चैत्रमास: - अथ दमनकसमर्पणविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


यस्य देवस्य यो भक्त: सोर्पयेद्देवतातिथौ । सर्वेषां यदि भक्तश्चेत्सर्वास्वपि समर्पयेत्‌ । समर्पणदिनात्पर्वेद्युर्दमनकमानीय प्रक्षाल्य वस्त्राच्छादितं देवागारे निधायापरेद्यु: कृतनित्यक्रियो देशकालौ सङ्कीर्त्य मया कृतायां संवत्सरावधि अमुकदेवतापूजायां न्यूनातिरेकादिजनितवैगुण्यपरिहारपूर्वकसम्पूर्णपूजाफलप्राप्तिद्वारा श्रीप० अमु० दमनार्पणं करिष्ये । इति सङ्कल्प्य देवं विविधोपचारै: सम्पूज्य सचन्दनं दमनकमादाय देवतानाममन्त्रेण समर्प्य प्रार्थयेत । जानताऽजानतावापि मत्कृतं यत्तवार्चनम्‌ । तत्सर्वं पूर्णतां यातु त्वत्प्रसादात्सुरेश्वर । तत: पूजावशिष्टं दमनकं गुरुविप्रादिभ्यो दत्वा स्वयं प्रसादवुद्धया धृत्वा यथाशक्ति ब्राह्मणान्‌ भोजयेत्‌ ॥
अष्टम्यामशोककलिकाप्राशनम्‌ । मम सर्वदाऽशोकत्वप्राप्तिद्वारा श्री०र्थं चैत्रशुक्लाष्टम्यामष्टाशोककलिकाप्राशनं करिष्ये, इति सङ्कल्प्य मन्त्रस्तु-त्वामशोकहराभीष्टं मधुमाससमुद्भवम्‌ । पिबामि शोकसन्तप्तो मामशोकं सदा कुरु ॥ इदं काम्यम्‌ ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP