TransLiteral Foundation

अधिकरणम् १ - अध्यायः १

महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे.


अध्यायः १
धर्मार्थकामेभ्यो नमः ॥१॥

शास्त्रे प्रकृतत्वात् (१) ॥२॥

तत्समयावबोधकेभ्यश्च आचार्येभ्यः । इति ॥३॥

तत्संबन्धात् । इति ॥४॥

प्रजापतिर्हि प्रजाः सृष्ट्वा तासां स्थितिनिबन्धनं त्रिवर्गस्य साधनं अध्यायानां शतसहस्रेणाग्रे प्रोवाच ॥५॥

तस्यैकदेशिकं मनुः स्वायंभुवो धर्माधिकारिकं पृथक्चकार ॥६॥

बृहस्पतिरर्थाधिकारिकम् ॥७॥

महादेवानुचरश्च नन्दी सहस्रेणाध्यायानां पृथक्कामसूत्रं प्रोवाच ॥८॥

तदेव तु पञ्चभिरध्यायशतैरौद्दालिकिः श्वेतकेतुः संचिक्षेप ॥९॥

तदेव तु पुनरध्यःअर्धेनाध्यायशतेन [१]साधारण[२]सांप्रयोगिक[३]कन्यासंप्रयुक्तक[ ४]भार्याधिकारिक[५]पारदारिक[६]वैशिक[७]औपनिषदिकैः सप्तभिरधिकरणैर्बाभ्रव्यः पाञ्चालः संचिक्षेप ॥१०॥

तस्य षष्टं वैशिकं अधिकरणं पाटलिपुत्रकाणां गणिकानां नियोगाद्दत्तकः पृथक्चकार ॥११॥

तत्प्रसङ्गाच्चारायणः साधारणं अधिकरणं प्रोवाच । सुवर्णनाभः सांप्रयोगिकम् । घोटकमुखः कन्यासंप्रयुक्तकम् । गोनर्दीयो भार्याधिकारिकम् । गोणिकापुत्रः पारदारिकम् । कुचुमार औपनिषदिकं इति ॥१२॥

एवं बहुभिराचार्यैस्तच्छास्त्रं खण्डशः प्रणीतं उत्सन्नकल्पं अभूत् ॥१३॥

तत्र दत्तकादिभिः प्रणीतानां शास्त्रावयवानां एकदेशत्वात्महदिति च बाभ्रवीयस्य दुरःआध्येयत्वात्संक्षिप्य सर्वं अर्थं अल्पेन ग्रन्थेन कामसूत्रं इदं प्रणीतम् ॥१४॥

तस्यायं प्रकरणाधिकरणसमुद्देशः॥१५॥

शास्त्रसंग्रहः । त्रिवर्गप्रतिपत्तिः । विद्यासमुद्देशः । नागरकवृत्तम् । नायकसहायदूतीकर्मविमर्शः । इति साधारणं प्रथमाधिकरणं अध्यायः पञ्च प्रकरणानि पञ्च ॥१६॥

प्रमाणकालाभावेभ्यो रतावस्थापनम् । प्रीतिविशेषाः । आलिङ्गनविचाराः । चुम्बनविकल्पाः ॥नखरदनजातयः । दशनच्छेद्यविधयः । देश्या उपचाराः संवेशनप्रकाराः चित्ररतानि प्रहणयोगः तद्युक्ताश्च सीत्कृतोपक्रमाः पुरुषायितं पुरुषोपसृप्तानि औपरिष्टकं रतारम्भावसानिकं रतविशेषाः प्रणयकलहः इति सांप्रयोगिकं द्वितीयं अधिकरणम् । अध्यया दश प्रकरणानि सप्तदश ॥१७॥

वरणविधानं सम्बन्धनिर्णयः कन्याविस्रम्भणं बालायाः उपक्रमाः इङ्गिताकारसूचनं एकपुरुषाभियोगः प्रयोज्यस्योपावर्तणं अभियोगतश्च कन्यायाः प्रतिपत्तिः विवाहयोगः इति कन्यासंप्रयुक्तकं तृतीयाधिकरणम् । अध्यायाः पञ्च प्रकरणानि नव॥१८॥

एकचारिणीवृत्तं प्रवासचार्या सपत्नीषु ज्येष्ठावृत्तं कनिष्ठावृत्तं पुनर्भूवृत्तं दुर्भगावृत्तं आन्तःपुरिकं पुरुषस्य बह्वीषु प्रतिपत्तिः इति भार्याधिकारिकं चतुर्थं अधिकरणं अध्यायौ द्वौ प्रकरणान्यष्टौ॥१९॥

स्त्रीपुरुषशीलावस्थापनं व्यावर्त्तनकारणानि स्त्रीषु सिद्धाः पुरुषाः अःयत्नसाध्या योषितः परिचयकारणानि अभियोगाः भावपरीक्षा दूतीकर्माणि ईश्वरकामितं अन्तःपुरिकं दाररक्षितकं इति पारदारिकं पञ्चमं अधिकरणं अध्यायाः षट्प्रकरणानि दश (२)॥२०॥

गम्यचिन्ता गमनकारणानि उपावर्तनविधिः कान्तानुवर्तनं अर्थागमोपायाः विरक्तलिङ्गानि विरक्तप्रतिपत्तिः निष्कासनप्रकाराः विशीर्णप्रतिसंधानम् ।लाभविशेषः अर्थानर्थानुबन्धसंशयविचारः वेश्याविशेषाश्च इति वैशिकं षष्टं अधिकरणं अध्यायः षट्प्रकरणानि द्वादश ॥२१॥

सुभगंकरणं वशीकरणं वृष्याश्च योगाः नष्टरागप्रत्यानयनं वृद्धिविधयः चित्राश्च योगाः इत्यौपनिषदिकं सप्तमं अधिकरणं अध्यायौ द्वौ प्रकरणानि षट् ॥२२॥

एवं षट्त्रिंशदध्यायाः चतुःशष्टिः प्रकरणानि (३) अधिकरणानि सप्त सःपादं श्लोकसहस्रं इति शास्त्रस्य संग्रहः ॥२३॥

व्संक्षेपं इमं उक्त्वास्य विस्तारोऽतः प्रवक्ष्यते । इष्टं हि विदुषां लोके समासव्यासभाषणम् ॥२४॥

 चिति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे शास्त्रसंग्रहः प्रथमोऽध्यायः ॥१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-06-27T14:31:18.5300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

BRĀHMAṆA(ब्राह्मण)

  • (BRĀHMIN).
    (1) Origin.
    Brāhmaṇas, Kṣatriyas, Vaiśyas, and Śūdras are the caturvarṇas or the four castes. The Purāṇas say that the four castes originated from different parts of the body of Brahmā. See Manusmṛti, Chapter 1, Stanza 87 “Sarvasyāsya tu sargasya Guptyarthaṁ sa mahādyutiḥ Mukhabāhūrūpajjānāṁ Pṛthakkarmāṇyakalpayat. (With a view to sustain the world, Brahmā ordered activities, for the four castes (Brāhmaṇa Kṣatriya, Vaiśya, and Śūdra) who were born from his face, arms, thighs and feet). From this statement it is seen that the Brāhmaṇas were born from the face, Kṣatriyas from the arms, Vaiśyas from the thighs and Sūdras from the feet of Brahmā.
    2) The activities of a Brāhmaṇa.
    The duties of a Brāhmaṇa are, performing sacrifice, and encouraging others to perform sacrifice, learning Vedas and teaching Vedas, giving gifts and getting remuneration. A Brāhmaṇa has two births in one life. Till the time of investiture with the sacred string is one birth and from that period onwards is the second birth. So a Brāhmaṇa is called ‘dvija’ or twice-born. The Brāhmaṇas were allowed to do the works of agriculture, keeping cows, trade and commerce and Kusīda (money-lending). Living on the interest of money giving out as loan is Kusīda. But they should not trade on products from cow, jaggery, salt, lac and flesh. The suffix ‘Śarmā’ should be added to the name of Brāhmaṇa. A Brāhmaṇa can have four wives.
     
RANDOM WORD

Did you know?

परदेशात १३ हा आंकडा अशुभ कां मानतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.