TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

प्रथमैकरात्रः - तृतीयोऽध्यायः

‘श्रीनारदपञ्चरात्रम‘ हा ग्रंथ वाचल्याने सामान्यज्ञानात भर पडते.


तृतीयोऽध्यायः
सनत्कुमार उवाच
अहो तात किं आश्चर्यं कृष्णस्य परमात्मनः ।
परं नैवेद्यमाहात्म्यं विस्तराद्वद साम्प्रतं ॥१॥

अथ श्रीकृष्णमहिमवर्णनम्
ब्रह्मोवाच
एकदा ब्राह्मणो हृष्टः प्रफुल्लवदनेक्षणः ।
पुत्रेण सार्धं प्रययौ बान्धवस्य गृहं मुदा ॥२॥

निमन्त्रितो विवाहेन महासंभारसंभृतः ।
भुक्त्वा पीत्वा च तद्गृहे स्वगृहं प्रययौ मुदा ॥३॥

सपुत्रो ब्राह्मणो मार्गे क्षुत्पिपासार्दितः सुतः ।
ददर्श चन्द्रभागां तां नदीं अतिमनोहरां ॥४॥

उवाच पुत्रः पित्रं स्नात्वा भोक्ष्यामि चेति भोः ।
क्षुत्पिपासा बलवती वर्धते तात वर्त्मनि ॥५॥

पुत्रस्य वचनं श्रुत्वा तं उवाच द्विजः स्वयं ।
भयंकरं वनं इदं समीपे सरितः सुतः ॥६॥

सुशीघ्रं गच्छ ग्रामान्तं पुरो रम्यसरोवरं ।
तत्र स्नात्वा च भोक्ष्यावो गच्छ वत्स यथासुखं ॥७॥

तातस्य वचनं श्रुत्वा जहास च चुकोप ह ।
पितरं वक्तुं आरेभे रक्तपण्ग्कजलोचनः ॥८॥

शिशुरुवाच
बालोऽहं दशवर्षीयस्त्वं च वृद्धश्च ज्ञानदः ।
पिता ददाति पुत्राय ज्ञानं सर्वत्र भूतले ॥९॥

अहो दुरत्ययः कालो वृध्हो वदति बालवथ् ।
कथं प्राक्तनं उल्लङ्घ्य ब्रूहि तात दुरत्ययं ॥१०॥

प्राक्तनात्सुखदुःखं च रोगं शोकं भयं पितः ।
सुमृत्युरपमृत्युर्वा चिरायुरल्पजीवनः ॥११॥

यत्र काले च यन्मृत्युर्भवनं शुभकर्म च ।
न्यूनाधिकं क्षणं नास्ति निषेकः केन वार्यते ॥१२॥

यस्य हस्ते च यन्मृत्युर्विधात्रा लिखितः पुरा ।
न च तं खण्डितुं शक्तः स्वयं विष्णुश्च शङ्करः ॥१३॥

तात व्यर्थं अधीतं ते दुर्बुद्धेर्जन्म निष्फलं ।
सुबुद्धेः सफलं जन्म तत्क्षणं जीवनं सुखं ॥१४॥

येन शुक्लीकृता हंसाः शुकाश्च हरितीकृताः ।
मयूराश्चित्रिता येन स मे रक्षां करिष्यति ॥१५॥

येन कृष्णेन विश्वानि चासंख्यानि कृतानि च ।
चराचरं च यो रक्षेत्स मे रक्षां करिष्यति ॥१६॥

घोरारण्ये सुखं शेते यो हि कृष्णेन रक्षितः ।
निर्बन्धोऽपि यस्य मरणं तस्य मन्दिरे ॥१७॥

यः शेते नागशय्यासु प्राक्तनान्मङ्गलाहितः ।
यो नागभक्षितो भोगात्स भृतो गरुडान्तिके ॥१८॥

न समुद्रे च म्रियते नाग्निराशौ विषानले ।
न शस्त्रेण न चास्त्रेणायुर्मर्माणि रक्षति ॥१९॥

नाप्राप्तकालो म्रियते विद्धः शरशतैरपि ।
तृणाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ॥२०॥

कश्चिद्गर्भे च म्रियते कश्चिद्भूमिष्टमात्रतः ।
कश्चिद्यौवनकाले च कश्चिदेव हि वार्द्धके ॥२१॥

कश्चिद्चिरायु रोगी चाप्यरोगी चापि कश्चन ।
कश्चिद्धनी दरिद्रश्च कश्चिदेव हि कर्मणा ॥२२॥

कश्चित्कल्पान्तजीवी च चिरजीवी च कश्चन ।
प्राक्तनादमरः कश्चिन्निषेको बलवत्तरः ॥२३॥

कश्चिद्याति च राजेन्द्रो दिव्ययानेन कर्मणा ।
कश्चित्कीटपतङ्गेषु कश्चित्पश्वादियोनिषु ॥२४॥

कश्चिदेव हि सन्न्यासी कश्चिच्च नरघातकः ।
कश्चिद्गजेन्द्रगामी च पशुयायी च कश्चन ॥२५॥

कश्चिद्सूक्ष्मांशुकाधारी कश्चिज्जीर्णपटी जनः ॥२६॥

कश्चिन्नग्नोऽअप्यनाहारी सुधाभोजी च च कश्चन ।
कश्चिच्च सुन्दरः श्रीमान्गलत्कुष्टी च कश्चन ॥२७॥

कश्चित्कुब्जश्चाङ्गहीनो बधिरः काण एव च ।
कश्चिद्दीर्घो मध्यमश्च कश्चित्खञ्जश्च वामनः ॥२८॥

कश्चित्कृष्णश्च गौरश्च श्यामलश्च स्वकर्मणा ।
कश्चिद्भक्त्या च प्राप्नोति कृष्णदास्यं सुदुर्लभं ॥२९॥

ब्रह्मणः परमं स्थानं जन्ममृत्युजराहरं ।
कश्चित्प्राप्नोति परमं ब्रह्मलोकं निरामयं ॥३०॥

कश्चित्स्वर्गं इन्द्रपदं शिवलोकं स्वकर्मणा ।
कश्चित्वर्गं इन्द्रलोकं यमलोकं च कश्चन ॥३१॥

कश्चिच्च नरके घोरे प्राप्नोति क्लेशं उल्वणं ।
तादितो यमदूतेन क्षुधितस्तृषितः सदा ॥३२॥

भुङ्क्ते विण्मूत्रकीटं तन्मलं श्लेष्मं गरं वसां ।
क्षुरधारे तप्ततैले वह्नौ शिते जले स्थले ॥३३॥

प्राप्नोति दारुणं दुःखं आकल्पं पातकी पितः ।
तथा भोगावशेषे च लब्धा जन्म स्वकर्मणा ॥३४॥

व्याधियुक्तः प्रमुच्येत तया चेदीश्वरेच्छया ।
यद्भयाद्वाति वातोऽयं सूर्यस्तपति यद्भयाथ् ॥३५॥

वर्षतीन्द्रो दहत्यग्निर्मृत्युश्चरति जन्तुषु ।
यस्याज्ञया सृष्टिविधौ मूर्मोऽनन्तं दधाति च ॥३६॥

स च सर्वं च ब्रह्माण्डं लीलया चेश्वरेच्छया ।
यस्याज्ञया महाभीता सर्वाधारा वसुन्धरा ॥३७॥

धरा सा सर्वस्याद्या रत्नवांश्च हिमालयः ।
स्वयं विधाता भगवान्ध्यायते यं अहर्निशं ॥३८॥

यं ध्यायते च भजते स्वयं मृतुञ्जयः शिवः ।
सहस्रवक्त्रोऽयं स्तौति ध्यायते भजते सदा ॥३९॥

स्वयं सरस्वती स्तौति यं ईश्वरं अभीप्सितं ।
सेवते पादपद्मं च स्वयं पद्मालया पितः ॥४०॥

माया भीता च यं स्तौति दुर्गा दुर्गतिनाशिनी ।
स्तुवन्ति वेदाः सततं सावित्री वेदमातृका ॥४१॥

सिद्धेन्द्राश्च मुनीन्द्राश्च योगीन्द्राः सनकादयः ।
राजेन्द्राश्चासुरेन्द्राश्च सुरेन्द्रा मनवस्तथा ॥४२॥

ध्यायन्ते च भजन्ते च भक्ताः सन्तो हि सन्ततं ।
केचिद्विदन्ति यं ब्रह्मां भगवन्तं सनातनं ॥४३॥

केचित्प्रधानं सर्वाद्यं केचिच्च ज्योतिरीश्वरं ।
केचिच्च सर्वरूपं च सर्वकारणकारणं ॥४४॥

केचित्स्वेच्छाभयं रूपं भक्तानुग्रहविग्रहं ।
केचित्सुरुचिरं श्यामसुन्दरं मनोहरं ॥४५॥

सानन्दं परमानन्दं गोविन्दं नन्दनन्दनं ।
भज तात परं ब्रह्म स्मर शश्वत्सुरेश्वरं ॥४६॥

इत्येवं उक्त्वा पितरं चन्द्रभागानदीजले ।
स्नात्वा पपौ जलं स्वच्छं बुभुजे मिष्टमोदकं ॥४७॥

पिता तद्वचनं श्रुत्वा सानन्दाश्रु मुमोच सः ।
चुचुम्ब गण्डं पुत्रस्य समाश्लेषणपूर्वकं ॥४८॥

पिता स्नात्वा समारेभे सन्ध्यां कर्तुं च पूजनं ।
सुस्नातं पितरं दृष्ट्वा पुत्रः स प्रययौ वनं ॥४९॥

पत्रं भोजनपात्रार्थं अर्हतुं चञ्चलः शिशुः ।
चकार चयनं तूर्णं प्रशस्तं पत्रपञ्चकं ॥५०॥

सुन्दरं कुसुमं वन्यं पूजनार्थं पितुस्तथा ।
ददर्श पुरतो बालः सुपक्वं वदरीफलं ॥५१॥

चकार चयनं तानि फलानि शोभनानि च ।
धात्रीफलं सुपक्वं च पक्वं आम्रातकं तथा ॥५२॥

सुपक्वं च कदम्बं च चकार चयनं पुनः ।
सुपक्वं सुन्दरं रम्यं दाडिमं श्रीफलं तथा ॥५३॥

रम्यं जम्बुफलं चैव खर्जूरं सुमनोहरं ।
करञ्जकं च जाम्बीरं सुन्दरं चिकुरं तथा ॥५४॥

तत्सर्वं चयनं कृत्वा ददर्श पुरतः सरः ।
सुनिर्मलं जलं स्वच्छं श्वेतपद्मं मनोहरं ॥५५॥

रुचिरं रक्तकह्लारं प्रस्फुटं च जलान्तिके ।
विहाय तानि सर्वाणि सरःशिरसि सुस्थले ॥५६॥

पपौ सरःस्वच्छतोयं जहार पद्मं उल्वणं ।
किंचित्सुरक्तकह्लारं पक्वं पद्मफलं तथा ॥५७॥

सर्वं आहरणं कृत्वा पितरं गन्तुं उद्यतः ।
प्रफुल्लवदनः श्रीमान्सस्मितो द्विजबालकः ॥५८॥

प्रफुल्लचम्पकतरुं ददर्श पुरतः शिशुः ।
मल्लिकामालतीकुन्दयूथिकामाधवीलताः ॥५९॥

चकार चयनं स्फीतः पुष्पाणि सुन्दराणि च ।
पुष्पेण फलपत्रेण तस्य भारो बभूव ह ॥६०॥

बालो वोढुं अशक्यन्तश्च ययौ गमनमन्थरः ।
न फलं बुभुजे सोऽपि धर्माधर्मभयेन च ॥६१॥

पुरो ददर्श स शिशुर्घोरं व्याघ्रालयं भिया ।
तात तातेति शब्दं च चकार ह पुनः पुनः ॥६२॥

न ददर्श च तातं च शार्दुलं च ददर्श सः ।
भिया सस्मार गोविन्दपादारवैन्दं ईप्सितं ॥६३॥

हरिं नरहरिं रामं कृष्णं विष्णुं च माध्वं ।
दामोदरं हृषीकेशं मुकुन्दं मधुसूदनं ॥६४॥

एतानि दश नामानि जपन्विप्रशिशुर्भिया ।
प्रययौ पुरतः शीघ्रं पुनरेव सरोवरं ॥६५॥

सरसो निर्मले तीरे पुष्पाणि च फलानि च ।
ददौ भक्त्या भगवते कृष्णाय परमात्मने ॥६६॥

श्रीकृष्णपूजां कुर्वन्तं ध्यानमानां पदाम्बुजं ।
निकटं न ययौ व्याघ्रो दृष्ट्वा बालं च दूरतः ॥६७॥

व्याघ्रं ददर्श बालश्च प्रकटास्यं भयानकं ।
विकृताकारदशनं विकटाक्षं महोदरं ॥६८॥

दृष्ट्वा च दुरतो व्याघ्रं उवास सरसस्तटे ।
दध्यौ कृष्णपदाम्भोजं जन्ममृत्युजराहरं ॥६९॥

मूलाधारं स्वाधिष्ठानं मणिपूरं अनाहतं ।
विशुद्धं च तथाज्ञाख्यं षट्चक्रं च विभाव्य च ॥७०॥

कुण्डलिन्या स्वशक्त्या च सहितं परमेश्वरं ।
सहस्रदलपद्मस्थं हृदये स्वात्मनः प्रभुं ॥७१॥

ददर्श द्विभुजं कृष्णं पीतकौशेयवाससं ।
सस्मितं सुन्दरं शुद्धं नवीनजलदप्रभं ॥७२॥

कोटिकन्दर्पसौन्दर्यलीलाधाममनोहरं ।
कोटिपार्वणपूर्णेन्दुप्रभाजुष्टं च सुन्दरं ॥७३॥

सुखदृश्यं सुरूपं च भक्तानुग्रहकारकं ।
चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितं ॥७४॥

प्रफुल्लपद्मनयनं राधावक्षःस्थलस्थितं ।
मालतीमाल्यसम्बद्धचूडाचारुसुशोभनं ॥७५॥

धृतरत्नं रत्नपद्मं दक्षिणेन करेण च ।
वामेन मणिनिर्माणदीप्तदर्पणं उज्ज्वलं ॥७६॥

रत्नकुण्डालयुग्मेन गण्डस्थलविराजितं ।
कौस्थुभेन मणीन्द्रेण चारुवक्षःस्थलोज्ज्वलं ॥७७ ।
मुक्ताराजिविनिन्दैकदन्तराजिविराजितं ।
आजानुमालतीमालावनमालाविभूषितं ॥७८॥

वेदाननसरस्वत्या स्तुतं ब्रह्मेशवन्दितं ।
पद्मापद्मालयामायासंसेवितपदाम्बुजं ॥७९॥

परिपूर्णतमं ब्रह्म परमात्मानं ईश्वरं ।
निर्लिप्तं साक्षिभूतं च भगवन्तं सनातनं ॥८०॥

सर्वेशां सर्वरूपं च सर्वकारणकारणं ।
पुरुषं परमात्मैकं परेशं प्रकृतेः परं ॥८१॥

एवं भूतं विभुं दृष्ट्वा मनसा प्रणनाम तं ।
तुष्टाव परया भक्त्या तं ईशं सम्पुटाञ्जलिः ॥८२॥

श्रीसुभद्र उवाच
हे नाथ दर्श्नं देहि मां भक्तं शरणागतं ।
श्रीद श्रीश श्रीनिवास श्रीनिधे श्रीनिकेतन ॥८३॥

श्रिया सेवितपादाब्ज श्रीसमुत्पत्तिकारण ।
वेदानिर्वचनियेश निरीह निर्गुणाधिप ॥८४॥

सर्वाद्य सर्वनिलय सर्वबीज सनातन ।
शान्त सरस्वतीकान्त नितान्त सर्वकर्मसु ॥८५॥

सर्वाधार निराधार कामपूर परात्पर ।
दुष्पारासारसंसारकर्णधार नमोऽस्तु ते ॥८६॥

इत्येवं उक्त्वा स शिशु रुरोद च पुनः पुनः ।
ध्यायेन तत्पदाम्भोजं शरणं च चकार सः ॥८७॥

इति विप्रकृतं स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥८८॥

इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे ब्रह्मसनत्कुमारसंवादे श्रीकृष्णमहिमोपालम्भनं नाम तृतीयोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2013-01-23T05:54:39.7200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

buffalo breeding

  • स्त्री. महिष पैदास 
RANDOM WORD

Did you know?

गणपतीची पूजा आणि व्रत फक्त पुरूषच करतात, मग फक्त स्त्रियांसाठी गणेश व्रत आहे काय?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site