TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

आश्विनमास: - उपाङ्गललिताकथा

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


उपाङ्गललिताकथा
सूत उवाच । पुरा कैलासशिखरे महर्षिगणसेविते । षडाननं सुखासीनमिदमूचुर्महर्षय: ॥ ऋषय ऊचु: ॥ महासेन महादेव नन्दनानन्दविक्रम । आख्यानानि सुपुण्यानि श्रुतानि त्वत्प्रसादत: ॥ कथास्त्वद्वचनादेव प्रसूता भूरि भूतय: । न तृप्तिमधिगच्छाम:पायं पायं सुधामिव ॥ शुश्रूषबो वयं देव्या व्रतं तत्कथयस्व न: । मनोऽभिलषितार्थानां सिद्धिर्यस्मिन्कृते भवेत्‌ ॥ स्कन्द उवाच ॥ साधु पृष्टं महादेव्या माहात्म्यं मुनिपङ्गवा: । वच्मि सर्वं विधानेन तच्छणुध्वं जगद्धितम्‌ ॥ भृगुक्षेत्रे किल पुरा विप्रोऽभूद गौतमाभिध: । श्रूतिस्मृतिपुराणज्ञो धनी च बहु बान्धव: ॥ अनपत्यस्य तस्याथ जज्ञाते जरस:सुतौ । श्रीपतिर्गोपतिश्चैव नामनी विदधे तयो: ॥ अचिरेणैव कालेन स पञ्चत्वमगाद द्विज: । तौ तु बालौ धनं बन्धून् हित्वा सा धर्मचारिणी ॥ सती विवेश दहनं स्वर्यातुं पतिना सह । अथ ते बान्धवा: सर्वे हा कष्टमिति चुक्रुशु: ॥ निन्दितो दुःखिताश्चकुस्तत्क्रियां पारलौकिकीम्‌ । अथ तस्य सपत्नोऽभूद्‌ भ्राता स जगृहे पनम्‌ ॥१०॥
आक्रोशन्तौ च तौ गेहं निजमानीय दुर्मना: । नास्ति चक्रे धनं सर्वं ताभ्यां किञ्चिन्न वै ददौ ॥ ततो मौञ्जीधरौ बालौ बन्धुभि: कथितं वसु । ययाचतु: पितृव्यं तं देहि नो द्रविणं हि तत्‌ ॥ स तावूचे गतं द्र्व्यं युवां केन प्रतारितौ । निर्गच्छतां मम गृहादित्यादि परुषं बहु ॥ तौ तद्वचोभिर्निर्विण्णौ बालौ श्रीपतिगोपती । बभाषाते मिथ: कष्टं धिगहो पितृहीनता ॥ यावो देशान्तरं यत्र स्वजनो नास्ति कश्चन । अनाभाष्यैव स्वजनान्‌ जग्मतुर्दिशमुत्तराम्‌ ॥ भिक्षाचारौ बहून्‌ देशान्‌ वनानि सरितो गिरीन्‌ । समतिक्रम्य ययतुर्विशालां नामत: पुरीम्‌ ॥ कासारमीक्षां चक्राते ततो स्या: सन्निधौ शुभम्‌ । पुण्डरीकबनाकीर्णं रक्तसन्ध्याविभूषितम्‌ ॥ सन्ध्याभ्रभृषितं चारु यथा तारकितं नम: । श्रान्तौ पथि गतौ बालौ क्षणं विश्रम्य तत्तटे ॥ आचम्य शिशिरं तोयं सस्नतुस्तौ यथाविधि । गताघ्वखेदौ विप्राग्रयौ पुरं प्राविशतां तत: ॥ वीथी चतुष्पथयुतं चारगोपुरमण्डितम्‌ । देवतागाररुचिरसौधराजिविराजितम्‌ ॥२०॥
नानावीथीरतिक्रम्य विप्रावासमवापुत: । कस्यचित्त्वथ विप्रस्य क्षुत्त्पिपासार्दितौ गृहम्‌ ॥ ईयतुर्वेदिकायां तावुपविष्टौ श्रमातुरौ । स्वामी ततोऽस्य गेहस्य विवेक इति विश्रुत: ॥ आयातौ वैश्वदेवान्ते स ददर्शातिथी द्विजौ । अनापृच्छंस्तथा शीलं तथा च कुलनामनी ॥ अषिवत्पूजयामास स्मरन्धर्मं सनातनम्‌ । अतिथी भोजयामास स्वाद्वन्नं सह चात्मना ॥ तौ ब्रह्मचारिणौ विप्रौ सपर्यान्तां बिलोक्य च । देशबन्धुपरित्यागखेदमुक्तौ बभूवतु: ॥ अथापृच्छद द्विजस्तौ तु कौ युवां कुत आगतौ । क्रिमर्थमल्पवयसौ निर्गतौ स्वगृहादिति ॥ तद्विवेकत्य वचनमाकर्ण्य श्रीपतिस्तदा । आनुपूर्वेण सकलं वृत्तान्तं समभाषत ॥ पितृहीनौ च तौ ज्ञात्वा त्यक्तौ बन्धुजनेन च । आश्वास्य स्थापयामास स्वगृहे बहुवासरम्‌ प्रचक्रमेऽथ शिष्यैश्च सहाध्यापयितुं श्रुतिम्‌ । बभूवतुश्च तौ बालौ गुरुशुश्रुषणे रतौ ॥ गुरोर्गेहे न्यवसतामागता निर्मला शरम्‌ । फुल्लपद्मविशालाक्षी प्रसन्नेन्दुशुभानना ॥३०॥
तस्यां सशिष्यमाचार्यं चरन्तं व्रतमुत्तमम्‌ । पप्रच्छतुर्भो किमिदमावाभ्यामिति कथ्यताम्‌ ॥ ताभ्यामेवं कृते प्रश्ने विवेक इदमव्रवीत्‌ । विवेक उवाच ॥ उपाङ्गललितादेव्या व्रतं देवर्षिपूजितम्‌ ॥ सर्वकामकरं नृणामस्माभि: समुपास्यते । विद्याकामेन कर्तव्यं तथैव धनकाम्यया ॥ सुतार्धिना प्रकर्तव्यं व्रतमेतदनुत्तमम्‌ । विद्याकामौ च तौ बालौ व्रतमाचरतुर्मुदा । भक्तितो गुर्वनुज्ञातौ यथाशक्ति यथाविधि । व्रतप्रसादात्सकलं वेदशास्त्रमवापतु: ॥ अन्यस्मिन्‌ हायने भक्त्या विवाहार्थं प्रचक्रतु: । श्रीपतिर्गोपतिश्चैव व्रतमेतत्तपोधना: व्रतमेतत्तपोधना: ॥ अचिरेणैव कालंन मासिमाधे तयांर्गुरु: । स्वां विवाहोचितां कन्यां नाम्ना गुणवतीमिति ॥ विनीताय श्रुतवते यूने श्रीपतये तदा । विचार्य बान्धवै:साकं ददौ पुण्यर्क्षवासरे ॥ पारिबर्हं बहु मुदा प्रादाद दुहितृवत्सल: विवेकोऽपि मुदं लेभे सानुरागौ विलीक्य तौ । अन्याब्दे पुनरेतत्तु व्रतं देव्याश्च चक्रतु: । भ्रातरौ तौ निजं देशमिच्छन्तौ च धनादिकम्‌ ॥४०॥
अथान्येऽहनि कस्मिंश्चित्तावुपाध्यायमूचतु: । स्वामिन्युष्मत्प्रसादेन लब्धविद्यौ तथा वसु ॥ अनुजानीहि गच्छावो निजं देशमित: पुन: । इत्याकर्ण्य समालोक्य शुभ वासरमाद्दत: ॥ स्वयं प्रापयितुं तां तौ विप्रौ कन्यां च निर्ययौ । अथ देव्या: प्रसादेन पितृव्यस्य तयो: किल ॥ अन्वेषणे मतिर्जाता गतौ श्रीपतिगोपती । निर्गतौ क्व गतौ देशं वसत: क्वेत्यचिन्तयत्‌ ॥ लोक निन्दन्ति मां नित्यं जाता अन्वेषणे मति: दिद्दक्षुस्तौ तत: सोऽपि निर्जगाम निजात्पुरात्‌ ॥ किञ्चित्स नगरं प्राप द्विजबालौ गवेषयन्‌ । तदेव नगरं प्राप्तो विवेकाख्यो द्विजोत्तम: ॥ सशिष्य: कन्यया सार्धं क्रमन्मार्गं शनै: शनै: । तत्र तेषां समजनि सङ्गमो मुनिपुङ्गवा: ॥ विदाञ्चकार तौ कृच्छान्मध्यमे वयसि स्थितौ । मूर्ध्न्यवघ्राय तौ पश्चान्मुदं लेभे परन्तपा: ॥ न शक्नुवन्मुदा वक्तुं प्रेमगदगदया गिरा । पादानतां गुणवतीं विवेकेन प्रणोदिताम्‌ ॥ आशीर्वादैर्बहुविधैस्तां स्नुषां समयोजयत्‌ । विवेकस्तु तदा तत्र सम्भाष्य च परस्परम्‌ ॥५०॥
विवेक उवाच ॥ सुतावेतौ मया विप्र पालितौ पाठितौ तव । सम्प्रापयितुं प्रयातोऽस्मि भवतां ग्राममुत्तमम्‌ ॥ इति सम्भाष्यमाणास्ते भृगुक्षेत्रं ययुर्मुदा । ज्ञातिभि: सह सङ्गम्य श्रृण्वद्भिस्तद्विचेष्ठितम्‌ ॥ तौ पितृव्यगृहे स्थित्वा हायनान्यष्ठ सप्त च । स्वपितृव्यगृहे कांश्चिदुषित्वा दिवसांस्तदा ॥ लब्ध्वा पितृधनं गेहं सर्वं श्रीपतिगोपती । ईयतुस्तदनुज्ञातो विवेक: स्वां पुरी ययौ ॥ श्रीपतिर्गोपतेस्तत्र विवाहमकरोत्तदा । तावेकचेतसौ सत्रं चक्रतुर्द्विजतर्पणम्‌ ॥ श्रीपति: श्रद्धया युक्त: कनीयान्व्ययशङ्कित: । विचार्य भार्यया साकं विभक्त: श्रीपतेरभूत्‌ ॥ स भोगान्विविधान्‌ भुञ्जन्प्रमत्तो बहु सम्पदा । न देव्याराधनं चक्रे गोपति: सुखलम्पट: ॥ अथ स्वल्पेन कालेन नष्टं तस्य शनैर्धनम्‌ । अकिञ्चनो गतश्चिन्तां भार्ययाऽऽश्वासितस्तदा ॥ तव भ्रातृगृहे विप्राभुञ्जते बहव: सदा । गच्छावोऽनुदिनं कान्त तत्र भोक्तुमुभावपि ॥ एवं भोजनवेलायामागत्यागत्य तद्‌गहम्‌ । भुञ्जन्‌ भुञ्जन्‌ निजगृहे गतौ तौ बहुवासरम्‌ ॥६०॥
कदाचिदागतो यावद गोपतिर्भार्यया सह । उपविष्टेषु विप्रेषु भोक्तुं गोविन्ददासनम्‌ ॥ अथान्नराशेरभ्याशे भोजनाय क्षुधातुर: । उपविष्ट: श्रीपतेस्तु भार्यया स निवारित: ॥ अस्मादुत्तिष्ठ वै तूर्णं त्वमुच्छिष्टं करिष्यसि । तिष्ठ तिष्ठ क्षणं चैव पश्चाद्‌ भुङ्क्ष्वेति साऽब्रवीत्‌ ॥ गोपते: कान्तया द्दष्टं ततो विमनसावुभौ । अभुक्तावेव निष्कान्तौ जग्मतुर्निजमन्दिरम्‌ ॥ तत: स्वजायां प्रोवाच निजमार्गं विचन्तयन्‌ । आत्रा मया समं वित्तं संविभक्तमपि प्रिये ॥ दुर्बलोऽहं धनोन्मत्त: श्रूयतामत्र कारणम्‌ । पुराऽऽवाभ्यां गुरुगृहे व्रतमाचरितं शुभम्‌ ॥ उपाङ्गललितादेव्या विद्यादिसकलं तत: । प्राप्तं मया तत्सकलं परित्यक्तं प्रमादत: ॥ ज्येष्ठ आचरते नित्यं तस्माच्छीस्तत्र वर्तते । तस्मादहं तदा भोक्ष्ये यदा द्रक्ष्यामि तां शिवाम्‌ ॥ इत्युक्त्वा निर्गतस्तस्माद्‌ गृहादकृतभोजन: । तद्भार्या चिन्तयाविष्टा सापि तस्थावनश्नती ॥ भुक्तवत्सु ब्राह्मणेषु श्रीपति: पर्यपृच्छत । क्व गतो गोपतिरिति तच्छुत्वा सोऽपि दुःखित: ॥७०॥
गोपतिस्तु सरिद दुर्गं वनानि बहुशो भ्रमन्‌ । पृच्छंश्च पथिकान्मार्गे न देव्या: पदमभ्यगात्‌ ॥ पञ्चमे वासरे प्राप्ते क्षुत्पिपासार्दितो वने । अलब्धदर्शनो देव्या दुःखितो निपपात ह ॥ तं कृच्छगतमालोक्य भवानी भक्तवत्सला । कृतापराधमपि तमनुजग्राह वै तदा ॥ गतमूर्च्छ: समुत्थाय दिगन्तान्प्रविलोकयन्‌ । ददर्श दूरतो गोपं चारयन्तं गवां गणम्‌ ॥ तं द्दष्ट्वा किञ्चिदाश्वस्तो ययौ तस्यान्तिकं शनै: । अपृच्छत्क्व भवान्यात: कुत्रत्य: कुत आगत: ॥ कोऽयं देश: क्व भूपाल:किं पुरं नाम तद्वद । निशम्य वचनं तस्य वक्तुं गोप: प्रचक्रमे ॥ गोप उवाच ॥ उपाङ्गं नाम नगरमुपाङ्गो नाम भूपति: । तत्र्त्योऽहं समायात:पुनस्तत्र व्रजाम्यहम्‌ ॥ उपाङ्गललिता देव्या विद्यते तत्र मन्दिरम्‌ । इत्याकर्ण्य वचस्तस्य विप्र: समुदितोऽभवत्‌ ॥ स गोपसहित: सायं विचरन्प्रविवेश ह । दूराद्ददर्श भवनं पुरमध्ये तपोधना: ॥ उपाङ्गललितादेव्या: स्फाटिकं गगनलिहम्‌ । सौवर्णेन विचित्रेण कलशेनोपशोभितम्‌ ॥८०॥
यथोदयाचल: शैलो दधानो भानुमण्डलम्‌ । त्वरितो गोपमामन्त्र्य प्रासादं स ययौ मुदा ॥ प्रणम्य दण्डवद भूमौ बद्धाञ्जलिपुटस्तदा । उपाङललितां देवीमध स्तोतुं प्रचक्रमे । गोपतिरुवाच ॥ नमस्तुभ्यं जगद्धात्रि भक्तानां हितकारिणि । जगद्भीतिविनाशिन्यै सर्वमङ्गलमूर्तये ॥ हत्वा निशुम्भमहिषप्रभृतीन्‌ सुरारीनिन्द्रादयो निजपदेषु यथा भिषिक्ता: । लोकत्रयावनगृहीतमहावतारे मात: प्रसीद सततं कुरु मेऽनुकम्पाम्‌ ॥ त्वां मुक्तये निजजना: कुटिलीकृताङ्गी गौरी निजे वपुषि कुण्डलिनीं भजन्ति । मुक्तौ च देवमनुजा: कनकारविन्दबद्धासनामविरतं कमलां स्तुवन्ति ॥ सापराधोऽस्मि सततं प्राप्तस्त्वां जगदम्बिके । इदानीमनुकम्प्योऽहं यद्वाञ्छामि कुरुष्व तत्‌ ॥ इति स्तुत्वाथ शर्वाणी प्रणिपत्य पुन:पुन: । कृतसन्घ्याविधिस्तत्र सुष्वापाकृतभोजन: ॥ स्वप्ने मूर्तिमयी देवी विप्रमेवं समादिशत्‌ । गोपते वत्स तुष्टास्मि गच्छोपाङ्गमहीपतिम्‌ ॥ मत्पूजनकरण्डस्य प्रार्थय स्वपिधानकम्‌ । तत्पूजय निजगृहे परामृद्धिमवाप्स्यसि ॥ स्वप्न इत्याप्तसन्देश: प्रभाते गोपतिस्तदा । राजदर्शनवेलायां नृपद्वारं समभ्यगात्‌ ॥९०॥
प्रविष्टोऽसौ नृपसभां प्रतीहारैर्निवेदित: । राज्ञा सम्भावितस्तत्र निषसादासने शुभे ॥ पृष्टो गमनहेतूंश्च ययाचे नृपपुङ्गवंम्‌ । देव्यर्चनकरण्डस्य पिधानं देहि मे नृप ॥ इत्यर्थित: स विप्रेण जातादेशो नृपो ददौ । पिधानकं नमस्कृत्य तस्मै चाभ्यर्चनादिकम् ॥ आशीर्भिरभिनन्द्याथ तमामन्त्र्य च भूपतिम्‌ । उपाङ्गललितादेव्या: प्रासादं पुनरागमत्‌ ॥ प्रणिपत्याम्बिकां विप्रस्त्वरितो निर्ययौ पुरात्‌ । समीपे स्वपुरें द्दष्ट्वा हृष्टो गृहमुपागमत्‌ ॥ सुहृद्भि: सह सङ्गम्य सर्वं तत्कथयन्मुदा । पूजयित्वा पिधानं तद्विदधे पारणं द्विज: ॥ एवमाराध्यमानस्तु स समृद्धोऽभवत्पुन: । सोऽपि सत्रं समारेभे द्विजाग्र्यो बहुवासरम्‌ ॥ एका तस्याभवत्कन्या ललिता नाम सुन्दरी । कन्या पिधानमादाय विहर्तुं याति सर्वदा ॥ प्रमत्तत्वात्प्रियत्वाच्च पितृभ्यामनिवारिता । कदाचित्स्ववयस्याभि: स्नातुं गङ्गाजले शुभे ॥ क्रीडन्ती दद्दशे तोये नीयमान कलेवरम्‌ । पिधानहस्ता सा सिञ्चदन्यांश्चाञ्जलिभिस्तदा ॥१००॥
स सर्पदष्ट उत्तस्थौ ततो देव्या: प्रसादत: । सातिश्रान्तं द्विजं द्दष्ट्वा मनसा चिन्तयत्पतिम्‌ ॥ जुहावाभ्यवहाराय जनकस्य निकेतनम्‌ । मार्गे च परिपप्रच्छ कुलं शीलं च तस्य सा ॥ सोऽपि सर्वं समाचख्यौ गुणराशीति नाम च । ललिता मन्त्रयामास गुणराशिं द्विजोत्तमम्‌ ॥ परिविष्टेषु चान्नेषु पितृवेश्मनि मे द्विज । गृहीतापोशनो भूत्वा भार्यार्थं मां त्वमर्थंय ॥ मयानुमोदितस्तात: स मां तुभ्यं प्रदास्यति । तथोक्तो गुणराशिस्तु तथा सर्वं चकार ह ॥ गोपतिर्भार्यया भ्रात्रा स्वमालोक्य स्वबान्धवै: । परिक्षिताय विप्राय विद्यायां कुलशीलयो: ॥ प्रतिजज्ञे तत: कन्यां कलितां गुणशालिने । शुभे मुहूर्ते च तयोर्विवाहं कृतवान्प्रभु: ॥ वराय ब्रह्मणेभ्यश्च ददौ बहु धनं तदा । विदधे च तयोर्गेहंनातिदूरंस्ववेश्मत: ॥ तत्रोषतु: सानुरागौ मिथस्तौ दम्पती चिरम्‌ । पिधानकं तया नीतं निजं ललितया गृहम्‌ ॥ शनैरथ धनं सर्वं गोपतेरगमद्‌ गृहात्‌ । गुणराशिर्धनी जातो महादेव्या: प्रसादत: ॥१०॥ करण्डस्य पिधानं तज्जनन्या बहुवासरम्‌ । याचितापि न वै प्रादाल्ललिता पूजितं गृहे ॥ अथ सा गोपतेर्भार्वा तस्यैवानर्चनाद गतम्‌ । इत्थं विचिन्त्य पापात्मा जामातरमघातयत्‌ ॥ समिदर्थं वनं यात: स्वयं तदगेहमाययौ । शोचन्तीं किल तां कन्यां स तु देव्या: प्रसादत: ॥ उत्थाय विपिनादेत्य भुक्त्वा शेते सुखं गृहे । पादसंवाहनं तस्य कुरुते ललिता तदा ॥ तं द्दष्ट्वा दूःखिता भूमौ प्रणिपत्य पुन: पुन: । लज्जिता कृच्छत: पृष्टा निजपापं न्यवेदयत्‌ ॥ स्कन्द उवाच ॥ गुणराशिस्तदा तस्या: प्रायश्चित्तं ददौ बहु । आत्मानं बहुकालेन पूतं कृच्छैश्चकार ह ॥ श्रीपतेस्त्वचलां लक्ष्मीं समालोक्य तपोधना: । गोपतिस्तु यथापृच्छद भ्रातस्त्वं वर्तसे कथम्‌ ॥ किमाचरसि कल्याणं येन श्रीरनपायिनी । इति तस्य वच: श्रुत्वा श्रीपतिर्विस्मित: पुन: ॥ अस्माभिस्तदव्रतं देव्या यत्कृतं   
गुरुमन्दिरे । सोऽपि देव्या व्रतं चक्रे पुनर्भात्रोपदेशितम्‌ ॥ लेभे स परमामृद्धिं पुत्रांश्च मुदितोऽभवत्‌ । उपाङ्गललितादेव्या: कुर्यादाराधनं तत: ॥२०॥
एवमेतत्पुरावृत्तां माहात्म्यं कथितं मया । कृतमन्यैश्च बहुभिस्तेऽपि लब्धमनोरथा: ॥ स्कन्द उवाच ॥ विधानमस्य वक्ष्येऽहं तच्छृणुध्वं तपोधना: । शुक्लपक्षे तु पञ्चम्यामिषे मासि चरेद्‌ व्रतम्‌ ॥ गर्जितं सन्ध्ययोस्त्याज्यं दिनवृद्धिक्षयौ तथा । निर्वर्त्यावश्याकं कर्म शुची रागविवर्जित: ॥ चत्वारिंशत्तथाष्टौ च कल्पयित्वा विधानत: । दन्तकाष्ठान्युपादाय तडागं वा नदीं व्रजेत्‌ ॥ आयुर्बलं यशो वर्च: प्रजा: पशुवसूनि च । ब्रह्मप्रज्ञां च मेधां च त्कं नो देहि वनस्पते ॥ दन्तधावनपूर्वाणि मज्जनानि समाचरेत्‌ । ततो यथाविधि स्नात्वा शुक्लवासा गृहं व्रजेत्‌ ॥ उपचारै: षोडशभिरेभिर्मन्त्रै: समाहित: । कुर्यात्पूजां प्रयत्नेन दूर्वाभिश्च विशेषत: ॥ शुचौ देशे मण्डपिकां कृत्वातीव मनीहराम्‌ । सौवर्णीं प्रतिमां शक्त्या कल्पयेन्मन्त्रपूर्विकाम्‌ ॥ द्विजाय वाणकं दद्याद्विंशत्यावटकादिभि: । तत: कथां समाकर्ण्य वाणकान्नस्य सङख्यया ॥ स्वयमद्यात्तदेवान्नं वाग्यत: सह बान्धवै: । रात्रौ जागरणं कुर्यान्नृत्यगीतादिमङ्गलै: ॥३०॥
प्रभाते पूजयेद्देवी तत: कुर्याद्विसर्जनम्‌ । सवाहना शक्तियुता वरदा पूजिता मया ॥ मातर्मामनुगृह्याथ गम्यतां निजमन्दिरम्‌ । तामर्चां गुरवे दद्यान्निशि वास्याद्विसर्जनम्‌ ॥ व्रतमेवं च य: कुर्यात्पुत्रवान्धनवान्भवेत्‌ । विद्यावान्रोगनिर्मुक्तो सुखी गोप्ता च जायते ॥ अवैधव्यं च लभते स्त्रीकन्यावरमुत्तमम्‌ । विजयं पुष्टिमायुष्यं यच्चान्यदपि वाञ्छितम्‌ ॥ इत्येतद्‌ व्रतमाख्यातं सेतिहासं महर्षय: । श्रृण्वन्नपि नरो भक्त्या सुखमाप्नोति निश्चितम्‌ ॥ निर्मुक्त: स सुखी धीमान्‌ व्रतराजप्रसादत: । वित्तमारोग्यमायुष्यं प्राप्नोति च प्रसादत: ॥१३६॥
इति श्रीस्कन्दपुराणे स्वामिकार्तिकेयसंवादे उपाङ्गललिताव्रतकथा सम्पूर्णा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:50:55.3170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

नभस्य

  • n. स्वारोचिष मनु का पुत्र । 
RANDOM WORD

Did you know?

विविध पूजा अथवा होम प्रसंगी स्त्रीने पुरूषाच्या कोणत्या अंगास बसावे आणि हाताला हात कां लावावा?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.