TransLiteral Foundation

अधिकरणम् १ - अध्यायः ४

महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे.


अध्यायः ४
गृहीतविद्यः प्रतिग्रहजयक्रयनिर्वेशाधिगतैरर्थैरन्वयागतैरुभयैर्वा गार्हस्थ्यं अधिगम्य नागरकवृत्तं वर्तेत ॥१॥

नगरे पत्तने खर्वटे महति वा सज्जनाश्रये स्थानम् । यात्रावशाद्वा ॥२॥

तत्र भवनं आसन्नोदकं वृक्षवाटिकवद्विभक्तकर्मकक्षं द्विवासगृहं कारयेत् ॥३॥

बाह्ये च वासगृहे सुःश्लक्ष्णं उभयोपधानं मध्ये विनतं शुक्लोत्तरच्छदं शयनीयं स्यात् । प्रतिशय्यिका च । तस्य शिरोभागे कूर्चस्थानं वेदिका च । तत्र रात्रिशेषं अनुलेपनं माल्यं सिक्थकरण्डकं सौगन्धिकपुटिका मातुलुङ्गत्वचस्ताम्बूलानि च स्युः । भूमौ पतद्ग्रहः । नागदन्तावसक्ता वीणा । चित्रफलकम् । वर्तिकासमुद्गकः । यः कश्चित्पुस्तकः । कुरण्टकमालाश्च । नातिदूरे भूमौ वृत्तास्तरणं समस्तकम् । आकर्षफलकं द्यूतफलकं च । तस्य बहिः क्रीडाशकुनि पञ्जराणि । एकान्ते च तक्षतक्षञस्थानं अन्यासां च क्रीडानाम् । स्वःआस्तीर्णा प्रेङ्खदोला वृक्षवाटिकायां सःप्रच्छाया । स्थण्डिलपीठिका च सःकुसुमेति भवनन्यासः ॥४॥

स प्रातरुत्थाय कृतनियतकृत्यः गृहीतदन्तधावनः मात्रयानुलेपनं धूपं स्रजं इति च गृहीत्वा दत्त्वा सिक्थकं अलक्तकं च दृष्ट्वादर्शे मुखं गृहीतमुखवास ताम्बूलः कार्याण्यनुतिष्ठेत् ॥५॥

नित्यं स्नानम् । द्वितीयकं उत्सादनम् । तृतीयकः फेनकः । चतुर्थकं आयुष्यम् । पञ्चमकं दशमकं वा प्रत्यायुष्यं इत्यःहीनम् । सातत्याच्च संवृतकक्षास्वेदापनोदः ॥६॥

पूर्वाह्णापराह्णयोर्भोजनम् । सायं चारायणस्य ॥७॥

भोजनानतरं शुकसारिकाप्रलापनव्यापाराः । लावककुक्कुटमेषयुद्धानि तास्ताश्च कलाक्रीडाः । पीठमर्दविटविदूषकायत्ता व्यापाराः । दिवाशय्या च ॥८॥

गृहीतप्रसाधनस्यापराह्णे गोष्ठीविहाराः ॥९॥

प्रदोषे च संगीतकानि । तदन्ते च प्रसाधिते वासगृहे संचारितसुरभिधूपे सःसहायस्य शय्यायां अभिसारिकाणां प्रतीक्षणम् ॥१०॥

दूतीनां प्रेषणं स्वयं वा गमनम् ॥११॥

आगतानां च मनोहरैरालापैरुपचारैश्च सःसहायस्योपक्रमाः वर्षप्रमृष्टनेपथ्यानां दुरःदिनाभिसारिकाणां स्वयं एव पुनर्मण्डनं मित्रजनेन वा परिचरणं इत्याहोरात्रिकम् ॥१२॥

घटानिबन्धनं गोष्ठीसमवायः समापानकं उद्यानगमनं समस्याः क्रीडाश्च प्रवर्तयेत् ॥१४॥

पक्षस्य मासस्य वा प्रज्ञातेऽहनि सरस्वत्या भवने निय्क्तानां नित्यं समाजः ॥१५॥

कुशीलवाश्चागन्तवः प्रेक्षणकं एषां दद्युः । द्वितीयेऽहनि तेभ्यः पूजा नियतं लभेरन् । ततो यथाश्रद्धं एषां दर्शनं उत्सर्गो वा । व्यसनोत्सवेषु चैषां पर्स्परस्यैककार्यता ॥१६॥

आगन्तूनां च कृतसमवायानां पूजनं अभ्युपत्तिश्च ॥१७॥

चित्य्गणधर्मः ॥१७॥

एतेन तं तं देवताविशेषं उद्दिश्य संभावितस्थितयो घटा व्याख्याताः ॥१८॥

वेश्याभवने सभायां अन्यतमस्योद्वसिते वा समानविद्याबुद्धिशीलवित्तवयसां सह वेश्याभिरनुरूपैरालापैरासनबन्धो गोष्ठी ॥१९॥

तत्र चैशां काव्यसमस्या कलासमस्या वा ॥२०॥

तस्यां उज्ज्वला लोककान्ताः पूज्याः । प्रीतिसमानाश्चाहारितः ॥२१॥

परस्परभवनेषु चापानकानि ॥२२॥

तत्र मधुमैरेयसुरान्विविधलवणफलहरितशाकतिक्तकटुकाम्लोपदंशान्वेश्याः पाययेयुरनुपिबेयुश्च ॥२३॥

एतेनोद्यानगमनं व्याख्यातम् ॥२४॥

पूर्वाह्ण एव स्वःअलंकृतास्तुरगाधिरूढा वेश्याभिः सह परिचारकानुगता गच्छेयुः । दैवसिकीं च यात्रां तत्रानुभूय कुक्कुटयुद्धद्यूतैः प्रेक्षाभिरनुकूलैश्च चेष्टितैः कालं गमयित्वा अपराह्णे गृहीततदुपभोगचिह्नास्तथैव प्रत्याव्रजेयुः ॥२५॥

एतेन रचितोद्ग्राहोदकानां ग्रीष्मे जलक्रीडागमनं व्याख्यातम् ॥२६॥

यक्षरात्रिः । कौमुदीजागरः । सुःवसन्तकः ॥२७॥

सहकारभञ्जिका, अभ्यूषखादिका बिसखादिका नवपत्त्रिका उदकक्ष्वेडिका पाञ्चालानुयानं एकशाल्मली कदम्बयुद्धानि तास्ताश्च माहिमान्यो देश्याश्च क्रीडा जनेभ्यो विशिष्टं आचरेयुः । इति संभूयक्रीडाः ॥२८॥

एकचारिणश्च विभवसामर्थ्यात् ॥२९॥

गणिकाया नायिकायाश्च सखीभिर्नागरकैश्च सह चरितं एतेन व्याख्यातम् ॥३०॥

अःविभवस्तु शरीरमात्रो मल्लिकाफेनककषायमात्रपरिच्छदः पूज्याद्देशादागतः कलासु विचक्षणस्तदुपदेशेन गोष्ठ्यां वेशोचिते च वृत्ते साधयेदात्मानं इति पीठमर्दः ॥३१॥

भुक्तविभवस्तु गुणवान्सःकलत्रो वेशे गोष्ठ्यां च बहुमतस्तदुपजीवी च विटः ॥३२॥

एकदेशविद्यस्तु क्रीडनको विश्वास्यश्च विदूषकः । वैहासिको वा ॥३३॥

एते वेश्यानां नागरकाणां च मन्त्रिणः संधिविग्रहनियुक्ताः ॥३४॥

तैर्भिक्षुक्यः कलाविदग्धा मुण्डा वृषल्यो वृद्धगणिकाश्च व्याख्याताः ॥३५॥

ग्रामवासी च सःजातान्विचक्षणान्कौतूहलिकान्प्रोत्साह्य नागरकजनस्य वृत्तं वर्णयञ् श्रधांश्च जनयंस्तदेवानुकुर्वीत । गोष्ठीश्च प्रवर्तयेत् । संगत्या जनं अनुरञ्जयेत् । कर्मसु च साहाय्येन चानुगृह्णीयात् । उपकारयेच्च ॥३६॥

चिति नागरकवृत्तम् ॥३६॥

व्नात्यन्तं संस्कृतेनैव नात्यन्तं देशभाषया । कथां गोष्ठीषु कथयंल्लोके बहुमतो भवेत् ॥३७॥

व्या गोष्ठी लोकविद्विष्टा या च स्वैरविसर्पिणी । परहिंसात्मिका या च न तां अवतरेद्बुधः ॥३८॥

व्लोकचित्तानुवर्तिन्या क्रीडामात्रैककार्यया । गोष्ठ्या सहचरन्विद्वांल्लोके सिद्धिं नियच्छति ॥३९॥

चिति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे नागरकवृत्तं चतुर्थोऽध्यायः ॥४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-06-27T14:31:19.5300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ĀR(आर्)

  • The significance of the number six among the ancients, is given below. (In Malayālam Ār means six).
    1) Six factors which reduce the span of life.
    Eating dry meat, Drinking curd at night, Sleeping at dawn, Drinking impure water, Exposure to sun's heat in the morning, Inhaling fumes from dead body.
    2) Six divine qualities.
    Omniscience, Omnipresence, Omnipotence, Sarvakāraṇatva (being the cause of everything); Sarvanityatva (immortality) and Sarveśvaratva (having domination over everything).
    3) Six noblest qualities.
    Truth, Wisdom, Mercy, Justice, fortitude in grief, control of anger.
    4) Six Ṛsi Dharmas (Duties of Sages).
    Brahmacarya, Absolute truth, Japa, Jñāna (wisdom), Niyama, Sense of Justice.
    5) Six qualities of noble wives.
    A minister in business, a servant-maid in action, the goddess Lakṣmī in appearance, the Earth in patience, a mother in love and a prostitute in bed.
    6) Six qualities of a bad wife.
    Habit of dispute, stealing of money, showing favour to strangers, scandal-mongering, taking food earlier than the husband, spending most of the time in other houses.
    7) Six Vedāṅgas.
    Śikṣā, Kalpa, Vyākaraṇa, Nirukta, Jyotiṣa, Chandas.
     
RANDOM WORD

Did you know?

mahameruyantrachi shastrashudh mahiti sangavi. Gharat thevnyasathiche mahameruyantra pokal ki bhariv ?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.