संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : उत्तरभागः|
अध्यायः ६०

उत्तरभागः - अध्यायः ६०

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


वसुरुवाच॥
ततो गच्छेद्विधिसुते तीर्थँ यज्ञांगसंभवम्॥
इंद्रद्युम्नसरो नाम यत्रास्ते पावनं शुभम् ॥१॥

तत्र गत्वा शुचिर्विद्वानाचम्य मनसा हरिम्॥
ध्यात्वोपस्थाय च विभुं मंत्रमेनमुदीरयेत् ॥२॥

"अश्वमेधांगसंभूत तीर्थ सर्वाघनाशन॥
स्नानं त्वयि करोम्यद्य पापं हर नमोऽस्तु ते" ॥३॥

एवमुच्चार्य विधिवत्स्नात्वा देवान् ऋषीन्पितॄन्॥
तोलोदकेन वान्यांश्च संतर्प्याचम्य वाग्यतः ॥४॥

दत्वा पितॄणां पिंडांश्च संपूज्य पुरुषोत्तमम्॥
दशाश्वमेधिकं सम्यक्फलं प्राप्नोति मानवः ॥५॥

सप्तावरान्सप्त परान्वंशानुद्धृत्य देववत्॥
कामगेन विमानेन विष्णुलोकं स गच्छति ॥६॥

भुक्त्वा तत्र वरान्भोगान्यावच्चंद्रार्कतारकम्॥
च्युतस्तस्मादिहायातो मोक्षं च लभते ध्रुवम् ॥७॥

एवं कृत्वा पंचतीर्थीमेकादश्यामुपोषितः॥
ज्येष्ठशुक्ले पंचदश्यां यः पश्येत्पुरुषोत्तमम् ॥८॥

स पूर्वोक्तफलं प्राप्य क्रीडित्वा चाच्युतालये॥
प्रयाति परमं स्थानं यस्मान्नावर्तते पुनः ॥९॥

पृथिव्यां यानि तीर्थानि सरितश्च सरांसि च॥
पुष्करिण्यस्तडागानि वाप्यः कूपास्तथा ह्रदाः ॥१०॥

नाना नद्यः समुद्राश्च सप्ताहं पुरुषोत्तमे॥
ज्येष्ठशुक्लदशम्यादि प्रत्यक्षं यांति सर्वदा ॥११॥

स्नानदानादिकं यस्माद्देवताप्रेक्षणे सति॥
नृभिर्यत्क्रियते तत्र तत्सर्वं चाक्षयं भवेत् ॥१२॥

ज्येष्ठमासे तु दशमी शुक्लपक्षस्य मोहिनि॥
हरते दश पापानि तस्माद्दशहरा स्मृता ॥१३॥

यस्तस्यां हलिनं कृष्णं पश्येद्भद्रां च सुव्रतः॥
सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन्नरः ॥१४॥

नरो दोलागप्तं दृष्ट्वा गोविंदं पुरुषोत्तमम्॥
फाल्गुन्यां संयतो भूत्वा गोविंदस्य पुरं व्रजेत् ॥१५॥

विषुवे दिवसे प्राप्ते पंचतीर्थविधानतः॥
दृष्ट्वा सकर्षणं कृष्णां सुभद्रां च सुलोचजने ॥१६॥

नरः समस्तयज्ञानां फलं प्राप्नोति दुर्लभम्॥
विमुक्तः सर्वपापेभ्यो विष्णुलोकं च गच्छति ॥१७॥

यः पश्यति तृतीयायां कृष्णं चंदनरूषितम्॥
वैशाखस्य सिते पक्षे स यात्यच्युत मंदिरम् ॥१८॥

यदा भवेन्महाज्यैष्ठी राशिनक्षत्रयोगतः॥
प्रयत्नेन तदा मर्त्यैर्गंतव्यं पुरुषोत्तमम् ॥१९॥

कृष्णं दृष्ट्वा महाज्यैष्ठ्यां रामं भद्रां च मोहिनि॥
नरो द्वादशयात्राणां फलं प्राप्नोति चाधिकम् ॥२०॥

प्रयागे च कुरुक्षेत्रे नैमिषे पुष्करे गये॥
गंगाद्वारे च कुब्जाम्नगंगासागर संगमे ॥२१॥

कोकामुखे शूकरे च मथुरायां मरुस्थले॥
शालग्रामे वायुतीर्थे मंदरं सिंधुसागरे ॥२२॥

पिंडारके चित्रकूटे प्रभासे कनखले तथा॥
शंखोद्धारे द्वारकायां तथा बदरिकाश्रमे ॥२३॥

लोहकूटे चाश्वतीर्थे सर्वपापप्रमोचने॥
कर्द्दमाले कोटितीर्थे तथा चामरकंटके ॥२४॥

लोलाकं जंबुमार्गे च सोमतीर्थं पृथूदके॥
उत्पलावर्तके चैव पृथुतुंगे सकुब्जके ॥२५॥

एकाम्रके च केदारे काश्यां वा विरजे सति॥
कालंकरे च गोकर्णे श्रीशैले गंधमादने ॥२६॥

महेंद्रे मलये विंध्ये पारियात्रे हिमाह्वये॥
सह्ये च शुक्तिमति च गोमंते चार्बुदे तथा ॥२७॥

गंगायां च महाभागे यत्पुण्यं यामुनेषु च॥
सारस्वतेषु गोमत्यां ब्रह्मपुत्रेषु सप्तसु ॥२८॥

गोदावरी भीमरथी तुंगभद्रा च नर्मदा॥
तापी पयोष्णी कावेरी शिप्रा चर्मण्वती तथा ॥२९॥

वितस्ता चंद्रभागा च शतद्रुर्बाहुदा तथा॥
ऋषिकुल्या मरुद्दृधा विपाशा च दृषद्वती ॥३०॥

सरयूर्नाकगंगा च गंडकी च महानदी॥
कौशिकी करतोया च त्रिस्रोता मधुवाहिनी ॥३१॥

महानदी वैतरणी याश्चान्या नानुकीर्तिताः॥
तास्सर्वा न समाः प्रोक्ताः कृष्णसंदर्शनस्य च ॥३२॥

यत्फलं स्नानदानेन राहुग्रस्ते दिवाकरे॥
तत्फलं कृष्णमालोक्य महाज्यैष्ठ्यां लभेन्नरः ॥३३॥

तस्मात्सर्व प्रयत्नेन गंतव्यं पुरुषोत्तमम्॥
महाज्यैष्ठ्यां विधिसुते सर्वकामफलेप्सुभिः ॥३४॥

दृष्ट्वा रामं महाज्यैष्ठ्यां कृष्णं चापि सुभद्रया॥
विष्णुलोकं नरोयाति समुद्धृत्य कुलं शतम् ॥३५॥

भुक्त्वा तत्र वरान्भोगान्यावदाभूतसंप्लवम्॥
पुण्यक्षयादिहागत्य चतुर्वेदी द्विजो भवेत् ॥३६॥

स्वधर्मनिरतः शांतः कृष्णभक्तो जितेंद्रियः॥
वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् ॥३७॥

मासि ज्येष्ठे च संप्राप्ते नक्षत्रे चेंद्रदैवते॥
पौर्णमास्यां तदा स्नानं प्रशस्तं सागरांभसि ॥३८॥

सर्वतीर्थमयः कूपस्तदास्ते सजलः शुचिः॥
तथा भोगवती तत्र प्रत्यक्षा भवति ध्रुवम् ॥३९॥

तस्माज्ज्यैष्ठ्यां समुद्धृत्य हैमादिकलशैर्जलम्॥
कृष्णरामाभिषेकार्थं सुभद्रायाश्च मोहिनि ॥४०॥

कृत्वा सुशोभनं मंचं पताकाभिरलंकृतम्॥
सुदृढं सुखसंचारं वस्त्रैः पुष्पैरलंकृतम् ॥४१॥

विस्तीर्णं धूपित धूपैः स्नानार्थँ रामकृष्णयोः॥
पीतवस्त्रपरिच्छन्नं मुक्ताहारावलंबितम् ॥४२॥

तत्र नानाविधैर्वाद्यैः कृष्णं नीलाम्बरं सति॥
मंचे संस्थाप्य भद्रां च जयमंगलनिःस्वनैः ॥४३॥

ब्राह्मणैः क्षत्त्रियैर्वैश्यैः शूद्रैश्चान्यैश्च मोहिनि॥
अनेकशतसाहस्रैर्वंतं स्त्रीपुरुषैस्तथा ॥४४॥

गृहस्थाः स्त्रातकाश्चैव यतयोब्रह्मचारिः॥
स्नापयंति तदा कृष्णं मंचस्थं सहसालायुधम् ॥४५॥

तथा समस्ततीर्थानि पूर्वोक्तानि च सुंदरि॥
मोदकैः पुष्पमिश्रैश्च स्नापयंति पृथक् पृथक् ॥४६॥

पश्चात्पटहसंघोषैर्भेरीमुरजनिः स्वनैः॥
काहलैस्तालशब्दैश्च मृदंगैर्झर्झरैस्तथा ॥४७॥

अन्यैश्च विविधैर्वाद्यैर्घंटास्वनविमिश्रितैः॥
स्त्रीणां मंगलशब्दैश्च स्तुतिशब्दमैर्नोरमैः ॥४८॥

जयशब्दैस्तथा स्तोत्रैर्वीणावेणुनिनादितैः॥
श्रूयते सुमहाञ्छब्दः सागरस्येव गर्जतः ॥४९॥

मुनीनां वेदघोषैश्च मंत्रघोषैस्तथापरैः॥
नानास्तोत्ररवैः पुण्यैः सामगानोपबृंहितैः ॥५०॥

श्यामावदातवेश्याभिः पीतरक्तांशुकैस्तथा॥
चामरै रत्नदंडैश्च वीज्येते रामकेशवौ ॥५१॥

यक्षविद्याघरैः सिद्धैर्देवगंधर्वचारणैः॥
आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः ॥५२॥

लोकपालास्तथान्ये च स्तुवंति पुरुषोत्तमम्॥
नमस्ते देवदेवेश पुराणपुरुषोत्तम ॥५३॥

सर्गस्थित्यंतकृद्देव लोकनाथ जगत्पते॥
त्रैलोक्यशरणं देवं ब्रह्मण्यं मोक्षकारणम् ॥५४॥

तं नमस्यामहे भक्त्या सर्वकामफलप्रदम्॥
स्तुत्वैवं विबुधाः कृष्णं रामं चैव महाबलम् ॥५५॥

सुभद्रां चापि विधिजे तदाकाशे व्यवस्थिताः॥
गायंति देवगंधर्वा नृत्यंत्यप्सरसस्तथा ॥५६॥

देवतूर्याणि वाद्यंते वाता वांति सुशीतलाः॥
पुष्पमिश्रं तदा मेघा वर्षंत्याकाशगोचराः ॥५७॥

जयशब्दं च कुर्वंति मुनयः सिद्धचारणाः॥
शक्राद्या विबुधाः सर्वे ऋषयः पितरस्तथा ॥५८॥

प्रजानां पतयो नागा ये चान्ये स्वर्गवासिनः॥
ततो मंगलसंभारैर्विधिमन्त्रपुरस्कृतम् ॥५९॥

आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः॥
इन्द्र विष्णू महावीर्यौ सूर्याचंद्रमसौ तथा ॥६०॥

धाता चैव विधाता च तथा चैवानिलानलौ॥
पूषा भगोऽर्यमा त्वष्टा विवस्वानंशुमांस्तथा ॥६१॥

रूद्राश्विसहितो धीमान्मित्रेण वरुणेन च॥
रुद्दैर्वसुभिरादित्यैर्वालखिल्यैर्मरीचिजैः ॥६२॥

भृगुभिश्चांगिरोभिश्च सर्वविद्यासु निष्ठितैः॥
पितामहः पुलस्त्यश्च पुलहश्च महातपाः ॥६३॥

अंगिराः कश्यपोऽत्रिश्च मरीचिर्भृगुरेव च॥
ऋतुर्हरः प्रचेताश्च मनुर्दक्षस्तथैव च ॥६४॥

ऋतवश्च ग्रहाश्चैव ज्योतींषि च द्विजोत्तमाः॥
मूर्तिमत्यश्च सरितो देवाश्चैव सनातनाः ॥६५॥

सुभद्राश्च ह्रदाश्चैव तीर्थानि विविधानि च॥
पृथिवीद्यौर्विशश्चैव पादपाश्च द्विजोत्तमाः ॥६६॥

अदितिर्देवमाता च ह्रीः श्रीः स्वाहा सरस्वती॥
उमा शची सिनीवाली तथा चानुमतिः कुहूः ॥६७॥

राका च धिषणा चैव पत्न्यश्चान्या दिवौकसाम्॥
श्रेष्ठो गिरीणां हिमवान्नागराजश्च वामनः॥
पारियात्रश्च विंध्यश्च मेरुश्चानेक श्रृंगवान् ॥६८॥

ऐशवतः सानुचरः कलाः काष्ठास्तथैव च॥
मासार्द्धमासा ऋतवस्तथा रात्र्यहनी समाः ॥६९॥

उच्चैः श्रवा हयश्रेष्ठो नागराजश्च वामनः॥
अरुणो गरुडश्चैव लताश्चौषधिभिः सह ॥७०॥

घर्मश्च भगवान्देवः समागच्छंति सर्वतः॥
कालो यमश्च मृत्युश्च यमस्यानुचराश्च ये ॥७१॥

बहुलत्वाच्च नोक्ता ये विविधा देवतागणाः॥
ते देवस्याभिषेकार्थं समायांति ततस्ततः ॥७२॥

दिव्यसंभारसंयुक्तैः कलशैः कांचनैस्तथा॥
सारस्वतीभिः पुण्याभिर्दिव्यतोयाभिरेव च ॥७३॥

तोयेनाकाशगंगायाः कृष्णं रामेण संगतम्॥
सपुष्पैः कुंभसलिलैः स्नापयंत्यंबरे स्थिताः ॥७४॥

संचरंति विमानानि देवानामंबरे तथा॥
उच्चावचानि दिव्यानि कामगानि स्थिराणि च ॥७५॥

दिव्यरत्नविचित्राणि सेवितान्यप्सरोगणैः॥
गीतैर्वाद्यैः पताकाभिः शोभितानि समंततः ॥७६॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे वसुमोहिनीसंवादे पुरुषोत्तममाहात्म्येऽभिषेको नाम षष्टितमोऽध्यायः ॥६०॥

N/A

References : N/A
Last Updated : May 09, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP