TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

ज्येष्ठमास: - सावित्रीकथाप्रारम्भ:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


सावित्रीकथाप्रारम्भ:
॥ अथ सावित्रीकथाप्रारम्भ: ॥

सनत्कुमार उवाच । कुलस्त्रीणां व्रतं देव महाभाग्यं तथैव च । अवैधव्यकरं स्त्रीणां पुत्रपौत्रप्रदायकम्‌ ॥ ईश्वर उवाच । आसीन्मद्रषु धर्मात्मा ज्ञानी परमधार्मिक: । नाम्ना चाश्चपतिर्वीरो वेदवेदाङ्गपारग: ॥ अनपत्यो महाबाहु: सर्वैश्वर्यसमन्वित: । सपत्नीकस्तपस्तेपे समाराधयते नृप: ॥ सावित्री च प्रसावित्रीं जपन्नास्ते महामना: । जुहोति चैव सावित्रीं भक्त्या परमया युत: ॥ ततस्तुष्टा तु सावित्री सा देवी द्विजसत्तम ॥ सा विग्रहवती देवी तस्य दर्शनमागता ॥ भूर्भुव:स्वरिवेत्येषा साक्षसूत्रकमण्डलु: । तां तु द्दष्टवा जगद्वन्द्यां सावित्रीं च नृपोत्तम: ॥ प्रणिपत्य नृपो भक्त्या प्रहृष्टेनान्तरात्मना । तं द्दष्टवा पतितं भूमौ तुष्टा देवी जगाद हा ॥ सावित्र्युवाच । तुष्ठाऽहं तव राजेन्द्र वरं वरय सुवत । एवमुक्तस्तया राजा प्रसन्नान्तामुवाच ह ॥ अनपत्यो ह्यहं देवि पुत्रमिच्छामि शोभने । नान्यं वृणोमि सावित्रि पुत्रमेव जगन्मये ॥ अन्य दस्ति समग्रं मे क्षितौ यच्चपि दुर्लभम्‌ । प्रसादात्तव देवेशि तत्सर्वं विद्यते गृहे ॥ एवमुक्ता तु सा देवी प्रत्युवाच नराधिपम्‌ ॥ सावित्र्युवा०  । पुत्रस्ते नास्ति राजेन्द्र कन्यका ते भविष्यति । कुलद्वयं तु सा राजन्नुद्धरिष्यति भामिनी ॥ मन्माम्ना राजशार्दूल तस्या नाम भविष्यति । इत्युक्त्वा तं मुनिश्रेष्ठ राजानं ब्रह्मण:प्रिया ॥ अन्तर्धानं गता देवी सन्तुष्टोऽसौ महीपति:। तत:कतिपयाहोभिस्तस्य राज्ञी महीभुज: ॥ ससत्वा समजायेत पूर्णे काले सुषावदे । सावित्र्या तुष्टया दत्ता सावित्र्या जप्तया तथा ॥ सावित्री तेन वरदा तस्था नाम बभूव ह । राजते देवगर्भाभा कन्या कमललोचना ॥ तां द्दष्टवा हेमगर्भाभां राजा चिन्तामुपेयिवान्‌ । अयाच्यमानां च वरै रूपेणाप्रतिमा भुवि ॥ तस्या रूपेण ते सर्वे सन्निरुद्धा महीभुज: । तत:स राजा चाहूय उवाच कमलेक्षणाम्‌ ॥ पुत्रिप्रदानकालस्ते न च याचन्ति केचन । स्वयं वरय हृद्यन्ते पर्ति गुणसमन्वितम्‌ ॥ मन:प्रल्हादकरणं शीलेनाभिजनेन च । इत्युक्त्वा तां च राजेन्द्रो वृद्धामात्यै: सहैव तु ॥ वस्त्रालङ्कारसहितां धनरत्नै: समन्विताम्‌ । विसृज्य च क्षणं तत्र यावत्तिष्ठति भूमिप: ॥ तावत्तत्र समागच्छन्नारदो भगवान्‌ ऋषि: । सम्पूज्य च ततो राजा अर्ध्यपाद्येन तं मुनिम्‌ ॥ आसने च सुकासीन: पूजितस्तेन भूभुजा । पूजयित्वा मुनिं राजा प्रोवाचेदं द्विजोत्तमम्‌ ॥ पावितोऽहं त्वया विप्र दर्शनेनाद्य नारद । यावदेवं वदेद्राजा तावत्सा कमलेक्षणा ॥ आश्रमादागता देवी वृद्धामात्यै: समन्तिता । अभिवाद्य पितु: पादौ ववन्दे सा मुनिं तत: ॥ नारदेन तु तुष्ठां तां द्दष्टवा प्रोवाच भूमिपम्‌ । कन्यां च देवगर्भाभां किमर्थं न प्रयच्छसि ॥ वराय त्वं महाबाहो वरयोग्यां हि सुन्दरीम्‌ । एवमुक्तस्तदा तेन मुनिना नृपसत्तम: ॥ उवाच तं मुनिं वाक्यमनेनार्थेन प्रेषिता । आगतेयं विशालाक्षी मया सम्प्रोषिता सती ॥ अनया च वृतो भर्ता पृच्छ त्वं मुनिसत्तम । सा पृष्टा तेन मुनिना तस्मै चाचष्ट भामिनी ॥ सावित्र्यु० । द्युमत्सेनस्य राज्यं वै वैरिणा रुक्मिणा हृतम्‌ । दैवादन्ध: स्त्रीसहित: सत्यवान्‌ तत्सुतो वने ॥ आश्रमे सत्यवान्नाम द्युमत्सेनसुतो मुने । भर्तेति मनसा विप्र वृतोऽसौ राजनन्दन: ॥ नारद उवा० । कष्टं कृतं महाराज दुहित्रा तव सुव्रत । अजानन्त्या वृतो भर्त्ता गुणवानिति विश्रुत: ॥ सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते । स्वयं सत्यं प्रभाषेत सत्यवानिति तेन स: ॥ तथा चाश्वा: प्रियास्तस्य अश्वै: क्रीडति मृन्मयै: । चित्रेऽपि बिलिखत्यश्वान्‌ चित्राश्वस्तेन ओच्यते ॥ रूपवान्‌ गुणवांश्चैब सर्वशास्त्रविशारद: । न तस्य सद्दशो लोके विद्यते चेह मानव: ॥ सर्वैर्गुणैश्च सम्पन्नो रत्नैरिव महार्णव: । एको दोषो महानस्य गुणानावृत्य तिष्टति ॥ संवत्सरेण क्षीणायुर्देहत्यागं करिष्यति ॥ अश्वपतिरु० । अन्यं वरय भद्रं ते वरं सावित्रि गम्यताम्‌ । विवाहस्य तु कालीऽयं वर्तते शुभलोचने ॥ सावित्र्युवा० । नान्यमिच्छाम्यहं तात मनसापि वरं प्रभो । यो मया च वृतो भर्त्ता समेनान्यो भविष्यति ॥ विचिन्त्य मनसा पूर्वं वाचा पश्चात्समुच्चरेत् । क्रियते च तत: पश्चाच्छुभं वा यदि वा शुभम् ॥ तस्मात्पुमांसं मनसा कथं चान्यं वृणोम्यहम्‌ । सकृज्जल्पन्ति राजान: सकृज्जल्पन्ति पण्डिता: ॥ सकृत्कन्या: प्रदीयन्ते त्रीण्येतानि सकृत्सकृत्‌ । पतिं मत्वा न मे बुद्धिर्विचलेच्च कथञ्चन ॥ सगुणो निर्गुणो वापि मूर्ख: पण्डित एव च । दीर्घायुरथवाल्पायु: स वै भर्ता मम प्रभो ॥ नान्यं वृणोमि भर्तारं यदि वा स्याच्छचीपति: । इति मत्वा त्वया तात यत्कर्तव्यं सुखेन च ॥ नारद उवा० । स्थिरा बुद्धिश्च राजेन्द्र सावित्र्या: सत्यवान्प्रति । त्वरयस्व विवाहाय भर्त्रा सह कुरु त्विमान्‌ ॥ ईश्वर उ० । निश्चितां तु मुनिर्ज्ञात्वा स्थिरा बुद्धिश्च निश्चला । सावित्र्याश्च महाराजा प्रतस्थेऽसौ वनं प्रति ॥ गृहीत्वा तु  धनं राजा द्युमत्सेनस्य सन्निधौ । स्वल्पानुगो महाराजो वृद्धामात्यै: समन्वित: ॥ नारदस्तु तत: खे वै तत्रैवान्तरधीयत । स गत्वा राज्यशार्दूली द्युमत्सेनेन सङ्गत: ॥ वृद्धश्चान्धश्च राजाऽसौ वृक्षमूलमुपाश्रित: । नत्वाऽश्वपतिराजाऽसौ पादौ जग्राह वीर्यवान्‌ ॥ स्वनाम च समुच्चार्य तस्थौ तस्य समीपत: । उवाच राजा तं भूपं किमागमनकारणम्‌ ॥ पूजयित्वाऽर्ध्यदानेन वन्यमूलफलैश्च स: । तत: पप्रच्छ कुशलं तं राजा मुनिसत्तम ॥ अश्चपति० । कुशलं दर्शनेनाद्य तव राजन्ममाद्य वै । दुहिता मम सावित्री तव पुत्रमभीप्सति ॥ भर्तारं राजशार्दूलमाप्नोत्वियमनिन्दिता । ममेदंकाङक्षितं पूर्वं भर्तारमनया विभो ॥ आवयोश्चैव सम्बन्धो भवत्वद्य ममेप्सित: ॥ द्युमत्सेन उवा० । वृद्धश्चान्धश्च राजेन्द्र फलमूलाशनो नृप । राज्याच्च्युतश्च मे पुत्रो वन्येनाद्य च जीवति ॥ सा कथं सहते दुःखं दुहिता तव कानने । अनभिज्ञा च दुःखानामित्यहं नाभिकाङक्षये ॥ अश्चपतिरुवा० । अनया च वृतो भतो जानन्त्या राजसत्तम । अनेन सह बासस्ते तव पुत्रेण मानद ॥ स्वर्गतुल्यो महाराज भविष्यति न संशय: । एवमुक्तस्तदा तेन राजा राजर्षिसत्तम: ॥ तथेति स प्रतिज्ञाय चकारोद्वाहमुत्तमम्‌ । कृत्वा विवाहं राजेन्द्रं सम्पूज्य विविधैर्धनै: ॥ अभवाद्य द्युमत्सेनं जगाम नगरं प्रति । सावित्री तु पतिं लब्ध्वा इन्द्रं प्राप्य शची यथा ॥ सत्यवानपि ब्रह्मर्षिस्तया पत्न्याभिनन्दित: । क्रीडते तद्वनोद्देशे पौलोम्या मधवा इव ॥ नारदस्य च तद्वाक्यं हृदये तु मनस्विनी ॥ वहन्ती नियमं चके व्रतस्यास्य च भामिनी । गणयन्ती दिनान्येव न लेभे हर्षमुत्तमम्‌ ॥ ज्ञात्वा तद्दिवसं विप्र भर्तुर्मरनकारणम्‌ । व्रतं त्रिरात्रमुद्दिश्य दिवारात्रौ स्थिराऽभवत्‌ ॥ ततस्त्रिरात्रं निर्वर्त्य सन्तर्प्य पितृदेवता: । अस्यान्ते नियमं कृत्वा त्रिदिनस्य मनस्विनी ॥ अस्मिन्दिने च मर्तव्यमिति सत्यवतामुने । कुठारं संपरिगृह्य पिटकं चैव दारुकम्‌ । प्रस्थितं च वनायैव सावित्रीवाक्यमब्रवीत्‌ ॥ न गन्तव्यं वनं त्वद्य मम वाक्येन मानद । अथवा गम्यते साधो मया सह वनं व्रज ॥ संवत्सरं भवेत्पूर्णमाश्रमेऽस्मिन्मम प्रभो । तद्वनं द्रष्टमिच्छामि प्रसादं कुरु मे प्रभो ॥ सत्यवा० । नाहं स्वतन्त्र: सुश्रोणि पृच्छस्व पितरौ मम । ताभ्यां प्रस्थापिता गच्छ मया सह शुचिस्मिते ॥ एवमुक्ता तदा तेन भर्त्रा सा कमलेक्षणा । श्वश्रूश्वशुरयो: पादावभिवाद्येदमब्रवीत् ॥ वनं द्रष्टुं गमिष्यामि आज्ञा मह्यं प्रदीयताम्‌ । उवाच वचनं साध्वी वरमेकं प्रयच्छ मे ॥ भर्त्रा सह वनं गन्तुमेतत्त्वरयते मन: । तस्यास्तद्वचनं श्रुत्वा द्युमत्सेनोऽब्रवीदिदम्‌ ॥ व्रतं कृतं त्वया भद्र पारणां कुरु सुवते । पारणान्ते ततो भीरु वनं गन्तुं त्वमर्हसि ॥ सावित्र्युवा० ॥ नियमश्च कृतोऽस्माभी रात्री चन्द्रोदये सति । जाते मया प्रकर्तव्यं भोजनं तात मे श्रृणु ॥ वनदर्शनकामोऽस्ति भर्त्रा सह ममाद्य वै । न मे तत्र भवेदग्लानिर्भर्त्रा सह नराधिप ॥ इत्युक्तस्तु तया राजा द्युमत्सेनो महीपति: । यत्तेऽभिलषितं पुत्रि तत्कुरुष्व सुमत्सेनो महीपति: । यत्तेऽभिलषितं पुत्रि तत्कुरुष्व सुमध्यमे ॥ नमस्कृत्वा तु सावित्री श्वश्रूं श्वशुरं तथा । सहिता राजशार्दूल तेन सत्यवता विभो ॥ विलोकयन्ती भर्तारं प्राप्तकाल मनस्विनी । वनं च फलितं द्दष्ट्वा पुष्पितं द्रुमसङ्कुलम्‌ ॥ द्रुमाणां चैव नामानि मृगाणां चैव भामिनी । पश्यन्ती मृगयूथानि हृदयेन प्रवेपतो ॥ तत्र गत्वा सत्यवान्वै फलान्यादाय सत्वरम्‌ । काष्ठानि च समादाय बबन्ध भारकं तदा ॥ काष्टभारं क्षणात्कृत्वा वटशाखावलम्बिनम्‌ । वटवृक्षस्य सा साध्वी उपविष्टा महासती ॥ काष्ठान्यावृणुतस्तस्य जाता शिरसि वेदना । ग्लानिश्च महती जाता गात्राणां वेपथुस्तदा ॥ आगत्य वृक्षसामीप्यं सावित्रीमिदमव्रवीत्‌ । मम गात्रेतिकम्पश्च जाता शिरसि वेदना । कण्टकैर्भिद्यते भद्रे शिरो मे शूलसम्मितै: ॥ उत्सङ्गे तव सुश्रोणि स्वप्तुमिच्छामि सुव्रते । अभिज्ञा सा विशालाक्षी तस्य मृत्योर्मनस्विनी ॥ प्राप्तकालं मन्यमाना तस्य तत्रैव भामिनी ॥ सत्यवानपि सुप्तस्तु कृत्वोत्सङ्गे शिरस्तदा । तावत्तत्र समागच्छत्पुरुष: कृष्णपिङ्गल: । जाज्वल्यमानो वपुषा ददर्शाऽर्थ मनस्विनी ॥ उवाच वाक्यं वाक्यज्ञा कस्त्वं लोकभयङ्कर: । नाहं धर्षयितुं शक्या पुरुषेणापि केनचित ॥ इत्युक्त: प्रत्युवाचेदं यमो लोकभयङ्कर: ॥ यम उवाच ॥ क्षीणायुस्तु वरारोहे भर्ता तव मनस्विनि । नेष्याम्येनमहं बध्वा ह्येतन्मे च चिकीर्षितम्‌ ॥ इत्युक्त्वा पितृराजस्तां भगवान् सञ्चिकीर्षितम्‌ । यथावत्सर्वमाख्यातुं सत्क्रियार्थं प्रचक्रमे ॥ अयं हि धर्मसंयुक्तो रूपवान्‌ गुणसागर: । नाहों मत्पुरुषैनेंतुमतोऽस्मि स्वयमागत: ॥ तत: सत्यवत: कायात्पाशबद्धं च सत्वरम्‌ । अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्‌ ॥ तत: समुद्धृतप्राणं गतश्वासं हतप्रभम्‌ । निर्विचेष्टं शरीरं तद्वभूवाप्रियदर्शनम्‌ ॥ यमस्तु तं तथा बध्वा प्रययौ दक्षिणामुख: । सावित्री चापि दुःखार्ता यममेवान्वगच्छत ॥ नियमव्रतसम्पन्ना महाभागा पतिव्रता ॥ यम उवा० । निवर्त्य गच्छ सावित्रि कुरुष्वास्यौर्ध्वदेहिकम्‌ । कृतं भर्तुस्त्वयाऽऽनृण्यं यावद्वश्यगतं त्वया ॥ सावित्र्युवा० । यत्र मे नीयते भर्ता स्वयं वा यत्र गच्छति । मयापि तत्र गन्तव्यमेषधर्म: सनातन: ॥ तपसा गुरुवृत्त्या च भर्तृस्नेहाद्वतेन च ।
तव चैव प्रसादेन न मेऽप्रतिहतागति: ॥ प्राहु: सप्तपदं मैत्रं बुधास्तत्वार्थदर्शिन: । मित्रतां तु पुरस्कृत्य किञ्चिद्वक्ष्यामि तच्छृणु ॥ नानात्मवन्तो हि वने चरन्ति धर्मं च सत्यं च परिश्रमं च । विज्ञानतो धर्ममुदाहरन्ति तस्मात्सन्तो धर्ममाव्हु: प्रधानम्‌ ॥ यम उवा० । निवर्त्य तुष्टोऽस्मि तवानया गिरा स्वराक्षरव्यञ्जनहेतुयुक्तया । वरं वृणीष्वेह विनास्य जीवितं ददामि ते सर्वमनिन्दिते वरम्‌ ॥ सावित्र्युवा० ॥ च्युत: स्वराज्याद्वनवासमाश्रितो ह्यलब्धचक्षु: श्वशुरो ममाश्रमे । सलब्धचक्षुर्बलवान्भवेन्नृपस्तव प्रसादाज्ज्वलनार्कसन्निभ: ॥ यम उवा० ॥ ददामि ते सर्वमनिन्दिते वरं यथा त्वयोक्तं भविता च तत्तथा । तवाध्वनो ग्लानिमिवोपलब्धये निवर्त्य गच्छस्व न ते श्रतो भवेत्‌ ॥ सावित्र्युवा० । कुत: श्रमो भर्तृसमीपतोऽद्य मे यतो हि भर्ता मम सा गति ध्रुवा । यत: पतिं नेष्यसि तत्र मे गति: सुरेश भूयश्च वचो निबोध मे ॥ सतां सकृत्सङ्गतमीप्सितं परैस्तत: परं मित्रमिति प्रचक्षते । नचाफलं सत्पुरुषेण सङ्गतं तत: सत: सन्निवसेत्सामागमे ॥ यम उवा० ॥ मनोऽनुकूलं बुधबुद्धिवर्धनं त्वया यदुक्तं वचनं हिताश्रयम्‌ । विना पुन: सत्यवतो हि जीवितं वरं द्वितीयं वरयस्व भामिनि ॥ सावित्र्युवा० ॥ हृतं पुरा मे श्वशुरस्य धीमत: स्वमेव राज्यं स लभेत पार्थिव: । न च स्वधर्मं प्रजहीत मे गुरुर्द्वितीयमेवं वरयामि ते वरम्‌ ॥ यम उवा० ॥ स्वमेव राज्यं प्रतिपत्स्यते चिरान्न च स्वधर्मान्परिहास्यते नृप: । कृतेन कामेन मया नृपात्मजे निवर्त्य गच्छस्व न ते श्रमी भवेत्‌ ॥ सावित्र्यु० । प्रजास्त्वयैता नियमेन संयता नियम्य चैता नयसे न काम्यया । अतो यमत्वं तव देवविश्रुतं निबोधयेमां गिरमीरितां मया ॥ अद्रोह: सर्वभूतेषु कर्मणा मनसा गिरा । अनुग्रहश्च दानं च सतां धर्म: सनातन: ॥ एवं प्रायश्च लोकोऽयं मनुष्या: शक्तिपेशला: । सन्त: स्वेवाप्यमित्रेषु दयां प्राप्तेषु कुर्वते ॥ यम उवा० । पिपासितस्येव यथा भवेत्पयस्तथा त्वया वाक्यमिदं समीरितम्‌ । विना पुन: सत्यवतोऽस्य जीवितं वरं वृणीष्वेह शुभे यदीच्छसि ॥ सावित्र्युवा० । ममानपत्य: पृथिवीपति: पिता भवेत्पितु: पुत्रशतं च औरसम्‌ । कुलस्य सन्तानकरं च तद्भवेत्तृतीयमेतं वरयामित्र ते वरम्‌ ॥ यम उवा० ॥ कुलस्य सन्तानकरं सुवर्चसं शतं सुतानां पितरस्तु ते शुभे । कृतेन कामेन नराधिपात्मजे अतीव दूरं हि पथस्त्वमागता ॥ सावित्र्युवाच ॥ न दॄरमेतन्मम भर्तृसन्निधौ मनो हि मे दूरतरं प्रधावति । अथ व्रजन्नेव गिरा समुन्नतं मयोच्यमानं श्रृणु धर्म मे वच: ॥ विवस्वतस्त्वं तनय: प्रतापवान्‌ ततो हि वैवस्वत उच्यते बुधै: । समेन धर्मेण च रञ्जिता: प्रजास्ततस्तवेहेश्वरधर्मराजताम्‌ ॥ आत्मन्यपि न विश्वासस्तावद्भवति सत्सु य: । तस्मात्सत्सु विशेषेण सर्वप्रणयमृच्छति ॥ सौहृदात्प्रणयाच्चापि विश्वासो नाम जायते । तस्मात्सत्सु विशेषेण विश्वासं कुरुते जन: । यम उवा० ॥ उदाहृतं ते वचनं यदङ्गने शुभं न ताद्दक्‌ त्वद्दते मया श्रुतम्‌ । अनेन तुष्टोऽस्मि विनाऽस्य जीवितं वरं चतुर्थं वरयस्व गच्छ च ॥ सावित्र्युवा० । ममात्मजं सत्यवतस्तथौरसं भवेदुभाभ्यामिह यत्कुलोद्भवम्‌ । शतं सुतानां बलिनां महात्मनामिमं चतुर्थं वरयामि ते वरम्‌ ॥ यम उवा० ॥ शतं सुतानां बलवीर्यशालिनां भविष्यति प्रीतिकरं तवाबले । परिश्रमस्तेन भवेन्नृपात्मजे निवर्त दूरं हि पथस्त्वमागता ॥ सावित्र्युवा० । सतां हि या शाश्वतधर्मवृत्ति: सन्तो न सीदन्ति न च व्यथन्ति ते । सतां सद्भिर्नाम फलं सम्प्रयाति सद्भयो भवं नानुभवन्ति सन्त: ॥ सन्तो हि सत्येन यजन्ति सूर्यं सन्तो भूमिं तपसा धारयन्ति । सन्तो गतिर्भूतभव्यस्य राजन्सतां मध्ये नावसीदन्ति सन्त: ॥ आयुर्जुष्टमिदवृत्तमिति विज्ञाय शाश्वतम्‌ । सन्त: परार्थं कुर्वाणा नावेक्षन्ते प्रतिक्रियाम्‌ ॥ न च प्रसाद: सत्पुरुषेषु मोधो न च व्यर्थो तपस्यति चाभिमान: । यस्मादेतन्नियतं सत्सु नित्यं तस्मात्सन्तो रक्षितारो भवन्ति ॥ यम उवा० ॥ यथा यथा भाषसि धर्मसंहितं मनोनुकूलं सुपदं महार्थवत्‌ । तथा तथा मे त्ययि भक्तिरुत्तमा वरं वृणीष्वाप्रतिमं पतिव्रते ॥ सावित्र्युवा० । न तेऽपवर्ग:सुकृताद्विना कृतस्तथान्यथान्येषु वरेषु मानद: । वरं वृणे जीवतु सत्यवानयं यथा मृतो ह्येवमहं विना पतिम्‌ ॥ न कामये भर्तृविना कृतं सुखं न कामये भर्तृविना कृतां दिवम् । न कामये भर्तृबिना गतां श्रियं न भर्तृहीना व्यवसामि जीवितुम्‌ ॥ वरोऽपि वैवस्वत ह्यौरसात्मजशते च दत्तो भवता कृपालुना । वरं वृणे जीवतु सत्यवानयं तवैव सत्यं वचनं भविष्यति ॥ तथेत्युक्त्वा तु तान्‌ पाशान्मुक्त्वा बैवस्वतो यम: । धर्मराज: प्रहृष्टात्मा सावित्रीमिदमब्रवीत्‌ ॥ एष भद्रे मया मुक्तो भर्ता ते कुलनन्दिनि । आरोग्यें वयसि प्राप्य सिद्धार्थश्च भविष्यति । चतुर्वर्षशतं चायुस्त्वया सार्धमुपेष्यति ॥ सा गता वटसामीप्यं कृत्वोत्सङ्गे शिरस्तत: । प्रबुद्धस्तु ततो ब्रह्मन्‌ सत्यवानिदमब्रवीत् ॥ मया स्वप्नो वरारोहे द्दष्टोऽद्यैव च भामिनी । तत्सर्वं कथितं तस्यै सर्वमेव तत्‌ ॥ तया च कथित: सर्व: संवादश्च यमेन हि । अस्तङ्गते तत: सूर्ये द्युमत्सेनो महोपति: ॥ पुत्रस्यागमनाकाङक्षी इतश्चेतश्च धावति । आश्रमादाश्रमं गच्छन्‌ पुत्रदर्शनकाङक्षया ॥ आवयोरन्धयोर्यष्टि: क्व गतोऽसि विना वयो: । एवां सविविधं क्रोशन् सपत्नोको महीपति: ॥ चकार दु:खसन्तप्त: पुत्र पुत्रेति चासकृत्‌ । अकस्मादेव राजेन्द्रो लब्धचक्षुर्महीश्वर: ॥ तद्‌द्दष्ट्वा परमाश्चर्यं चक्षुष्प्राप्तिं द्विजोत्तमा: । सान्त्वपूर्वं तदा वाक्यमूचुस्ते तापसा भृशम्‌ ॥ चक्षुष्प्राप्त्या महाराज सूचितं ते महीपते । पुत्रेण च समं योगं प्राप्त्यसे नृपसत्तम ॥ ईश्वर उवा० । यावदेवंवद्न्त्येते तापसा द्विजसत्तम । सावित्रीसहित: प्राप्त: सत्यवान्‌ द्विजसत्तम ॥ नमस्कृत्य द्विजान्सर्वान्मातरं पितरं तथा । सावित्री च ततो ब्रह्मन्ववन्दे चरणावति ॥ श्वश्रूश्वशुरयोर्ब्रह्मन्सावित्री कमलेक्षणा ॥ मुनय ऊचु: । वरं सावित्रि जानासि कारणं वरवर्णिनि । वृद्धयोश्चक्षुष: प्राप्ते: श्वश्रूश्वशुरयो: शुभे ॥ सावित्र्युवा० ॥ न जानामि मुनिश्रेष्ठाश्चक्षुष: प्राप्तिकारणम्‌ । चिरं सुप्तस्तु मे भर्ता तेन कालव्यतिक्रम: ॥ सत्यवानुवा० । अस्या: प्रभावात्सञ्जातं द्दश्यते कारणं न च । तत्सर्वं विद्यते विप्रा: सावित्र्यास्तपस: फलम्‌ ॥ व्रतस्यैव तु माहात्म्यं द्दष्टमेतन्मयाधुना ॥ ईश्वर उवा० । एव तु वदतस्तस्य तदा सत्यवत: प्रभो । पौरा: समागतास्तस्य आचरन्नृपतेर्हितम्‌ ॥ येन राज्यं बलाद्राजन्‌ हृतं क्रूरेण मन्त्रिणा । अमात्येन हत: सोऽपि इति पौरा: समागता: ॥ पौरा ऊचु: । उत्तिष्ठ राजशार्दूल स्वं राज्यं पालय प्रभो । अभिषिञ्चस्व राजेन्द्र पुरे मन्त्रि पुरोहितै: ॥ ईश्वर उवा० । सगत्वा राजशार्दूल:स्वपुरं जनसंवृत: । पितृपैतामहं राज्यं सम्प्राप्तं च महात्मना ॥ सावित्री सत्पवांश्चैव परां मुदमवापतु: । जनयामास पुत्राणां शतं वै बाहुशालिनाम्‌ ॥ व्रतस्यैव तु माहात्म्यात्तस्या: पितुरजायत । पुत्राणां च शतं ब्रह्मन्‌ प्रसन्नाच्च यमात्तथा ॥ एतत्ते कथितं सर्वं व्रतमाहात्म्यमुत्तमम् । क्षीणायुर्जीवितो भर्ता व्रतस्यास्य प्रभावत: ॥ कर्तव्यं सर्वनारीभिरवैधव्यफलप्रदम् ॥

॥ इति श्रीस्कन्दपुराणे सावित्रीकथासमाप्ता ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:50:51.7100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ashlar

  • चिरेबंदी 
  • पु. चिरा 
  • पु. एशलर 
  • also ashler 
RANDOM WORD

Did you know?

मकर संक्रांति हिंदू सण असूनही १४ जानेवारीला का साजरा करतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.