TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

त्र्प्राश्विनमास: - देवीनवरात्रारम्भ:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


देवीनवरात्रारम्भ:
॥ तत्र शुक्लप्रतिपदि देवीनवरात्रारम्भ: ॥

सा च प्रतिपत्सूर्योदयव्यापिनी द्विमुहूर्तापि परैव ग्राह्येति सकलसिद्धान्त: । दिनद्वये उदयव्यापिन्यां पुर्णत्वात्पूर्वैव । अत्र चित्रावैधृती त्याज्ये । अपरिहार्ये तु तयो: प्रथम: पादस्त्याज्य:, तस्याप्यसम्भवेऽभिजिन्मुहूर्ते कलशस्थापनादि कार्यम् । अस्मिन्नवरात्रे देवीपूजनमुपवासो नक्तमेकभक्तायाचितान्यतमनियम:, अखण्डघृततैलदीपप्रज्वालनं पुष्पमालाबन्धनं कुमारीपूजनं सप्तशतीपाठ: सुवासिनीकुमारिकाब्राह्मण भोजनमित्यादीन्यनेकानि कर्माणि विहितानि तथापि स्वकृलाचारानुसारेणैव तेषामनुष्ठानम् ॥ अथ प्रयोग: ॥
प्रतिपदि यजमान: कर्माङ्गत्वेनाभ्यङ्गस्नानं विधाय धौतवस्त्रं परिधाय कुङ्कुमचन्दनादिना धृतपुणङ्र: स्वासने सपत्नीक उपविश्य, आचम्य प्राणानायम्य, देशकालौ स्मृत्वा, अमुकगोत्रोत्पन्नस्य अमुकशर्मण: मम सकुटुम्बस्य सपरिवारस्य क्षेमस्थैर्यआयुरारोग्यदीर्धायुर्विपुलधनधान्यपुत्रपौत्राद्यनवच्छिन्नसन्ततिवृद्धिस्थिरलक्ष्मीकीर्तिलाभशत्रुपराजयसदभीष्टसिद्धयर्थं महाकालीमहालक्ष्मीमहासरस्वतीकुलदेवताप्रीत्यर्थं अद्य प्रतिपत्‌प्रभृतिमहानबमीपर्यन्तं प्रत्यहं दुर्गापूजनं मालाबन्धनं अखण्डदीपप्रज्वालनं, कुमारीपूजनं, खङ्गपूजनं, सप्तशतीपाठ: इत्यादि स्वकुलाचारप्राप्तमुद्दिश्य एवमादि शारदनवरात्रोत्सवाख्यं कर्म करिष्ये । अपूर्वारम्भे तु गणपतिपूजनादिनान्दीश्राद्धान्तं कुर्यात् तत्रादौ शारदनवरात्रोत्सवाङ्गभूतं श्रीमहाकालीमहालक्ष्मीमहासरस्वतीकुलदेवताप्रीत्यर्थं यथामिलितषोडशोपचारद्रव्यै: पुरुषसूक्तने श्रीसूक्तने पुराणोक्तमन्त्रैश्च पूजनमहं करिष्ये । आदौ निर्विघ्नतासिध्यर्थं महागणपतिपूजनं आसनविधिं षडङ्गन्यासान् कलशशङ्खघणटापूजं च करिष्ये । गणानांत्वेति गणपतिं सम्पूज्य, वक्रतुणड० । अनया पू० । आसनविधि: । पृथ्वित्व० । अपस० । अपक्रा० । तीक्ष्णदं० । वामपादेन भूमिं त्रिस्ताडयेत् ।

॥ षडङ्गन्यास: ॥

१. यत्पुरुषं० हृदयाय नम: ।
२. ब्राह्मणोस्य० शिरसे स्वाहा ।
३. चन्द्रमा० शिखायैवषट् ।
४. नाभ्याआ० कवचायहुम् ।
५. सप्तास्या० नेत्रत्रयाय० ।
६. यज्ञेन० भस्त्रायफट् ।

कलशस्य मु० कलशं सम्पूज्य, शङ्खं घण्टां च पूजयेत् । अपवित्र: प० पूजाद्रव्याणि प्रोक्षेत् । देवतापूजाङ्गत्वेन घटस्थापनं करिष्ये । महीद्यौरित्यादिना भृमिं प्रार्थ्य, स्योनापृथि० अङ्कुरारोपणार्थं मृदं निक्षिप्य वेर्दि कुर्यात् । येनतोकाय० वेद्यां यवादिधान्यानि क्षिपेत् ।
द्दळ्‌हाचिद्या० इति प्रार्थ्यं, पर्जन्याय० इति सूक्तेन उदकं प्रोक्ष्य, आकलशेष्वित्यादिना घटस्थापनादिपूर्णपात्रनिधानान्तं कृत्वा वरुणं सम्पूजयेत् ।
शारदनवरात्रोत्सवाङ्गत्वेन कुलदेवतास्थापनपूजनं च करिष्ये । तण्डुनोपरि अष्टदलं विलिख्य,  तदुपरि नूतनां देवीं प्रतिमां जीर्णां वा मूर्तिं संस्थाप्य, आवाहयेत् । नूतनमूर्त्तिकरणे अग्न्युत्तारणं कुर्यात् । सहस्र० । हिरण्यवर्णां० । आगच्छ वरदे देवि दैत्यदर्पनिषूदनि । पूजां गृहाण सुमुखि नमस्ते शङ्करप्रिये ॥ सर्वतीर्थमयं वारि सर्वदेवसमन्वितम् । इमं घटं समागच्छ तिष्ठ देवि गणै: सह ॥ दुर्गे देवि समागच्छ सान्निध्यमिह कल्पय । बलिं पूजां गृहाण त्वमष्टभि: शक्तिभि: सह ॥ जयन्ती मं० ॥ श्रीमहाकालीमहालक्ष्मीमहासरस्वतीरूपकुलदेवतायै नम: देवतां साङ्गां सपरिवारां सायुधां सशक्तिकां आवाहयामि ॥ पुरुष० । तांमआ० । नानाप्रभासमाकीर्णं नानावर्णविचित्रितम् । आसनं कल्पितं देवि प्रीत्यर्थं तव गृह्यताम् ॥ आसनं० ॥ एतावा० । अश्वपूर्वां० ॥ गङ्गादिसर्वतीथेंभ्य आनीतं तोयमुत्तमम् । पाद्यं तेऽहं प्रदास्यामि गृहाण प० ॥ पाद्यं० ॥ त्रिपादू० । कांसोस्मि० । गन्धाक्षतैश्च संयुक्तं फलपुष्पयुतं तव । अर्ध्यं गृहाण दत्तं मे प्रसीद पर० ॥ अर्ध्यं० ॥ तस्माद्वि० । चन्द्राप्र० ।
गङ्गा गोदावरी चैव यमुना च सरस्वती ॥ ताभ्य आचमनीयार्थमानीतं तोयमुत्तमम् ॥ आचमनीयं० ॥ पञ्चामृतं मयाऽऽनीतं पयो दघि घृतं मधु । शर्करासहितं देवि स्नानार्थं प्रतिगृह्यताम् ॥ आप्यायस्व० ॥ दधिक्राव्णो० ॥ घृतंमि० ॥ मधुवाता० ॥ स्वादुःप० इति पञ्चभिर्मन्त्रै: पञ्चामृतस्नानं स० ॥ यत्पुरुषे० । आदित्य० । ज्ञानमूर्ते भद्रकालि दिव्यमूर्ते सुरेश्वरि । स्नानं गृहाण देवि त्वं नारायणि नमोऽस्तु ते ॥ स्नानं० । कनिक्रद० ॥ अभ्यङ्गार्थं मयाऽऽनीतं तैलं पुष्पादिवासितम् । प्रयत्नेनार्जितं शुद्धं स्नानार्थं प्र० ॥ सुगन्धतैलस्नानं० ॥ आङ्गोद्वर्तनकं देवि कस्तूर्या कुङ्कुमेन च । अन्यै: सुगन्धद्रव्यैश्च निर्मितं प्र० ॥ अङ्गोद्वर्तनं० ॥ नानातीर्थादाहृतं च तोयमुष्णं मया कृतम् । स्नानार्थं च मया दत्तं गृ० ॥ उष्णोदकस्नानं० ॥ स्नानानन्तरंण आचमनीयं० ॥ नाममन्त्रेण पञ्चोपचारपूजां कृत्वा, पुरुषसूक्तेन लक्ष्मीसूक्तेनाभिषेक: । तंयज्ञं० । उपैतु० । सूक्ष्मतन्तुमयं दिव्यं नानावर्णविचित्रितम् । वस्त्रं गृहाण भो देवि प्रीत्यर्थं चार्पितं मया ॥ वस्त्रं० ॥ तस्माद्य० सं० । क्षुत्पिपा० । मुक्तामणिगणोपेतामनर्ध्यां च सुखप्रदाम् । कञ्चुकीं ते सुखस्पर्शां ददामि हरिवल्लभे ॥ कञ्चुकीं० ॥ कण्ठसूत्रं ताडपत्रं हरिद्रां कुङ्कुमाञ्जनम् । सिन्दूरादि प्रदास्पामि सौभाग्यं देहिमेऽव्ययम् ॥ अहिरिव० ॥ सौभाग्यद्रव्यं नानापरिमलद्रव्यं स० ॥ हारकङ्कणकेयूरमेखलाकुण्डलानि च । रत्नाढयं मुकुटोपेतं भूषणानि प्रगृ० ॥ आभूषणानि स० ॥ तस्मा० ऋ० ॥ गन्धद्वा० ॥ मलयाद्रिसमुद्‍भूतं कर्पूरागरुवासितम् । मया निवेदितं भक्त्या चन्दनं प्रतिगृ० ॥ चन्दनं० ॥ अक्षताश्च० अक्षतान् स० ॥ तस्माद० । मनस:का० । मन्दारपारिजाताश्च पाटलं केतकी तथा । मारुतं मोगरं चैव शतपत्राणि चम्पकम् ॥ पुष्पाणि स० ॥

॥ अथाङ्गपूजा ॥

१. दुर्गायै नम: पादौ पू० ।
२. महाकाल्यै० गुल्फौ० ।
३. मङ्गलायै० जानुनी० ।
४. कात्यायन्यै० उरू पू० ।
५. भद्रकाल्यै० कटी पू० ।
६. कमलायै० नाभिं पू० ।
७. शिवायै नम: उदरं पू० ।
८. क्षमायै न० हृदयं पू ० ।
९. स्कन्दायै न० कण्ठं पू० ।
१०. महिषासुरमर्दिन्यै० नेत्रे पूजयामि ।
११. उमायै० शिर: पू० ।
१२. विन्ध्यवासिन्यै० सर्वाङ्गंप०

यत्पुरु० । कर्दमेन० । वनस्पत्युद्भवं देवि धूपगन्धाभिशोभनम् । जगन्नाथे प्रयच्छामि कृपया मिश्रितं सदा ॥ धूपमा० ॥ ब्राह्मणो० । आपासृ० । आज्यं च वर्ति० दीपं द० ॥ चंद्रमा० ॥ आर्द्रांपु० । अन्नं चतु० नैवेद्यं० ॥ आचमनीयं० ॥ उत्तरा० । हस्तप्र० । मुखप्र० । मलयाचलसम्भूतं कस्तूर्या च समन्वितम् । करोद्वर्तनकं देवि गृहाण प० ॥ करोद्वर्तनं० ॥ इदं फलं म० नानाविधफलानि स० ॥ पूगीफलं म० ताम्बूलं० ॥ हिरण्यगर्भ० दक्षिणां० ॥ श्रियेजात: श्रि० ॥ याज्यया० ।
आर्तिक्यदीपं स० । नाभ्याआ० । आर्द्रांयष्क० । यानि कानि० प्रदक्षिणां० ॥ सप्तास्या० । तांमआ० । नमस्ते सर्वलोकेशि नमो भक्तजनप्रिये । जमदग्निप्रिये देवि रक्ष मां शरणागतम्‌ ॥ नमस्कारान्‌ स० ॥ यज्ञेन० । य: शुचि:० ॥ पारिजातादिजातीयं नानाकुसुमसञ्चयम्‌ । अर्पयेऽनल्पसंसिध्यै पूजासम्पूणताकृते ॥ पुष्पाञ्जलिं० ॥ अश्वदायैगोदायै० । मन्त्रहीनं० ॥ महिषघ्नि महामाये चामुण्डे मुण्डमालिनि । यशो देहि धनं देहि सर्वान्कामांश्च देहि मे ॥ प्रार्थयामि ॥
तत: अखण्डदीपं स्थाप्य प्रज्वालयेत्‌ । दीपं गन्धाक्षतपुष्पै: सम्पूज्य, नवोनवोभ० । अखण्डदीपकं देव्या: प्रीतये नवरात्रकम्‌ । उज्वालये ह्यहोरात्रमेकचित्तो धृत व्रत: ॥ इति मन्त्रेण दीपं अर्पयेत्‌ ।
प्रत्यहं पुष्पमालाबन्धनमन्त्र: । पुष्पमालां शुभां रम्यामर्पयामि सुरेश्चरि । प्रीता भव गृहाणेमां प्रथमे दिवसेऽम्बिके ॥ द्वितीयादिदिने तु द्वितीये दिवसे, तृतीये दिवसे, इत्याद्यूह: कार्य: ।
कुमारीपूजनपक्षे तु अद्य०र्थं श्रीमहाकालीमहालक्ष्मीमहासरस्वतीश्रीकुलदेवताप्रीत्यर्थं कुमारीपूजनं करिष्ये । कुमारीमाहूय, मन्त्राक्षरमयीं लक्ष्मीं मातृणां रूपधारिणीम्‌ । नवदुर्गात्मिकां साक्षात्‌ कन्यामावाहयाम्यहम् ॥ इत्यावाह्य, जगत्पूज्ये जगद्वन्द्ये सर्वशक्तिस्वरूपिणि पूजां गृहाण कौमारि जगन्मातर्नमोऽस्तु ते ॥ इति मन्त्रेण तस्या: हस्तौ पादौ प्रक्षाल्य कुङ्कुमादिना लेपयित्वा, सौभाग्यद्रव्यालङ्क्रारकञ्चुकीवस्त्रगन्धपुष्पफलताम्बूलादिभि: सम्पूज्य, नानाविधैर्भक्ष्यभोज्यै: पायसादिभिर्भोजयेत्‌ ।
सप्तशतीपाठकरणपक्षे अद्य०र्थं श्रीम०र्थं, शुक्लप्रतिपदमारभ्य नवमी अथवा दशमीपर्यन्तं प्रत्यहं ब्राह्मणद्वारा सप्तशतीपाठं करिष्ये । तदङ्गत्वेन ब्राह्मणवरणं पूजनं च करिष्ये । यजमान:, अमुकप्रवरान्वितअमुकगोत्रोत्पन्न: अमुकशर्माहं, अमुकप्रवरान्वितामुकगोत्रोत्पन्नं अमुकशर्माणं ब्राह्मणं अद्य प्रतिपत्प्रभृतिनवमीपर्यन्तं प्रत्यहं कव चार्गलाकीलकरहस्यत्रयसहिताष्टोत्तरशतसङख्याकनवार्णमन्त्रसम्पुटितरात्रिसूक्तदेवीसूक्तसम्पुटितसप्तशतीस्त्रीत्रैकावृत्तिपाठार्थं त्वां वृणे । वृतोऽस्मीति विप्र: । गन्धा: पान्तु इत्यादिना ब्राह्मणं सम्पूजयेत्‌ । यस्य स्मृत्वा० । अनेन मया कृतेन नवरात्रोत्सवाङ्गपूजनेन श्रीमहा० कुलदेवता प्रीयताम्‌ ॥
एवं प्रत्यहं यथाकुलाचारं पूजनादिविहितं सर्वं कुर्यात्‌ । एकस्मिन्‌ दिने द्वयोस्तिथ्यो: सन्निपाते तन्त्रेणोपवास:, पूजनादिकं भेदेन । तिथिवृद्धौ तत्तिथिनिमित्तकोपवासादिसर्वं दिनद्वयेऽपि कार्यम्‌ । अत्र सुवासिनीनामुपवासे गन्धताम्बूलादिग्रहणे न दोष: ॥ इति नवरात्रपूजाविधि: ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:50:55.2230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

उपाशी अन् आटेगळ

  • उपवास पडण्याइतके दारिद्र्य़ असूनहि आढ्यतेनें वागणारा. 
RANDOM WORD

Did you know?

एखाद्या वास्तुला वास्तुशास्त्रानुसार कोणतेच उपाय नसल्यास, मग कांहीे उपाय आहे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.