संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : उत्तरभागः|
अध्यायः २१

उत्तरभागः - अध्यायः २१

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


मांधातोवाच॥
पुत्रस्य वचनं श्रुत्वा किं चकार महीपतिः॥
सा चापि मोहिनी ब्रह्मन्प्रिया राज्ञो विधेः सुता ॥१॥

आश्चर्यरूपं कथितमाख्यानं तु सुधोपमम्॥
विशेषतस्त्वया पुण्यं सर्वसंदेहभंजनम् ॥२॥

वसिष्ठ उवाच॥
तत्पुत्रवचनं श्रुत्वा प्रहृष्टो नृपपुंगवः॥
उदतिष्ठत्प्रियायुक्तस्ताः श्रियश्चावलोकयत् ॥३॥

क्षणं हर्षान्वितो भूप राजा विष्णुपरायणः॥
नागकन्यास्तु ताः सर्वा वारुणीसहिता मुदा ॥४॥

प्रददौ तनये प्रेम्णा भार्यार्थं धर्मभूषणे॥
शेषं दानवनारीभिर्बहुरत्नसमन्वितम् ॥५॥

मोहिन्यै प्रददौ राजा कामबाणप्रपीडितः॥
संविभज्य पिता वित्तं धर्मांगदसमाहृतम् ॥६॥

पुरोहितमुवाचेदं काले चाहूय भूपतिः॥
सर्वासां मत्सुतो ब्रह्मन्पाणीन्गृह्णातु धर्मतः ॥७॥

कुमारीणां कुमारोऽयं मद्वाक्ये संस्थितः सदा॥
वैवाह्यलग्ने नक्षत्रे मुहूर्ते सर्वकामदे ॥८॥

वाचयित्वा द्विजान्स्वस्ति गोस्वर्णांबरतोषितान्॥
विवाहं कुरु पुत्रस्य मम धर्मांगदस्य वै ॥९॥

यः पुत्रस्य पितोद्वाहं न करोतीह मंदधीः॥
स मज्जेन्नरके घोरे ह्यप्रतिष्ठे युगायुतम् ॥१०॥

तस्माच्चोद्वाहयेत्पुत्रं पिता धर्मसमन्वितः॥
आत्मा संस्थापितस्तेन येन संस्थापितः सुतः ॥११॥

सर्वक्रतुफलं तस्य पुत्रोद्वाहे कृते भवेत्॥
पुत्रस्य गुणयुक्तस्य निर्गुणस्यापि भूसुर ॥१२॥

पित्रा कारयितव्यो हि विवाहो धर्ममिच्छता॥
यो न दारैश्च वित्तैश्च पुत्रान्संयोजयेत्पिता ॥१३॥

न पुमान्स तु विज्ञेय इहामुत्र विगर्हितः॥
तस्माद्वृत्तियुताः कार्याः पुत्रा दारैः समन्विताः ॥१४॥

यथा रमन्ते ते तुष्टाः सुखं पुत्राः सुमानिताः॥
तच्छ्रुत्वा वचनं राज्ञो द्विजस्तस्य पुरोहितः ॥१५॥

धर्मांगदविवाहार्थमुद्यतो हर्षसंयुतः॥
स युवानिच्छमानोऽपि स्त्रीसौख्यं लज्जाया सुतः ॥१६॥

स्वीचकार पितुर्वाक्याद्दारसंग्रहणं तदा॥
वरुणात्मजया सार्द्धं नागकन्या मनोहराः ॥१७॥

उपयेमे महाबाहू रूपेणाप्रतिमा भुवि॥
उद्वाहयित्वा सर्वास्ता विधिदृष्टेन कर्मणा ॥१८॥

वसुगोरत्नदानानि विप्रेभ्यः प्रददौ मुदा॥
कृतदारो ववंदेऽथ पादान्मातुः पितुर्मुदा ॥१९॥

ततः संध्यावलीदेवीमाह धर्मांगदः सुतः॥
पितुर्वाक्येन मे देवि संजातो दारसंग्रहः ॥२०॥

एतन्मे नास्ति मनसि यत्पित्रोद्वाहितो ह्यहम्॥
अव्ययं पितरं विज्ञं देवि शुश्रूषये ह्यहम् ॥२१॥

दिव्यैर्भोगैर्न मे किंचित्स्वर्गेणापि प्रयोजनम्॥
कार्या मे पितृशुश्रूषा तव चैव दिवानिशम् ॥२२॥

संध्यावल्युवाच॥
चिरं जीव सुखं पुत्र भुंक्ष्व भोगान्मनोऽनुगान्॥
पितुः प्रसादाद्दीर्घोयुर्मनो नंदय मे सुत ॥२३॥

त्वया सुपुत्रिणी पुत्र जाता गुणवता क्षितौ॥
सपत्नीनां च सर्वासां हृदये संस्थिता ह्यहम् ॥२४॥

एवमुक्त्वा परिष्वज्य मूर्द्धन्याघ्राय चासकृत्॥
व्यसर्जयत्ततः पुत्रं राज्यतंत्रावलोकने ॥२५॥

विसर्जितस्तदा मात्रा मातॄरन्याः प्रणम्य च॥
राज्यतंत्रं तदखिलं चक्रे पितृवचः स्थितः ॥२६॥

दुष्टनिग्रहणं चक्रे शिष्टानां परिपालनम्॥
अटनं सर्वदेशेषु वीक्षणं सर्वकर्मणाम् ॥२७॥

चक्रे सर्वत्र कार्याणां मासि मासि निरीक्षणम्॥
हस्त्यश्वपोषणं चक्रे चारचक्रेक्षणं तथा ॥२८॥

वादसंवीक्षणं चक्रे तुलामानं दिने देने॥
गृहे गृहे नराणां च चक्रे संरक्षणं नृपः ॥२९॥

स्तनंधयी क्वचिद्बालः स्तनहीनो न रोदिति॥
श्वश्रूर्वध्वा न कुत्रापि प्ररोदित्यवमानिता ॥३०॥

क्वचित्समर्थस्तनयः पितरं नहि याचते॥
न वर्णसंकरो राज्ये केषांचिदभवत्पुनः ॥३१॥

न गूढविभवो लोको धर्मे वदति दूषणम्॥
न कंचुकविहीना तु भवेन्नारी सभर्तृका ॥३२॥

गृहान्निष्क्रमणं स्त्रीणां मास्तु राज्ये मदीयके॥
मा सकेशा हि विधवा मास्त्वकेशा मभर्तृका ॥३३॥

मा व्रतीह सदाक्रोशी मारण्या नगराश्रयाः॥
सामान्यवृत्त्यदाता मे राज्येऽवसतु निर्घृणः ॥३४॥

गोपालो नगराकांक्षी निर्गुणस्तूपदेशकः॥
ऋत्विग्वा शास्त्रहीनश्च मा मे राज्ये वसेदिह ॥३५॥

यो हि निष्पादयेन्नीलीं नीलीरंगातिसेचकः॥
निर्वास्यौ तावुभौ पापौ यो वै मद्यं करोति च ॥३६॥

वृथा मांसं हि योऽश्नाति पृष्ठमांसप्रियो हि यः॥
तस्य वासो न मे राज्ये स्वकलत्रं त्यजेच्च यः ॥३७॥

विष्णुं परित्यज्य वरं सुराणां संपूजयेद्योऽन्यतमं हि देवम्॥
गच्छेत्सगर्भां युवतीं प्रसूतां दंड्यश्च वध्यश्च स चास्मदीयैः ॥३८॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे शिक्षानिरूपणं नामैकविंशोऽध्यायः ॥२१॥

N/A

References : N/A
Last Updated : May 09, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP