संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : उत्तरभागः|
अध्यायः ४३

उत्तरभागः - अध्यायः ४३

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


वसिष्ठ उवाच॥
वसोर्वचनमाकर्ण्य गङ्गामाहात्म्यसूचकम्॥
पुनः पप्रच्छ राजेन्द्रं तं विप्रं स्वपुरोहितम् ॥१॥

मोहिन्युवाच॥
श्रुतं विप्र मया सर्वं गोदानादि शुभावहम्॥
अधुना श्रोतुमिच्छामि गङ्गाव्रतमनुत्तमम् ॥२॥

गङ्गादीनां पूजनं च स्थापनं तत्र वा द्विज॥
किं फलं वद सर्वज्ञ त्वामहं शरणं गता ॥३॥

अधुना गतिदाता त्वं वर्जितायाश्च बंधुभिः॥
पत्या विरहिता चाहं पुत्रहीना विदांवर ॥४॥

त्वामेव शरणं प्राप्ता पितुर्वचनगौरवात्॥
तद्भवान्प्रणताया मे गंगामाहात्म्यंसंयुतम्॥
देवताराधनं ब्रूहि यच्छ्रुत्वा मुच्यते ह्यघात् ॥५॥

वसिष्ठ उवाच॥
तच्छ्रुत्वा मोहिनीवाक्यं वसुर्विप्रः प्रतापवान्॥
सभाज्य मोहिनीं भूप प्राह वेदविदां वरः ॥६॥

वसुरुवाच॥
साधु पृष्टं त्वया देवि लोकानां हितकाम्यया ॥७॥

गंगामाहात्म्यमखिलं महापापप्रणाशनम्॥
वृषध्वजेन कथितं शिवेन दयया पुरा ॥८॥

प्रीत्या देव्याभि पृष्टेन गंगातीरनिवासिना॥
देवैस्तु भुक्तं पूर्वाह्णे मध्याह्ने ऋषिभिस्तथा ॥९॥

अपराह्णे च पितृभिः शर्वंर्यां गुह्यकादिभिः॥
सर्वा वेला अतिक्रम्य नक्तभोजनमुत्तमम् ॥१०॥

उपवासाद्वारं भैक्ष्यं भैक्ष्याद्वरमयाचितम्॥
अयाचिताद्वारं नक्तं तस्मान्नक्तं समाचरेत् ॥११॥

हविष्यभोजनं स्नानं सत्यमाहारलाघवम्॥
अग्निकार्य्यमधःशय्यां नक्ताशी षट् समाचरेत् ॥१२॥

गंगातीरे माघमासे यः कुर्यान्नक्तभोजनम्॥
शिवायतनपार्श्वे तु कृशरं घृतसंयुतम् ॥१३॥

नैवेद्यं च निवेद्यैव कृशरान्नं शिवस्य तु॥
काष्ठमौनेन भुंजानो जिह्वालौल्यं विवर्जयेत् ॥१४॥

पलाशपत्रे भुञ्जानः शिवं स्मृत्वा जितेंद्रियः॥
धर्मराजस्य देव्याश्च पृथक्पिंडं प्रकल्पयेत् ॥१५॥

सोपवासश्चतुर्द्दश्यां भवेदुभयपक्षयोः॥
पौर्णमास्यां तु गंधैश्च गंगायाः सलिलैस्तथा ॥१६॥

शिवं संस्नाप्य पयसा मध्वाज्यदधिभिः पृथक्॥
तथैव हेमपुष्पं च लिंगमूर्ध्नि विनिक्षिपेत् ॥१७॥

ततो दद्यात्तु शक्त्यैवापूपञ्च घृतपाचितम्॥
तिलाढकं प्रगृह्याथ शिवलिंगोपरि क्षिपेत् ॥१८॥

नीलोत्पलैश्च सर्वेशं पूजयेत्पंकजैरपि॥
तदलाभे तु सौवर्णैः पंकजैः पूजयेद्धरम् ॥१९॥

पायसं चात्र मध्वक्तं घृतयुक्तं च गुग्गुलम्॥
घृतदीपं तथा चैव चंदनाद्यैर्विलेपनम् ॥२०॥

दद्याद्भक्त्या महेशाय तथा पत्रफलानि च॥
कृष्णगोमिथुनं चैव सरूपं च निवेदयेत् ॥२१॥

भोजयेद्ब्राह्मणानष्टौ मासांते तु सदक्षिणान्॥
वर्जयेन्मधु मांसं च तं मासं ब्रह्मचर्यवान् ॥२२॥

एवं कृत्वा यथोद्दिष्टमेकवारमिदं व्रतम्॥
यमैश्च नियमैर्युक्तः श्रद्धाभक्तिपरायणः ॥२३॥

इह भोगानवाप्नोति प्रेत्य चानुत्तमां गतिम्॥
इंद्रनीलप्रतीकाशैर्विमानैः शिखिसंयुक्तैः ॥२४॥

दिव्यरत्नमयैश्चैव दिव्यभोगसमन्वितैः॥
गत्वा शिवपुरं रम्यं सर्वस्वकुलसंयुतः ॥२५॥

सुहृद्भिर्विविधैश्चैव विविधानप्यभीप्सितान्॥
भुक्त्वा भोगानशेषांश्च यावदाभूतसंप्लवम् ॥२६॥

ततो भवति धर्मात्मा जंबूद्वीपपतिस्तथा॥
तत्र भुंक्ते समस्ताँश्च भोगान्विगतकल्मषः ॥२७॥

सुरूपः सुभगश्चैव तथा विहितशासनः॥
सर्वरोगविनिर्मुक्तः सोऽप्येतत्फलभाग्भवेत् ॥२८॥

वैशाखे शुक्लपक्षे वा चतुर्दश्यां समाहितः॥
शाल्यन्नं क्षीरसंयुक्तं यः कुर्यान्नक्तभोजनम् ॥२९॥

शिवं संपूज्य पुष्पाद्यैर्भोज्यं तु संनिवेद्य च॥
काष्ठमौनेन भुंजानो वटकाष्टेन वै तथा ॥३०॥

मौनेन प्रयतो भूत्वा कुर्याद्वै दंतधावनम्॥
शिवलिंगसमीपे तु गंगातीरे निशि स्वपेत् ॥३१॥

पौर्णमास्यां प्रभाते तु गंगायां विधिना तथा॥
स्नात्वोपवासं संकल्प्य कुर्य्याज्जागरणं निशि ॥३२॥

लिंगं घृतेन संस्नाप्य पुष्पगंधादिभिस्तथा॥
नैवेद्यधूपदीपैश्च संपूज्य वृषभं शुभम् ॥३३॥

सुश्वेतपुष्पवस्त्राद्यैर्हारिद्रैश्चंदनैस्तथा॥
अलंकृत्य विधानेन शिवाय विनिवेदयेत् ॥३४॥

ब्राह्मणांश्च यथाशक्ति पायसेन तु भोजयेत्॥
एवं सकृच्च यो भक्त्या करोति श्रद्धयान्वितः ॥३५॥

लभते दैवपादोनयुगानां द्विसहस्रकम्॥
तपः कृत्वा तु नियमाद्यत्पुण्यं तदसंशयम् ॥३६॥

हंसकुंदप्रभायुक्तैर्विमानैश्चन्द्रसन्निभैः॥
सुश्वेतवृषयुक्तैश्च मुक्ताजालविभूषितैः ॥३७॥

स्वकीयपितृभिः सार्द्धं प्रयातीश्वरमंदिरम्॥
नीलोत्पलसुंगंधाभिः सुरूपाभिः समंततः ॥३८॥

कांताभिर्दिव्यरूपाभिर्भुक्त्वा भोगाननेकशः॥
अनंतकालमैश्वर्ययुक्तो भूत्वा ततो भुवि ॥३९॥

जायते स महीपालः कीर्त्यैश्वर्यसमन्वितः॥
एकच्छत्रेण स महीं पालयत्याज्ञया सह ॥४०॥

अन्ते वैराग्यसंपन्नो गंगां स लभते पुनः॥
स तया श्रद्धया युक्तो गंगायां मरणं लभेत् ॥४१॥

तथा तत्र स्मृतिं लब्ध्वा मोक्षमाप्नोति स ध्रुवम्॥
ज्येष्ठे मासि सिते पक्षे दशम्यां हस्तसंयुते ॥४२॥

गंगातीरे तु पुरुषो नारी वा भक्तिभावतः॥
निशायां जागरं कृत्वा गंगां दशविधैस्ततः ॥४३॥

पुष्पैर्गंधैश्च नैवेद्यैः फलैश्च दशसंख्याया॥
तथैव दीपैस्तांबूलैः पूजयेच्छ्रद्धयान्वितः ॥४४॥

स्नात्वा भक्त्या तु जाह्नव्यां दशकृत्वो विधानतः॥
दशप्रसृति कृष्णंश्च तिलान्सर्पिश्च वै जले ॥४५॥

सक्तुपिंडान्गुडपिंडान्दद्याच्च दशसंख्यया॥
ततो गंगातटे रम्ये हेम्ना रूप्येण वा तथा ॥४६॥

गंगायाः प्रतिमां कृत्वा वक्ष्यमाणस्वरूपिणीम्॥
पद्मस्वस्तिकचिह्नस्य संस्थितस्य तथोपरि ॥४७॥

वस्त्रस्रग्दामकंठस्य पूर्णकुंभस्य चोपरि॥
संस्थाप्य पूजयेद्देवीं तदलाभे मृदादि वा ॥४८॥

अथ तत्राप्यशक्तश्चेल्लिखेत्पिष्टेन वै भुवि॥
चतुर्भुजां सुनेत्रां च चन्द्रायुतसमप्रभाम् ॥४९॥

चामरैर्वीज्यमानां च श्वेतच्छत्रोपशिभिताम्॥
सुप्रसन्नां च वरदां करुणार्द्रनिजांतराम् ॥५०॥

सुधाप्लावितभूपृष्ठां देवादिभिरभिष्टुताम्॥
दिव्यरत्नपरीतां च दिंव्यमाल्यानुलेपनाम् ॥५१॥

ध्यात्वा जले यथाप्रोक्तां तत्रार्चायां तु पूजयेत्॥
वक्ष्यमाणेन मंत्रेण कुर्यात्पूजां विशेषतः ॥५२॥

पंचामृतेन च स्नानमर्चायां तु विशिष्यते॥
प्रतिमाग्रे स्थंडिले तु गोमयेनोपलेपयेत् ॥५३॥

नारायणं महेशं च ब्रह्माणं भास्करं तथा॥
भगीरथं च नृपतिं हिमवंतं नगेश्वरम् ॥५४॥

गंधपुष्पादिभिश्चैव यथाशक्ति प्रपूजयेत्॥
दशप्रस्थांस्तिलान्दद्याद्दश विप्रेभ्य एव च ॥५५॥

दशप्रस्थान्यवान्दद्याद्दश गव्यैर्यथाहितान्॥
मत्स्यकच्छपमंडूकमकरादिजलेचरान् ॥५६॥

कारितान्वै यथाशक्ति स्वर्णेन रजतेन वा॥
तदलाभे पिष्टमयानभ्यर्च्य कुसुमादिभिः॥
गंगायां प्रक्षिपेत्पूर्व्वं मंत्रेणैव तु मंत्रवित् ॥५७॥

रथयात्रादिने तस्मिन्विभवे सति कारयेत्॥
रथारूढप्रतिकृतिं गंगायास्तूत्तरामुखाम् ॥५८॥

भ्रमंत्या दर्शनं लोके दुर्लभं पापकर्मणाम्॥
दुर्गाया रथयात्रास्ति तथैवात्रापि कारयेत् ॥५९॥

एवं कृत्वा विधानेन वित्तशाठ्यविवर्जितः॥
दशपापैर्वक्ष्यमाणैः सद्य एव विमुच्यते ॥६०॥

अदत्तानामुपादानं हिंसा चैवाविधानतः॥
परदारोपसेवा च कायिकं त्रिविधं स्मृतम् ॥६१॥

पांरुष्यमनृतं वापि पैशुन्यं चापि सर्वशः॥
असंबद्धप्रलापश्च वाचिकं स्याच्चतुर्विधम् ॥६२॥

परद्रव्येष्वभिध्यानं मनसानिष्टचिंतनम्॥
वितथाभिनिवेशश्च मानसं त्रिविधं स्मृतम् ॥६३॥

एतैर्दशविधैः पापैः कोटिजन्मसमुद्भवैः॥
मुच्यते नात्र संदेहो ब्रह्मणो वचनं यथा ॥६४॥

दश त्रिंशच्च तान्पूर्वान्पितॄनेव तथापरान्॥
उद्धरत्येव संसारान्मंत्रेणानेन पूजिता ॥६५॥

"ॐ नमो दशहरायै नारायण्यै गंगायै नमः॥"
इति मंत्रेण यो मर्त्यो दिने तस्मिन्दिवानिशम् ॥६६॥

जपेत्पचसहस्राणि दशधर्मफलं लभेत्॥
उद्दरेद्दश पूर्वाणि पराणि च भवार्णवात् ॥६७॥

वक्ष्यमाणमिदं स्तोत्रं विधिना प्रतिगृह्य च॥
गंगाग्रे तद्दिने जप्यं विष्णुपूजां प्रवर्तयेत् ॥६८॥

ॐ नमः शिवायै गंगायै शिवदायै नमोऽस्तु ते॥
नमोऽस्तु विष्णुरूपिण्यै गंगायै ते नमो नमः ॥६९॥

सर्वदेवस्वरूपिण्यै नमो भेषजमूर्तये॥
सर्वस्य सर्वव्याधीनां भिषक्श्रेष्ठे नमोऽस्तु ते ॥७०॥

स्थाणुजंगमसंभूतविषहंत्रि नमोऽस्तु ते॥
संसारविषनाशिन्यै जीवनायै नमोनमः ॥७१॥

तापत्रितयहंत्र्यै च प्राणेश्वर्यै नमोनमः॥
शांत्यै संतापहारिण्यै नमस्ते सर्वमूर्तये ॥७२॥

सर्वसंशुद्धिकारिण्यै नमः पापविमुक्तये॥
भुक्तिमुक्तिप्रदायिन्यै भोगवत्यै नमोनमः ॥७३॥

मंदाकिन्यै नमस्तेऽस्तु स्वर्गदायै नमोनमः॥
नमस्त्रैलोक्यमूर्तायै त्रिदशायै नमोनमः ॥७४॥

नमस्ते शुक्लसंस्थायै क्षेमवत्यै नमोनमः॥
त्रिदशासनसंस्थायै तेजोवत्यै नमोऽस्तु ते ॥७५॥

मंदायै लिंगधारिण्यै नारायण्यै नमोनमः॥
नमस्ते विश्वमित्रायै रेवत्यै ते नमोनमः ॥७६॥

बृहत्यै ते नमो नित्यं लोकधात्र्यै नमोनमः॥
नमस्ते विश्वमुख्यायै नंदिन्यै ते नमोनमः ॥७७॥

पृथ्व्यै शिवामृतायै च विरजायै नमोनमः॥
परावरगताद्यैयै तारायै ते नमोनमः ॥७८॥

नमस्ते स्वर्गसंस्थायै अभिन्नायै नमोनमः॥
शान्तायै ते प्रतिष्ठायै वरदायै नमोनमः ॥७९॥

उग्रायै नुखजल्पायै संजीविन्यै नमोनमः॥
ब्रह्मगायै ब्रह्मदायै दुरितघ्न्यै नमोनमः ॥८०॥

प्रणतार्तिप्रभंजिन्यै जगन्मात्रे नमोनमः॥
विलुषायै दुर्गहंत्र्यै दक्षायै ते नमोनमः ॥८१॥

सर्वापत्प्रतिपक्षायै मंगलायै नमोनमः॥
परापरे परे तुभ्य नमो मोक्षप्रदे सदा॥
गंगा ममाग्रतो भूयाद्गंगा मे पार्श्वयोस्तथा ॥८२॥

गंगा मे सर्वतो भूयात्त्वयि गंगेऽस्तु मे स्थितिः॥
आदौ त्वमंते मध्ये च सर्वा त्वं गांगते शिवे ॥८३॥

त्वमेव मूलप्रकृतिस्त्वं हि नारायणः प्रभुः॥
गंगे त्वं परमात्मा च शिवस्तुभ्यं नमोनमः ॥८४॥

इतीदं पठति स्तोत्रं नित्यं भक्तिपरस्तु यः॥
श्रृणोति श्रद्धया वापि कायवाचिकसंभवैः ॥८५॥

दशधा संस्थितैर्दोषैः सर्वैरेव प्रमुच्यते॥
रोगी प्रमुच्यते रोगान्मुच्येतापन्न आपदः ॥८६॥

द्विषभ्द्यो बंधनाच्चापि भयेभ्यश्च विमुच्यते॥
सर्वान्कामानवाप्नोति प्रेत्य ब्रह्मणि लीयते ॥८७॥

इदं स्तोत्रं गृहे यस्य लिखितं परिपूज्यते॥
नाग्निचौरभयं तत्र पापेभ्योऽपि भयं नहि ॥८८॥

तस्यां दशम्यामेतच्च स्तोत्रं गंगाजले स्थितः॥
जपंस्तु दशकृत्वश्च दरिद्रो वापि चाक्षमः ॥८९॥

सोऽपि तत्फलमाप्नोति गंगां संपूज्य भक्तितः॥
पूर्वोक्तेन विधानेन फलं यत्परिकीर्तितम् ॥९०॥

यथा गौरी तथा गंगा तस्माद्गौर्यास्तु पूजने॥
विधिर्यो विहितः सम्यक्सोऽपि गंगाप्रपूजने ॥९१॥

यथा शिवस्तथा विष्णुर्यथा विष्णुस्तथा ह्युमा॥
उमा यथा तथा गंगा चात्र भेदो न विद्यते ॥९२॥

विष्णुरुद्रांतरं यश्च गगागौर्यंतरं तथा॥
लक्ष्मीगौर्यतरं यश्च प्रब्रूते मूढधीस्तु सः ॥९३॥

शुक्लपक्षे दिवा भूमौ गंगायामुत्तरायणे॥
धन्या देहं विमुंचंति हृदयस्थे जनार्दने ॥९४॥

ये मुंचंति नरा- प्राणान् गंगायां विधिनं दिनि॥
ते विष्णुलोकं गच्छंति स्तूयमाना दिविस्थितैः ॥९५॥

अर्द्धोदकेन जाह्नव्यां म्रियतेऽनशनेन यः॥
स याति न पुनर्जन्म ब्रह्मसायुज्यमेति च ॥९६॥

या गतिर्योगयुक्तस्य सात्विकस्य मनीषिणः॥
सा गेतिस्त्यजतः प्राणान् गंगायां तु शरीरिणः ॥९७॥

अनशनं गृहीत्वा यो गंगातीरे मृतो नरः॥
सत्यमेव परं लोकमाप्नोति पितृभिः सह ॥९८॥

गंगायां मरणात्प्राणान्योः प्राज्ञस्त्यक्तुमिच्छति॥
गतानि बहुजन्मानि यत्र यत्र मृतानि च ॥९९॥

महाँश्चापि गतः कालो यत्र तत्रापि गच्छतः॥
अत्रदूरे समीपे च सदृशं योजनद्वयम् ॥१००॥

गंगायां मरणेनेह नात्र कार्या विचारणा॥
ज्ञानतोऽज्ञानतो वापि कामतोऽपि वा ॥१०१॥

गंगायां तु मृतो मर्त्यः स्वर्गं मोक्षं च विंदति॥
प्राणेषूत्सृज्यमानेषु यो गंगां संस्मरेन्नरः ॥१०२॥

स्पृशेद्वा पापशीलोऽपि स वै याति परां गतिम् ॥१०३॥

गंगां गत्वा यैः शरीरं विसृष्टं प्राप्ता धीरास्ते तु देवैः समत्वम्॥
तस्मात्सुर्वान्प्रोह्य मुक्तिप्रदान्वै सेवेद्गंगामा शरीरस्य पातम् ॥१०४॥

अंतरिक्षे क्षितौ तोये पापीयानपि यो मृतः॥
ब्रह्मविष्णुशिवैः पूज्यं पदमक्षय्यमश्नुते ॥१०५॥

यो धर्मिष्ठश्च सप्राणः प्रयतः शिष्टसंमतः॥
चिंतयेन्मनसा गंगां स गतिं परमां लभेत् ॥१०६॥

यत्र तत्र मृतो वापि मरणे समुपस्थिते॥
भक्त्या गंगां स्मरन्याति शैवं वा वैष्णवं पुरम् ॥१०७॥

शंभोर्जटाकलापात्तु विनिष्क्रांतातिकर्कशात्॥
प्लावयित्वा दिवं निन्ये या पापान्यगरात्मजान् ॥१०८॥

यावंत्यस्थीनि गंगायां तिष्ठंति पुरुषस्य वै॥
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥१०९॥

गगातोये तु यस्यास्थि नीत्वा प्रक्षिप्यते नरैः॥
तत्कालमादितः कृत्वा स्वर्गलोके भवेत्स्थितिः ॥११०॥

गंगातोये तु यस्यास्थि प्राप्यते शुभकर्मणः॥
न तस्य पुनरावृत्तिर्ब्रह्मलोकात्कथंचन ॥१११॥

दशाहाभ्यंतरे यस्य गंगातोयेऽस्थि संगतम्॥
गंगायां मरणे यादृक्तादृक्फलमवाप्नुयात् ॥११२॥

स्नात्वा ततः पञ्चगव्येन सिक्त्वा हिरण्यमध्वाज्यतिलैर्नियोज्य॥
तदस्थिपिंडं पुटके निधाय पश्यन् दिशं प्रेतगणोपगूढाम् ॥११३॥

नमोऽस्तु धर्माय वदन्प्रविश्य जलं स मे प्रीत इति क्षिपेच्च॥
स्नात्वा ततस्तीर्थवटाक्षयं च दृष्ट्वा प्रदद्यादथ दक्षिणां तु ॥११४॥

एवं कृत्वा प्रेतपुरे स्थितस्य स्वर्गे गतिः स्यात्त महेंद्रतुल्या ॥११५॥

प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम्॥
तत्र नारायणः स्वामी नान्यः स्वामी कदाचन ॥११६॥

न तत्र प्रतिगृह्णीयात्प्राणैः कंठगतैरपि॥
भाद्रशुक्लचतुर्दश्यां यावदाक्रमते जलम् ॥११७॥

तावद्गभं विजानीयात्तद्दूरं तीरमुच्यते॥
सार्द्धहस्तशतं यावद्गर्भस्तीरं ततः परम् ॥११८॥

इति केषां मतं देवि श्रुतिस्मृतिषु संमतम्॥
तीराद्गव्यूतिमात्रं तु परितः क्षेत्रमुच्यते ॥११९॥

तीरं त्यक्त्वा वसेत्क्षेत्रे तीरे वासो न चेष्यते॥
एकयोजनविस्तीर्णा क्षेत्रसीमा तटद्वयात् ॥१२०॥

गंगासीमां न लघंति पापान्यप्यखिलान्यपि॥
तां तु दृष्ट्वा पलायंते यथा सिंहं वनौकसः ॥१२१॥

यत्र गंगा महाभागे रामशंभुतपोवनम्॥
सिद्धक्षेत्रं तु तज्ज्ञेयं समन्तात्तु त्रियोजनम् ॥१२२॥

तीर्थे न प्रतिगृह्णीयात्पुण्येष्वायतनेषु च॥
निमित्तेषु च सर्वेषु तन्निवृत्तो भवेन्नरः ॥१२३॥

तीर्थे यः प्रतिगृह्णाति पुण्येष्वायतनेषु च॥
निष्फलं तस्य तत्तीर्थं यावत्तद्धनमुच्यते ॥१२४॥

गंगाविक्रयाणाद्देवि विष्णोर्विक्रयणं भवेत्॥
जनार्दने तु विक्रीते विक्रीतं भुवनत्रयम् ॥१२५॥

गंगा तीरसमुद्भूतां मृदं मूर्घ्ना बिभर्ति यः॥
बिभर्ति रूपं सोऽर्कस्य तमोनाशाय केवलम् ॥१२६॥

गंगापुलिनजां धूलिमास्तीर्याथ निजान् पितॄन्॥
प्रीणयन्यो नरः पिंडान्दद्यात्तान् स्वर्नयेदपि ॥१२७॥

इदं तेऽभिहितं भद्रे गंगामाहात्म्यमुत्तमम्॥
पठन् श्रृण्वन्नरो ह्येति तद्विष्णोः परमं पदम् ॥१२८॥

नित्यं जप्यमिदं भक्त्या प्रयतैः श्रद्धयान्वितैः॥
वैष्णवीं गतिमिच्छद्भिः शैवीं वा विधिनंदिनि ॥१२९॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गंगामाहात्म्ये पूजादिकथं नाम त्रिचत्वारिंशत्तमोऽध्यायः ॥४३॥

N/A

References : N/A
Last Updated : May 09, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP