TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|
सांख्यकारिका

सांख्यकारिका

या ग्रंथाचे रचनाकार ईश्वरकृष्ण होत. या ग्रंथात त्यांनी सांगीतले आहे, त्यांना पंचाशिकाकडून, पंचाशिकाला आसुरीकडून आणि आसुरीला कपिलकडून हे ज्ञान मिळाले.


सांख्यकारिका
ईश्वरकृष्णः सांख्यकारिका

दुःखत्रयाभिघाताज्जिज्ञासा तदभिघातके हेतौ ।
दृष्टे सापार्था चेन्नैकान्तात्यन्ततोऽभावात् ॥ १॥

दृष्टवदानुश्रविकः स ह्यविशुद्धः क्षयातिशययुक्तः ।
तद्विपरीतः श्रेयान्व्यक्ताव्यक्तज्ञविज्ञानात् ॥ २॥

मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥३॥

दृष्टं अनुमानं आप्तवचनं च सर्वप्रमाणसिद्धत्वात् ।
त्रिविधं प्रमाणं इष्टं प्रमेयसिद्धिः प्रमाणाद्धि ॥४॥

प्रतिविषयाध्यवसायो दृष्टं त्रिविधं अनुमानं आख्यातम् ।
तल्लिङ्गलिङ्गिपूर्वकं आप्तश्रुतिराप्तवचनं तु ॥५॥

सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिरनुमानात् ।
तस्मादपि चासिद्धं परोक्षं आप्तागमात्साध्यम् ॥६॥

अतिदूरात्सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात् ।
सौक्ष्म्याद्व्यवधानादभिभवात्समानाभिहाराच्च ॥७॥

सौक्ष्म्यात्तदनुपलब्धिर्नाभावात्कार्यतस्तदुपलब्धिः ।
महदादि तच्च कार्यं प्रकृतिविरूपं सरूपं च ॥८॥

असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् ।
शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम् ॥९॥

हेतुमदनित्यं अव्यापि सक्रियं अनेकं आश्रितं लिङ्गम् ।
सावयवं परतन्त्रं व्यक्तं विपरीतं अव्यक्तम् ॥१०॥

त्रिगुणं अविवेकि विषयः सामान्यं अचेतन प्रसवधर्मि ।
व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥११॥

प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः ।
अन्योऽन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः ॥१२॥

सत्त्वं लघु प्रकाशकं इष्टं उपष्टम्भकं चलं च रजः ।
गुरु वरणकं एव तमः प्रदीपवच्चार्थतो वृत्तिः ॥१३॥

अविवेक्यादिः सिद्धस्त्रैगुण्यात्तद्विपर्ययाभावात् ।
कारणगुणात्मकत्वात्कार्यस्याव्यक्तं अपि सिद्धम् ॥१४॥

भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च ।
कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥१५॥

कारणं अस्त्यव्यक्तं प्रवर्तते त्रिगुणतः समुदयाच्च ।
परिणामतः सलिलवत्प्रतिप्रतिगुणाश्रयविशेषात् ॥ १६॥

सङ्घातपरार्थत्वात्त्रिगुणादिविपर्ययादधिष्ठानात् ।
पुरुषोऽस्ति भोक्तृभावात्कैवल्यार्थप्रवृत्तेश्च ॥१७॥

जन्ममरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च ।
पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव ॥१८॥

तस्माच्च विपर्यासात्सिद्धं साक्षित्वं अस्य पुरुषस्य ।
कैवल्यं माध्यस्थ्यं द्रष्टृत्वं अकर्तृभावश्च ॥१९॥

तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।
गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः ॥२०॥

पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य ।
पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥२१॥

प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः ।
तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥२२॥

अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् ।
सात्त्विकं एतद्रूपं तामसं अस्माद्विपर्यस्तम् ॥२३॥

अभिमानोऽहङ्कारस्तस्माद्द्विविधः प्रवर्तते सर्गः ।
ऐन्द्रिय एकादशकस्तन्मात्रपञ्चकश्चैव ॥२४॥

सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् ।
भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम् ॥२५॥

बुद्धीन्द्रियाणि श्रोत्रत्वक्चक्षूरसननासिकाख्यानि ।
वाक्पाणिपादपायूपस्थान्कर्मेन्द्रियाण्याहुः ॥२६॥

उभयात्मकं अत्र मनः सङ्कल्पकं इन्द्रियं च साधर्म्यात् ।
गुणपरिणामविशेषान्नानात्वं ग्राह्यभेदाच्च ॥२७॥

रूपादिषु पञ्चानां आलोचनमत्रं इष्यते वृत्तिः ।
वचनादानविहरणोत्सर्गानन्दास्तु पञ्चानाम् ॥२८॥

स्वालक्षण्या वृत्तिस्त्रयस्य सैषा भवत्यसामान्या ।
सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च ॥२९॥

युगपच्चतुष्टयस्य हि वृत्तिः क्रमशश्च तस्य निर्दिष्टा ।
दृष्टे तथाप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः ॥३०॥

स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम् ।
पुरुषार्थ एव हेतुर्न केनचित्कार्यते करणम् ॥३१॥

करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् ।
कार्यं च तस्य दशधाहार्यं धार्यं प्रकाश्यं च ॥३२॥

अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् ।
साम्प्रतकालं बाह्यं त्रिकालं आभ्यन्तरं करणम् ॥३३॥

बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि ।
वाग्भवति शब्दविषया शेषान्यपि पञ्चविषयाणि ॥३४॥

सान्तःकरणा बुद्धिः सर्वं विषयं अवगाहते यस्मात् ।
तस्मात्त्रिविधं करणं द्वारि द्वाराणि शेषाणि ॥३५॥

एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः ।
कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ॥३६॥

सर्वं प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिः ।
सैव च विशिनष्टि ततः प्रधानपुरुषान्तरं सूक्ष्मम् ॥३७॥

तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्यः ।
एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च ॥३८॥

सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः ।
सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते ॥३९॥

पूर्वोत्पन्नं असक्तं नियतं महदादिसूक्ष्मपर्यन्तम् ।
संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् ॥४०॥

चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा छाया ।
तद्वद्विनाविशेषैस्तिष्ठति न निराश्रयं लिङ्गम् ॥४१॥

पुरुषार्थहेतुकं इदं निमित्तनैमित्तिकप्रसङ्गेन ।
प्रकृतेर्विभुत्वयोगान्नटवद्व्यवतिष्ठते लिङ्गम् ॥४२॥

सांसिद्धिकाश्च भावाः प्राकृतिका वैकृताश्च धर्माद्याः ।
दृष्टाः करणाश्रयिणः कार्याश्रयिणश्च कललाद्याः ॥४३॥

धर्मेण गमनं ऊर्ध्वं गमनं अधस्ताद्भवत्यधर्मेण ।
ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः ॥४४॥

वैराग्यात्प्रकृतिलयः संसारो राजसाद्भवति रागात् ।
ऐश्वर्यादविघातो विपर्ययात्तद्विपर्यासः ॥४५॥

एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः ।
गुणवैषम्यविमर्देन तस्य भेदास्तु पञ्चाशत् ॥ ४६॥

पञ्च विपर्ययभेदा भवन्त्यशक्तेश्च करणवैकल्यात् ।
अष्टाविंशतिभेदा तुष्टिर्नवधाष्टधा सिद्धिः ॥४७॥

भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः ।
तामिस्रोऽष्टादशधा तथा भवत्यन्धतामिस्रः ॥४८॥

एकादशेन्द्रियवधाः सह बुद्धिवधैरशक्तिरुद्दिष्टा ।
सप्तदश वधा बुद्धेर्विपर्ययात्तुष्टिसिद्धीनाम् ॥४९॥

आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः ।
बाह्या विषयोपरमात्पञ्च नव च तुष्टयोऽभिहिताः ॥५०॥

ऊहः शब्दोऽध्ययनं दुःखविघातत्रयं सुहृत्प्राप्तिः ।
दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः ॥५१॥

न विना भावैर्लिङ्गं न विना लिङ्गेन भावनिर्वृत्तिः ।
लिङ्गाख्यो भावाख्यस्तस्माद्भवति द्विधा सर्गः ॥५२॥

अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति ।
मानुष्यश्चैकविधः समासतो भौतिकः सर्गः ॥५३॥

ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः ।
मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः ॥५४॥

अत्र जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः ।
लिङ्गस्याविनिवृत्तेस्तस्माद्दुःखं समासेन ॥५५॥

इत्येष प्रकृतिकृतो महदादिविषयभूतपर्यन्तः ।
प्रतिपुरुषविमोक्षार्थं स्वार्थ इव परार्थ आरम्भः ॥५६॥

वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥५७॥

औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः ।
पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तम् ॥५८॥

रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् ।
पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥५९॥

नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः ।
गुणवत्यगुणस्य सतस्तस्यार्थं अपार्थकं चरति ॥६०॥

प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति ।
या दृष्टास्मीति पुनर्न दर्शनं उपैति पुरुषस्य ॥६१॥

तस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित् ।
संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥६२॥

रूपैः सप्तभिरेवं बध्नात्यात्मानं आत्मना प्रकृतिः ।
सैव च पुरुषस्यार्थं प्रति विमोचयत्येकरूपेण ॥६३॥

एवं तत्त्वाभ्यासान्नास्मि न मे नाहं इत्यपरिशेषम् ।
अविपर्ययाद्विशुद्धं केवलं उत्पद्यते ज्ञानम् ॥६४॥

तेन निवृत्तप्रसवां अर्थवशात्सप्तरूपविनिवृत्ताम् ।
प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः स्वस्थः ॥६५॥

सम्यग्ज्ञानाधिगमाद्धर्मादीनां अकारणप्राप्तौ ।
तिष्ठति संस्कारवशाच्चक्रभ्रमवद्धृतशरीरः ॥६७॥

प्राप्ते शरीरभेदे चरितार्थत्वात्प्रधानविनिवृत्तौ ।
ऐकान्तिकं आत्यन्तिकं उभयं कैवल्यं आप्नोति ॥६८॥

पुरुषार्थज्ञानं इदं गुह्यं परमर्षिणा समाख्यातम् ।
स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते यत्र भूतानाम् ॥६९॥

एतत्पवित्र्यं अग्र्यं मुनिरासुरयेऽनुकम्पया प्रददौ ।
आसुरिरपि पञ्चशिखाय तेन च बहुलीकृतं तन्त्रम् ॥७०॥

शिष्यपरम्परयागतं ईश्वरकृष्णेन चैतदार्याभिः ।
सङ्क्षिप्तं आर्यमतिना सम्यग्विज्ञाय सिद्धान्तम् ॥७१॥

सप्तत्यां किल योऽर्थास्तेऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य ।
आख्यायिकाविरहिताः परवादविवर्जिताश्चेति ॥७२॥

तस्मात्समासदृष्टं शास्त्रं इदं नार्थतश्च परिहीनम् ।
तन्त्रस्य च बृहन्मूर्तेर्दर्पणसङ्क्रान्तं इव बिम्बम् ॥७३॥

Translation - भाषांतर

References : N/A
Last Updated : 2016-11-11T11:55:18.5830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

active methylene group

  • क्रियाशील मेथिलीन गट, क्रियाशील मेथिलीन समूह 
RANDOM WORD

Did you know?

Is there any reference in Vedas or puranas for eating non-veg food?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.