TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

प्रथमैकरात्रः - प्रथमोऽध्यायः

‘श्रीनारदपञ्चरात्रम‘ हा ग्रंथ वाचल्याने सामान्यज्ञानात भर पडते.


प्रथमोऽध्यायः
ओं नमो भगवते वासुदेवाय
अथ मङ्गलाचरणम्
नारायणं नमस्कृत्य नरं चैव नरोत्तमं ।
देवीं सरस्वतीं चैव ततो जयं उदीरयेथ्॥

गणेशशेषब्रह्मेशदिनेशप्रमुखाः सुराः ।
कुमाराद्याश्च मुनयः सिद्धाश्च कपिलादयः ॥१॥

लक्ष्मी सरस्वती दुर्गा सावित्री राधिका परा ।
भक्त्या नमन्ति यं शश्वत्तं नमामि परात्परं ॥२॥

ध्यायन्ते सततं सन्तो योगिनो वैष्णवास्तथा ।
ज्योतिरभ्यन्तरे रूपं अतुलं श्यामसुन्दरं ॥३॥

ध्यायेत्तं परमं ब्रह्म परमात्मानं ईश्वरं ।
निरीहं अतिनिर्लिप्तं निर्गुणं प्रकृतेः परं ॥४॥

सर्वेशं सर्वरूपं च सर्वकारणकारणं ।
सत्यं नित्यं च पुरुषं पुराणं परं अव्ययं ॥५॥

मङ्गल्यं मङ्गलार्हं च मङ्गलं मङ्गलालयं ।
स्वेच्छामयं परं धाम भगवन्तं सनातनं ॥६॥

स्तुवन्ति वेदा यं शश्वन्नानन्तं जानन्ति यस्य ते ।
तं स्त्ॐइ परमानन्दं सानन्दं नन्दनन्दनं ॥७॥

भक्तप्रियं च भक्तेशं भक्तानुग्रहविग्रहं ।
श्रीदं श्रीशं श्रीनिवासं श्रीकृष्णं राधिकेश्वरं ॥८॥

ज्ञानामृतं ज्ञानसिन्धोः संप्राप्य शङ्कराद्गुरोः ।
परावराच्च परमाद्योगीन्द्राणां गुरोर्गुरोः ॥९॥

वेदेभ्यो दधिसिन्धुभ्यश्चतुर्भ्यः सुमनोहरं ।
तज्ज्ञानमन्थदण्डेन संनिर्मथ्य नवं नवं ॥१०॥

नवनीतं समुद्धृत्य नत्वा शम्भोः पदाम्बुजं ।
विधिपुत्रो नारदोऽहं पञ्चरात्रं समारभे ॥११॥

ओं नारायणाश्रमे पुण्ये पुण्यक्षेत्रे च भारत ।
सिद्धे नारायणक्षेत्रे वटमूले सुपुण्यदे ॥१२॥

कृष्णांशं कृष्णभक्तं च पलं कृष्णपरायणं ।
श्रीकृष्णचरणाम्भोजध्यानैकतानमानसं ॥१३॥

जपन्तं परमं ब्रह्म कृष्ण इत्यक्षरद्वयं ।
सुखासने सुखासीनं कृष्णद्वैपायनं मुनिं ॥१४॥

पप्रच्छ शुकदेवश्च सर्वज्ञं पितरं मुनिः ।
कारणण्च पुराणानां पुराणं परं अव्ययं ॥१५॥

श्रीशुक उवाच
भगवन्सर्वतत्त्वज्ञ वेदवेदाङ्गपारग ।
यद्यत्प्रकारं ज्ञानं च निगूढं श्रुतिसम्मतं ॥१६॥

तेषु यत्सारभूतं चाप्यज्ञानान्धप्रदीपकं ।
तत्तत्सर्वं समालोच्य मां बोधयितुं अर्हसि ॥१७॥

अथ श्रीकृष्णभक्तिप्रशंशा
स पिता ज्ञानदाता यो ज्ञानं तत्कृष्णभक्तिदं ।
सा भक्तिः परमा शुद्धा कृष्णदास्यप्रदा च या ॥१८॥

तदेव दास्यं शस्तं यत्साक्षाच्चरणसेवनं ।
नित्यं गोलोकवासं च पुरतः स्तवनं हरेः ॥१९॥

शश्वन्निमेषरहितं तत्पादपद्मदर्शनं ।
शश्वत्तत्सार्धं आलापसेवाकर्मनियोजनं ॥२०॥

तेन सार्धं अविच्छेदस्थानं परं शोभनं ।
भक्तानां वाञ्च्छितं वस्तु सारभूतं श्रुतौ श्रुतं ॥२१॥

पुत्रस्य वचनं श्रुत्वा व्यासदेवो जहास सः ।
विज्ञाय ज्ञानिनं पुत्रं परमाह्लादं आप ह ॥२२॥

पुत्रं शुभाशिषं कृत्वा सर्वज्ञः सर्वभावनः ।
यथाप्राप्तं गुरुमुखात्प्रवक्तुं उपचक्रमे ॥२३॥

श्रीव्यास उवाच
शुक धन्योऽसि मान्योऽसि पुण्यरूपोऽसि भारते ।
पुत्रेण भवतास्माकं कुलं मुक्तं च पावनं ॥२४॥

स पुत्रः कृष्णभक्तो यो भारते सुयशस्करः ।
पुनाति पुंसां शतकं जन्ममात्रेण लीलया ॥२५॥

मातामहानां शतकं मातरं मातृमातरं ।
सोदरान्बान्धवांश्चैव भृत्यान्पत्नीं सहात्मजां ॥२६॥

यत्कन्यां प्रतिगृह्णाति तदादिपुरुषत्रयं ।
कन्याप्रदाता श्वशुरो जीवन्मुक्तः सभार्यकः ॥२७॥

स्वयं विधाता भगवान्परं कृष्णपरायणः ।
कृष्णभक्तो वसिष्टस्तु तत्सुतो वैष्णवः स्वयं ॥२८॥

वैष्णवस्तत्सुतः शक्तिः कृष्णध्यानैकमानसः ।
पराशरश्च तत्पुत्रः कृष्णपादाब्जसेवया ॥२९॥

जीवन्मुक्तो महाज्ञानी योगीन्द्राणां गुरोर्गुरुः ।
अहं वेदविभक्ता च श्रीकृष्णपादसेवया ॥३०॥

गुरुर्मे भगवान्साक्षाद्योगीन्द्रो नारदो मुनिः ।
गुरोर्गुरुर्मे शम्भुश्च योगीन्द्राणां गुरोर्गुरुः ॥३१॥

तेषां पुण्येन पुत्रस्त्वं पुण्यराशिश्च मूर्तिमान् ।
पद्मानां मम पुंसां च प्रकाशो भास्करः स्वयं ॥३२॥

श्रीकृष्णचरणाम्भोजं पादाब्जं नारदेशयोः ।
सरस्वतीं नमस्कृत्य ज्ञानं वक्ष्ये सनातनं ॥३३॥

श्रूयतां पञ्चरात्रं च वेदसारं अभीप्सितं ।
पञ्चसंवादं इष्टं च भक्तानां अभिवाञ्च्छितं ॥३४॥

प्राणाधिकं प्रियं शुद्धं परं ज्ञानामृतं शुभं ।
अथ षट्संवादाः ?wहत्? हि गोलोके शतशृङ्गे च पर्वते ॥३५॥

सुपुण्ये विरजातीरे वटमूले मनोहरे ।
पुरतो राधिकायाश्च ब्रह्माणं कमलोद्भवं ॥३६॥

तं उवाच महाभक्तं स्तुवन्तं प्रणतं सुतं ।
पञ्चरात्रं इदं पुण्यं श्रुत्वा च जगतां विधिः ॥३७॥

प्रणम्य राधिकां कृष्णं प्रययौ शिवमन्दिरं ।
भक्त्या तं पूजयां आस शङ्करः परमादरं ॥३८॥

सुखासने सुखासीनं स्वस्थं भक्तं च पूजितं ।
पप्रच्छ वार्तां विनयी विनयेन सुखावहां ॥३९॥

सर्वं तं कथयां आस पञ्चरात्रादिकं शुभं ।
वसन्तं वटमूले च स्वर्गे मन्दाकिनीतटे ॥४०॥

योगीन्द्रैरपि सिद्धेन्द्रैर्मुनीन्द्रैश्च स्तुतं प्रभुं ।
ज्ञानामृतं तं उक्त्वा स ब्रह्मलोकं जगाम ह ॥४१॥

शम्भुश्च कथयां आस स्वशिष्यं नारदं मुनिं ।
नारदः कथयां आस पुष्करे सूर्यपर्वणि ॥४२॥

मां भक्तं अनुरक्तं च पुण्याहे मुनिसंसदि ।
पञ्चरात्रं इदं शुद्धं भ्रमान्धध्वंसदीपकं ॥४३॥

अथ पञ्चरात्रपदव्याख्या
रात्रं च ज्ञानवचनं ज्ञानं पञ्चविधं स्मृतं ।
तेनेदं पञ्चरात्रं च प्रवदन्ति मनीषिणः ॥४४॥

ज्ञानं परमतत्त्वं च जन्ममृत्युजरापहं ।
ततो मृत्युञ्जयः शम्भुः संप्राप कृष्णवक्त्रतः ॥४५॥

ज्ञानं द्वितीयं परमं मुमुक्षूणां च वाञ्च्छितं ।
परं मुक्तिप्रदं शुद्धं यतो लीनं हरेः पदे ॥४६॥

ज्ञानं शुद्धं तृतीयं च मङ्गलं कृष्णभक्तिदं ।
तद्दास्यं अधीष्टं च यतो दास्यं लभेद्धरेः ॥४७॥

चतुर्थं यौगिकं ज्ञानं सर्वसिद्धिप्रदं परं ।
सर्वस्वं योगिनां पुत्र सिद्धानां च सुखप्रदं ॥४८॥

अणिमा लघिमा व्याप्तिः प्राकाम्यं महिमा तथा ।
ईशित्वं च वशित्वं च तथाकामावसायिता ॥४९॥

सावज्ञं दूरश्रवणं परकायप्रवेशनं ।
कायव्यूहं जीवदानं परजीवहरं परं ॥५०॥

सर्गकर्तृत्वशिल्पं च सर्गसंहारकारणं ।
सिद्धं च षोडशविधं ज्ञानिनां च यतो भवेथ् ॥५१॥

ज्ञानं च परमं प्रोक्तं तद्वै वैषयिकं नृणां ।
यदिष्टदेवी माया सा परं संमोहकारणं ॥५२॥

विषये बद्धचितं च सर्वं इन्द्रियसेवनं ।
पोषनं स्वकुटुम्बानां स्वात्मनश्च निरन्रतं ॥५३॥

प्रथमं सात्त्विकं ज्ञानं द्वितीयं च तदेव च ।
नैर्गुण्यं च तृतीयं च ज्ञानं च सर्वतः परं ॥५४॥

चतुर्थं च राजसिकं भक्तस्तन्नाभिवाञ्च्छति ।
पञ्चमं तामसं ज्ञानं विद्वांस्तन्नाभिवाञ्च्छति ॥५५॥

ज्ञानं पञ्चविधं प्रोक्तं पञ्चरात्रं विदुर्बुधाः ।
पञ्चरात्रं सप्तविधं ज्ञानिनां ज्ञानदं परं ॥५६॥

ब्राह्मं शैवं च क्ॐआरं वासिष्टं कापिलं परं ।
गौतमीयं नारदीयं इदं सप्तविधं स्मृतं ॥५७॥

अथ ग्रन्थप्रशंसा
षट्पञ्चरात्रं वेदाश्च पुराणानि च सर्वशः ।
इतिहासं धर्मशास्त्रं शात्रं च सिद्धियोगजं ॥५८॥

दृष्ट्वा सर्वं समालोक्य ज्ञानं संप्राप्य शङ्कराथ् ।
ज्ञानामृतं पञ्चरात्रं चकार नारदो मुनिः ॥५९॥

पुण्यं च पापविघ्नं भक्तिदास्यप्रदं हरेः ।
सर्वस्वं वैष्णवानां च प्रियं प्राणाधिकं सुत ॥६०॥

सारभूतं च सर्वेषां वेदानां परमाद्भुतं ।
नारदीयं पञ्चरात्रं पुराणेषु सुदुर्लभं ॥६१॥

सर्वान्तरात्मा भगवान्ब्रह्मज्योतिः सनातनं ।
परिपूर्णतमः श्रीमान्यथा कृष्णः सुरेषु च ॥६२॥

यथा देवीषु पूज्या सा मूलप्रकृतिरीश्वरी ।
वैष्णवानां च सिद्धानां ज्ञानिनां योगिनां शिवः ॥६३॥

विश्वस्तानां इन्द्रियानां मनश्च शीघ्रगामिनां ।
ब्रह्मा च वेदविदुषां पूज्यानां च गणेश्वरः ॥६४॥

सनत्कुमारो भगवान्मुनीनां प्रवरो यथा ।
बृहस्पतिर्बुद्धिमतां सिद्धानां कपिलो यथा ॥६५॥

योगीन्द्रानां सतां शुद्ध ऋषिर्नारायणो यथा ।
कवीनां च यथा शुक्रः पण्डितानां बृहस्पतिः ॥६६॥

सरितां च यथा गङ्गा समुद्राणां जलार्णवः ।
वृन्दावनं वनानां च वर्षानां भारतं यथा ॥६७॥

पुष्करं तत्र तीर्थानां पूज्यानां वैष्णवो यथा ।
आत्माकाशो यथाप्तानां यथा काशी पुरीषु च ॥६८॥

वृक्षाणां कल्पवृक्षश्च सुरभी कामधेनुषु ।
पुष्पाणां पारिजातश्च पत्राणां तुलसी यथा ॥६९॥

मन्त्राणां कृष्णमन्त्रश्च यथा विद्या धनेष्वपि ।
यथा तेजस्विनां सूर्यो मिष्टानां अमृतं यथा ॥७०॥

आधाराणां च स्थूलानां महाविष्णुर्यथा सुत ।
सूक्ष्माणां परमाणुश्च गुरुणां मन्त्रतन्त्रदः ॥७१॥

पुत्रश्च स्नेहपात्राणां नक्षत्राणां यथा शशी ।
यथा घृतं च गव्यानां शस्यानां धान्यं ईप्सितं ॥७२॥

शास्त्राणां च यथा वेदाः साश्रमाणां यथा द्विजः ।
तैजसानां यथा रत्नं मुक्तामाणिक्यहीरकं ॥७३॥

यथा छन्दसि गायत्री दुर्गा शक्तिमतीष्वपि ।
पतिव्रतासु लक्स्मीश्च क्षमाशीलासु मेदिनी ॥७४॥

सौभाग्यासु सुन्दरीषु राधा कृष्णप्रियासु च ।
हनुमान्वानराणां च पक्षिणां गरुडो यथा ॥७५॥

वाहनानां बलवतां शङ्करस्य यथा वृषः ।
शालग्रामश्च यन्त्राणां पूजासु कृष्णपूजनं ॥७६॥

एकादशी व्रतानां च तपःस्वनशनं यथा ।
यज्ञानां जपयज्ञश्च सत्यं धर्मेषु पुत्रक ॥७७॥

सुशीलं च गुणानां च पुण्येषु कृष्णकीर्तनं ।
शोभाशु सुखदृश्येषु प्रभा तेजःसु सर्वतः ॥७८॥

पोष्ट्रीणां उपकर्तृणां मित्राणां जननी यथा ।
लोकानां अपि लोकेशः शेषो नागेषु पूजितः ॥७९॥

सुदर्शनं च शस्त्राणां विश्वकर्मा च शिल्पिनां ।
धर्मिष्ठेषु दयावत्सु देवर्षिसु महत्सु च ॥८०॥

विष्णुभक्तेषु विज्ञेषु यथैव नारदो मुनिः ।
एवं च सर्वशास्त्रेषु पञ्चरात्रं च पूजितं ॥८१॥

यथा निपीय पीयूषं न स्पृहा चान्यवस्तुषु ।
पञ्चरात्रं अभिज्ञाय नान्येषु च स्पृहा सतां ॥८२॥

सर्वार्थज्ञानबीजं चाप्यज्ञानान्धप्रदीपं ।
वेदसारोद्धृतं तत्त्वं सर्वेषां समभीप्सितं ॥८३॥

इति श्रीनारदपञ्चरात्रे ग्रन्थप्रशंसनं नाम प्रथमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2013-01-23T05:52:34.8130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

भायजात्य

RANDOM WORD

Did you know?

श्रीयंत्रातील चक्र आणि त्रिकोण कशाचे प्रतिक आहेत?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.