संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : उत्तरभागः|
अध्यायः ९

उत्तरभागः - अध्यायः ९

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


सौतिरुवाच॥
रुक्मांगदस्तु राजेंद्रो भुक्त्वा भोगांस्तुमानुषान्॥
संपूज्य बहुशो देवं पीतांबरधरं हरम् ॥१॥

दत्वा मूर्ध्नि पदं विप्राः शत्रीणां रणशालिनाम्॥
कृत्वा शून्यं यमपथं जित्वा वैवस्वतं यमम् ॥२॥

वैकुण्ठस्य तु पंथानं संपूर्णं मानवैः कृतम्॥
आहूय तनयं काले धर्मांगदमभाषत ॥३॥

एतां वसुमतीं पुत्र वसुपूर्णां समंततः॥
परिपालय वीर्येण स्वधर्मे कृतनिश्चयः ॥४॥

पुत्र समर्थे जाते यो राज्यं न प्रतिपादयेत्॥
तस्य धर्मस्तथा कीर्तिर्विनस्यति न संशयः ॥५॥

समर्थेन च पुत्रेण यो न याति पिता सुखम्॥
अवश्यं पातकी सोऽपि विज्ञेयो भुवनत्रये ॥६॥

पितुर्भारक्षमः पुत्रो भारं नोद्वहते तु यः॥
मातुरुच्चारवज्जातो द्विजिह्वो विषवर्जितः ॥७॥

स पुत्रो योऽधिकख्यातः पितुर्भवति भूतले॥
प्रकाशयति सर्वत्र स्वकरैरिव भास्करः ॥८॥

पुत्रापनयजैर्दुःखै रात्रौ जागर्तिं यत्पिता॥
स पुत्रो नरकं याति यावदाभूतसंप्लवम् ॥९॥

पितुर्वचनमादृत्य सर्वं यः कुरुते गृहे॥
स याति देव सायुज्यं स्तूयमानो दिवि स्थितैः ॥१०॥

सोऽहं प्रजाकृते पुत्र आसक्तः कर्मभिः क्षितौ॥
न भुक्तं नैव सुप्तं तु स्वेच्छया पालने स्थितः ॥११॥

असमर्थे त्वयि सुत न प्राप्तं हि मया सुखम् ।
विष्णुवासरभोक्तॄणां निग्रहे कृतबुद्धिना ॥१२॥

केचिच्छैवे स्थिता मार्गे सौरे केचिद्व्यवस्थिताः॥
विरिंचिमार्गगाश्चान्ये पार्वत्याश्च स्थिताः परे ॥१३॥

सायं च प्रातरासीना अग्निहोत्रे व्यवस्थिताः॥
बालो युवा वा वृद्धो वा गुर्विणी वा कुमारिका ॥१४॥

सरोगो विकलो वापि न शक्नोति ह्युपोषितुम्॥
इत्येवं जल्पितं यैस्तु तान्निरस्य समंततः ॥१५॥

वचोभिस्तु पुराणोक्तैर्वासरैर्बहुभिस्त्वहम्॥
संबोधयित्वा बहुशः प्रजानां सुखहेतवे ॥१६॥

निगृह्य तान्हरिदिने निराहारान्करोमि च॥
शास्त्रदृष्ट्या तु विदुषो मूर्खान्दंडनपूर्वकम् ॥१७॥

शासयित्वा कृताः सर्वे निराहारा हरेर्दिने॥
तेन मे न सुखं किंचिदवलीढं धरातले ॥१८॥

कच्चिन्न दुःखेन जनान्योजयेत्किल पुत्रक॥
स्वेभ्यो वापि परेभ्यो वा या रक्षेच्च प्रजा नृपः ॥१९॥

तस्यामी ह्यक्षया लोकाः पुराणेषु प्रकीर्तिताः॥
सोऽहं प्रजाकृते सौम्य संस्थितो नात्मनः क्वचित् ॥२०॥

सौख्यमिच्छाम्यहं भोक्तुं मृगयादिसमुद्भवम्॥
न पानद्यूतजं पुत्र कामयेऽहं कदाचन ॥२१॥

एषु सक्तोऽचिरात्पुत्र विनाशं याति पार्थिवः॥
त्वत्प्रसादादहं पुत्र मृगयाव्याजतोऽधुना ॥२२॥

गिरीन्वनानि सरितः सरांसि विविधानि च॥
भोक्तुकामः प्रियान्कामांस्त्वयि भारं निवेश्य च ॥२३॥

एतत्सर्वं समाख्यातं यत्स्थितं हृदये मम॥
कृते तव महाकीर्तिरकृते नरकस्थितिः ॥२४॥

धर्मांगद उवाच॥
सर्वमेतत्करिष्यामि भुंक्ष्व भोगान्मनोऽनुगान्॥
गुर्वीं राज्यधुरं तात त्वदीयामुद्धराम्यहम् ॥२५॥

नहि मेऽन्यः स्मृतो धर्मस्त्वद्वाक्यकरणं विना॥
पितुर्वाक्यमकुर्वाणः कुर्वन्धर्मानधो व्रजेत् ॥२६॥

तस्मात्करिष्ये वचनं त्वदीयं प्रांजलिः स्थितः॥
एवमुक्ते तु वचने राजा हृष्टो बभूव ह ॥२७॥

गंतुकामो मृगान्भूयो लब्ध्वा ज्ञात्वा वनं ततः॥
धर्मांगदोऽपि दृष्टात्मा प्रजा आहूय चाब्रवीत् ॥२८॥

पित्रा नियुक्तो भवतां पालनाय हिताय च॥
पितुर्वाक्यं मया कार्यं सर्वथा धर्ममिच्छता ॥२९॥

नान्यो हि धर्मः पुत्रस्य पितुर्वाक्यं विना प्रजाः॥
मयि दंडधरे शास्ता न यमो भवति क्वचित् ॥३०॥

एवं ज्ञात्वा तु युष्माभिः स्मर्तव्यो गरुडध्वजः॥
ब्रह्मार्पणप्रयोगेण यजनीयो जनार्दनः ॥३१॥

ममत्वं हि परित्यज्य स्वजातिविहितेन च॥
येन वो ह्यक्षया लोका भवेयुर्नात्र संशयः ॥३२॥

पितृमार्गाधिको ह्येष भवतां दर्शितः प्रजाः॥
ब्रह्मार्पणक्रियायुक्ता भवंतु ज्ञानकोविदाः ॥३३॥

न भोक्तव्यं हरिदिने पैत्रो मार्गस्तु शाश्वतः॥
विशेषो हि मयाख्यातो भवतां ब्रह्मसंस्थितिः ॥३४॥

प्रयोक्तव्या च तत्त्वज्ञैः पुनरावृत्ति दुर्लभा॥
यदुपोष्यं हरिदिनं तदवश्यमिति स्थितिः ॥३५॥

अनुनीय प्रजाः सर्वाः समाश्वात्य पुनः पुनः॥
न दिवा न च शर्वर्यां शेते धर्मां गदः सदा ॥३६॥

सर्वत्र भ्रमते शौर्यात्कुर्वन्निष्कंटकां क्षितिम्॥
पटहो रटते नित्यं मृगारिरिपुमस्तके ॥३७॥

अभुक्त्वा द्वादशीं लोका ममत्वेन विवर्जिताः॥
त्रिविधेषु च कार्येषु देवेशश्चिंत्यतां हरिः ॥३८॥

हव्यकव्यवहो देवः स एव पुरुषोत्तमः॥
सूर्ये यो हि कृशाकाशे विसर्गे जगतां पतिः ॥३९॥

स्मर्त्तव्यो मनुजैः सर्वैर्धर्मकामार्थकामुकैः॥
स्वजातिविहितोऽप्येवं सन्मार्गे चैव माधवः ॥४०॥

स एव भोक्ता भोक्तव्यः स एव पुरुषोत्तमः॥
विनियोगस्तु तस्यैव सर्वकर्मसु युज्यते ॥४१॥

एवं रटंति विप्रेंद्राः पटहे मेघनिःस्वने॥
एवं धर्ममवाप्याथ पितां धर्मांगदस्य हि ॥४२॥

ज्ञात्वा पुत्रं क्रियोपेतमात्मनो ह्यधिकं द्विजाः॥
उवाच भार्यां संहृष्टः स्थितां लक्ष्मीमिवापराम् ॥४३॥

संध्यावलि ह्यहं धन्यस्त्वं चापि वरवर्णिनी॥
उभयोर्जनितः पुत्रः शशांकधवलः क्षितौ ॥४४॥

कर्णाभ्यां श्रूयते मोक्षो न दृष्टः केनचित्क्वचित्॥
सोऽस्माभिरधिकं प्राप्तो मोक्षः सत्पुत्रसंभवः ॥४५॥

पुत्रे विनयसंपन्ने वृत्ताशौर्यसमन्विते॥
प्रतापिनि वरारोहे पितुर्मोक्षो गृहे ध्रुवम् ॥४६॥

आनंदं ब्रह्मणो रूपं शतानंदः सुतेन यः॥
पिता भवति चार्वंगि सत्कर्मकरणैः शुभैः ॥४७॥

नैतत्साम्यं भवेद्देवि लोके स्थावरजंगमे॥
सत्पुत्रः पितुरादाय भारमुद्वहते तु यः ॥४८॥

सोऽहं गमिष्यामि वनाय हृष्टो विहारशीलो मृगहिंसनाय॥
स्वेच्छाचरश्चाथ विशालनेत्रे विमुक्तपापो जनरक्षणाय ॥४९॥

इति श्रीबृहन्नारदीयपुराणोत्तरेभागे रुक्मांगदधर्मांगदसंवादो नाम नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : May 09, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP