संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : उत्तरभागः|
अध्यायः २३

उत्तरभागः - अध्यायः २३

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


मोहिन्युवाच॥
वाक्यमुक्तं त्वया साधु कार्तिके यदुपोषणम्॥
व्रतादिकरणं राज्ञां नोक्तं क्वापि निदर्शने ॥१॥

मुक्त्वैकं ब्राह्मणं लोके नोक्तं शूद्रविशोरपि॥
दानं हि पालनं युद्धं तृतीयं भूभुजां स्मृतम् ॥२॥

न व्रतं हि त्वया कार्यं यदि मामिच्छसि प्रियाम्॥
मुहूर्तमपि राजेंद्र न शक्नोमि त्वया विना ॥३॥

स्थातुं कमलगर्भाभ किं पुनर्माससंख्यया॥

यत्रोपवासकरणं मन्यसे वसुधाधिप ॥४॥

तत्र वै भोजनं देयं विप्राणां च महात्मनाम्॥
अथवा ज्येष्ठपत्नी या सा करोतु व्रतादिकम्॥
एवमुक्ते तु वचने मोहिन्या रुक्मभूषणः ॥५॥

आजुहाव प्रियां भार्यां नाम्ना संध्यावलिंशुभाम्॥
आहूता तत्क्षणात्प्राप्ता राजानं भूरिदक्षिणम् ॥६॥

आशीनं शयने दिव्ये मोहिनीबाहुसंवृतम्॥
संघृष्टँ हि कुचाग्रेण स्वर्णकुंभनिभेन हि ॥७॥

शयने वामनेत्रायाः सकामाया महीपते॥
कृतां जलिपुटा भूत्वा भर्तुर्नमितकन्धरा ॥८॥

संध्यावली प्राह नृपं किमाहूता करोम्यहम्॥
तव वाक्ये स्थिता कांत दुःसापत्न्यविवर्जिता ॥९॥

यथा यथा हि रमसे मोहिन्या सह भूपते॥
तथा तथा मम प्रीतिर्वर्द्धते नात्र संशयः ॥१०॥

भर्तुः सौख्येन या नारी दुःखयुक्ता प्रजायते॥
सा तु श्येनी भवेद्राजंस्त्रीणि वर्षाणि पञ्च च ॥११॥

आज्ञां मे देहि राजेंद्र मा व्रीहां कामिकां कुरु ॥१२॥

रुक्मांगद उवाच॥
जानामि तव शीलं तु कुलं जानामि भामिनि॥
तव वाक्येन हि चिरं मोहिनी रमिता मया ॥१३॥

रममाणस्य सुचिरं बहवः कार्तिका गताः॥
प्रिया सौख्येन मुग्धस्य न गतो हरिवासरः ॥१४॥

सोऽहं तृप्तिमनुप्राप्तः कामभोगात्पुनः पुनः॥
ज्ञातोऽयं कार्तिको मासः सर्वपापक्षयंकरः ॥१५॥

कर्तुकामो व्रतं देवि कार्तिकाख्यं सुपुण्यदम्॥
इयं वारयते मां च व्रताद्ब्रह्मसुता शुभे ॥१६॥

अस्या न विप्रियं कार्यं सर्वथा वरवर्णिनि॥
मामकं व्रतमाधत्स्व कृच्छ्राख्यं कायशोषकम् ॥१७॥

सा चैवमुक्ता नवहेमवर्णा भर्त्रा तदा पीनपयोधरंगी॥
उवाच वाक्यं द्विजराजवक्त्राव्रतं चरिष्ये तव तुष्टिहेतोः ॥१८॥

येनैव कीर्तिस्तु यशो भवेच्च तथैव सौख्यं तव कीर्तियुक्तम्॥
करोमि सौम्यं नरदेवनाथ क्षिपामि देहं ज्वलनेत्वदर्थम् ॥१९॥

अकार्यमेतन्नहि भूमिपाल वाक्येन ते हन्मि सुतं स्वकीयम्॥
किंत्वेवमेतद्व्रतकर्म भूयः करोमि सौम्यं नरदेवनाथ ॥२०॥

इत्येवमुक्त्वा रविपुत्रशत्रुं प्रणम्य तं चारुविशालनेत्रा॥
व्रतं चकाराथ तदा हि देवी ह्यशेषपापौघविनाशनाय ॥२१॥

व्रते प्रवृत्ते वरकृच्छ्रसंज्ञे प्रियाकृते हर्षमवाप राजा॥
उवाच वाक्यं कुशकेतुपुत्रीं कृतं वचः सुभ्रु समीहितं ते ॥२२॥

रमस्व कामं मयि सन्निविष्टसंपूर्णवांछा करभोरु हृष्टा॥
विमुक्तकार्यस्तव सुभ्रु हेतोर्नान्यास्ति नारी मम सौख्यहेतुः ॥२३॥

सा त्वेवमुक्ता निजनायकेन प्रहर्षमभ्येत्य जगाद भूपम्॥
ज्ञात्वा भवंतं बहुकामयुक्तं त्रिविष्टपान्नाथ समागताहम् ॥२४॥

त्यक्त्वामरान्दैत्यगणांश्च सर्वान्गंधर्वयक्षोरगराक्षसांश्च॥
संदृश्यमानान्मम नाथ हेतोः स्नेहान्विताहं तव मंदराद्रौ ॥२५॥

एतत्कामफलं लोके यद्द्वयोरेकचित्तता॥
अन्यचेतः कृतः कामः शवयोरिव संगमः ॥२६॥

सफलं हि वपुर्मेऽद्य सफलं रूपमेव हि॥
त्वया कामवता कांत दुर्ल्लभं यज्जगत्त्रये ॥२७॥

प्रोन्नताभ्यां कुचाभ्यां हि कामिनो हृदयं यदि॥
संश्लिष्टं नहि शीर्येत मन्ये वज्रसमं दृढम्॥
तदेव चामृतं लोके यत्पुरंध्र्यधरासवम् ॥२८॥

कुचाभ्यां हृदि लीनाभ्यां मुखेन परिपीयते॥
एवमुक्त्वा परिष्वज्य राजानं रहसि स्थितम् ॥२९॥

रमयामास तन्वंगी वात्स्यायनविधानतः॥
तस्यैवं रममाणस्य मोहिन्या सहितस्य हि ॥३०॥

रुक्मांगदस्य कर्णाभ्यां पटहध्वनिरागतः॥
मत्तेभकुंभसंस्थस्तु धर्मांगदनिदेशतः ॥३१॥

प्रातर्हरिदिनं लोकास्तिष्ठध्वं त्वेकभोजनाः॥
अक्षारलवणाः सर्वे हविष्यान्ननिषेविणः ॥३२॥

अवनीतल्पशयनाः प्रियासंगविवर्जिताः॥
स्मरध्वं देवदेवेशं पुराणं पुरुषोत्तमम् ॥३३॥

सकृद्भोजनसंयुक्ता उपवासं करिष्यथ॥
अकृतश्राद्धनिचया अप्राप्ताः पिंडमेव च ॥३४॥

गयामगतपुत्राश्च गच्छध्वं श्रीहरेः पदम्॥
एषा कार्तिकशुक्ला वै हरेर्निद्राव्यपोहिनी ॥३५॥

प्रातरेकादशी प्राप्ता मा कृथा भोजनं क्वचित्॥
ब्रह्महत्यादिपापानि कामकारकृतानि च ॥३६॥

तानि यास्यंति सर्वाणि उपोष्येमां प्रबोधिनीम्॥
प्रबोधयेद्धर्म्मपरान्न्यायाचार समन्वितान् ॥३७॥

हरेः प्रबोधमाधत्ते तेनैषा बोधिनी स्मृता॥
सकृच्चोपोषितां चेमां निद्राच्छेदकरीं हरेः ॥३८॥

तनयो न भवेन्मर्त्यो न गर्भे जायते पुनः॥
रुरुध्वं चक्रिणः पूजामात्मवित्तेन मानवाः ॥३९॥

वस्त्रैः पुष्पैर्धूपदीपैर्वरचंदनकुंकुमैः॥
सुहृद्यैश्च फलैर्गंधैर्यजध्वं श्रीहरेः पदम् ॥४०॥

यो न कुर्याद्वचो मेऽद्य धर्म्यं विष्णुगतिप्रदम्॥
स मे दंड्यश्च वाध्यश्च निर्वास्यो विषयाद्ध्रुवम् ॥४१॥

एवंविधे वाद्यमाने पटहे मेघनिःस्वने॥
हस्ता दमुंच तांबूलं सकर्पूरं नृपोत्तमः ॥४२॥

मोहिनीकुचयोर्लग्नं हृदयं स विकृष्य वै॥
उदत्तिष्ठन्महीपालः शय्यायां रतिवर्द्धनः ॥४३॥

मोहिनीं मोहकामार्त्तां सत्वियन् श्लक्ष्णया गिरा॥
देवि प्रातर्हरिदिनं भविष्यत्यधनाशनम् ॥४४॥

संयतोऽहं भविष्यामि क्षम्यतां क्षम्यतामिति॥
तवाज्ञया मया कृच्छ्रं सन्ध्यावल्या तु कारितम् ॥४५॥

इयमेकादशी कार्या प्रबोधकरणी मया॥
अशेषपापबंधस्य छेदनी गतिदायिनी ॥४६॥

त्रयाणामपि लोकानां महोत्सवविधायिनी॥
तस्माद्धविष्यं भोक्ष्येऽहं नियतो मत्तगामिनी ॥४७॥

मया सह विशालाक्षि त्वं चापि तमधोक्षजम्॥
आराधय हृषीकेशमुपवासपरायणा॥
येन यास्यसि निर्वाणं दाहप्रलयवर्जितम् ॥४८॥

मोहिन्युवाच॥
साधूक्तं हि त्वया राजन्पूजनं चक्रपाणिनः॥
जन्ममृत्युजराछेदि करिष्येऽहं तवाज्ञया ॥४९॥

प्रतिज्ञा या त्वया पूर्वं कृता मंदरमस्तके॥
करप्रदानसहिता भवता सुकृतांकिता ॥५०॥

तस्यास्तु समयः प्राप्तो दीयतां स हि मे त्वया॥
जन्मप्रभृति यत्पुण्यं त्वया यत्नेन संचितम् ॥५१॥

तत्सर्वं नश्यति क्षिप्रं न ददासि वरं यदि॥
रुक्मांगद उवाच॥
एहि चार्वंगि कर्त्तास्मि यत्ते मनसि वर्तते ॥५२॥

नादेयं विद्यते किंचित्तुभ्यं मे जीवितावधि ।
किं पुनर्ग्रामवित्तादि धरायुक्तं च भामिनि ॥५३॥

मोहिन्युवाच॥
नाथ कांत विभो राजन् जीवितेश रतिप्रिय॥
नोपोष्यं वामरं विष्णोर्भोक्तव्या यद्यहं प्रिया ॥५४॥

न च तेऽहं प्रिया राजन् सुहूर्तमपि कामये॥
त्वत्संयोगं विना भूता भविष्यामि वरं विना ॥५५॥

तस्मान्मां यदि वांछेथा भोक्तुं सत्यपरायण॥
तदा त्यजोपवासं हि भुज्यतां हरिवासरे ॥५६॥

एष एव वरो देयो यो मया प्रार्थितः पुरा॥
न चेद्दास्यसि राजेंद्र भूत्वानृतवचाभवान् ॥५७॥

यास्यते नरके घोरे यावदाभूतसंप्लवम्॥

राजोवाच॥
मैवं त्वं वद कल्याणि नेदं त्वय्युपपद्यते ॥५८॥

विधेश्च तनया भूत्वा धर्मविघ्नं करोषि किम्॥
जन्मप्रभृत्यहं नैव भुक्तवान्हरिवासरे ॥५९॥

स चाद्याहं कथं भोक्ता संजातपलितः शुभे॥
यौवनातीतमर्त्यस्य क्षीणेंद्रियबलस्य च ॥६०॥

स्वर्णदीसेवनं युक्तमथवा हरिपूजनम्॥
न कृतं यन्मया बाल्ये यौवने न कृतं च यत् ॥६१॥

तदहं क्षीणवीर्योऽद्य कथं कुर्यां जुगुप्सितम्॥
प्रसीद चपलापांगि प्रसीद वरवर्णिनि ॥६२॥

मा कुरुष्व व्रते भंगं दाताहं राज्यसंपदाम्॥
अथवा नेच्छसि त्वं तत्करोम्यन्यत्सुलोचने ॥६३॥

आरोपयित्वा शिबिकां विमानप्रतिमां शुभाम्॥
यत्रेच्छसि नयिष्यामि पादचारी कलत्रयुक् ॥६४॥

यदि तच्चापि नेच्छेस्त्वं विमानं हि कृतं मया॥
तर्हि स्वर्णमयौ स्तंभौ कृत्वा विद्रुमभूषितौ ॥६५॥

मुक्ताफलमयीं दोलां करिष्ये त्वत्कृते प्रिये॥
तत्र त्वां दोलयिष्यामि बहून्मासानहर्निशम् ॥६६॥

व्रतभंगं वरारोहे मा कुरुष्व मम प्रिये॥
वरं श्वपचमांसं हि श्वमांसं वा वरानने ॥६७॥

आत्मनो वा नरैर्भुक्तं यैर्भुक्तं हरिवासरे॥
त्रैलोक्यघातिनः पापं मैथुने शशिनः क्षये ॥६८॥

नरस्य संचरेत्पापं भूतायां क्षौरकर्मणि॥
भोजने वासरे विष्णोस्तैले षष्ट्यां व्यवस्थिते ॥६९॥

लवणे तु तृतीयायां सप्तम्यां पिशिते शुभे॥
आज्येषु पौर्णमास्यां वै सुरायां रविसंक्रमे ॥७०॥

गोचारस्य प्रलोपे च कूटसाक्ष्यप्रदायके॥
निक्षेपहारके वापि कुमारीविघ्नकारके ॥७१॥

विश्वस्तघातके चापि मृतवत्साप्रदोग्धरि॥
ददामीति द्विजाग्र्याय प्रतिश्रुत्य न दातरि ॥७२॥

मणिकूटे तुलाकूटे कन्यानृतगवानृते॥
यत्पातकं तदन्ने हि संस्थितं हरिवासरे ॥७३॥

तद्विद्वांश्चारुनयने कथं भोक्ष्यामि पातकम्॥

मोहिन्युवाच॥
एकभुक्तेन नक्तेन तथैवायाचितेन च ॥७४॥

उपवासेन राजेंद्र द्वादशीं न हि लंघयेत्॥
गुर्विणीनां गृहस्थानां क्षीणानां रोगिणां तथा ॥७५॥

शिशूनां वलिगात्राणां न युक्तं समुपोषणम्॥
यज्ञभोगोद्यतानां च संग्रामक्षितिसेविनाम् ॥७६॥

पतिव्रतानां राजेंद्र न युक्तं समुपोषणम्॥
एतन्मे गौतमः प्राह स्थिताया मंदराचले॥। २३-७७॥

नाव्रतेन दिनं विष्णोर्नेयं मनुजसत्तम॥
ते गृहस्था द्विजा ज्ञेया येषामग्निपरिग्रहः ॥७८॥

राजानस्ते तु विज्ञेया ये प्रजापालने स्थिताः॥
गुर्विणी ह्यष्टमासीया शिशवश्चाष्टवत्सराः ॥७९॥

अतिलंघनिनः क्षीणा वलिगात्रास्तु वार्द्धकाः॥
ये विवाहादिमांगल्यकर्मव्यग्रा महोत्सवाः ॥८०॥

निवृत्ताश्च प्रवृत्तेभ्यो यज्ञानां चोद्यता हि ते॥
त्रिविधेन पुराणेन भर्त्तुर्या स्त्री हिते रता ॥८१॥

पतिव्रता तु सा ज्ञेया योनिसंरक्षणा तथा॥
किमन्यैर्बहुभिर्भूप वाक्यालापकृतैर्मया ॥८२॥

भोजने तु कृते प्रीतिरेकादश्यां त्वया मम॥
न प्रीतिर्यदि मे छित्वा शिरः स्वं हि प्रयच्छसि ॥८३॥

न करिष्यसि चेद्राजन् भोजनं हरिवासरे॥
तदा ह्यसत्यवचसो देहं न स्पर्शयामि ते ॥८४॥

वर्णानामाश्रमाणां हि सत्यं राजेंद्र पूज्यते॥
विशेषाद्भूमिपालानां त्वद्विधानां महीपते ॥८५॥

सत्येन सूर्यस्तपति शशी सत्येनराजते॥
सत्ये स्थिता क्षितिर्भूप सत्यं धारयते जगत् ॥८६॥

सत्येन वायुर्वहति सत्येन ज्वलते शिखी॥
सत्या धारमिदं सर्वं जगत्स्थावरजंगमम् ॥८७॥

न सत्याच्चालते सिंधुर्न विंध्यो वर्द्धते नृप॥
न गर्भं युवती धत्ते वेलातीतं कदाचन ॥८८॥

सत्ये स्थिता हि तरवः फलपुष्पप्रदर्शिनः॥
दिव्यादिसाधनं नॄणां सत्याधारं महीपते ॥८९॥

अश्वमेधसहस्रेभ्यः सत्यमेव विशिष्यते॥
मदिरापानतुल्येन कर्मणा लिप्यसेऽनृतात् ॥९०॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे रुक्मांगदसँलापो नाम त्रयोविंशोऽध्यायः ॥२३॥

N/A

References : N/A
Last Updated : May 09, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP