आश्विनमास: - घटध्मानमहालक्ष्मीव्रतविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ घटध्मानमहालक्ष्मीव्रतविधि: ॥

आश्विनशुक्लाष्टम्यां चित्तपावनप्रसिद्धोऽयमाचार: । अन्न पूजाजागरणं च प्रधानम् । अष्टमी चार्धरात्रव्यापिनी ग्राह्या, शिष्टाचारात् । तत्र विवाहोत्तरप्रथमाश्चिनशुक्लाष्टम्यां प्रातस्तिलामलकपूर्वकमभ्यङ्गस्नानं विधाय नूतने श्वेतवाससी परिधाय मध्याह्ने मिलिता: सौभाग्यवत्यस्त्रिय: जलाशयसमीपस्था: क्षुद्रा: शिला: विवाहात् प्रथमवर्षादिक्रमेण तत्सङ्ख्याका आनीय तत्र महालक्ष्मीं आवाह्य तत्समीपे षोडशतन्तुमयं कुङ्कुमाक्तं दोरकं निर्माय वर्षादिसङ्ख्यया ग्रन्थियुतं कृत्वा तत्सहितां महालक्ष्मीं सम्पूज्य, तण्डुलपिष्टनिर्मितान् षोडशदीपान् पिण्डीश्च भक्षयेयु: । तत: रात्रौ कद्लीस्तम्भमण्डिते तोरणाद्यलङ्कृते पीठे धान्यपूरितभाण्डोपरि तण्डुलपिष्टमयीं शिरोमात्रां महालक्ष्मीप्रतिमां संस्थाप्य तां भूषणादिभिरलङ्कृत्य पञ्चोपचारपूजां कृत्वा श्रृङ्गाटकान् नारिकेलखण्डान् ताम्बूलानि च समर्प्य स्वयं भक्षयित्वा तद्दोरकं वामकरे बध्वा तत्पुरत: घटं धूपयित्वा तदध्मानपूर्वकं गीतनृत्यादिना निशीथपर्यन्तं जागरणं कुर्यु: । तत: प्रभाते पञ्चोपचारपूजां कृत्वा दधिभक्तनैवेद्यं समर्प्य दोरकं उत्तार्य तां प्रतिमां क्षुद्रा: शिलाश्च यांतुदेवेति विसृज्य नद्यां क्षिपेयु: । तद्दोरकं संरक्ष्य तदुत्तराष्टमीचतुर्दशीद्वये दोरकं पञ्चोपचारै: सम्पूज्य, षोडशार्घ्यान् दत्वा षोडश नमस्कारान् कृत्वा तद्दोरकं नद्यां विसृजेयु: । एवं पञ्चवर्षपर्यन्तं कुर्यु: ॥

प्रथमे वत्सरे व्रतग्रहणसङ्कल्प: । भर्ता पत्न्यासहोपविश्य, आचम्य देशकालौ सङ्कीर्त्य, मम सपत्नीकस्य पुत्रपोत्राद्यैहिकनानाविधभोगप्राप्तिपूर्वकअवैधव्यप्राप्तये च श्रीघटध्मानमहालक्ष्मीप्रीत्यर्थं पञ्चवर्षपर्यन्तं घटध्मानमहालक्ष्मीव्रतग्रहणं करिष्ये ॥ अथ पूजाविधि: ॥ आचम्य देशकालौ सङ्कीर्त्य, हस्तेऽक्षतोदकं गृहीत्वा, मम इह जन्मनि जन्मान्तरेण च अखण्डितसुखसौभाग्यावाप्त्यर्थं पुत्रपौत्राद्यभिवृद्धये अवैधव्यायुरारोग्यैश्वर्याद्यभीष्टसकलसिद्धिद्वारा श्रीमहालक्ष्मीप्रीत्यर्थं मया आचरितपञ्चवर्षात्मकघटध्मानमहालक्ष्मीव्रताङ्गत्वेन विहितंयथामिलितषोडशोपचारद्रव्यै: पुराणोक्तमन्त्रै: दोरकसहितमहालक्ष्मीपूजनमहं करिष्ये । आदौ निर्विघ्नतासिध्यर्थं महागणपतिपूजन कलशघण्टापूजनं च करिष्ये । गणपतिं कलशं घण्टां च सम्पूज्य, अपवित्र: प० पूजासम्भारान् प्रोक्ष्य महालक्ष्मीदोरकं आवाह्य पूजयेत् ॥ अथ ध्यानम् ॥ शारदेन्दुकलाकान्तिस्निग्धनेत्रां चतुर्भुजाम् । पद्मयुग्मामभपदां वरव्यग्रकराम्बुजाम् । अभितो गजयुग्मेन सिच्यमानां घटाम्बुभि: ॥ श्रीमहालक्ष्मै नम: महालक्ष्मीं ध्यायामि ॥ महालक्ष्मि समागच्छ पद्मनाभपदादिह । पञ्चोपचारपूजेयं त्वदर्थं देवि संभृता ॥ आवाहनं० ॥ आलयस्ते हि कथित: कमलं कमलालये । विमले कमले ह्यस्मिन् स्थितिं त्वं कमले कुरु ॥ आसनं० ॥ गङ्गादिसलिलाधारं तीर्थमन्त्राभिमन्त्रितम् । दूरयात्राश्रमहरं पाद्यं मे प्रति० ॥ पाद्यं० ॥ निधीनां सर्वरत्नानां त्वमनर्ध्यगुणा ह्यसि । तथापि भक्तिसंयुक्तं गृहाणार्ध्यं नमोऽस्तु ते ॥ अर्ध्यं० ॥ आचम्य जगदाधारे सिद्धिलक्ष्मि जगत्प्रिये । चपले देवि ते दत्तं तोयं गृह्ल नमोऽस्तु ते ॥ आचमनीयं० ॥ इदं तव महालक्ष्म्या: कर्पूरागरुवासितम् । तीर्थेभ्य: सुसमानीतं स्नानार्थं प्रति० ॥ स्नानं० ॥ पयो दधि घृतं क्षौद्रं सितया च समर्पितम् । स्नानं पञ्चामृतेनाद्य कुरु देवि दयानिधे ॥ पञ्चामृतस्नानं० ॥ आचमनीयं० ॥ अभ्यङ्गार्थं मयाऽऽनीतं तैलं पुष्पादिवासितम् । प्रयत्नेनार्जितं शुद्धं महालक्ष्मी गृहाण भो: ॥ सुगन्धतैलस्नानं० ॥ अङ्गोद्वर्तनकं देवि कस्तूर्या कुङ्कुमेन च । अन्यै: सुगन्धद्रव्यैश्च निर्मितं प्रतिगृ० ॥ अङ्गोद्वर्तनकं० । नानातीर्थादाहृतं च तोयमुष्णं मया कृतम् । स्नानार्थं च मया दत्तं गृह्य० ॥ उष्णोदकस्नानं० ॥ नाममन्त्रेण पञ्चोपचारपूजां कृत्वा, सुरास्त्वेत्यादिनाऽभिषेक: । तन्तुसन्तानसंसिद्धं कलाकौशेयकल्पितम् । सर्वाङ्गाभरणं श्रेष्ठं वसनं परिधीयताम् ॥ वस्त्र० ॥ मुक्तामणिगणोपेतामनर्ध्यां च सुखप्रदाम् । कञ्चुकीं ते सुखस्पर्शां ददामि हरिवल्लभे ॥ कञ्चुकीं० ॥ कण्ठसूत्रं ताडपत्रं हरिद्रां कुङ्कुमाञ्जनम् । सिन्दूरादि प्रदास्यामि सौभाग्यं देहि मेऽव्ययम् ॥ सौभाग्यद्रव्याणि स० । हारकङ्कणकेयूरमेखलाकुण्डलानि च । रत्नाढयं मुकुटोपेतं भूषणानि प्रगृह्यताम् ॥ आभूषणानि स० ॥ मलयाचलसम्भूतं नानापन्नगसेवितम् । शीतलं बहुलामोदं चन्दनं प्रति० ॥ चन्दनं० ॥ अक्षतानरविन्दाक्षि नक्षत्रेण सहोदरि । माणिक्यप्रतिमा:पद्मे गृहाण त्वं मयार्पितान् ॥ अक्षतान्० ॥ मिलत्परिमलामोदं मत्तालिकुलसङ्कुलम् । आनन्दि नन्दनोद्यानं पद्मायै कुसुमं नम: ॥ पुष्पाणि० ॥

॥ अथाङ्गपूजा ॥

१. लक्ष्म्यैनम: पादौ पूजयामि ।
२. पद्मायै नम: गुल्फौ पूज० ।
३. कमलायै न० जानुनी पू० ।
४. हरिप्रियायै न० उरू पू० ।
५. इन्दिरायै न० कटी पूज० ।
६. मङ्गलायै० नाभिं पू० ।
७. मन्मथवासि० स्तनौ पू० ।
८. क्षमायै० हृदयं पू० ।
९. क्षीराब्धितनयायै० कण्ठं पू० ।
१०. उमायै नम: नेत्रे पू० ।
११. रमायै नम: शिर: पू० ।
१२. श्रीमहालक्ष्म्यै० सर्वाङ्गं पू० ।

॥ पत्रपूजा ॥

१. महालक्ष्म्यै० अपामार्गप० ।
२. गौर्यै नम: दूर्वापत्रं० ।
३. पार्वत्यै न० धत्तूरपत्रं० ।
४. जगद्धात्र्यै० बिल्वपत्रं० ।
५. जगत्प्रतिष्ठा० चम्पकपत्रं० ।
६. शान्तिरूपिण्यै० सेवन्तिकाप० ।
७. देव्यै नम: सिन्दूरपत्रं० ।
८. लोकवन्द्यायै० जातीपत्रं० ।
९. काल्यै न० अशोकप० ।
१०. शिवायै० शमीपत्रं० ।
११. भवान्यै० कदलीपत्रं० ।
१२. इन्द्राण्यै० बदरीपत्रं० ।
१३. शर्वाण्यै० करवीरपत्रं० ।
१४. मङ्गलायै० बकुलपत्रं० ।
१५. पुत्रदायिन्यै० अगस्तिपत्रं० ।
१६. भक्तवत्सलायै० तुलसीपत्रं ।

॥ अथ षोडशदूर्वापत्रपूजा ॥

१. श्रियै नम: दूर्वापत्रं० ।
२. लक्ष्म्यै नम: दूर्वापत्रं० ।
३. कालिकायै नम: दूर्वापत्रं० ।
४. ,महाकाल्यै नम: दूर्वापत्रं० ।
५. विकराल्यै नम: दूर्वापत्रं० ।
६. त्रैलोक्यजनन्यै नम: दूर्वापत्रं० ।
७. एकनाथायै नम: दूर्वापत्रं० ।
८. रेणुकायै नम: दूर्वापत्रं० ।
९. राममात्रे नम: दूर्वापत्रं० ।
१०. शिवायै नम: दूर्वापत्रं० ।
११. भूतनाथायै नम: दूर्वापत्रं० ।
१२. भक्तवत्सलायै नम: दूर्वापत्रं० ।
१३. भवान्यै नम: दूर्वापत्रं० ।
१४. सिद्धेश्वयैं नम: दूर्वापत्रं० ।
१५. विश्वरूपिण्यै नम: दूर्वापत्रं० ।
१६. शिवायै नम: दूर्वापत्रं० ।

गन्धसम्भारसन्नद्धं कस्तूरीमोदसम्भवम् । सुरासुरनरानन्दि धूपं देवि गृहाण मे ॥ धूपमा० ॥ मार्तण्डमण्डलाखण्डचन्द्रबिम्बाग्नितजसाम् । निधानं देवि दीपोऽयं निर्मितस्तव भक्तित: ॥ दीपं द० ॥
देवतालयपातालभूतलाधारधान्यजम् । षोडशाकारसम्भारं नैवेद्यं ते नम: श्रिये ॥ नैवेद्यं स० ॥ मध्येपानीयं । उ०, ह०, मु० । सुगन्धद्रव्यसंयुक्तं सुवासितजगत्त्रयम् । करोद्वर्तनकं मातर्गृहा० ॥ करोद्वार्तनं स० ॥
बीजपूराम्रपनसखर्जूरीदलसंयुतम् । नारिकेलफलं दिव्यं गृहाण कमलालये ॥ फलानि स० ॥
पातालतलसम्भूतं वदनाम्भोजभूषणम् । नानागुणसमाकीर्णं ताम्बूलं देवि ते नम: ॥ ताम्बूलं० ॥
सुवर्णं सर्वधातूनां श्रेष्ठं देवि प्रियं सदा । भक्त्या ददामि वरदे स्वर्णवृष्टिं प्रदेहि मे ॥ दक्षिणां० ॥
सुरासुरशिरोंरत्नप्रभानीराजितक्रमे । रूपसाम्राज्यसंसिध्यै कुर्वे नीराजनं विधिम् ॥ आर्तिक्यदीपं द० ॥
कर्पूरनिर्मितं दीपं स्वर्णपात्रे निवेशितम् । नीराजनं मया दत्तं गृहा० ॥ कर्पूरदीपं द० ॥ कायवाङमानसं पापं यत्कृतं जन्मजन्मनि । तन्मे नाशय देवि त्वं प्रदक्षिणविधानत: ॥ प्रदक्षिणां स० ॥ या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ॥ नमस्कारान्‌० ॥
पारिजातादिजातीयं नानाकुसुमसञ्चयम् । अर्पयेऽनल्पसंसिध्यै पूजासम्पूर्णताकृते ॥ पुष्पाजलिं स० ॥
विष्णोर्वक्षसि पद्मे च शङ्खे चक्रे तथाम्बरे । लक्ष्मीर्नित्या यथासि त्वं मयि नित्या तथा भव ॥ प्रार्थनां० । तत: तद्दोरकं ताम्रपात्रे निधाय तदुपरि गन्धाक्षतोदकफलपुष्पहिरण्यसहितान् षोडशार्ध्यान्दद्यात् । तत्र मन्त्र:-महालक्ष्मि जगन्मात: सुखसौभाग्यदायिनि । महालक्ष्मि जगन्नाथे अर्ध्यं गृह्ण नमोऽस्तु ते ॥ श्रीमहालक्ष्म्यै नम: इदमर्ध्यं स० इति मन्त्रेण षोडशार्ध्यान् दद्यात् । षोडशनमस्कारांश्च कुर्यात् । यस्प स्मृ० । अनेन मया कृतेन पूजनेन श्रीमहालक्ष्मी प्रीयताम् ॥ पूजासाङ्गतासिध्यर्थं ब्राह्मणाय सौभाग्यवायनदानं ब्राह्मणपूजनं च करिष्ये । इदमर्ध्यं० अस्त्व० स्वस्त्यस्तु, दी० । उपायनमिदं तुभ्यं व्रतसम्पूर्णहेतवे । वाणकं द्विजवर्याय सहिरण्यं ददाम्यहम् ॥ इदं सौभाग्यवायनदानं सदक्षिणाकं सताम्बूलं अमुकशर्मणे ब्रा० प्र०, प्र,० । अनेन वायनदानेन श्रीमहालक्ष्मी प्रीयताम् ॥ तत: सायङ्काले पिष्टमय्या महालक्ष्म्या: पञ्चोपचारपूजां कृत्वा, मधुकै: शङ्खपुष्पैश्च शतपत्रैर्विचित्रिताग् । पुष्पमालां प्रयच्छामि गुहाण परमेश्वरि ॥ इति पुष्पमालां समर्प्य, घटं धूपयित्वा, दोरकं बामकरं बध्वा प्रार्थयेत्-स्तुतिभि: सह दिव्याभि: सहितं नर्तितं मया । नृत्यं सकल्पितं भक्त्या गृहाण परमेश्वरि ॥ घटध्मानं निशीथपर्यन्तं कुर्यु: । तत: प्रात: पञ्चोपचारपूजां कृत्वा दधिभक्तनैवेद्यं समर्प्य यान्तुदेवेतिविसृज्य, प्रतिमां शिलाश्च नद्यां क्षिपेयु: । दोरकमुत्तार्य संरक्ष्य स्थापयेयु: । यस्प स्मृत्या० । अनेन घटध्मानमहालक्ष्मीव्रताख्येन कर्मणा महालक्ष्मी प्रीयताम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP