संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : उत्तरभागः|
अध्यायः ८२

उत्तरभागः - अध्यायः ८२

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


ऋषय ऊचुः॥
सूत साधो त्वयाख्यातं श्रीकृष्णचरितामृतम्॥
श्रुतं कृतार्थास्तेन स्मो वयं भवदनुग्रहात् ॥१॥

गते वसौ ब्रह्मलोकं मोहिनी विधिनंदिनी॥
किं चकार ततः पश्चात्तन्नो व्याख्यातुर्हसि ॥२॥

सूत उवाच॥
श्रृणुध्वमृषयः सर्वे मोहिन्याश्चरितं शुभम्॥
यच्चकार वसोः पश्चात्तीर्थानां परिसेवनम् ॥३॥

यथानुशिष्टा वसुना मोहिनी सा विधेः सुता॥
जगाम विधिता तीर्थयात्रार्थं स्वर्णदीतटम् ॥४॥

तत्र गत्वा समाप्लुत्य गंगादीनि तु वैधसी॥
चचार विधिवद्धृष्टा ब्राह्मणैः सह संगता ॥५॥

पुरोहितेन वसुना यस्य तीर्थस्य यो विधिः॥
कथितस्तत्प्रवकारेण सेवमाना चचार ह ॥६॥

तेषु तीर्थेषु देवांश्च विष्ण्वादीन्पूजयंत्यश॥
समर्पयंती विप्रेभ्यो दानानि विविधानि च ॥७॥

गयायां विधिवद्भर्तुः पिंडदानं चकार ह॥
काश्यां विश्वेश्वरं प्रार्च्य संप्राप्ता पुरुषोत्तमम् ॥८॥

तस्मिन् क्षेत्रे तु नैवेद्यं भुक्त्वा सा जगदीशितुः॥
शुद्धदेहा ततः पश्चात्संप्राप्ता लक्ष्मणाचलम् ॥९॥

तं समभ्यर्च्य विधिवद्गत्वा सेतुं समर्च्य च॥
रामेश्वरं महेंद्राद्रिं भार्गवं समवंदत ॥१०॥

गोकर्णं च शिवक्षेत्रं गत्वाभ्यर्च्य तमीश्वरम्॥
प्रभासं प्रययौ विप्राः सार्द्धं तैर्द्विजसत्तमैः ॥११॥

स्नात्वा संतर्प्य देवादींस्तस्य यात्रां विधाय च॥
द्वारकायां हरिं दृष्ट्वा कुरुक्षेत्रं जगाम सा ॥१२॥

तत्रापि विधिवद्यात्रां संविधाय नरेश्वरी॥
गंगाद्वारमुपेयाय तत्र सस्नौ विधानतः ॥१३॥

ततस्तु दृष्ट्वा कामोदां नमस्कृत्य मुदान्विता॥
बदर्याश्रममासाद्य नरनारायणावृषी ॥१४॥

समभ्यर्च्याथ कामाक्षीं ययौ द्रष्टुं त्वरान्विता॥
सिद्धनाथं नमस्कृत्य ततोऽयोध्यामुपागता ॥१५॥

स्नात्वा सरय्वां विधिवत्प्रार्च्य सीतापतिं ततः॥
मध्ययात्रामुपाश्रित्य ययावमरकंटकम् ॥२६॥

महेशं तत्र संपूज्य प्रतिस्रोतस्तुनर्मदाम्॥
संसेव्योंकारमीशानं दृष्ट्वा माहिष्यतीं ययौ ॥१७॥

त्र्यंबकेशं ततः प्रार्च्य संप्राप्ता सा त्रिपुष्करम्॥
पुष्करेषु विधानेन दत्वा दानान्यनेकशः ॥१८॥

संप्राप्ता सा तु मथुरां सर्वतीर्थोत्तमोत्तमाम्॥
विधायाभ्यंतरीं यात्रां योजनानां तु विंशतिम् ॥१९॥

परिक्रम्य पुरीं पश्चाच्चतुर्व्यूहं ददर्श सा॥
स्नात्वा विंशतितीर्थे तु समाप्याथ प्रदक्षिणाम् ॥२०॥

धेनूनामयुतं प्रादान्माथुरेभ्यो ह्यलंकृतम्॥
संभोज्य तान्वरान्नेन भक्तिक्लिन्नेन चेतसा ॥२१॥

नमस्कृत्य विसृज्यैतान्कालिंदीं समुपाविशत्॥
ततः प्रविष्टा सा देवीं कालिंदीमघनाशिनीम् ॥२२॥

नाद्यापि निर्गता भूयो यमतिथ्यंतमास्थिता॥
स्नार्तान्सूर्योदयं प्राप्य श्रौतानप्यरुणोदयम् ॥२३॥

निशीथं वैष्णवान्विप्राः प्राप्य दूषयते व्रतान्॥
मोहिनीवेधरहिता मुपोष्यैकादशीं नरः ॥२४॥

द्वादश्यां विष्णुमभ्यर्च्य वैकुंठं यात्यसंशयम्॥
मोहिनी विधिजा देवी विष्णुजैकादशी द्विजाः ॥२५॥

विष्णुजास्पर्द्धया धात्रा मोहिनी सा विनिर्मिता॥
रुक्मांगदस्तु राजर्षिर्विष्णुभक्तिपरायणः ॥२६॥

न तु वारयितुं शक्ता सा तमेकादशीव्रतात्॥
विष्णुलोकं गते तस्मिन्सभार्ये ससुते नृपे ॥२७॥

स्पर्द्धंत्यैकादशीं सिद्धिं यमान्ते मोहिनी स्थिता॥
इत्येतदुक्तं विप्रेंद्रा मोहिनीचरितं मया ॥२८॥

यदर्थं निर्मिता धात्रा तथा चात्रा व्यवस्थिता॥
नारदीयोत्तरं ह्येतत्प्रोक्तं वो भुक्तिमुक्तिदम् ॥२९॥

अत्र सम्यग्घरेर्भक्तिः साध्यतेऽनुपदं नृणाम्॥
नारदीयं पुराणं तु लक्षणैर्द्दशभिर्युतम् ॥३०॥

यः श्रृणोति नरो भक्त्या स गच्छैद्वैष्णवं पदम्॥
धर्मार्थकाममोक्षाणां चतुर्ण्णां कारणं परम् ॥३१॥

सर्वेषां च पुराणानामिदं बीजं सनातनम्॥
प्रवृत्तं च निवृत्तं च पुराणेऽस्मिन्द्विजोत्तमाः ॥३२॥

विस्तगदुदितं सर्वं पाराशर्येण धीमता॥
अलौकिकचरित्राढ्यं पुराणं नारदीयकम् ॥३३॥

यस्मै कस्मै न दातव्यं मह्यं व्यासेन कीर्तितम्॥
हित्वा स्वशिष्यान्पैलादीन्मह्यं नारदसहिताम् ॥३४॥

यो व्याचक्रे नमस्तस्मै वेदव्यासाय विष्णवे॥
पुराणसंहितामेतां नारदाय विपश्चिते ॥३५॥

सनकाद्या प्रहाभागा मुनयः प्रचकाशिरे॥
हंसस्वरूपी भगवान्यदातं तं ब्रह्म शाश्वतम् ॥३६॥

तदुपादिशतेभ्यो विज्ञानेन विजृंभितम्॥
तदिदं भगवान्साक्षान्नारदोऽध्यात्मदर्शनः ॥३७॥

वेदव्यासाय मुनये रहस्यं निर्दिदेश ह॥
मया प्रकाशितं ह्येतद्रहस्यं भुवि दुर्लभम् ॥३८॥

चतुर्वर्गप्रदं नॄणां श्रृण्वतां पठतां सदा॥
विप्रो वेदनिधिर्भूयात्क्षत्रियो जयते महीम् ॥३९॥

वैश्यो धनसमृद्धः स्याच्छ्रूद्रो मुच्येत दुःखतः॥
पंचविंशतिसाहस्री संहितेयं प्रकीर्तिता ॥४०॥

पंचपादसमायुक्ता कृष्णद्वैपायनेन ह॥
अस्यां वै श्रूयमाणायां सर्वसंदेहभंजनम् ॥४१॥

पुंसां सकामभक्तानानिष्कामानां विमोक्षणम्॥
पुण्यतीर्थं समासाद्य नैमिषं पुष्करं गयाम् ॥४२॥

मथुरां द्वारकां विप्रा नरनारायणाश्रमम्॥
कुरुक्षेत्रं नर्मदां च क्षेत्रं श्रीपुरुषोत्तमंम् ॥४३॥

हविष्याशी धराशायी निःसंगो विजितेंद्रियः॥
पठित्वा संहितामेनां मुच्यते भवसागरात् ॥४४॥

एकादशी व्रतानां च सरितां जाह्नवी यथा॥
वृंदावनमरण्यानां क्षेत्राणां कौरवं यथा ॥४५॥

यथा काशी पुरीणां च तीर्थानां मथुरा यथा॥
सरसां पुष्करं विप्राः पुराणानामिदं तथा ॥४६॥

गणेशभक्ताः सौराश्च वैष्णवाः शाक्तशांभवाः॥
सर्वेऽधिकारिणो ह्यत्र सकामाश्चाप्यकामकाः ॥४७॥

यं यं काममभिध्यायन्नरो नार्यथवादरात्॥
श्रृणोति श्रावयेद्वापि तं तं प्राप्नोति निश्चितम् ॥४८॥

रोगार्तो मुच्यते रोगाद्भयार्तो निर्भयो भवेत्॥
जयकामो जयेच्छत्रून्नारदीयानुशीलनात् ॥४९॥

सृष्ट्यादौ रजसा विश्वं मध्ये सत्त्वेन पाति यः॥
तमसोंऽते ग्रसेदेत तस्मै सर्वात्मने नमः ॥५०॥

ऋषयो मनवः सिद्धा लोकपलाः प्रजेश्वराः॥
ब्रह्माद्या रचिता येन तस्मै ब्रह्मात्मने नमः ॥५१॥

यतो वाचो निवर्तंते न मनो यत्र संविशेत्॥
तद्विद्यादात्मनो रूपं ह्यरूपस्य चिदात्मनः ॥५२॥

यस्य सत्यतया सत्यं जगदेतद्विकाशते॥
विचित्ररूपं वंदे तं निर्गुणं तमसः परम् ॥५३॥

आदौ मध्ये चाप्यजनश्चांते चैकाक्षरो विभुः॥
विभाति नानारूपेण तं वंदेऽहं निरंजनम् ॥५४॥

निरंजनात्समुत्पन्नं जगदेतच्चराचरम्॥
तिष्टत्यप्येति वा यस्मिंस्तत्सत्यं ज्ञानमद्वयम् ॥५५॥

शिवं शैवा वदेत्येनं प्रधानं सांख्यवेदिनः॥
योगिनः पुरुषं विप्राः कर्म मीमांसका जनाः ॥५६॥

विभे वैशेषिकाद्याश्च विच्छक्तिं शक्तिचिंतकाः॥
ब्रह्माद्वितीयं तद्वंदे नानारूपक्रियास्पदम् ॥५७॥

भक्तिर्‌भगवतः पुंसां भगवद्रूपकारिणी॥
तां लब्ध्वा चापरं लाभं को वांछति विना पशुम् ॥५८॥

भगवद्विमुखा ये तु नराः संसारिणो द्विजाः॥
तेषां मुक्तिर्भवाटव्या नास्ति सत्संगमंतरा ॥५९॥

साधवः समुदाचाराः सर्वलोकहिता वहाः॥
दीनानुकंपिनो विप्राः प्रपन्नास्तारयंति हि ॥६०॥

यूयं धन्यतमा लोके मुनयः साधुसंमताः॥
यन्मुहुर्वासुदेवस्य कीर्तिं पल्लवनूतनाम् ॥६१॥

धन्योऽस्म्यनुगृहीतोऽस्मि भवद्भिर्लोकमंगलम्॥
यत्स्मारितो हरिः साक्षात्सर्वकारणकारणम् ॥६२॥

॥ॐ॥ इति श्रीनारदीयपुराणे बृहदुपाख्याने उत्तरभागे महापुराणश्रवणादिफलनिरूपणं नाम व्द्यशीतितमोऽध्यायः ॥८२॥

समाप्तमिदं सप्तमं नारदीयं महापुराणम्॥

N/A

References : N/A
Last Updated : May 09, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP