आश्विनमास: - नरकचतुर्दश्यामभ्यङ्गस्नानविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ अथ नरकचतुर्दश्यामभ्यङ्गस्नानविधि: ॥

चतुर्दशी अभ्यङ्गस्नाने चन्द्रोदयव्यापिनी ग्राह्या दिनद्वये चन्द्रोदयव्यापित्वे पूर्वा । दिनद्वयेऽपि चन्द्रोदयव्याप्त्यलाभेऽरुणोदयव्यापिनी पूर्वविद्धा ग्राह्या । उदयात्प्राक् चतुर्घटिकात्मकोऽरुणोदय इति सकलसिद्धान्त: । उक्तकाले देशकालौ सङ्कीर्त्य मम नरकभयपरिहारार्थं आश्विनकृष्णचतुर्दश्यां चन्द्रोदये सुगन्धतिलतैलाभ्यङ्गपूर्वकं मङ्गलस्नानं करिष्ये । इति सङ्कल्प्य, स्नानसमये अपामार्गं तुम्वीफलवृक्षं चक्रमर्दवृक्षं चानीय शिर:प्रभृत्यङ्गेषु पादक्षिण्येन त्रिवार भ्रामयेत् । तत्र मन्त्र:-सीतालोष्टसमायुक्तसकण्टकदलान्वित । हर पापमपामार्ग भ्राम्यमाण: पुन: पुन: ॥ प्रतिभ्रामणं मन्त्रावृत्ति: । उक्तवृक्षालाभे केवलेनापामार्गेण तदलाभे तत्पत्रैर्वा भ्रामयेत्, मन्त्रलिङ्गे तस्यैव प्राधान्यात ॥ यमतर्पणविधि: ॥ अभ्यङ्गस्नानोत्तरं कार्तिकस्नाननान्ते प्रात:सन्ध्यावन्दनं विधाय, यमतर्पणं कार्यम तच्च जीवत्पितृकेण यज्ञोपवीतिना देवतीर्थेन साक्षताभिरद्भि: प्राङमुखेन सकृत्सकृत्कार्यम् । तद्भिन्नेन प्राचीनावीतिना, संतिलाभिरद्भि: पितृतीर्थेन दक्षिणामुखेन त्रिस्त्रि: कार्यम् । तत्र देशकालौ सङकीर्त्य, मम नरकभयनिरासार्थं संवत्सरकृतपापप्रणाशनार्थं यमप्रसादसिध्यर्थं नरकचतुर्दश्यां विहितं यमतर्पणं करिष्ये ।

१. यमाय नम: यमं तर्पयामि ।
२. धर्मराजा० धर्मराजं त० ।
३. मृत्यवे नम: मृत्युं त० ।
४. अन्तकाय० अन्तकं त० ।
५. वैव वताय० वैवस्वतं त० ।
६. कालाय० कालं त० ।
७. सर्वभूतक्षयाय० सर्वभूतक्षयं त० ।
८. औदुम्बराय० औतुम्बरं त० ।
९. दध्नाय० दध्नं त० ।
१०. नीलाय० नीलं त० ।
११. परमेष्ठिने ० परमेष्ठिनं त० ।
१२. वृकोदराय० वृकोदरं त० ।
१३. चित्राय० चित्रं त० ।
१४. चित्रगुप्ताय० चित्रगुसं त०

तत:--यमो निहन्ता पितृधर्मराजो वैवस्वतो दण्डधरश्च काल: । भूताधिपो दत्तकृतानुसारी कृतान्तमेतद् दशभिर्जपन्ति ॥ इमं श्लोकं दशवारं पठेत् । यस्य स्मृत्या० । अनेन मया कृतेन तर्पणेन श्रीयम: प्रीयताम् ॥

यद्यपि चतुर्दश्यां दिवाभोजननिषेधस्तथापि तददिने माषपत्रशाकेन दिवैव भोक्तव्यं, विशेषवचनात् ।
तत:प्रदोषसमये देवागारे मार्गे प्राकारेद्यानवीथिषु गेहाङ्गणेषु गोवाजिहस्तिशालासु च दिनत्रयं दीपान् दद्यात् ॥

अत्रोल्काग्रहणं पितृणां मार्गदर्शनार्थं कार्यम् । प्रदीपनयोग्या तृणादिनिर्मिता दीर्धा दीपिकाकारा सोल्का । तां एकत: प्रदीप्तां गृहाद बहिर्दक्षिणामुखस्तिष्ठन् गृह्णीयात् । तत्र मन्त्र:-शस्त्राशस्त्रहतानां च भूतानां भूतदर्शयो: । उज्वलज्योतिषा देहं दहेयं व्योमवह्निना । ततस्तामुल्कां दक्षिणस्यां दिशि दर्शयन् मन्त्रं पठेत्-अग्निदग्धाश्च ये जीवा येप्यदग्धा: कुले मम । उज्वलज्योतिषा दग्धास्ते यान्तु परमां गतिम् ॥ तामुल्कां दक्षिणस्यां दिशि त्यजेत् । अद्य०प्त्यर्थं पितृणां मार्गदर्शनार्थं विहितमुल्काप्रक्षेपं करिष्ये । तत्र मन्त्र:-यमलोकं परित्यज्य आगता ये महालये । उज्वलज्योतिषा वर्त्म प्रपश्यन्तु व्रजन्तु ते ॥ तत आगत्य हरतौ पादौ प्रक्षाल्य आचम्य गृहं प्रविशेत् । चतुर्दश्यादिदिनत्रये दीपावलिसंज्ञके प्रतिदिनं प्रातर्मङ्गलस्नाननीराजने प्रदोषे दीपदानं च नित्यम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP