संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : उत्तरभागः|
अध्यायः ३४

उत्तरभागः - अध्यायः ३४

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


वसिष्ठ उवाच॥
तत्पुत्रवचनं श्रुत्वा राजा रुक्मांगदस्तदा॥
संध्यावलीमुखं प्रेक्ष्य प्रहृष्टकमलोपमम् ॥१॥

मोहिनीवचनं श्रृण्वन्भुंक्ष्व मा हन देहजम्॥
मा भुंक्ष्व तनयं हिंस चेत्याग्रहसमन्वितम् ॥२॥

एतस्मिन्नेव काले तु भगवान्कमलेक्षणः॥
अंतर्द्धानगतस्तस्थौ व्योम्नि धैर्यावलोककः ॥३॥

त्रयाणां नृपशार्दूल मेघश्यामो निरञ्जनः॥
धर्मांगदस्य वीरस्य तस्य रुक्मांगदस्य तु ॥४॥

संध्यावल्या समेतस्य वीशसंस्थो जनार्दनः॥
वचने भुंक्ष्व भुंक्ष्वेति मोहिन्या व्याहृते तदा ॥५॥

जग्राह विमलं खङ्गं हंतुं धर्मांगदं सुतम्॥
सुप्रहर्षेण मनसा प्रणम्य गरुडध्वजम्॥
तं दृष्ट्वा खङ्गहस्तं तु पितरं धर्म्मंभूषणः ॥६॥

प्रणम्य मातापितरौ देवं चक्रधरं तथा॥
वदनं प्रेक्ष्य चादीनं जनन्या नृपपुंगवः ॥७॥

वृषांगदेन तु तदा स्वग्रीवोर्वीतले कृता॥
कंबुग्रीवां समानां तु सुवर्णा सुकोमलाम् ॥८॥

बहुरेखमथ स्थूलां खङ्गमार्गे ज्यदर्शयत्॥।
पितृभक्त्या युतेनैव मातृभक्त्याधिकेन वै ॥९॥

ग्रीवाप्रदाने तनयस्य भूप हर्षाकुले चारुसुधांशुवक्त्रे॥
गृहीतखङ्गे जगदीशनाथे चचाल पृथ्वीं सनगा समग्रा ॥१०॥

सिंधुः प्रवृद्धश्च बभूव सद्यो निमज्ज नार्थं भुवनत्रयस्य॥
निपेतुरुल्काः शतशो धरायां निर्घातयुक्ताः सतडित्खमध्यात् ॥११॥

विवर्णरूपा च बभूव मोहिनी न देवकार्यं हि कृतं मयेति॥
निरर्थकं जन्म ममाधुनाभूत्कृतं तु दैवेन दजगद्विधायिना ॥१२॥

विमोहनं रूपमिदं विडंबनं यद्भूमिपालेन न भुक्तमन्नम्॥
हरेर्दिने पापभयापहे तु तृणैः समाहं भविता त्रिविष्टपे ॥१३॥

सत्वाधिको यास्यति मोक्षमार्गं गंतास्मि पाप नरकं सुदारुणम् ॥१४॥

समुद्यते तदा खङ्गे नृपेण नृपपुंगव॥
मोहिनी मोहसंयुक्ता पपात धरणीतले ॥१५॥

राजापि तेन खङ्गेन भ्राजमानः समुद्यतः॥
ग्रीवायाश्छेदनार्थाय वृषांगदसुतस्य तु ॥१६॥

सकुंडलं चारु शशिप्रकाशं भ्राजिष्णु वक्त्रं तनयस्य भूपः॥
प्रचिच्छिदे यावदतीव हर्षाद्धैर्यान्वितो रुक्मविभूषणोऽसौ ॥१७॥

तावद्गृहीतः स्वकरेण भूपः क्षीराब्धिकन्यापतिना महीपः॥
तुष्टोऽस्मि तुष्टोऽस्मि न संशयोऽत्र गच्छस्व लोकं मम लोकनाथ ॥१८॥

प्रियान्वितश्चात्मजसंयुतश्च कीर्तिं समाधाय महीतले तु॥
त्रैलोक्यपूज्यां विमलां च शुक्लां कृत्वा पदं मूर्ध्नि यमस्य भूप ॥१९॥

प्रयाहि वासं मम देहसंज्ञं स चक्रिणो भूमिपतिः करेण॥
संस्पृष्टमात्रो विरजा बभूव प्रियासमेतस्तनयेन युक्तः ॥२०॥

उपेत्य वेगेन जगाम देहं देवस्य दिव्यं स नृपो महात्मा॥
विहाय लक्ष्मीमवनीप्रसूतां विहाय दासीःसुधनं स कोशम् ॥२१॥

विहाय नागांस्तुरगान्रथांश्च स्वदारवर्गं स्वजनादिकांश्च॥
जगाम देहं मधुसूदनस्य ततोंऽबरात्पुष्पचयः पपात ॥२२॥

संहृष्टसिद्धैः सुरलोकपालैः संताडिता दुंदुभयो विनेदुः॥
राजन् जगुर्गीतमतीव रम्यं देवांगनाः संननृतुर्मुदान्विताः ॥२३॥

गन्धर्वकन्या नृपकर्मतुष्टास्तदद्भुतं प्रेक्ष्य दिनेशसूनुः॥
हरेस्तनौ भूमिपतिं प्रविष्टं सदारपुत्रं स्वलिपिं प्रमार्ज्य ॥२४॥

लोकांश्च सर्वान्नृपदिष्टमार्गे कृत्वा कृतज्ञान्हार्रलोकमार्गान्॥
भीतः पुनः प्राप्य पितामहांतिकं प्रोवाच देवं चतुराननं रुदन् ॥२५॥

नाहं नियोगी भविता हि देव आज्ञाविहीनः सुरलोकनाथ॥
विधेहि चान्यत्प्रकरोमि तात निदेशनं मास्तु मदीय दण्डम् ॥२६॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते सुतवधोद्यतस्य रुक्मांगदस्य भगवद्दर्शनं नाम चतुस्त्रिंशत्तमोऽध्यायः ॥३४॥

N/A

References : N/A
Last Updated : May 09, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP