संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|याज्ञवल्क्यस्मृतिः|आचाराध्यायः| भक्ष्याभक्ष्यप्रकरणम् आचाराध्यायः उपोद्घातप्रकरणम् ब्रह्मचारिप्रकरणम् विवाहप्रकरणम् वर्णजातिविवेकप्रकरणम् गृहस्थधर्मप्रकरणम् स्नातकधर्मप्रकरणम् भक्ष्याभक्ष्यप्रकरणम् द्रव्यशुद्धिप्रकरणम् दानप्रकरणम् श्राद्धप्रकरणम् गणपतिकल्पप्रकरणम् ग्रहशान्तिप्रकरणम् राजधर्मप्रकरणम् आचाराध्यायः - भक्ष्याभक्ष्यप्रकरणम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritiyadnyavalkyaधर्मयाज्ञवल्क्य स्मृतिःसंस्कृतस्मृतिः भक्ष्याभक्ष्यप्रकरणम् Translation - भाषांतर अनर्चितं वृथामांसं केशकीटसमन्वितम् ।शुक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं पतितेक्षितम् ॥१.१६७॥ उदक्यास्पृष्टसंघुष्टं पर्यायान्नं च वर्जयेत् ।गोघ्रातं शकुनोच्छिष्टं पदा स्पृष्टं च कामतः ॥१.१६८॥ अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् ।अस्नेहा अपि गोधूम यवगोरसविक्रियाः ॥१.१६९॥ संधिन्यनिर्दशावत्सा गोपयः परिवर्जयेत् ।औष्ट्रं ऐकशफं स्त्रैणं आरण्यकं अथाविकम् ॥१.१७०॥ देवतार्थं हविः शिग्रुं लोहितान्व्रश्चनांस्तथा ।अनुपाकृतमांसानि विड्जानि कवकानि च ॥१.१७१॥ क्रव्यादपक्षिदात्यूह शुकप्रतुदटिट्टिभान् ।सारसैकशफान्हंसान्सर्वांश्च ग्रामवासिनः ॥१.१७२॥ कोयष्टिप्लवचक्राह्व बलाकाबकविष्किरान् ।वृथाकृसरसम्याव पायसापूपशष्कुलीः ॥१.१७३॥ कलविङ्कं सकाकोलं कुररं रज्जुदालकम् ।जालपादान्खञ्जरीटानज्ञातांश्च मृगद्विजान् ॥१.१७४॥ चाषांश्च रक्तपादांश्च सौनं वल्लूरं एव च ।मत्स्यांश्च कामतो जग्ध्वा सोपवासस्त्र्यहं वसेत् ॥१.१७५॥ पलाण्डुं विड्वराहं च छत्राकं ग्रामकुक्कुटम् ।लशुनं गृञ्जनं चैव जग्ध्वा चान्द्रायणं चरेत् ॥१.१७६॥ भक्ष्याः पञ्चनखाः सेधागोधाकच्छपशल्लकाः ।शशश्च मत्स्येष्वपि हि सिंहतुण्डकरोहिताः ॥१.१७७॥ तथा पाठीनराजीव सशल्काश्च द्विजातिभिः ।अतः शृणुध्वं मांसस्य विधिं भक्षणवर्जने ॥१.१७८॥ प्राणात्यये तथा श्राद्धे प्रोक्षिते द्विजकाम्यया ।देवान्पितॄन्समभ्यर्च्य खादन्मांसं न दोषभाक् ॥१.१७९॥ वसेत्स नरके घोरे दिनानि पशुरोमभिः ।सम्मितानि दुराचारो यो हन्त्यविधिना पशून् ॥१.१८०॥ सर्वान्कामानवाप्नोति हयमेधफलं तथा ।गृहेऽपि निवसन्विप्रो मुनिर्मांसविवर्जनात् ॥१.१८१॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP