मराठी मुख्य सूची|स्तोत्रे|दत्त स्तोत्रे|
॥अथ ध्यानम॥ यावद्द्वैतभ्र...

दकारादि श्री दत्त सहस्रनाम स्तोत्रम् - ॥अथ ध्यानम॥ यावद्द्वैतभ्र...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


॥अथ ध्यानम॥
यावद्द्वैतभ्रमस्तावन्न शान्तिर्न परं सुखम् ॥  अतस्तदर्थं वक्ष्येऽदः सर्वात्मत्वावबोधकम् ॥
॥ अथ श्री दकारादि श्री दत्त सहस्रनामस्तोत्रम् ॥
ॐ दत्तात्रेयो दयापूर्णो दत्तो दत्तकधर्मकृत् । दत्ताभयो दत्तधैर्यो दत्तारामो दरार्दनः ॥१॥
दवो दवघ्नो दकदो दकपो दकदाधिपः । दकवासी दकधरो दकशायी दकप्रियः ॥२॥
दत्तात्मा दत्तसर्वस्वो दत्तभद्रो दयाघनः । दर्पको दर्पकरुचिर्दर्पकातिशयाकृतिः ॥३॥
दर्पकी दर्पककलाभिज्ञो दर्पकपूजितः । दर्पकोनो दर्पकोक्षवेगहृद्दर्पकार्दनः ॥४॥
दर्पकाक्षीड् दर्पकाक्षीपूजितो दर्पकाधिभूः । दर्पकोपरमो दर्पमाली दर्पकदर्पकः ॥५॥
दर्पहा दर्पदो दर्पत्यागी दर्पातिगो दमी । दर्भधृग्दर्भकृद्दर्भी दर्भस्थो दर्भपीठगः ॥६॥
दनुप्रियो दनुस्तुत्यो दनुजात्मजमोहहृत् । दनुजघ्नो दनुजजिद्दनुजश्रीविभञ्जनः ॥७॥
दमो दमीड् दमकरो दमिवन्द्यो दमिप्रियः । दमादियोगविद्दम्यो दम्यलीलो दमात्मकः ॥८॥
दमार्थी दमसंपन्नलभ्यो दमनपूजितः । दमदो दमसंभाव्यो दममूलो दमीष्टदः ॥९॥
दमितो दमिताक्षश्च दमितेन्द्रियवल्लभः । दमूना दमुनाभश्च दमदेवो दमालयः ॥१०॥
दयाकरो दयामूलो दयावश्यो दयाव्रतः । दयावान् दयनीयेशो दयितो दयितप्रियः ॥११॥
दयनीयानसूयाभूर्दयनीयात्रिनंदनः । दयनीयप्रियकरो दयात्मा च दयानिधिः ॥१२॥
दयार्द्रो दयिताश्वत्थो दयाश्लिष्टो दयाघनः । दयाविष्यो दयाभीष्टो दयाप्तो दयनीयदृक् ॥१३॥
दयावृतो दयापूर्णो दयायुक्तान्तरस्थितः । दयालुर्दयनीयेक्षो दयासिन्धुर्दयोदयः ॥१४॥
दरद्रावितवातश्च दरद्रावितभास्करः । दरद्रावितवह्निश्च दरद्रावितवासवः ॥१५॥
दरद्रावितमृत्युश्च दरद्रावितचंद्रमाः । दरद्रावितभूतौघो दरद्रावितदैवतः ॥१६॥
दरास्त्रधृग्दरदरो दराक्षो दरहेतुकः । दरदूरो दरातीतो दरमूलो दरप्रियः ॥१७॥
दरवाद्यो दरदवो दरधृग्दरवल्लभः । दक्षिणावर्तदरपो दरोदस्नानतत्परः ॥१८॥
दरप्रियो दस्रवन्द्यो दस्रेष्टो दस्रदैवतः । दरकण्ठो दराभश्च दरहन्ता दरानुगः ॥१९॥
दररावद्रावितारिर्दररावार्दितासुरः । दररावमहामंत्रो दरारार्पितभीर्दरीट् ॥२०॥
दरधृग्दरवासी च दरशायी दरासनः । दरकृद्दरहृच्चापि दरगर्भो दरातिगः ॥२१॥
दरिद्रपो दरिद्री च दरिद्रजनशेवधिः । दरीचरो दरीसंस्थो दरीक्रीडो दरीप्रियः ॥२२॥
दरीलभ्यो दरीदेवो दरीकेतनहृत्स्थितिः । दरार्तिहृद्दलनकृद्दलप्रीतिर्दलोदरः ॥२३॥
दलादर्नष्यनुग्राही दलादनसुपूजितः । दलादगीतमहिमा दलादलहरीप्रियः ॥२४॥
दलाशनो दलचतुष्टयचक्रगतो दली । द्वित्र्यस्रपद्मगतिविद्दशास्राब्जविभेदकः ॥२५॥
द्विषड्दलाब्जभेत्ता च द्व्यष्टास्राब्जविभेदकः । द्विदलस्थो दशशतपत्रपद्मगतिप्रदः ॥२६॥
द्व्यक्षरावृत्तिकृद्-द्व्यक्षो दशास्यवरदर्पहा । दवप्रियो दवचरो दवशायी दवालयः ॥२७॥
दवीयान्दवक्त्रश्च दविष्ठायनपारकृत् । दवमाली दवदवो दवदोषनिशातनः ॥२८॥
दवसाक्षी दवत्राणो दवारामो दवस्थगः । दशहेतुर्दशातीतो दशाधारो दशाकृतिः ॥२९॥
दशषड्बंधसंविद्दो दशषड्बंधभेदनः । दशाप्रदो दशाभिज्ञो दशासाक्षी दशाहरः ॥३०॥
दशायुधो दशमहाविद्यार्च्यो दशपञ्चदृक् । दशलक्षणलक्ष्यात्मा दशषड्वाक्यलक्षितः ॥३१॥
दर्दुरव्रातविहितध्वनिज्ञापितवृष्टिकः । दशपालो दशबलो दशेन्द्रिय विहारकृत् ॥३२॥
दशेन्द्रिय गणाध्यक्षो दशेन्द्रियदृगूर्ध्वगः । दशैकगुणगम्यश्च दशेन्द्रियमलापहा ॥३३॥
दशेन्द्रियप्रेरकश्च दशेन्द्रियनिबोधनः । दशैकमानमेयश्च दशैकगुणचालकः ॥३४॥
दशभूर्दर्शनाभिज्ञो दर्शनादर्शितात्मकः । दशाश्वमेधतीर्थेष्टो दशास्यरथचालकः ॥३५॥
दशास्यगर्वहर्ता च दशास्यपुरभञ्जनः । दशास्यकुलविध्वंसी दशास्यानुजपूजितः ॥३६॥
दर्शनप्रीतिदो दर्शयजनो दर्शनादुरः । दर्शनीयो दशबलपक्षभिच्च दशार्तिहा ॥३७॥
दशार्तिगो दशाशापो दशग्रन्थविशारदः । दशप्राणविहारी च दशप्राणगतिर्दृशिः ॥३८॥
दशाङ्गुलाधिकात्मा च दाशार्हो दशषट्सुभुक् । दशप्रागाद्यङ्गुलीककरनम्रद्विडन्तकः ॥३९॥
दशब्राह्मणभेदज्ञो दशब्राह्मणभेदकृत् । दशब्राह्मणसंपूज्यो दशनार्तिनिवारणः ॥४०॥
दोषज्ञो दोषदो दोषाधिपबंधुर्द्विषद्धरः । दोषैकदृक्पक्षघाती दष्टसर्पार्तिशामकः ॥४१॥
दधिक्राश्च दधिक्रावगामी दध्यङ्मुनीष्टदः । दधिप्रियो दधिस्नातो दधिपो दधिसिन्धुगः ॥४२॥
दधिभो दधिलिप्ताङ्गो दध्यक्षतविभूषणः । दधिद्रप्सप्रियो दभ्रवेद्यविज्ञातविग्रहः ॥४३॥
दहनो दहनाधारो दहरो दहरालयः । दह्रदृग्दहराकाशो दहराछादनान्तकः ॥४४॥
दग्धभ्रमो दग्धकामो दग्धार्तिर्दग्धमत्सरः । दग्धभेदो दग्धमदो दग्धाधिर्दग्धवासनः ॥४५॥
दग्धारिष्टो दग्धकष्टो दग्धार्तिर्दग्धदुष्क्रियः । दग्धासुरपुरो दग्धभुवनो दग्धसत्क्रियः ॥४६॥
दक्षो दक्षाध्वरध्वंसी दक्षपो दक्षपूजितः । दाक्षिणात्यार्चितपदो दाक्षिणात्यसुभावगः ॥४७॥
दक्षिणाशो दक्षिणेशो दक्षिणासादिताध्वरः । दक्षिणार्पितसल्लोको दक्षवामादिवर्जितः ॥४८॥
दक्षिणोत्तरमार्गज्ञो दक्षिण्यो दक्षिणार्हकः । द्रुमाश्रयो द्रुमावासो द्रुमशायी द्रुमप्रियः ॥४९॥
द्रुमजन्मप्रदो द्रुस्थो द्रुरूपभवशातनः । द्रुमत्वगम्बरो द्रोणो द्रोणीस्थो द्रोणपूजितः ॥५०॥
द्रुघणी द्रुद्यणास्त्रश्च द्रुशिष्यो द्रुधर्मधृक् । द्रविणार्थो द्रविणदो द्रावणो द्राविडप्रियः ॥५१॥
द्रावितप्रणताघो द्राक्फलो द्राक्केन्द्रमार्गवित् । द्राघीय आयुर्दधानो द्राघीयान्द्राक्प्रसादकृत् ॥५२॥
द्रुततोषो द्रुतगतिव्यतीतो द्रुतभोजनः । द्रुफलाशी द्रुदलभुग्दृषद्वत्याप्लवादरः ॥५३॥
द्रुपदेड्यो द्रुतमतिर्द्रुतीकरणकोविदः । द्रुतप्रमोदो द्रुतिधृग्द्रुतिक्रीडाविचक्षणः ॥५४॥
दृढो दृढाकृतिर्दार्ढ्यो दृढसत्त्वो दृढव्रतः । दृढच्युतो दृढबलो दृढार्थासक्तिवारणः ॥५५॥
दृढधीर्दृढभक्तिदृग्दृढभक्तिवरप्रदः । दृढदृग्दृढभक्तिज्ञो दृढभक्तो दृढाश्रयः ॥५६॥
दृढदण्डो दृढयमो दृढप्रदो दृढाङ्गकृत् । दृढकायो दृढध्यानो दृढाभ्यासो दृढासनः ॥५७॥
दृग्दो दृग्दोषहरणो दृष्टि द्वंद्व विराजितः । दृक्पूर्वो दृ~ग्मनोतीतो दृक्पूतगमनो दृगीट् ॥५८॥
दृगिष्टो दृष्ट्यविषमो दृष्टिहेतुर्दृष्टत्तनुः । दृग्लभ्यो दृक्त्रययुतो दृग्बाहुल्यविराजितः ॥५९॥
द्युपतिर्द्युपदृग्द्युस्थो द्युमणिर्द्युप्रवर्तकः । द्युदेहो द्युगमो द्युस्थो द्युभूर्द्युर्द्युलयो द्युमान् ॥६०॥
द्युनिड्गतिद्युतिद्यूनस्थानदोषहरो द्युभुक् । द्यूतकृद्द्यूतहृद्द्यूतदोषहृद्द्यूतदूरगः ॥६१॥
दृप्तो दृप्तार्दनो द्योस्थो द्योपालो द्योनिवासकृत् । द्रावितारिर्द्राविताल्पमृत्युर्द्रावितकैतवः ॥६२॥
द्यावाभूमिसंधिदर्शी द्यावाभूमिधरो द्युदृक् । द्योकृद्द्योतहृद्द्योती द्योताक्षो द्योतदीपनः ॥६३॥
द्योतमूलो द्योतितात्मा द्योतोद्यौर्द्योतिताखिलः । द्वयवादिमतद्वेषी द्वयवादिमतान्तकः ॥६४॥
द्वयवादिविजयी दीक्षाद्वयवादिनिकृन्तनः । द्व्यष्टवर्षवया द्व्यष्टनृपवंद्यो द्विषट्क्रियः ॥६५॥
द्विषत्कलानिधिर्द्वीपिचर्मधृग्द्व्यष्टजातिकृत् । द्व्यष्टोपचारदयितो द्व्यष्टस्वरतनुर्द्विभित् ॥६६॥
द्व्यक्षराख्यो द्व्यष्टकोटिस्वजपीष्टार्थपूरकः । द्विपाद्द्व्यात्मा द्विगुर्द्वीशो द्व्यतीतो द्विप्रकाशकः ॥६७॥
द्वैतीभूतात्मको द्वैधीभूतचिद्द्वैधशामकः । द्विसप्तभुवनाधारो द्विसप्तभुवनेश्वरः ॥६८॥
द्विसप्तभुवनान्तस्थो द्विसप्तभुवनात्मकः । द्विसप्तलोककर्ता द्विसप्तलोकाधिपो द्विपः ॥६९॥
द्विसप्तविद्याभिज्ञो द्विसप्तविद्याप्रकाशकः । द्विसप्तविद्याविभवो द्विसप्तेन्द्रपदप्रदः ॥७०॥
द्विसप्तमनुमान्यश्च द्विसप्तमनुपूजितः । द्विसप्तमनुदेवो द्विसप्तमन्वन्तरर्धिकृत् ॥७१॥
द्विचत्वारिंशदुद्धर्ता द्विचत्वारिकलास्तुतः । द्विस्तनीगोरसास्पृग्द्विहायनीपालको द्विभुक् ॥७२॥
द्विसृष्टिर्द्विविधो द्वीड्यो द्विपथो द्विजधर्मकृत् । द्विजो द्विजातिमान्यश्च द्विजदेवो द्विजातिकृत् ॥७३॥
द्विजप्रेष्ठो द्विजश्रेष्ठो द्विजराजसुभूषणः । द्विजराजाग्रजो द्विड्द्वीड् द्विजाननसुभोजनः ॥७४॥
द्विजास्यो द्विजभक्तो द्विजातिभृद्द्विजसत्कृतः । द्विविधो द्व्यावृतिर्द्वंद्ववारणो द्विमुखादनः ॥७५॥
द्विजपालो द्विजगुरुर्द्विजराजासनो द्विपात् । द्विजिह्वसूत्रो द्विजिह्वफणछत्रो द्विजिह्वभत् ॥७६॥
द्वादशात्मा द्वापरदृग् द्वादशादित्यरूपकः । द्वादशीशो द्वादशारचक्रधृग् द्वादशाक्षरः ॥७७॥
द्वादशीपारणो द्वार्दश्यच्यो द्वादश षड्बलः । द्वासप्तति सहस्राङ्ग नाडीगति विचक्षणः ॥७८॥
द्वंद्वदो द्वंद्वदो द्वंद्वबीभत्सो द्वंद्वतापनः । द्वंद्वार्तिहृद् द्वंद्वसहो द्वया द्वंद्वातिगो द्विगः ॥७९॥
द्वारदो द्वारविद्द्वास्थो द्वारधृग् द्वारिकाप्रियः । द्वारकृद् द्वारगो द्वारनिर्गम क्रम मुक्तिगः ॥८०॥
द्वारभृद् द्वारनवकगतिसंसृतिदर्शकः । द्वैमातुरो द्वैतहीनो द्वैतारण्यविनोदनः ॥८१॥
द्वैतास्पृग् द्वैतगो द्वैताद्वैतमार्गविशारदः । दाता दातृप्रियो दावो दारुणो दारदाशनः ॥८२॥
दानदो दारुवसतिर्दास्यज्ञो दाससेवितः । दानप्रियो दानतोषो दानज्ञो दानविग्रहः ॥८३॥
दास्यप्रियो दासपालो दास्यदो दासतोषणः । दावोष्णहृद् दान्तसेव्यो दान्तज्ञो दान्त वल्लभः ॥८४॥
दातदोषो दातकेशो दावचारी च दावपः । दायकृद्दायभुग् दारस्वीकारविधिदर्शकः ॥८५॥
दारमान्यो दारहीनो दारमेधिसुपूजितः । दानवान् दानवारातिर्दानवाभिजनान्तकः ॥८६॥
दामोदरो दामकरो दारस्नेहोतचेतनः । दार्वीलेपो दारमोहो दारिकाकौतुकान्वितः ॥८७॥
दारिकादोद्धारकश्च दातदारुकसारथिः । दाहकृद्दाहशान्तिज्ञो दाक्षायण्यधिदैवतः ॥८८॥
द्रांबीजो द्रांमनुर्दान्तशान्तोपरतवीक्षितः । दिव्यकृद्दिव्यविद्दिव्यो दिविस्पृग् दिविजार्थदः ॥८९॥
दिक्पो दिक्पतिपो दिग्विद्दिगन्तरलुठद्यशः । दिग्दर्शनकरो दिष्टो दिष्टात्मा दिष्टभावनः ॥९०॥
दृष्टो दृष्टान्तदो दृष्टातिगो दृष्टान्तवर्जितः । दिष्टं दिष्टपरिच्छेदहीनो दिष्टनियामकः ॥९१॥
दिष्टास्पृष्टगतिर्दिष्टेड्दिष्टकृद्दिष्टचालकः । दिष्टदाता दिष्टहन्ता दुर्दिष्टफलशामकः ॥९२॥
दिष्टव्याप्तजगद्दिष्टशंसको दिष्टयत्नवान् । दितिप्रियो दितिस्तुत्यो दितिपूज्यो दितीष्टदः ॥९३॥
दितिपाखण्डदावो दिग्दिनचर्यापरायणः । दिगम्बरो दिव्यकांतिर्दिव्यगंधोऽपि दिव्यभुक् ॥९४॥
दिव्यभावो दीदिविकृद्दोषहृद्दीप्तलोचनः । दीर्घजीवी दीर्घदृष्टिर्दीर्घाङ्गो दीर्घबाहुकः ॥९५॥
दीर्घश्रवा दीर्घगतिर्दीर्घवक्षाश्च दीर्घपात् । दीनसेव्यो दीनबन्धुर्दीनपो दीपितान्तरः ॥९६॥
दीनोद्धर्ता दीप्तकान्तिर्दीप्रक्षुरसमायनः । दीव्यन् दीक्षितसंपूज्यो दीक्षादो दीक्षितोत्तमः ॥९७॥
दीक्षणीयेष्टिकृद्दीक्षादीक्षाद्वयविचक्षणः । दीक्षाशी दीक्षितान्नाशी दीक्षाकृद्दीक्षितादरः ॥९८॥
दीक्षितार्थ्यो दीक्षिताशो दीक्षिताभीष्टपूरकः । दीक्षापटुर्दीक्षितात्मा दीद्यद्दीक्षितगर्वहृत् ॥९९॥
दुष्कर्महा दुष्कृतज्ञो दुष्कृद्दुष्कृतिपावनः । दुष्कृत्साक्षी दुष्कृतहृत् दुष्कृद्धा दुष्कृदार्तिदः ॥१००॥
दुष्क्रियान्तो दुष्करकृद् दुष्क्रियाघनिवारकः । दुष्कुलत्याजको दुष्कृत्पावनो दुष्कुलान्तकः ॥१०१॥
दुष्कुलाघहरो दुष्कृद्गतिदो दुष्करक्रियः । दुष्कलङ्कविनाशी दुष्कोपो दुष्कण्टकार्दनः ॥१०२॥
दुष्कारी दुष्करतपा दुःखदो दुःखहेतुकः । दुःखत्रयहरो दुःखत्रयदो दुःखदुःखदः ॥१०३॥
दुःखत्रयार्तिविद् दुःखिपूजितो दुःखशामकः । दुःखहीनो दुःखहीनभक्तो दुःखविशोधनः ॥१०४॥
दुःखकृद् दुःखदमनो दुःखितारिश्च दुःखनुत् । दुःखातिगो दुःखलहा दुःखेटार्तिनिवारणः ॥१०५॥
दुःखेटदृष्टिदोषघ्नो दुःखगारिष्टनाशकः । दुःखेचरदशार्तिघ्नो दुष्टखेटानुकूल्यकृत् ॥१०६॥
दुःखोदर्काच्Cआदको दुःखोदर्कगतिसूचकः । दुःखोदर्कार्थसन्त्यागी दुःखोदर्कार्थदोषदृक् ॥१०७॥
दुर्गा दुर्गार्तिहृद् दुर्गी दुर्गेशो दुर्गसंस्थितः । दुर्गमो दुर्गमगतिर्दुर्गारामश्च दुर्गभूः ॥१०८॥
दुर्गानवकसंपूज्यो दुर्गानवकसंस्तुतः । दुर्गभिद् दुर्गतिर्दुर्गमार्गगो दुर्गमार्थदः ॥१०९॥
दुर्गतिघ्नो दुर्गतिदो दुर्ग्रहो दुर्ग्रहार्तिहृत् । दुर्ग्रहावेशहृद् दुष्टग्रहनिग्रहकारकः ॥११०॥
दुर्ग्रहोच्चाटको दुष्टग्रहजिद् दुर्गमादरः । दुर्दृष्टिबाधाशमनो दुर्दृष्टिभयहापकः ॥१११॥
दुर्गुणो दुर्गुणातीतो दुर्गुणातीतवल्लभः । दुर्गन्धनाशो दुर्घातो दुर्घटो दुर्घटक्रियः ॥११२॥
दुश्चर्यो दुश्चरित्रारिर्दुश्चिकित्स्यगदान्तकः । दुश्चित्ताल्हादको दुश्चिच्छास्ता दुश्चेष्टशिक्षकः ॥११३॥
दुश्चिन्ताशमनो दुश्चिद्दुश्छन्दविनिवर्तकः । दुर्जयो दुर्जरो दुर्जिज्जयी दुर्जेयचित्तजित् ॥११४॥
दुर्जाप्यहर्ता दुर्वार्ताशान्तिर्दुर्जातिदोषहृत् । दुर्जनारिर्दुश्चवनो दुर्जनप्रान्तहापकः ॥११५॥
दुर्जनार्तो दुर्जनार्तिहरो दुर्जलदोषहृत् । दुर्जीवहा दुष्टहन्ता दुष्टार्तपरिपालकः ॥११६॥
दुष्टविद्रावणो दुष्टमार्गभिद् दुष्टसंगहृत् । दुर्जीवहत्यासंतोषो दुर्जनाननकीलनः ॥११७॥
दुर्जीववैरहृद् दुष्टोच्चाटको दुस्तरोद्धरः । दुष्टदण्डो दुष्टखण्डो दुष्टध्रुग् दुष्टमुंडनः ॥११८॥
दुष्टभावोपशमनो दुष्टविद् दुष्टशोधनः । दुस्तर्कहृद् दुस्तर्कारिर्दुस्तापपरिशान्तिकृत् ॥११९॥
दुर्दैवहृद् दुन्दुभिघ्नो दुन्दुभ्याघातहर्षकृत् । दुर्धीहरो दुर्नयहृद्दुःपक्षिध्वनिदोषहृत् ॥१२०॥
दुष्प्रयोगोपशमनो दुष्प्रतिग्रहदोषहृत् । दुर्बलाप्तो दुर्बोधात्मा दुर्बन्धच्छिद्दुरत्ययः ॥१२१॥
दुर्बाधाहृद् दुर्भयहृद् दुर्भ्रमोपशमात्मकः । दुर्भिक्षहृद्दुर्यशोहृद् दुरुत्पातोपशामकः ॥१२२॥
दुर्मन्त्रयन्त्रतन्त्रच्छिद् दुर्मित्रपरितापनः । दुर्योगहृद् दुराधर्पो दुराराध्यो दुरासदः ॥१२३॥
दुरत्ययस्वमायाब्धि तारको दुरवग्रहः । दुर्लभो दुर्लभतमो दुरालापाघशामकः ॥१२४॥
दुर्नामहृद् दुराचारपावनो दुरपोहनः । दुराश्रमाघहृद्दुर्गपथलभ्यचिदात्मकः ॥१२५॥
दुरध्वपारदो दुर्भुक्पावनो दुरितार्तिहा  । दुराश्लेषाघहर्ता दुर्मैथुनैनोनिबर्हणः ॥१२६॥
दुरामयान्तो दुर्वैरहर्ता दुर्व्यसनान्तकृत् । दुःसहो दुःशकुनहृद् दुःशीलपरिवर्तनः ॥१२७॥
दुःशोकहृद् दुःश~ग्काहृद्दुःसङ्गभयवारणः । दुःसहाभो दुःसहदृग्दुःस्वप्नभयनाशनः ॥१२८॥
दुःसंगदोषस~ज्जातदुर्मनीषाविशोधनः । दुःसङ्गिपापदहनो दुःक्षणाघनिवर्तनः ॥१२९॥
दुःक्षेत्रपावनो दुःक्षुद् भयहृद्दुःक्षयार्तिहृत् । दुःक्षत्रहृच्च दुर्ज्ञेयो दुर्ज्ञानपरिशोधनः ॥१३०॥
दूतो दूतेरको दूतप्रियो दूरश्च दूरदृक् । दूनचित्ताल्हादकश्च दूर्वाभो दूष्यपावनः ॥१३१॥
देदीप्यमाननयनो देवो देदीप्यमानभः । देदीप्यमानरदनो देश्यो देदीप्यमानधीः ॥१३२॥
देवेष्टो देवगो देवी देवता देवतार्चितः । देवमातृप्रियो देवपालको देववर्धकः ॥१३३॥
देवमान्यो देववन्द्यो देवलोकप्रियंवदः । देवारिष्टहरो देवाभीष्टदो देवतात्मकः ॥१३४॥
देवभक्तप्रियो देवहोता देवकुलादृतः । देवतन्तुर्देवसंपद्देवद्रोहिसुशिक्षकः ॥१३५॥
देवात्मको देवमयो देवपूर्वश्च देवभूः । देवमार्गप्रदो देवशिक्षको देवगर्वहृत् ॥१३६॥
देवमार्गान्तरायघ्नो देवयज्ञादिधर्मधृक् । देवपक्षी देवसाक्षी देवदेवेशभास्करः ॥१३७॥
देवारातिहरो देवदूतो दैवतदैवतः । देवभीतिहरो देवगेयो देवहविर्भुजः ॥१३८॥
देवश्राव्यो देवदृश्यो देवर्णी देवभोग्यभुक् । देवीशो देव्यभीष्टार्थो देवीड्यो देव्यभीष्टकृत् ॥१३९॥
देवीप्रियो देवकीजो देशिको देशिकार्चितः । देशिकेड्यो देशिकात्मा देवमातृकदेशपः ॥१४०॥
देहकृद्देहधृग्देही देहगो देहभावनः । देहपो देहदो देहचतुष्टयविहारकृत् ॥१४१॥
देहीतिप्रार्थनीयश्च देहबीजनिकृन्तनः । देवनास्पृग्देवनकृद्देहास्पृग्देहभावनः ॥१४२॥
देवदत्तो देवदेवो देहातीतोऽपि देहभृत् । देहदेवालयो देहासङ्गो देहरथेष्टगः ॥१४३॥
देहधर्मा देहकर्मा देहसंबन्धपालकः । देयात्मा देयविद्देशापरिच्छिन्नश्च देशकृत् ॥१४४॥
देशपो देशवान् देशी देशज्ञो देशिकागमः । देशभाषापरिज्ञानी देशभूर्देशपावनः ॥१४५॥
देश्यपूज्यो देवकृतोपसर्गनिवर्तकः । दिविषद्विहितावर्षातिवृष्ट्यादीतिशामकः ॥१४६॥
दैवीगायत्रिकाजापी दैवसंपत्तिपालकः । दैवीसंपत्तिसंपन्नमुक्तिकृद्दैवभावगः ॥१४७॥
दैवसंपत्त्यसंपन्नछायास्पृग्दैत्यभावहृत् । दैवदो दैवफलदो दैवादित्रिक्रियेश्वरः ॥१४८॥
दैवानुमोदनो दैन्यहरो दैवज्ञदेवतः । दैवज्ञो दैववित्पूज्यो दैविको दैन्यकारणः ॥१४९॥
दैन्याञ्जनहृतस्तंभो दोषत्रयशमप्रदः । दोषहर्ता दैवभिषग्दोषदो दोर्द्वयान्वितः ॥१५०॥
दोषज्ञो दोहदाशंसी दोग्धा दोष्यन्तितोषितः । दौरात्म्यदूरो दौरात्म्यहृद्दौरात्म्यार्तिशान्तिकृत् ॥१५१॥
दौरात्म्यदोषसंहर्ता दौरात्म्यपरिशोधनः । दौर्मनस्यहरो दौत्यकृद्दौत्योपास्तशक्तिकः ॥१५२॥
दौर्भाग्यदोऽपि दौर्भाग्यहृद्दौर्भाग्यार्तिशान्तिकृत् । दौष्ट्यत्रो दौष्कुल्यदोषहृद्दौष्कुल्याधिशामकः ॥१५३॥
दंदशूकपरिष्कारो दंदशूककृतायुधः । दन्तिचर्मपरिधानो दन्तुरो दन्तुरारिहृत् ॥१५४॥
दन्तुरघ्नो दण्डधारी दण्डनीतिप्रकाशकः । दांपत्यार्थप्रदो दंर्पत्यच्यो दंपत्यभीष्टदः ॥१५५॥
दंपतिद्वेषशमनो दंपतिप्रीतिवर्धनः । दन्तोलूखलको दंष्ट्री दन्त्यास्यो दन्तिपूर्वगः ॥१५६॥
दंभोलिभृद्दंभहर्ता दंड्यविद्दंशवारणः । दन्द्रम्यमाणशरणो दन्त्यश्वरथपत्तिदः ॥१५७॥
दन्द्रम्यमाणलोकार्तिकरो दण्ड त्रयाश्रितः । दण्डपाण्यर्चपद्दण्डि वासुदेवस्तुतोऽवतु ॥१५८॥
इति श्रीमद्दकारादि दत्तनाम सहस्रकं । पठतां शृण्वतां वापि परानन्दपदप्रदम् ॥१५९॥

॥ इति श्री परम पूज्य परमहंस परिव्राजकाचार्य
श्री श्री श्री मद्वासुदेवानन्द सरस्वती यति वरेण्य
विरचित दकारादि दत्त सहस्रनामस्तोत्रम् ॥

N/A

References : N/A
Last Updated : November 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP