चैत्रमास: - प्रास्तविकः

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


मध्यदेशेऽमान्त एव मास: सर्वकृत्येषु । माधकार्तिकवैशाग्वस्नानेषु तु पूर्णान्त एवंति सर्वसिद्धान्त: । तत्र शुक्लप्रतिपद सूर्यो दयव्यापिनी ग्राह्या । दिनद्वये तद्व्‌याप्तावव्याप्तौ वा पूर्वैव, तस्यां ब्रह्मध्वजपूजनम्‌ । तच्चेत्थं प्रातस्तैलाभ्यङ्गपूर्वकं मङ्गलस्नानं विधाय कृतनित्याक्रियो नूतनवस्त्रालङ्कारभूषितो गृहद्वारप्रदेशे पुष्पमालाभूषितमारक्तवस्त्रनिर्मितं ध्वजमुछित्व देशकालौ स्मृत्वा० प्राप्त्यर्थं मम सकुटुम्बस्य सपरिवारस्यायुरारोग्यपुत्रपौत्राद्यैश्वर्याभिवृद्धयर्थं संवत्सरारम्भे ब्रह्मध्वजपूजनमहं करिष्ये । ओं ब्रह्मध्वजाय नम इति नाममन्त्रेण षोडशोपचारै: सम्पूज्य प्रार्थंयेत्‌ । ब्रह्मध्वजनमस्तेऽस्तु सर्वाभीष्टफलप्रद । प्राप्तेऽस्मिन्‌‌ वत्सरे नित्यं मदगृहे मङ्गलं कुरु ॥ इति सम्प्रार्थ्य, अनेन ब्रह्मध्वज० प्रीयताम्‌ । तत आरोग्यावाप्तये निम्बपत्राणि भक्षयित्वा दैवज्ञं सम्पूज्य तन्मुखाद्वत्सरफलपूर्वकं पञ्चाङगं श्रुत्वा तं दक्षिणादिभि: परितोष्य विप्रसुहृद्युतो मधुरमन्नं भुज्जीयादिति । अस्यामेव नवरात्रारम्भ: । संवत्सरे सार्धत्रयो मुहूर्ता: । तेच-प्रतिपद्वत्सरादिर्यातृतीयाऽक्षय्यसंज्ञिका । दशमी विजयाख्या च मुहूर्तास्त्रय ईरिता: ॥ प्रतिपत्कार्तिके शुक्ला समुहूर्तोऽर्धसंज्ञक: । स्वयं सिद्धा इमे ज्ञेया: सर्वकार्यप्रसाधका: ॥ इति वाराहसंहितायां दर्शनात्सर्वकार्यारम्भोऽत्र शुभप्रद: ॥
चैत्रशुक्लतृतीयायां गौरीपूजनम्‌ । तृतीया च मुहूर्तमात्रापि परा ग्राह्या, गौरीदेवताकत्वात्‌ । मासपर्यन्तमान्दोलनमपि कार्यम्‌ । देशकालौ स्मृत्वा० प्राप्त्यर्थमखण्डितसौभाग्यपुत्रपौत्राद्यभिवृद्धयर्थं चैत्रशुक्लतृतीयामारभ्यवैशाखशुक्लतृतीयापर्यन्तं प्रत्यहं गौरीपूजनं दोलोत्सवं च करिष्ये । तत्राद्यगौर्या: स्थापनपूजनादि करिष्ये । कुङ्कुमागरुलिसाङ्रगां सर्वाभरणभूषिताम्‌ । नीलकण्ठप्रियां गौरी वन्देऽहं मङ्गलाभिधाम्‌ ॥ श्रीगौर्यै नम इति ध्यानादिषोडशोपचारै: सम्पूज्य प्रार्थयेत्‌ । पुत्रान्‌ देहि धनं देहि सौभाग्यंदेहि मङ्गले । अन्यांश्च सर्वकामांश्च देहि देवि नमोऽस्तुते ॥ तत: सुवासिनीं पूजयित्वा तस्यै खाद्यादि वाणकं दद्यादित्याचार: । अनेन मया कृतेन पूज० गौरी प्रीयताम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP