संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : उत्तरभागः|
अध्यायः ८०

उत्तरभागः - अध्यायः ८०

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


अथ वृन्दावनमाहात्म्यम्॥

मोहिन्युवाच॥
मथुरायास्तु माहात्म्यं वनानां चापि मानद॥
श्रुतं बृन्दावनस्यापि रहस्यं किंचिदीरय ॥१॥

वृंदारण्यं भुवो ब्रह्मन्कीर्तिरूपं रहोगतम्॥
तच्छ्रोतुं मम वांछास्ति तन्निरूपय विस्तरात् ॥२॥

वसु रुवाच॥
श्रृणु देवि रहस्यं मे वृन्दारण्यसमुद्भवम्॥
यन्न कस्मैचिदाख्यातं मया प्राप्य गुरूत्तमात् ॥३॥

गुरवे कथितं भद्रे नारदेन महात्मना॥
वृन्दया नारदायोक्तं रहस्यं गोपिकापतेः ॥४॥

तत्तेऽहं संप्रवक्ष्यामि जगदुद्धारकारणम्॥
एकदा नारदो लोकान्पर्यटन्भगवत्प्रियः ॥५॥

बृन्दारण्यं समासाद्य तस्थौ पुष्पसरस्तटे॥
पश्चिमोत्तरतो देवि माथुरे मंडले स्थितम् ॥६॥

बृन्दारण्यं तुरीयांशं गोपिकेशरःस्थलम्॥
गोवर्द्धनोयत्र गिरिः सखिस्थलसमीपतः ॥७॥

बृन्दायास्तत्तपोऽरण्यं नंदिग्रामानुयामुनम्॥
तटे तु यामुने रम्ये रम्यं बृंदावनं सति ॥८॥

पुण्यं तत्रापि सुभगे सुपुण्यं कौसुमं सरः॥
वृंदायास्तु तटे रम्ये आश्रमोऽतिसुखावहः ॥९॥

नित्यं विश्रमते यत्र मध्याह्ने सखिभिर्हरिः॥
मुहूर्तं स तु विश्रम्य स्निग्धच्छायतरोस्तले ॥१०॥

शीतलं पुष्पसरसो वार्युपस्पृश्य नारदः॥
कृत्वा माध्याह्निकं कर्म तस्थौ तत्र सरस्तटे ॥११॥

तत्र वृन्दाश्रमे रम्ये गोप्यो गोपाश्च मोहिनि॥
आयांति वर्गशो यांति नारदस्य विपश्यतः ॥१२॥

अथैवं याममेकं तु तत्र स्थित्वा तु नारदः॥
प्रहरार्द्धावशिष्टेऽह्नि विवेशाश्रममद्भुतम् ॥१३॥

यत्र वृन्दा स्थिता देवी कृष्णभक्तिपरायणा॥
समागतानां सत्कारं विदधाना फलादिभिः ॥१४॥

तां दृष्ट्वा तापसीं भद्रे नारदः साधुसम्मतः॥
नमस्कृत्य विनम्रांगो निषसाद धरातले ॥१५॥

ततः सा ध्यानयोगांते समुन्मील्य विलोचने॥
आसनं संदिदेशाथोऽतिथये नारदाय वै ॥१६॥

ततः स नारदस्तत्र सत्कृतो वृन्दयावसत्॥
रहस्यं गोपिकेशस्य तस्या जिज्ञासुरादरात् ॥१७॥

तया कृतां सत्कृतिं तु स्वीकृत्य विधिनंदनः॥
सुप्रसन्नांतरां वृन्दां ज्ञात्वा हार्दं व्यजिज्ञपत् ॥१८॥

सा तु तद्वांछितं ज्ञात्वा ध्यानयोगेन भामिनि॥
स्वसखीं माधवीं तत्र समाहूयाब्रवीदिदम् ॥१९॥

माधवि प्रियमेतस्य नारदस्य महात्मनः॥
संपादय यथा मह्यमाश्रमस्य सुपुण्यता ॥२०॥

स्वाश्रमं ह्यागतस्चैव यो न संपादयेत्प्रियम्॥
निष्फलो ह्याश्रमस्तस्य फेरुराजगृहोपमः ॥२१॥

अथ सा माधवी देवी नीत्वा नारदमाज्ञया॥
स्वाधिष्ठात्र्यास्तु वृन्दायाः सरसस्तटमुत्तमम् ॥२२॥

पश्चिमोत्तरतस्तस्मिन्स्नातुं तं संदिदेश ह॥
ततस्तदाज्ञया भद्रे नारदो देवदर्शनः ॥२३॥

निममज्जं जले तस्मिन्ध्यायञ्छ्रीकृष्णसंगमम्॥
निमज्जमाने सरसि नारदे मुनिसत्तमे ॥२४॥

ययौ वृन्दांतिकं भद्रे संविधाय तदीप्सितम्॥
अथासौ नारदस्तत्र सन्निमज्योद्गतस्तदा ॥२५॥

ददर्श निजमात्मानं वनितारूपमद्भुतम्॥
ततस्तु परितो वीक्ष्य नारदी सा शुचिस्मिता ॥२६॥

पूर्वोत्तरायां तिष्ठंती आह्वयंती करेंगितैः॥
ददर्श वनितां रम्यां भूषितां भूषणोत्तमैः ॥२७॥

ततस्तया समाहूता नारदी सा तदंतिकम्॥
प्राप्ता विश्वासिता स्वस्था नीता चापि स्थलांतरम् ॥२८॥

रत्नप्राकारखचिते भवने वनिताकुले॥
प्रापय्य तां निवृत्तासौ सापि ताभिः सुसत्कृता ॥२९॥

विशाखादिसखीवृन्दैराश्वास्याऽऽल्यैकया ततः॥
प्रापिताभ्यंतरं देवि सापश्यद्गोपिकेश्वरम् ॥३०॥

दूत्यां तस्यां निवृत्तायां समाहूता प्रियेण सा॥
नारदी प्रणिपत्येशं लज्जानम्रांतिकं ययौ ॥३१॥

रसिकेन समाश्लिष्य रमयित्वा विसर्ज्जिता॥
क्रमेणैव तु संप्राप्ता सा पुनः कौसुमं सरः ॥३२॥

सा पुनस्तत्र माधव्या मज्जिता तक्षपश्चिमे॥
पुंभावमभिसंप्राप्तो नारदो विस्मितोऽभवत् ॥३३॥

ततो वृन्दाज्ञया तत्र सरसः पूर्वदक्षिणे॥
एकांतं तप आस्थाय तस्थौ तत्प्रेक्षणोत्सुकः ॥३४॥

एवं तपस्यतस्तस्य नारदस्य महात्मनः॥
वृन्दया प्रेषितैर्वृंत्तिं निजां कल्पयतः फलैः ॥३५॥

एकदा नारदस्तत्र विचरन्नाश्रमांतरे॥
शुश्राव सौभगं शब्दं कयाचित्समुदीरितम् ॥३६॥

तच्छ्रुत्वा कौतुकाविष्टो नारदोऽध्यात्मदर्शनः॥
विचिन्वन्वनमास्थाय न ददर्श च तत्पदम् ॥३७॥

ततः स विस्मयाविष्टो वृंदां पप्रच्छ सादरम्॥
सापि तस्मै समाचख्यौ कुब्जावृत्तांतमादितः ॥३८॥

भूम्यंतरगृहस्थाना कुब्जा नारी वरा विभोः॥
काममेकांतके स्वेशं समुपाचरति स्वयम् ॥३९॥

न तां कोऽपि मुनिश्रेष्ठ विजानाति मया विना॥
ततः संक्षेपतो वक्ष्ये यां दिदृक्षुस्तपोऽचरः ॥४०॥

प्रातः प्रबोधितो मात्रा स्नात्वा भुक्त्वानुगान्वितः॥
गोचारणाय विपिने वृन्दावन उपाविशत् ॥४१॥

सखिभिर्गोपकैः क्रीडां कुर्वन्संवारयंश्च गाः॥
द्वित्रैः प्रियसखैरत्र ममाश्रम उपाव्रजत् ॥४२॥

मया प्रकल्पितैर्वत्सभवने सार्वकामिके॥
फलमूलादिभिर्भक्ष्यैस्तर्पितः प्रिययाऽस्वपगत् ॥४३॥

सुसख्या राधया तत्र सेव्यमानो व्रजप्रियः॥
सार्द्धयामं विहरति निकुंजेषु पृथक् पृथक् ॥४४॥

राधादिभिस्तत्र सुप्तो वीजितः शयनं गतः॥
सार्द्धयामे स्वयं बुद्धो निजाः संमान्य ताः प्रियाः ॥४५॥

गोपैर्गोभिर्वृतः सायं व्रजं याति प्रहर्षितः॥
सख्यः सखिस्थलं प्राप्य प्रियां संचय राधिकाम् ॥४६॥

तया सह विशालाक्ष्यः स्वगेहान्यान्ति चान्वहम्॥
एवं गतागतं कुर्वल्लीँलां नित्यमुपागतः ॥४७॥

मयैव दृश्यते वत्स नापि ब्रह्मभवादिभिः॥
मयाप्यलक्षितं वत्स कुब्जासंकेतवैभवम् ॥४८॥

प्रीतप्रियोक्त्या जानामि सुगोप्यं प्रवदामि ते॥
अंगरागार्पणात्पुण्यात्प्राप्ता संकेतमुत्तमम् ॥४९॥

सदा सा सेवनव्यग्रा सैकैकेनाप्यनेकधा॥
शतकोटिमितान्येवं मिथुनानि वसंति हि ॥५०॥

कुब्जाकृष्णानुरूपाणि नानाक्रीडापराणि च॥
संभूतान्याद्यमिथुनात्स्थावरं भावयंत्यपि ॥५१॥

गतागतविहीनानि नित्यं नवनवानि च॥
तदगम्यं तृतीयस्य द्वितीयस्यैकतां गतम् ॥५२॥

रूपं विलक्षणं विप्र सृष्टिस्थितिलयैकलम्॥
एकैवाहं विजानामि श्रुत्वा त्वमप्यथा ॥५३॥

दग्धः षट्कर्णगो मंत्र इत्युक्तं समुपाचर॥
श्रुत्वैतद्दुर्लभं सोऽपि वृन्दोक्त्या नारदो मुनिः ॥५४॥

उभयं चिंतयन्प्राप्तो मुनिस्तत्रैव तत्परम्॥
एतद्रहस्यं विधिजे विषयं गुरुशिष्ययोः ॥५५॥

नैव कोऽप्यपरो वेत्ति धर्मः सैवावयोरपि॥
एक एव विजानाति वक्तुः श्रोतैकतः शुभे ॥५६॥

तदेकं तत्त्वमेवास्ति नेह नानास्ति किंचन॥
गदितं ते महाभागे रहस्यं गोपिकेशितुः ॥५७॥

प्रकाशच्चरितं चापि वक्ष्ये सम्यङ्निशामय॥
यत्र संदर्शितं तत्त्वं त्वत्पित्रे विधिनंदिनि ॥५८॥

तद्ब्रह्मकुंडमेतद्धि पुण्यं वृन्दावने वने॥
तत्र यः स्नाति मनुजो मूलवेषं विभावयन् ॥५९॥

वैभवं पश्यते किंचिदेवं नित्यविहारिणः॥
शक्रेण ज्ञाततत्त्वेन गोविन्दो यत्र चिंतितः ॥६०॥

गोविंदकुंडं तद्भदे स्नात्वा तत्रापि तल्लभेत्॥
एकानेकस्वरूपेण यत्र कुंजविहारिणा ॥६१॥

बल्लवीभिः समारब्धो रासस्तदपि तद्विधम्॥
यत्र नंदादयो गोपा ददृशुर्वैभवं विभोः ॥६२॥

तच्च तत्त्वप्रकाशाख्यं तीर्थँ श्रीयमुनाजले॥
दर्शितं यत्र गोपानां कालियस्य विमर्दनम् ॥६३॥

तच्च पुण्यं समाख्यातं तीर्थं पापापहं नृणाम्॥
दावाग्नेर्मोचिता यत्र सस्त्रीबालधनार्भकाः ॥६४॥

गोपाः कृष्णेन तत्पुण्यं तीर्थं स्नानादघापहम्॥
यत्र केशी हतस्तेन लीलयैव हयाकृतिः ॥६५॥

तत्र स्नातस्तु मनुजो लभते धाम वैष्णवम्॥
यत्र दुष्टो वृषस्तेन हतस्तत्राभवच्छुचिः ॥६६॥

अरिष्टकुंडं विख्यातं स्नानमात्रेण मुक्तिदम्॥
धेनुकोऽघो बको वत्सो व्योमो लंबासुरोऽपि च ॥६७॥

हताः कृष्णेन लीलासु तत्र तीर्थानि यान्यपि॥
तेषु स्नात्वा नरो भक्तः संतर्प्य पितृदेवताः ॥६८॥

लभते वांछितान्कामान् गोपालस्य प्रसादतः॥
सुप्तं भुक्तं विचरितं श्रुतं दृष्टं विलक्षणम् ॥६९॥

कृतं यत्र च तत्क्षेत्रं स्नानात्स्वर्गगतिप्रदम्॥
श्रुतः संचिंतितो दृष्टो नतः श्लिष्टः स्तुतोऽर्थितः ॥७०॥

यत्र पुण्यनरैर्भद्रे तच्च तीर्थं गतिप्रदम्॥
यत्र श्रीराधया भद्रे तपस्तप्तं सुदारुणम् ॥७१॥

तच्छ्रीकुंडं महत्पुण्यं स्नाने दाने जपादिके॥
वत्सतीर्थं चंद्रसरस्तथैवाप्सरसां सरः ॥७२॥

रुद्रकुंडं कामकुंडं परमं मंदिरं हरेः॥
विशालालकनंदाढ्या नीपखण्डं मनोहरम् ॥७३॥

विमलं धर्मकुंडं च भोजनस्थलमेव च॥
बलस्थानं बृहत्सानुः संकेतस्थानकं हरेः ॥७४॥

नंदिग्रामः किशोर्याश्च कुंडं कोकिलकाननम्॥
शेषशायिपयोऽब्धिश्च क्रीडादेशोऽक्षयो वटः ॥७५॥

रामकुंडं चीरचैर्यं भद्रभांडीरबिल्वकम्॥
मानाह्वं च सरः पुण्यं पुलिनं भक्तभोजनम् ॥७६॥

अक्रूरं तार्क्ष्यगोविंदं बहुलारण्यकं शुभे॥
एतद्बृन्दावनं नाम समंतात्पंचयोजनम् ॥७७॥

सुपुण्यं पुण्यकृज्जुष्ठं दर्शनादेव मुक्तिदम्॥
यस्य संदर्शनं देवा वांछंति च सुदुर्लभम् ॥७८॥

लीलामाभ्यंतरीं द्रष्टुं तपसापि न च क्षमाः॥
सर्वत्र संगमुत्सृज्य यस्तु वृन्दावनं श्रयेत् ॥७९॥

न तस्य दुर्लभं किंचित्त्रिषु भामिनि॥
वृन्दावनेति नामापि यः समुच्चरति प्रिये ॥८०॥

तस्यापि भक्तिर्भवति सततं नंदनंदने॥
यत्र वृन्दावने पुण्ये नरनारीप्लवंगमाः ॥८१॥

कृमिकीटपतंगाद्याः खगा वृक्षा नगा मृगाः॥
समुच्चरंति सततं राधाकृष्णेति मोहिनि ॥८२॥

कृष्णमायाभिभूतानां कामकश्मलचेतसाम्॥
स्वप्नेऽपि दुर्लभं पुंसां मन्ये वृन्दावनेक्षणम् ॥८३॥

वृन्दारण्यं तु यैर्दृष्टं नरैः सुकृतिभिः शुभे॥
तैः कृतं सफलं जन्म कृपापात्राणि ते हरेः ॥८४॥

किं पुनर्बहुनोक्तेन श्रुतेन विधिनंदिनि॥
सेव्यं वृन्दावनं पुण्यं भव्यं मुक्तिमभीप्सुभिः ॥८५॥

दृश्यं गम्यं च संसेव्यं ध्येयं वृन्दावनं सदां॥
नास्ति लोके समं तस्य भुवि कीर्तिविवर्द्धनम् ॥८६॥

यत्र गोवर्द्धनो नाम द्विजः कल्पे पुरातने॥
विरक्तः सर्वसंसारात्तप्तवान्परमं तपः ॥८७॥

तद्गत्वा देवि देवेशो भगवान्विष्णुरव्ययः॥
क्रीडास्थानं निजं प्राप्तो वरं दातुं द्विजन्मने ॥८८॥

तं दृष्ट्वा देवदेवेशं शंखचक्रगदाधरम्॥
विलसत्कौस्तुभोरस्कं मकराकृतिकुंडलम् ॥८९॥

सुकिरीटं सुकटकं कलनूपुरभूषितम्॥
वनमालानिवीतांगं श्रीवत्सांकितवक्षसम् ॥९०॥

पीतकौशेयवसनं नवांबुदसमप्रभम्॥
सुनाभिं सुंदरग्रीवं सुकपोलं सुनासिकम् ॥९१॥

सुद्विजं सुस्मितं सुष्ठुजानूरुभुजमध्यकम्॥
कृपार्णवं प्रमुदितं सुप्रसन्नमुखांबुजम् ॥९२॥

दृष्ट्वा स सहसोत्थाय ननाम भुवि दंडवत्॥
वरं ब्रूहिति निर्द्दिष्टो प्राह गोवर्द्धनो हरिम् ॥९३॥

पद्भ्यामाक्रम्य मत्पृष्ठे तिष्ठ चैष वरो मम॥
तच्छ्रुत्वा भक्तवश्यो वै विचिंत्य च पुनः पुनः ॥९४॥

तस्थौ तत्पृष्ठमाक्रम्य तदा भूयो द्विजोऽब्रवीत्॥
नाहं त्वामुत्सहे देव निजपृष्ठे जगत्पते ॥९५॥

अवतारयितुं तस्मादेवमेव स्थिरो भव॥
ततः प्रभृति विश्वात्मा त्यक्त्वा गोवर्द्धनं द्विजम् ॥९६॥

गिरिरूपधरं याति नित्यं योगिवनं क्वचित्॥
कृष्णावतारे भगवान् ज्ञात्वा गोवर्द्धनं द्विजम् ॥९७॥

संप्राप्तं निजसारूप्यं नंदाद्यैः समभोजयत्॥
अन्नकूटेन दोहेन तर्पयित्वाचलं द्विजम् ॥९८॥

तृट्परीतं समाज्ञाय नवमेघानपाययत्॥
मित्रं स वासुदेवस्य संजातं तेन कर्मणा ॥९९॥

तं यो भक्त्या नरो देवि पूजयेदुपचारकैः॥
प्रदक्षिणं परिक्रामेन्न तस्य पुनरुद्भवः ॥१००॥

गोवर्द्धनो गिरिः पुण्यो जातो हरिनिवासतः॥
तं दृष्ट्वा दर्शनेनालमन्यपुण्याचलस्य च ॥१०१॥

यामुनं पुलिनं रम्यं कृष्णविक्रीडनांचितम्॥
त्वमेव ब्रूहि सुभगे क्वान्यत्र जगतीतले ॥१०२॥

तस्मात्सर्वप्रयत्नेन त्यक्त्वा वननदीगिरीन्॥
सु पुण्यान्पुण्यदान्नॄणां सेव्यं वृन्दावनं सदा ॥१०३॥

यमी पुण्या नदी यत्र पुण्यो गोवर्द्धनो गिरिः॥
तत्किं वृन्दावनात्पुण्यमरण्यं भुवि विद्यते ॥१०४॥

कलिकल्मषभीतानां विषयासक्तचेतसाम्॥
नान्यं बृन्दावनात्सेव्यमस्ति लोकेष्वपि त्रिषु ॥१०५॥

यस्मिन्नित्यं विचरंति हरिर्गोपगोगोपिकाभिर्बर्हापीडी नटवरवपुः कर्णिकारावतंसी॥
वंशीहंसीस्वनजितरवो वैजयंतीवृतांगो नंदस्यांगाद्धृतमणिगणीयश्च हंसोऽहमाख्यः ॥१०६॥

यस्य ध्यानं नगजनियुतोऽहर्निशं वै गिरीशो भक्तिक्लिन्नो रहसि कुरुते ह्यर्द्धनारीश्वराख्यः॥
गायत्रीं स्त्रीं हृदयकुडरे पद्मयोनिर्विधत्ते नेत्रैरिन्द्रो दशशतमितैर्वीक्षते वै शचीं ताम् ॥१०७॥

अश्रोत्रेशो रहसि वनितां रक्षति स्वां रसज्ञो वंशीनादश्रवणजभिया कान्यवार्ता जनानाम्॥
छेदं शोषं तदनु दहनं भेदनं प्राप्य यासीच्छ्रीगोपीशाधरजनिसुधां सादरं शीलयंती ॥१०८॥

याभिर्वृंदावनमनुगतो नंदसूनुः क्षपासु रेमे चंद्रांशुकलितसमुद्योतभद्रे निकुञ्जे॥
तासां दिष्टं किमहमधुना वर्णये बल्लवीनां यासां साक्षाच्चरणजरजः श्रीशविध्याद्यलभ्यम् ॥१०९॥

यत्र प्राप्तास्तृणमृगखगा ये कृमिप्राणि वृन्दा वृन्दारण्ये विधिहररमाभ्यर्हणीया भवंति॥
तत्संप्राप्याद्वयपदरतो ब्रह्मभूयं गतः कौ प्रेमस्निग्धो विहरति सुखांभोधिकल्लोलमग्नः ॥११०॥

यत्र क्रूराः सहजमसुभृद्रातजाता विसृज्य वैरं स्वैरं सुहृद् इव तत्सौख्यमेवाश्रयंते॥
तत्किं प्राप्य प्रभुमिव जनः संपरित्यज्य गच्छन्क्वाप्यन्यत्र प्रभवति सुखी कृष्णमायाकरंडे ॥८-१११॥

वृन्दारण्यं तदखिलधरापुण्यरूपं श्रयन्मे स्वांतं ध्वांतं जगदिदमधः कृत्य वर्वर्ति शश्वत्॥
गोपीनाथः प्रतिपदमपि प्रेमसंक्लिन्नचेता नीचं वोच्चं न च गणयति प्रोद्धरत्येव भक्तान् ॥११२॥

गोपान् गोपीः खगमृगागोपगोभूरजांसि स्मृत्वा प्रणमति जने प्रेमरज्ज्वा निबद्धः॥
दास्यं भक्ते कलयतितरां तत्किमन्यं व्रजेशात्सेव्यं देवं गणय विधिजेऽहं तु जानामि नैव ॥११३॥

एतत्संक्षेपतः प्रोक्तं वृन्दारण्यसमुद्भवम्॥
माहात्म्यं विधिजे तुभ्यं वक्तव्यं नावशेषितम् ॥११४॥

संसारभीतैर्मनुजैरेतदेव सदानद्यैः॥
श्रोतव्यं कीर्तनीयं च स्मर्तव्यं ध्येयमेव च ॥११५॥

वृन्दा रण्यस्य माहात्म्यं यः श्रृणोति नरः शुचिः॥
कीर्तयेद्वापि विधिजे सोऽपि विष्णुर्न संशयः ॥११६॥

इति श्रीबृन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे श्रीवृन्दावनमाहात्म्यं नामाशीतितमोऽध्यायः ॥८०॥

N/A

References : N/A
Last Updated : May 09, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP