य कर्म खण्डितुं ।
करोति सद्गुरुः शिष्यकर्ममूलनिकृन्तनं ॥९॥

गुरुश्च ज्ञानोद्गिरणात्ज्ञानं स्यान्मन्त्रतन्त्रयोः ।
तत्तन्त्रं स च मन्त्रश्च कृष्णभक्तिर्यतो भवेथ् ॥१०॥

श्रीकृष्णविमुखो भूत्वा विषये यस्य मानसं ।
विषं अत्यमृतं त्यक्त्वा स च मूढो नराधमः ॥११॥

स गुरुः स पिता वन्द्यः सा माता स पतिः सुतः ।
यो ददाति हरौ भक्तिं कर्ममूलनिकृन्तनी ॥१२॥

श्रीकृष्णभजनं तात सर्वमङ्गलमङ्गलं ।
कर्मोपभोगरोगऽणां औषधं तन्निकृन्तनं ॥१३॥

अहो जगद्विधातुश्च धर्मशास्तुरियं मतिः ।
स्वयं मायामोहितश्च परं भ्रष्टं करोति च ॥१४॥

विष्णुस्त्वां मोहितां कृत्वा युयोज स्रष्टुं ईश्वरः ।
न ददौ स्वात्मभक्तिं तां स्वदास्यं चातिदुर्लभं ॥१५॥

माता ददाति पुत्राय मोदकं क्षुन्निवारकं ।
स च बालो न जानाति कथंभूतं च मोदकं ॥१६॥

बालकं वञ्चनं कृत्वा मिष्टं द्रव्यं प्रदाय सः ।
पिता प्रयाति कार्यार्थं विष्णुना मोहितस्तथा ॥१७॥

संसारकूपपतितो विष्णुना प्रेरितो भवान् ।
न युक्तं पतनं तत्र तदुद्धारं अभीप्सितं ॥१८॥

ज्ञानी गुरुश्च बलवान्भवाब्धेः शिष्यं उद्धरेथ् ।
गुरुः स्वयं असिद्धश्च दुर्बलः कथं उद्धरेथ् ॥१९॥

गुरोरत्यवलिप्तस्य कार्याकार्यं अजानतः ।
उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥२०॥

स गुरुः परमो वैरी यो ददाति ह्यसन्मतिं ।
तं नमस्कृत्य सत्शिष्यः प्रयाति ज्ञानदं गुरुं ॥२१॥

संसारविषयोन्मत्तो गुरुरार्तः स्वकर्मणि ।
दुर्बलो दुर्वहं भारं ददाति जनकाय च ॥२२॥

नारदस्य वचः श्रुत्वा क्रुद्धः पुत्रं उवाच सः ।
कम्पितस्तमसा धाता कोपरक्तास्यलोचनः ॥२३॥

ब्रह्मोवाच
ज्ञानं ते भवतु भ्रष्टं स्त्रीजितो भव पामर ।
सर्वजातिषु गन्धर्वः कामी सोऽपि भवान्भव ॥२४॥

पञ्चाशत्कामिनीनां च स्वयं भर्ता भवाचिराथ् ।
तासां वशश्च सततं स्त्रीणां क्रीडा मृगो यथा ॥२५॥

शृङ्गारशूरो भव रे शश्वत्सुस्थिरयौवनः ।
तासां नित्यं यौवनानां सुन्दरीणां प्रियो भव ॥२६॥

कामबाध्यो भव चिरं दिव्यवर्षसहस्रकं ।
निर्जने निर्जने रम्ये वने क्रीडां करिष्यसि ॥२७॥

ततो वर्षसहस्रान्ते मया शप्तः स्वकर्मणा ।
विप्रदास्यां तु शूद्रायां जनिष्यसि न संशयः ॥२८॥

ततो वैष्णवसंसर्गात्विष्णोरुच्छिष्टभोजनाथ् ।
विष्णुमन्त्रप्रसादेन विष्णुमायाविमोहितः ॥२९॥

तातस्य वचनं श्रुत्वा चुकोप नारदो मुनिः ।
शशाप पितरं शिघ्रं दारुणं च यथोचितं ॥३०॥

अपूज्यो भव दुष्टं त्वं त्वन्मन्त्रोपासकः कुतः ।
अगम्यागमनेच्छा ते भविष्यति न संशयः ॥३१॥

नारदस्य तु शापेन सोऽपूज्यो जगतां विधिः ।
दृष्ट्वा स्वकन्यारूपं च पश्चाद्धावितवान्पुरा ॥३२॥

पुनः स्वदेहं तत्याज भर्त्सितः सनकादिभिः ।
लज्जितः कामयुक्तश्च पुनर्ब्रह्मा बभूव सः ॥३३॥

नारदस्तु नमस्कृत्य पितरं कमलोद्भवं ।
विप्रदेहं परित्यज्य गन्धर्वश्च बभूव सः ॥३४॥

नवयौवनकालेन बलवान्मदनोद्धतः ।
जहार कन्याः पञ्चाशत्बलाच्चित्ररथस्य तु ॥३५॥

गान्धर्वेन विवाहेन ता उवाह च निर्जने ।
मूर्च्छां प्रापुश्च ताः कन्या दृष्ट्वा सुन्दरं ईश्वरं ॥३६॥

विसस्पुरुश्च पितरं मातरं भ्रातरं तथा ।
रेमिरे तेन सार्धं च कामुक्यः कामुकेन च ॥३७॥

कन्दरेर्कन्दरे रम्ये रम्ये सुन्दरमन्दिरे ।
शैले शैले सुरहसि कानने कानने तथा ॥३८॥

पुष्पोद्यने तरुद्याने नद्यां नद्यां नदे नदे ।
सरःश्रेष्ठे सरःश्रेष्ठे वरे चन्द्रसरोवरे ॥३९॥

सुरेशस्यापि निकटे सुभद्रस्य तटे तटे ।
अगम्ये च महाघोरे गन्धमादनगह्वरे ॥४०॥

परिजाततरुणां च पुष्पितानां मनोहरे ।
तदन्तरे सुन्दरे चामोदिते पुष्पवायुना ॥४१॥

मलये निलये रम्ये सुगन्धे चन्दनान्विते ।
चन्दनोक्षितसर्वाङ्गश्चन्दनाक्तेन कामिना ॥४२॥

रम्यचम्पकशय्यासु चन्दनाक्तासु सस्मिताः ।
दिवानिशं न जानन्ति कामिना सस्मितेन च ॥४३॥

विस्यन्दके शूरसेने नन्दने पुष्पभद्रके ।
स्वाहावने काम्यके च रम्यके पारिभद्रके ॥४४॥

सुरन्धके गन्धके च सुरङ्ह्रे पुण्ड्रकेऽपि च ।
कालञ्जरे पञ्जरे च काञ्चीकाञ्चनकानने ॥४५॥

मधुमाधवमासे च मधूरे मधुकानने ।
वने कल्पतरूणां च विश्वकारुकृतस्थले ॥४६॥

रत्नाकराणां निकरे सुन्दरे सुन्दरान्तरे ।
सुवेले च सुपार्श्वे च प्रवालांकुरकानने ॥४७॥

मन्दारे मन्दिरे पूरे गान्धारे च युगन्धरे ।
वने केलिकदम्बानां केतकीनां मनोहरे ॥४८॥

माधवीमालतीनां च यूथिकानां वने वने ।
चम्पकानां पलाशानां कुन्दानां विपिने तथा ॥४९॥

नागेश्वरलवङ्गानां अन्तरे ललितालये ।
कुमुदानां पङ्कजानां पङ्किले कोमलस्थले ॥५०॥

स्थलपद्मप्रकारो च भूमिचम्पककानने ।
लाङ्गलीनां रसालानां पनसानां सुखप्रदे ॥५१॥

कदलीबदरीणां च श्रीफलानां च श्रीयुते ।
जम्बीराणां च जम्बूनां करञ्जानां तथैव च ॥५२॥

कृत्वा बिहारं ताभिश्च गन्धर्वश्चोपवर्हणः ।
दिव्यं वर्षसहस्रं च स्वाश्रमं पुनराययौ ॥५३॥

श्रुत्वा विधातुराह्वानं पुष्करं च ययौ पुनः ।
ददर्श तत्र ब्रह्माणं रत्नसिंहासनस्थितं ॥५४॥

देवेन्द्रैश्चापि सिद्धेन्द्रैर्मुनीन्द्रैः सन्कादिभिः ।
समावृतं सभायां च रक्षोगन्धर्वकिन्नरैः ॥५५॥

सुशोभितं यथा चन्द्रं गगने भगणैः सह ।
प्रणनाम सभामध्ये ताभिः सार्धं जगद्विधिं ॥५६॥

महेशं च गणेशं च धनेशं शेषं ईश्वरं ।
धर्मं धन्वन्तरिं स्कन्दं सूर्यसोमहुताशनं ॥५७॥

उपेन्द्रेन्द्रं विश्वकारुं वरुणं पवनं स्मरं ।
यमं अष्टौ वसून्रुद्रान्जयन्तं नलकूवरं ॥५८॥

सर्वान्देवान्नमस्कृत्य ननाम मुनिपुङ्गवं ।
अगस्त्यं च पुलस्त्यं च पुलहं च प्रचेतसं ॥५९॥

सर्वश्रेष्ठं वसिष्ठं च दक्षं च कर्दमं तथा ।
सनकं सनन्दं च तृतीयं च सनातनं ॥६०॥

सनत्कुमारं योगीशं ज्ञानिनां च गुरोर्गुरुं ।
वोढुं पञ्चशिखं सङ्खं भृगुं अङ्गिरसं तथा ॥६१॥

आसुरिं कपिलं कौत्सं क्रतुं नारायणं नरं ।
मरीचिं कश्यपं कण्वं व्यासं दुर्वाससं कविं ॥६२॥

बृहस्पतिं च च्यवनं मार्कण्डेयं च लोमशं ।
वाल्मीकिं परशुरामं संवर्तं च विभाण्डकं ॥६३॥

देवलं च वामदेवं ऋशयशृङ्गं पराशारं ।
एतान्सर्वान्नमस्कृत्य तस्थौ स पुरतो विधेः ॥६४॥

तुष्टाव सर्वान्देवांश्च मुनीन्द्रांश्च तथैव च ।
तं उवाच सभामध्ये विधाता जगतां अपि ।
सस्मितः सुप्रसन्नश्च गन्धर्वं उपवर्हणं ॥६५॥

ब्रह्मोवाच
श्रीकृष्णरससङ्गीतं वीणाध्वनिसमन्वितं ।
कुरु वत्साधुनात्रैव शृण्वन्तु मुनयः सुराः ॥६६॥

गोपीनां वस्त्रहरणं हरं रासमहोत्सवं ।
ताभिः सार्धं जलक्रीडां हरेरुत्कीर्तनं कुरु ॥६७॥

कृष्णसङ्कीर्तनं तूर्णं पुनाति श्रुतिमात्रतः ।
श्रोतारं च प्रवक्तारं पुरुषैः सप्तभिः सह ॥६८॥

यत्रैव प्रभवेद्वत्स तन्नामगुणानुकीर्तनं ।
तत्र सर्वाणि तीर्थानि पुण्यानि मङ्गलानि च ॥६९॥

तत्कीर्तनध्वनिं श्रुत्वा सर्वाणि पातकानि च ।
दूरादेव पलायन्ते वैनतेयं इवोरगाः ॥७०॥

तद्दिनं सफलं धन्यं यशस्यं सर्वमङ्गलं ।
श्रीकृष्णकीर्तनं यत्र तत्रैव नायुषो व्ययः ॥७१॥

संकीर्तनध्वनिं श्रुत्वा ये च नृत्यन्ति वैष्णवाः ।
तेषां पादरजःस्पर्शात्सद्यः पूता वसुन्धरा ॥७२॥

तत्कीर्तनं भवेद्यत्र कृष्णस्य परमात्मनः ।
स्थानं तच्च भवेत्तीर्थं मृतानां तत्र मुक्तिदं ॥७३॥

नात्र पापानि तिष्ठन्ति पुण्यानि सुस्थिराणि च ।
तपस्विनां च व्रतिनां व्रतानां तपसां स्थलं ॥७४॥

वर्तते पापिनां देहे पापानि त्रिविधानि च ।
महापापोपपापातिपापान्येव स्मृतानि च ॥७५॥

हन्ता यो विप्रभिक्षूणां यतीनां ब्रह्मचारिणां ।
स्त्रीणां च वैष्णवानां च स महापातकी स्मृतः ॥७६॥

भ्रूणाघ्नश्चापि गोघ्नश्च शूद्रघ्नश्च कृतघ्नकः ।
विश्वासघाती विड्भोजी स एव ह्युपपातकी ॥७७॥

अगम्यागमिनो ये च सुरविप्रस्वहारिणः ।
अतिपातकिनश्चैते वेदविद्भिः प्रकीर्तिताः ॥७८॥

कृष्णसंकीर्त्नध्यानात्तन्मन्त्रग्रहणादहो ।
मुच्यन्ते पातकैस्तैस्तैः पापिनस्त्रिविधाः स्मृताः ॥७९॥

तपोयज्ञकृती पूतस्तीर्थस्नातव्रती तथा ।
भिक्षुर्यतिर्ब्रह्मचारी वानप्रस्थश्च तापसः ॥८०॥

पवित्रः परमो वह्निः सुपवित्रं जलं यथा ।
एते सर्वे वैष्णवानां कलां नार्हन्ति षोडशीं ॥८१॥

विष्णुपादोदकोच्छिष्टं भुञ्जते ये च नित्यशः ।
पश्यन्ति च शिलाचक्रं पूजां कुर्वन्ति नित्यशः ॥८२॥

जीवन्मुक्तास्च ते धन्या हरिदासाश्च भारते ।
पदे पदेऽश्वमेधस्य प्राप्नुवन्ति फलं ध्रुवं ॥८३॥

नहि तेषां पराभूताः पुण्यवन्तो जगत्त्रये ।
तेषां च पादरजसा तीर्थं पूतं तथा धरा ॥८४ ।॥

तेषां च दर्शनं स्पर्शं वाञ्छन्ति मुनयः सुराः ।
पुरुषाणां सहस्रं च पूतं तज्जन्ममात्रतः ॥८५॥

इत्युक्त्वा जगतां धाता तत्र तूष्णीं बभूव सः ।
आश्चर्यं मेनिरे श्रुत्वा देवाश्च मुनयस्तथा ॥८६॥

एतस्मिन्नन्तरे तत्र विद्याधर्यः समागताः ।
गन्धर्वाश्चापि विविधा ननृतुः किन्नरा जगुः ॥८७॥

रम्भोर्वशी घृताची च मेनका च तिलोत्तमा ।
सुधामुखी पूर्णचित्ती मोहिनी कलिका तथा ॥८८॥

चम्पावती चन्द्रमुखी पद्मा पद्ममुखीति च ।
एताश्चान्याश्च बह्व्यश्च श्वश्वत्सुस्थिरयौवनाः ॥८९॥

बृहन्नितम्बश्रोणीकास्तनभारैः समानताः ।
ईषद्धास्याः प्रसन्नास्याः कामार्ताश्च समाययुः ॥९०॥

वेदज्ञा मूर्तिमन्तश्च वेदाश्चात्वार एव च ।
ब्राह्मणा भिक्षवः सिद्धा यतयो ब्रह्मचारिणः ॥९१॥

समाययुस्तथा मन्दा दैवज्ञाः स्तुतिपाठकाः ।
लक्ष्मी सरस्वती दुर्गा सावित्री रोहिणी रतिः ॥९२॥

तुलसी पृथिवी गङ्गा स्वाहा च यमुना तथा ।
वारुणी मनसेन्द्राणी ताः सर्वा देवयोषितः ॥९३॥

मुनिपत्न्यश्च गन्धर्व्यो हर्षयुक्ताः समाययुः ।
अहो महोत्सवं परमानन्दमानसाः ।
विचित्रां च ब्रह्मसभां पुष्करं तीर्थं आययुः ॥९४॥

इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे महोत्सवारम्भो नाम दशमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2013-01-23T06:03:25.7200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

resonance interaction

  • Nucleonics संस्पंदी अन्योन्यक्रिया 
RANDOM WORD

Did you know?

Do we have copyrights for everything published on this website?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.