यूथेश्वरीभेदप्रकरणं

रूपगोस्वामी ह्या महान विद्वानाने रचलेला महान्‍ ग्रंथ उज्ज्वलनीलमणिः होय.


एतासां यूथमुख्यानां विशेषो वर्णितोऽप्यसौ ।
सुहृदादौ व्यवहृतिव्यक्तये वर्ण्यते पुनः ॥१॥
सौभाय्गादेरिहाधिक्यादधिका साम्यतः समा ।
लघुत्वाल्लघुरित्युक्तास्त्रिधा गोकुलसुभ्रुवः ॥२॥
प्रत्येकं प्रखरा मध्या मृद्वी चेति पुनस्त्रिधा ॥३॥
प्रगल्भवाक्या प्रखरा ख्याता दुलङ्घ्यभाषिता ।
तदूनत्वे भवेन्मृद्वी मध्या तत्साम्यं आगता ॥४॥

तत्र अधिकात्रिकम्
आत्यन्तिकी तथैवापेक्षिकी चेत्यधिका त्रिधा ॥५॥
सर्वथैवासमोर्धा या सा स्यादात्यन्तिकाधिका ।
सा राधा स तु मध्यैव यन्नान्या सदृशी व्रजे ॥६॥

तत्र आत्यन्ताधिका
यथा
तावद्भद्रा वदति चटुलं फुल्लतां एति पाली
शालीनत्वं त्यजति विमला श्यामलाहङ्करोति ।
स्वैरं चन्द्रावलिरपि चलत्युन्नमय्योत्तमाङ्गं
यावत्कर्णे न हि निविशते हन्त राधेति मन्त्रः ॥७॥

अथ आपेक्षिकाधिका
मध्ये यूथाधिनाथानां अपेक्ष्यैकतमां इह ।
या स्यादन्यतमा श्रेष्ठा सा प्रोक्तापेक्षिकाधिका ॥८॥

अथ अधिकप्रखरा, यथा
पश्य क्षौणीधरादुपैति पुरतः कृष्णो भुजङ्गाग्रणी
स्तूर्णं भीरुभिरालिभिः समं इतस्त्वं याहि मन्त्रोज्झिते ।
आचार्याहं अटामि भोगिरमणीवृन्दस्य वृन्दाटवीं
किं नः कामिनि कार्मणेन वशतां नीतः करिष्यत्यसौ ॥९॥

अथ अधिकमध्या
आलीभिर्मे त्वं असि विदिता पूर्णिमाया प्रदोषे
रोषेणासौ प्रथयसि कथं पाटवेनावहित्थां ।
धृत्वा धूर्ते सहपरिजनां मद्गृहे त्वां निरुन्ध्यां
वर्त्मप्रेक्षी गुणयतु स ते जागरं कुञ्जराजः ॥१०॥

अथ अधिकमृद्वी
न्यञ्चन्मूर्धा सह परिजनैर्दूरतो मा प्रयासी
र्मां आलोक्य प्रियसखि यतः प्रेमपात्री ममासि ।
माला मौलौ तव परिचिता मत्कलाकौशलाढ्या
द्यूते जित्वा दनुजदमनं या त्वया स्वीकृतास्ति ॥११॥

अथ समात्रिकम्
साम्यं भवेदधिकयोस्तथा लघुयुगस्य च ॥१२॥

तत्र समप्रखरा
न भवति तव पार्श्वे चेत्सखी कापि माभूत्
परिहर हृदि कम्पं किं हरिस्ते विधाता ।
अहं अतिचतुराभिर्वेष्टितालीघटाभिः
प्रियसखि पुरतस्ते दुस्तरा बाहुदास्मि ॥१३॥

अथ सममध्या
लोले न स्पृश मां तवालिकतटे धातुर्यदालक्ष्यते
त्वं स्पृश्यासि कथं भुजङ्गरमणी दूरादतस्त्यज्यसे ।
धिग्वामं वदसि त्वं एव कुहकप्रेष्ठासि भोगाङ्किते
येनाद्य च्युतकञ्चुकाः शुषिरतःसख्योऽपि सर्पन्ति ते ॥१४॥

अथ सममृद्वी
प्रत्याख्यातु सुहृज्जनः कथं अयं ताराभिधत्ते गिरं
प्राणास्त्वं हि ममोच्चकैरुरसि शपे धर्माय लीलावति ।
किन्तु तां अहं अर्थये परं इदं कल्याणि तं वल्लभं
स्वीयं शाधि यथा स गौरि सरले कुर्याज्जने न च्छलम् ॥१५॥

यथा वा
प्रहित्य कठिने निजं परिजनं मदार्या त्वया
निकामं उपजप्यतां किं उ विभीषिकाडम्बरैः ।
व्रजामि रविजातटे गुरुगिरा मृषाशङ्किनि
प्रदोषसमये समं सवयसा शिवां सेवितुम् ॥१६॥

अथ लघुत्रिकम्
लघुरापेक्षिकी चात्यन्तिकी चेति द्विधोदिता ॥१७॥

तत्र आपेक्षिकी लघुः
मध्ये यूथाधिनाथानां अपेक्ष्यैकतमां इह ।
या स्यादन्यतमा न्यूना सा प्रोक्तापेक्षिकी लघुः ॥१८॥

तत्र लघुप्रखरा
त्वं मिथ्यागुणकीर्तनेन चटुले वृन्दाटवीतस्करे
गाढं देवि निबध्य मां किं अधुना तुष्टा तटस्थायसे ।
हृत्वा धैर्यधनानि हन्त रभसादाच्छिद्य ह्रीवैभवं
येनायं सखि वञ्चितोऽपि बहुधा दुःखी जनो वञ्च्यते ॥१९॥

अथ लघुमध्या
गोष्ठाधीशसुतस्य सा नवनवप्रेष्ठस्य यावद्दृशोः
पन्थानं वृषभानुजा सखि वशीकारौष्धिज्ञा ययौ ।
तावत्त्वय्यपि कूर्क्षं अस्य बलवद्दाक्षिण्यं एवेक्ष्यते
का चन्द्रावलि एवि दुर्भगतया दूनात्मनां नः कथा ॥२०॥

अथ लघुमृद्वी
अपसरणं इतो नः साम्प्रतं स्याद्
यदपि हरिचकोरं चित्रं आलओचयामः ।
कलयत सहचर्यः पर्यटद्गौरदीप्ति
स्तटभुवि नवशोभां सौति चन्द्रावलीयम् ॥२१॥

अथ आत्यन्तिकी लघुः
अन्या यतोऽस्ति न न्यूना सा स्यादात्यन्तिकी लघुः ।
त्रैविध्यसम्भवेऽप्यस्या मृदुतैवोचिता भवेत्  ॥२२॥

यथा
निजनिखिलसखीनां आग्रहेणाघवैरी
कथं अपि स मयाद्य व्यक्तं आमन्त्रितोऽस्ति ।
क्षणं उरुकरुणाभिः संवरीतुं त्रपां मे
मदुदवसितलक्ष्मीं गोष्ठदेव्यस्तनुध्वम् ॥२३॥

न समा न लघुश्चाद्या भवेन्नैवाधिकान्तिमा ।
अन्यास्त्रिधाधिकाश्च स्युः समाश्च लघवश्च ताः ॥२४॥
विनात्यन्ताधिकां तेन सर्वासु लघुता भवेत् ।
सर्वास्वधिकता च स्याद्विनैवात्यन्तिकीं लघुम् ॥२५॥
आद्यैकैवान्तिमा द्वेधा मध्यस्था नवधोदिताः ।
इत्यसौ यूथनाथानां भिदा द्वादशधोदिता ॥२६॥

इति श्रीश्रीउज्ज्वलनीलमणौ यूथेश्वरीभेदप्रकरणं ॥६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP