TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसार्णव - द्वादशः पटलः

रसार्णव नामक ग्रंथात विभिन्न रासायनिक प्रक्रियांद्वारे उत्पन्न होणारे तत्कालीन उत्प्रेरक शिवाय रासायनिक अभिक्रियांमध्ये तीव्रता प्रदान करणार्‍या पदार्थांमध्ये ज्यात अधिकांश वानस्पतिक श्रोत वापरले जातात त्यांचा खास उल्लेख आहे.


पारदमिश्रितः
श्रीदेव्युवाच
ओषधी कीदृशी नाथ रसमूर्छाकरी शुभा ।
केन वा भस्मसूतः स्यात्केन वा खोटबन्धनम् ॥१॥
श्रीभैरव उवाच
शृणु भैरवि यत्नेन रहस्यं रसबन्धनम् ।
ब्रह्मविष्णुसुरेन्द्राद्यैर्न ज्ञातं वीरवन्दिते ॥२॥
गङ्गायमुनयोर्मध्ये प्रयोगो नाम राक्षसः ।
तस्यासन्ने वरारोहे क्षणाद्बध्येत सूतकः ॥३॥
निशाचरस्य पत्त्राणि गृह्णीयात्साधकोत्तमः ।
अधो निष्पीडितं देवि रसो भवति चोत्तमः ॥४॥
रसं संमर्द्य तेनैव दिनानि त्रीणि वार्त्तिकः ।
आरोटं बन्धयेत्क्षिप्रं गगनं तत्र जारयेत् ॥५॥
तेन पत्त्ररसेनैव साधयेद्गगनं पुनः ।
सप्तधा भावितं तेन त्र्यूषणेन सहैकतः ।
यन्त्रे विद्याधरे देवि गगनं तत्र जारयेत् ॥६॥
मासमात्रेण देवेशि जीर्यते तत्समं समे ।
समजीर्णे रसे देवि शतवेधी भवेद्रसः ॥७॥
निशाचररसे देवि गन्धकं भावयेत्ततः ।
भावयेत्सप्तवारं तु द्विपद्याश्च रसेन तु ॥८॥
तारस्य पत्त्रलेपेन अर्धार्धकाञ्चनोत्तमम् ।
गन्धके समजीर्णेऽस्मिन्शतवेधी रसो भवेत् ॥९॥
पुनस्तं गन्धकं दत्त्वा पत्त्रलेपे रविं हरेत् ।
तं रविं तारमध्ये तु त्रिगुणं वाहयेत्ततः ॥१०॥
हेमार्धे मिलितं हेम मातृकासमतां व्रजेत् ।
पुनस्तं गन्धकं साक्षाद्द्रावयित्वा द्रुतं कुरु ॥११॥
रसेन्द्रं मर्दयेत्तेन गतदेहं तु कारयेत् ।
लेपमात्रेण तेनैव कुष्ठानष्टादश प्रिये ।
अर्शो भगंदरं लूतां शिरोरोगांश्च नाशयेत् ॥१२॥
निशाचररसे भाव्यं सप्तवारं तु तालकम् ।
तेनैव घातयेद्वङ्गं वङ्गं तारे तु निर्वहेत् ॥१३॥
तं तारं जारयेत्सूते तत्सूतं बन्धनं व्रजेत् ।
लेपमात्रेण तेनैव चतुःषष्टितमो भवेत् ॥१४॥
चतुःषष्टितमे भागे शुल्ववेधं तु दापयेत् ।
शुल्वं तु दापयेत्तारे तत्तारं काञ्चनं भवेत् ।
तत्तारं जायते श्रेष्ठं धर्मकामार्थमोक्षदम् ॥१५॥
निशाचरस्य पुष्पाणि सूक्ष्मचूर्णानि कारयेत् ।
पलानि दश चूर्णस्य रसैर्धात्र्यास्तु भावयेत् ॥१६॥
घृतेन मधुनालोड्य नवभाण्डे विनिक्षिपेत् ।
धान्यराशौ निधातव्यं त्रिसप्ताहं सुरेश्वरि ॥१७॥
तेन भक्षितमात्रेण वलीपलितवर्जितः ॥१८॥
वल्कलं सूक्ष्मचूर्णं तु मधुना सहितं लिहेत् ।
अर्धमासप्रयोगेण प्रत्यक्षोऽयं भवेत्प्रिये ॥१९॥
तस्य मूत्रपुरीषेण शुल्वं भवति काञ्चनम् ।
मासमात्रप्रयोगेण पन्नगः काञ्चनं भवेत् ॥२०॥
ग्राह्यं तत्फलतैलं वा यन्त्रे पातालसंज्ञके ।
तेन तैलेन देवेशि रसं संकोचयेद्बुधः ॥२१॥
तत्क्षणाज्जायते देवि पट्टबद्धो महारसः ॥२२॥
कटुकं कङ्कणं कार्यं रसलिङ्गे वरानने ।
संकोच्य मारणं तेन कर्तव्यं परमाद्भुतम् ॥२३॥
निशाचररसे क्षिप्तं सप्तवारं तु भास्करम् ।
कालिकारहितं तेन जायते कनकप्रभम् ॥२४॥
तत्तारेण समं बाह्यं तेन सिक्तं तु वापितम् ।
दशांशं वेधयेत्सूतं दश पीतं शतेन च ॥२५॥
शतं वेधयते लक्षं सहस्रं कोटिवेधकम् ।
दशांशं कोटिवेधि स्यात्कोटिवेधि समेन च ॥२६॥
पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् ॥२७॥
त्रैलोक्यजननी या स्यादोषधी अजनायिका ।
तस्याः सम्पर्कमात्रेण बद्धस्तिष्ठति पारदः ॥२८॥
सप्ताहं मर्दितस्तस्या महौषध्या रसेन सः ।
शतांशेनैव वेधेन कुरुते दिव्यकाञ्चनम् ॥२९॥
द्विसप्ताहं रसे तस्या मर्दनाद्वरवर्णिनि ।
लक्षवेधी रसः साक्षादष्टौ लोहानि काञ्चनम् ॥३०॥
त्रिसप्ताहेन देवेशि दशलक्षाणि विध्यति ।
चतुर्थे चैव सप्ताहे कोटिवेधी महारसः ॥३१॥
स्वेदतापननिघृष्टो महौषध्या रसेन तु ।
ददाति खेचरीं सिद्धिं अनिवारितगोचरः ॥३२॥
कामयेत्कामिनीनां तु सहस्रं दिवसान्तरे ।
नष्टच्छायो ह्यदृश्यश्च त्रैलोक्यं च भ्रमेद्रसैः ॥३३॥
महौषध्या रसेनैव मृतसंजीवनं भवेत् ।
अनेन घातयेत्सूतं पञ्चावस्थं कुरु प्रिये ॥३४॥
मृतस्य दापयेन्नस्यं हस्तपादौ तु मर्दयेत् ।
तस्य तु प्रविशेज्जीवो मृतस्यापि वरानने ॥३५॥
पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् ।
नरसाररसेनैव क्षणाद्बध्येत सूतकः ॥३६॥
नरसाररसं दत्त्वा द्विपदीरजसा सह ।
दिनान्ते बन्धमायाति सर्वलोहानि रञ्जयेत् ॥३७॥
नरसाररसेनैव जीर्णे षड्गुणपन्नगे ।
तारे ताम्रेऽपि वा देवि भावयेत्तं मनःशिलाम् ॥३८॥
निर्गन्धा जायते सा तु घातयेत्तद्रसायनम् ।
द्विपदीरजसा सार्धं निःसत्त्वः पन्नगो भवेत् ॥३९॥
नरसाररसेनैव जीर्णे षड्गुणपन्नगे ।
तारे ताम्रेऽपि वा देवि कोटिवेधी भवेद्रसः ॥४०॥
नरसाररसस्तन्ये भावनाः सप्तधा पृथक् ।
रसेन्द्रं दापयेद्ग्रासं यन्त्रे विद्याधराह्वये ॥४१॥
जीर्यते गगनं देवि निर्मुखं च वरानने ।
नरसाररसेनैव कीटमारीरसेन च ।
द्रावयेद्गगनं देवि तीक्ष्णं लोहं च पन्नगम् ॥४२॥
नरसाररसेनैव हनूमत्या रसेन च ।
जायते काञ्चनं दिव्यं निषेकाद्भास्करप्रिये ॥४३॥
नरसाररसे दत्त्वा मञ्जिष्ठारक्तचन्दनम् ।
स्वरसे मर्दयेत्पश्चात्पन्नगं देवि सेचयेत् ॥४४॥
तत्क्षणात्काञ्चनं दिव्यं सप्तवारं निषेचितम् ।
रविघृष्टं तु तं देवि पन्नगं त्रिगुणं प्रिये ॥४५॥
तच्छुल्वं हेमसंकाशं तारपञ्चांशयोजितम् ।
अष्टमांशयुतं हेम हेमकर्मणि चौषधम् ॥४६॥
नरसाररसे भाव्यं सप्तवारं तु हिङ्गुलम् ।
तेनैव घातयेत्तीक्ष्णं भस्मीभूतत्वमादिशेत् ॥४७॥
तद्भस्म ताम्रपिष्टं तु त्रिगुणं तेन निर्वहेत् ॥४८॥
तच्छुल्वं हेमसंकाशं तारमष्टांशयोजितम् ।
तारहेम समांशं तु द्विगुणं पित्तलं भवेत् ॥४९॥
नरसाररसे भाव्यं रसकं सप्तवारतः ।
तं रसं रसकं चैव तीक्ष्णं लोहं च पन्नगम् ।
नरसाररसेनैव तेनैवैकत्र मर्दयेत् ।
तत्क्षणाज्जायते बन्धो रसस्य रसकस्य च ॥५०॥
तीक्ष्णं नागं तथा शुल्वं रसकेन तु रञ्जयेत् ।
समस्तं जायते हेम कूष्माण्डकुसुमप्रभम् ॥५१॥
पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् ॥५२॥
कङ्कालखेचरी नाम ओषधी परमेश्वरि ।
तस्यास्तैलं तु संगृह्य माघखेचरिसंयुतम् ।
भावयेत्दिनमेकं तु पात्रे भास्करनिर्मिते ॥५३॥
द्वितीये वासरे प्राप्ते वज्ररत्नं तु घातयेत् ।
अनले धामयेत्तत्तु सुतप्तज्वलनप्रभम् ॥५४॥
कङ्कालखेचरीतैले वज्ररत्नं निषेचयेत् ।
दशवारं निषिक्तं तु भस्माकारं हि जायते ॥५५॥
तद्धेमपक्वबीजं तु तेन भस्मसमं कुरु ।
त्रिभागं टङ्कणं दत्त्वा अन्धमूषागतं धमेत् ।
तत्क्षणान्मिलति द्वंद्वं वज्ररत्नं च काञ्चनम् ॥५६॥
चन्द्रहेम वरारोहे समं जारयते यदि ।
कोटिवेधी रसो देवि लोहान्यष्टौ च विध्यति ॥५७॥
पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् ॥५८॥
सबीजा चौषधी ग्राह्या काचिद्गुल्मलता प्रिये ।
मन्त्रसिंहासनी नाम द्वितीया देवि खेचरी ।
पातालयन्त्रे तत्तैलं गृह्णीयात्ताम्रभाजने ॥५९॥
तस्य तैलस्य मध्ये तु प्रक्षिपेत्खेचरीरसम् ।
मेदिनीयन्त्रमध्ये तु स्थापयेत्तु वरानने ॥६०॥
पूर्वौषध्या तु तद्देवि गगनं मेदिनीतले ।
रसग्रासं ततो दत्त्वा मर्दनाद्गोलकं कुरु ॥६१॥
बद्ध्वा पोटलिकां तेन गगनं तेन जारयेत् ।
समे तु गगने जीर्णे बद्धस्तिष्ठति सूतकः ॥६२॥
भस्त्राफूत्कारयुक्तेन धाम्यमानेन नश्यति ।
काकविष्ठासमं रूपं समजीर्णस्य जायते ॥६३॥
द्विगुणे गगने जीर्णे अष्टौ लोहानि संहरेत् ॥६४॥
पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् ॥६५॥
शिवदेहात्समुत्पन्ना ओषधी तुरसिंहनी ।
जारयेद्गन्धकं सा तु जारयेत्सापि तालकम् ॥६६॥
काञ्चनं जारयेत्सापि रसेन्द्रं सा च बद्धयेत् ।
प्रवालं जारयेत्सा तु गगनं द्रावयेत्तथा ।
वज्रं च घातयेत्सा तु सर्वसत्त्वं च पातयेत् ॥६७॥
जारयेत्सर्वलोहानि सत्त्वान्यपि च पाचयेत् ।
हरींदरीरसे न्यस्य गोशृङ्गे तु वरानने ।
धान्यराशौ निधातव्यं मृतं तिष्ठति सूतकम् ॥६८॥
दिव्यौषध्या रसेनैव रसेन्द्रः सुरवन्दिते ।
समे तु कनके जीर्णे दशकोटीस्तु वेधयेत् ॥६९॥
पञ्चमे लक्षकोटिस्तु षड्गुणे स्पर्शवेधकः ।
सप्तमे धूमवेधी स्यातष्टमे त्ववलोकतः ।
नवमे शब्दवेधी स्यादत ऊर्ध्वं न विद्यते ॥७०॥
भ्रमन्ति पशवो मूढाः कुलौषधिविवर्जिताः ।
तृणौषधिरसानां च नैव सिद्धिः प्रजायते ॥७१॥
तस्मात्सर्वप्रयत्नेन ज्ञातव्या तु कुलौषधी ॥७२॥
दिव्यौषधी चतुःषष्टिः कुलमध्ये व्यवस्थिता ।
नैव जानन्ति मूढास्ते देवमोहेन मोहिताः ॥७३॥
अदिव्यास्तु तृणौषध्यो जायन्ते गिरिगह्वरे ॥७४॥
तृणौषध्या रसे सूतं नैव बद्धं कदाचन ।
अक्षयं च वरारोहे वह्निमध्ये न तिष्ठति ॥७५॥
न खोटो न च वा भस्म नैव द्रव्यं करोति सः ।
किं तत्द्रव्यं प्रकुर्वीत धाम्यमानो न तिष्ठति ॥७६॥
पत्त्रे पाके कटे छेदे नैव तिष्ठति काञ्चने ।
न वेधं च शतादूर्ध्वं करोति स रसः प्रिये ॥७७॥
यावन्न बद्धमेकं तु विक्रीतं तत्तु काञ्चनम् ।
धर्मार्थकाममोक्षार्थं नैव दद्यात्तु तत्प्रिये ॥७८॥
श्रीदेव्युवाच
निर्जीवत्वं गतः सूतः कथं जीवं ददाति च ।
निर्जीवेन तु निर्जीवः कथं जीवति शंकर ॥७९॥
श्रीभैरव उवाच
दिव्यौषध्या यदा देवि रसेन्द्रो मूर्छितो भवेत् ।
कालिकारहितः सूतस्तदा भवति पार्वति ॥८०॥
परस्य हरते कालं कालिकारहितो रसः ।
अष्टानां चैव लोहानां मलं शमयति क्षणात् ॥८१॥
महामूर्छागतं सूतं को वापि कथयेन्मृतम् ।
दिव्यौषध्या रसेनैव जायते नष्टचेतनः ॥८२॥
पञ्चभूतात्मकः सूतस्तिष्ठत्येव सदाशिवः ॥८३॥
पुनरन्यं प्रवक्ष्यामि रसबन्धनमीश्वरि ॥८४॥
क्ष्मापालेन हतं वज्रं अनेनैव तु काञ्चनम् ।
वज्रभस्म हेमभस्म तद्वै एकत्र बन्धयेत् ॥८५॥
निशाचररसे जार्यं नरजीवेन जारयेत् ।
तं सूतं मारयेद्भद्रे गजारिदिव्यकौषधी ॥८६॥
भक्षितः स रसो येन सोऽपि साक्षात्सदाशिवः ।
भक्षिते तोलकैकेन स्पर्शवेधी भवेन्नरः ॥८७॥
प्रस्वेदात्तस्य गात्रस्य रसराजश्च वेध्यते ।
प्रस्वेदादपि मूत्रेण अष्टौ लोहानि काञ्चनम् ॥८८॥
लक्षवर्षसहस्राणि स जीवेत्साधकोत्तमः ।
प्रजापतिः कृष्णतेजाः क्षणाद्बध्नाति सूतकम् ॥८९॥
गजारिस्पर्शनाद्देवि क्ष्मापालेन च बध्यते ॥९०॥
वज्रवल्लीरसेनैव भावितं गगनं प्रिये ।
जारयेद्वालुकायन्त्रे खोटो भवति तत्क्षणात् ॥९१॥
मृतगोलकमाषैकं माषैकं हेमगोलकम् ।
एकीकृत्य तु संमर्द्य लुङ्गाम्लेन दिनत्रयम् ।
कर्षैकं नागपत्त्राणि रसकल्केन लेपयेत् ॥९२॥
वेष्टयेद्वृश्चिकाल्या च तत्पिण्डं लेपयेत्ततः ।
मारयेत्पन्नगं देवि शक्रगोपनिभं भवेत् ॥९३॥
कर्षैकं तारपत्त्राणि मृतनागेन लेपयेत् ।
वृश्चिकाल्या च तत्पत्त्रं लेपितं वेष्टयेत्ततः ॥९४॥
तत्तारं म्रियते देवि सिन्दूरारुणसंनिभम् ।
सहस्रांशेन तेनैव शुल्बवेधं प्रदापयेत् ॥९५॥
जायते कनकं दिव्यं देवाभरणभूषणम् ॥९६॥
क्षीरयुक्ता बहुफला ग्रन्थियुक्ता च पार्वति ।
नाम्ना चटुलपर्णीति शस्यते रसबन्धने ॥९७॥
एकवीराकन्दरसे मूकमूषागतं रसम् ।
धमेन्मुखानिलैर्बद्धो भक्षणाय प्रशस्यते ॥९८॥
रक्तकञ्चुकिकन्दं तु स्त्रीस्तन्येन तु पेषितम् ।
मूषायां पूर्वयोगेन कुरुते रसबन्धनम् ॥९९॥
वृश्चिकापत्त्रिकाबीजं नारीक्षीरसमन्वितम् ।
धमयेत्पूर्ववत्सूतं भक्षणार्थाय वार्त्तिकः ॥१००॥
वज्रकन्दं समादाय रसमध्ये विनिक्षिपेत् ।
गजेन्द्राख्यं पुटं दत्त्वा सप्तधा बद्धतां नयेत् ॥१०१॥
भक्षयेत्तं रसं प्राज्ञः षण्मासादमरो भवेत् ॥१०२॥
लाङ्गलीकन्दमादाय कर्कोटीकन्दमेव च ।
रसं तन्मध्यगं कृत्वा स्वेदयेन्मर्दयेत्पुनः ॥१०३॥
म्रियते नात्र संदेहो ध्मातस्तीव्रानलेन तु ।
शुकचञ्चुगतं सूतं पुटयेद्धामयेत्ततः ॥१०४॥
शतांशं वेधकर्तायं देहसिद्धिकरो भवेत् ॥१०५॥
हंसपादीरसं सूतं शूककन्दोदरे क्षिपेत् ।
गजेन्द्रपुटनं दद्यात्म्रियते नात्र संशयः ॥१०६॥
हंसाङ्घ्रिं शुकतुण्डीं च गृहीत्वा मर्दयेद्रसम् ।
क्रौञ्चपादोदरे दत्त्वा ततो दद्यात्पुटत्रयम् ॥१०७॥
म्रियते नात्र संदेहो लक्षवेधी महारसः ॥१०८॥
तृणज्योतिरिति ख्याता शृणु दिव्यौषधी प्रिये ।
निशासु प्रज्वलेन्नित्यं नाह्नि ज्वलति पार्वति ।
तस्या मूले तु निक्षिप्तं क्षीरं रक्तं भवेत्प्रिये ॥१०९॥
तन्मूलरसगन्धाभ्रैर्मातुलुङ्गाम्लपेषितैः ।
शुल्बपत्त्रं विलिप्तं तु भवेद्धेम पुटत्रयात् ॥११०॥
तन्मूलचूर्णसंयुक्तो रसराजः सुरेश्वरि ।
मातुलुङ्गरसे घृष्टं अभ्रकं चरति क्षणात् ॥१११॥
अथोच्चटीं प्रवक्ष्यामि रसबन्धकरीं प्रिये ।
एकमेव भवेन्नालं तस्य रोम तु वेष्टनम् ॥११२॥
तस्याग्रे च भवेत्पुष्पं शुकतुण्डस्य संनिभम् ।
तत्पत्त्राणि च देवेशि शुकपिच्छनिभानि च ।
तत्कन्दं कुष्ठसंस्थानं क्षीरं सिन्दूरसंनिभम् ॥११३॥
जलं स्रवेन्मधूच्छिष्टं तत्समादाय पार्वति ।
वेधयेत्सर्वलोहानि काञ्चनानि भवन्ति च ॥११४॥
रसतालकतुत्थानि मर्दयेदुच्चटीरसैः ।
आतपे म्रियते तप्तो रसो दिव्यौषधीबलात् ॥११५॥
वेधयेत्सप्त लोहानि लक्षांशेन वरानने ॥११६॥
अथ रक्तस्नुहीकल्पं वक्ष्यामि सुरसुन्दरि ।
स्नुहीक्षीरेण शुल्बस्य पत्त्रलेपं तु कारयेत् ॥११७॥
क्षीरेण तापयेद्भूयः सप्तवारं वरानने ।
आवर्तितं भवेद्यावज्जाम्बूनदसमप्रभम् ॥११८॥
अथातस्तिलतैलेन पाचयेच्च दिनत्रयम् ।
तथा शुल्वस्य पत्त्राणि वेध्यं जाम्बुनदं भवेत् ।
रसं रक्तस्नुहीक्षीरं कुनटीं गन्धकाभ्रकम् ।
दरदं चैव लोहानि सहस्रांशेन वेधयेत् ॥११९॥
स्नुहीक्षीरं समादाय निशार्धं हेम चोभयम् ।
कुनटीं गन्धचूर्णं च सर्वमेकत्र मर्दयेत् ॥१२०॥
अनेनैव प्रकारेण निशार्धं हेम शोधयेत् ।
गुटिकाकृत्य तेनैव नागं विध्यति तत्क्षणात् ॥१२१॥
अथातः स्थलपद्मिन्या दिव्यौषध्या विधिं शृणु ॥१२२॥
पद्मिनीसदृशी पत्त्रैः पुष्पैरपि च तादृशी ।
भङ्गे चैव भवेत्क्षीरं रक्तवर्णं सुशोभनम् ॥१२३॥
आक्रम्य वामपादेन पश्येद्गगनमण्डलम् ।
पश्येच्च तारकायुक्तं ग्रहनक्षत्रमण्डलम् ।
लक्षयोजनतो देवि सा ज्ञेया स्थलपद्मिनी ॥१२४॥
तस्याः पञ्चाङ्गमादाय हरगौरीसमन्वितम् ।
मनःशिलातालयुक्तं माक्षिकेण समन्वितम् ॥१२५॥
मर्दयेत्सप्तरात्रं तु तेन शुल्वं च वेधयेत् ।
सहस्रांशेन देवेशि विद्धं भवति काञ्चनम् ॥१२६॥
तस्याः पञ्चाङ्गमादाय पूर्वोक्तविधिना प्रिये ।
चारयेत्सूतराजं तु मूकमूषागतं धमेत् ॥१२७॥
म्रियते मूषिकामध्ये संकोचेन न संशयः ।
तेनैव सर्वलोहानि सहस्रांशेन वेधयेत् ॥१२८॥
अथातः सम्प्रवक्ष्यामि कुमुदिन्या विधिं प्रिये ।
भित्त्वा काश्मीरिपाषाणे पूर्णिमायां तु कारयेत् ॥१२९॥
तस्याः पञ्चाङ्गं आदाय भावयेत्तु मनःशिलाम् ।
खर्परे धारयित्वा तु भावयेत्तु पुनः पुनः ॥१३०॥
खर्परे द्रावितं नागं तत्कल्केन युतं कुरु ।
काश्मीरद्रवतुल्यं हि जायते कनकं ध्रुवम् ॥१३१॥
चित्रकस्य यथा ग्राह्यं कथयामि समासतः ॥१३२॥
चित्रकस्त्रिविधो ज्ञेयो रक्तः कृष्णो रसायने ।
शुक्लो व्याधिप्रशमने श्रेष्ठो मध्यः कनीयसः ॥१३३॥
कृष्णं रक्तं सितं वापि हेमन्ते नोद्धरेद्बुधः ॥१३४॥
कृष्णचित्रकमुत्पाट्य गोभिर्नाघ्रातमीश्वरि ।
क्षीरमध्यस्थितं क्षीरं कृष्णवर्णं भवेत्क्षणात् ॥१३५॥
तस्य पञ्चाङ्गचूर्णेन पारदं सह मर्दयेत् ।
धमेच्च मूकमूषायां खोटो भवति तत्क्षणात् ॥१३६॥
रक्ताम्बरधरो भूत्वा रक्तमाल्यानुलेपनः ।
कृष्णपक्षे तु पञ्चम्यां रक्तशाल्योदनेन तु ।
बलिं दत्त्वा महादेवि रक्तचित्रकमुद्धरेत् ॥१३७॥
रक्तचित्रकचूर्णेन वङ्गस्तापैस्त्रिभिस्त्रिभिः ।
सर्वदोषविनिर्मुक्तः स्तम्भमायाति तत्क्षणात् ॥१३८॥
तन्मूलं सूतकं चाम्ले कङ्गुणीतैलसेवनात् ।
एकविंशतिवारेण शुल्वं शुद्धं भविष्यति ॥१३९॥
रक्तचित्रकभल्लात तैललिप्तं पुटेन तु ।
चन्द्रार्कपत्त्रं देवेशि जायते हेम शोभनम् ॥१४०॥
नागिनीकन्दसूतेन्द्रं रक्तचित्रकसंयुतम् ।
पत्त्रलेपप्रमाणेन चन्द्रार्कं काञ्चनं भवेत् ॥१४१॥
रक्तचित्रकसंयुक्तो रसोऽपि सर्वदो भवेत् ॥१४२॥
ज्योतिष्मतीतैलविधिं वक्ष्यामि शृणु पार्वति ॥१४३॥
ज्योतिष्मती नाम लता या च काञ्चनसंनिभा ।
वल्लीवितानबहुला हेमवर्णफला शुभा ॥१४४॥
आषाढपूर्वपक्षे तु गृहीत्वा बीजमुत्तमम् ।
तिलवत्क्वाथयित्वा तु हस्तैः पादैरथापि वा ।
तस्य तैलं समादाय कुम्भे ताम्रमये क्षिपेत् ॥१४५॥
तापयेद्भूगतं कुम्भं क्रमादूर्ध्वं तुषाग्निना ।
षण्मासे तु व्यतिक्रान्ते स घटः काञ्चनं भवेत् ॥१४६॥
तं तु हेममयं कृत्वा तैलमाक्षिकमिश्रितम् ।
प्रतिवापे निषिञ्चेत्तत्हेम ताम्रसमं भवेत् ॥१४७॥
तथाच शतवेधि स्याद्विद्यारत्नमनुत्तमम् ॥१४८॥
दग्धारोहां प्रवक्ष्यामि रसबन्धकरीं प्रिये ।
स्पर्शवेधे तु सा ज्ञेया सर्वकार्यार्थसाधिनी ॥१४९॥
शस्त्रच्छिन्ना महादेवि दग्धा वा पावकेन तु ।
प्ररोहति क्षणाद्दिव्या दग्धा छिन्ना महौषधी ॥१५०॥
रक्तं पीतं सितं कृष्णं तस्याः पुष्पं प्रजायते ।
चणकस्येव पत्त्राणि सुप्रसूतानि लक्षयेत् ॥१५१॥
सा स्थिता गोमतीतीरे गङ्गायां अर्बुदे गिरौ ।
उज्जयिन्या दक्षिणतो वनान्तेषु च दृश्यते ॥१५२॥
तस्याः कन्दरसं दिव्यं कृष्णराजिसमन्वितम् ।
ताम्बूलेन समं कृत्वा गुटिकां कारयेद्बुधः ॥१५३॥
सर्वेषामेव लोहानां द्रुतानां वह्निमध्यतः ।
सहस्रं वेधयित्वा तु काञ्चनं कुरुते क्षणात् ॥१५४॥
तथैव म्रियते सूतः कान्तहेमाभ्रसंयुतः ।
कुरुते काञ्चनं दिव्यं देवाभरणभूषणम् ॥१५५॥
कटुतुम्बीति विख्यातां देवि दिव्यौषधीं शृणु ॥१५६॥
तस्या बीजानि संगृह्य सूक्ष्मचूर्णानि कारयेत् ॥१५७॥
एकविंशतिवारांस्तु भाव्यं धात्रीरसेन तु ।
पयसा सहितेनैव विश्वभेषजसंयुतम् ॥१५८॥
बीजं यन्त्रे विनिक्षिप्य तैलं संगृह्य पण्डितः ।
रसं मूर्छापयेत्तेन चक्रमर्देन मर्दयेत् ॥१५९॥
गोपित्तं शिखिपित्तं च काङ्क्षीकासीससंयुतम् ।
तारतुल्यानि चैतानि सर्वेषां सूतकः समः ॥१६०॥
मेषशृङ्गे निधातव्यं मासमेकं निरन्तरम् ।
लोहदण्डेन संसिक्तं सर्वलोहानि वेधयेत् ॥१६१॥
गन्धकं लोहदण्डेन एकविंशतिभावितम् ।
युक्तं लोहमनेनैव जम्बीररससंयुतम् ॥१६२॥
सबीजं सूतकोपेतं अन्धमूषानिवेशितम् ।
भूगतं मासमेकं तु तारं काञ्चनतां नयेत् ।
दलस्य भागमेकं तु तारपञ्चकमेव च ।
शुल्वस्य पञ्चभागं च बीजस्यैकं च योजयेत् ॥१६३॥
एते द्वादश भागाः स्युः सर्वं तद्धारयेत्क्षितौ ।
स्थानस्यास्य निषेकं तु भूदण्डेन तु कारयेत् ॥१६४॥
पञ्चविंशद्दिनान्ते तु जायते कनकोत्तमम् ॥१६५॥
क्षीरकन्दविधिं वक्ष्ये सर्वसिद्धिकरं परम् ।
चतुर्वर्णविधं तत्र रक्तकन्दः प्रशस्यते ॥१६६॥
भग्नं एतच्छ्रवेत्क्षीरं रक्तवर्णं सुशोभनम् ॥१६७॥
मेघानां तु निनादेन संजातैरुपशोभितैः ।
पत्त्रैः स्नुहीसमैः स्निग्धैः सप्तभिर्हेमसुप्रभैः ।
बन्धनं रसराजस्य सर्वसत्त्ववशंकरम् ॥१६८॥
तस्य क्षीरं तु संगृह्य तारं निर्वापयेद्बुधः ।
धमेद्धवाग्निना चैव जायते हेम शोभनम् ॥१६९॥
तिन्तिणीपत्त्रनिर्यासैरीषत्ताम्ररजोयुतम् ।
मर्दयेत्पारदं प्राज्ञो रसबन्धो भविष्यति ॥१७०॥
तोयमध्ये विनिक्षिप्य गुटिका वज्रवद्भवेत् ॥१७१॥
शाकवृक्षस्य देवेशि निष्पीड्य रसमुत्तमम् ।
रक्तचन्दनसंयुक्तं सर्वलोहानि जारयेत् ॥१७२॥
गन्धपाषाणगन्धेन आयसे विनियोजयेत् ।
मिलन्ति सर्वलोहानि द्रवन्ति सलिलं यथा ॥१७३॥
गन्धकं रसकं ताप्यं पारदं रक्तचन्दनम् ।
रुदन्त्या रससंयुक्तं तारमायाति काञ्चनम् ॥१७४॥
शाकवृक्षस्य निर्यासं पत्त्रे तस्य च गालयेत् ।
शिग्रुमूलस्य चूर्णं तु तद्रसेन विमर्दयेत् ॥१७५॥
प्रलिप्य शुल्वपत्त्राणि पुटे क्षिप्त्वा विपाचयेत् ।
तद्द्रुतं काञ्चनं दिव्यं भवेल्लक्षणसंयुतम् ॥१७६॥
फलानि शाकवृक्षस्य परिपक्वानि संगृहेत् ।
तद्रसेन युतं प्राज्ञः सप्तरात्रं तु भावयेत् ॥१७७॥
तद्रसेन समायुक्तं मञ्जिष्ठामिश्रितं तथा ।
लेपयेत्तारपत्त्राणि ध्मातं भवति काञ्चनम् ॥१७८॥
देवदाल्या महौषध्या विधिं वक्ष्यामि तत्परम् ।
सा श्वेता व्याधिनाशे च कृष्णा पीता रसायने ॥१७९॥
पौर्णमास्यां त्रयोदश्यां राहुग्रस्ते दिवाकरे ।
अथवा कृष्णपञ्चम्यां इमां विधिवदुद्धरेत् ॥१८०॥
देवदालीफलं देवि विष्णुक्रान्ता च सूतकम् ।
मूर्छयेद्बन्धयेत्क्षिप्रं शुल्वं हेम करोति च ॥१८१॥
देवदालीफलं मूलं ईश्वरीरस एव च ।
तोयेन मर्दितं कृत्वा वङ्गं स्तम्भयति क्षणात् ॥१८२॥
अतः परं प्रवक्ष्यामि श्वेतगुञ्जाविधिं प्रिये ॥१८३॥
कृष्णपक्षे चतुर्दश्यां अष्टम्यां वा सुरार्चिते ।
कपाले मृत्तिकां न्यस्य सेचयेत्सलिलेन तु ॥१८४॥
बीजानि सितगुञ्जायाः पुष्पयोगेन वापयेत् ।
वक्ष्यमाणेन मन्त्रेण कुर्यात्संग्रहणं तथा ॥१८५॥
नमो भगवति श्वेतवल्लि श्वेतपर्वतवासिनि सर्वकार्याणि
कुरु कुरु अप्रतिहते नमो नमः स्वाहा ।
अनेन मनुना प्रोक्ता सिद्धिर्भवति नान्यथा ।
षण्मासेन तथा वल्लीं मन्त्रपूतेन रक्षयेत् ॥१८६॥
शुद्धशुल्वं तु संगृह्य मूषामध्ये तु संस्थितम् ।
त्रिपञ्चपलसंख्यं तु कर्षार्धसितगुञ्जया ॥१८७॥
सहैकत्र भवेत्तारं तस्य गन्धविवर्जितम् ।
ब्रह्मरीतिसमायुक्तं गुञ्जाचूर्णं सहैकतः ।
देवानां भूषणं देवि जायते हेम शोभनम् ॥१८८॥
चन्द्रोदकेन देवेशि वक्ष्यामि रसबन्धनम् ॥१८९॥
शुक्लपक्षे पूर्णमास्यां दृष्ट्वा पूर्णेन्दुमण्डलम् ।
निर्गच्छन्ति महीं भित्त्वा चन्द्रतोयान्यनेकधा ॥१९०॥
कानिचिन्मृत्तिवर्णानि रसेन लवणानि तु ।
कानिचिच्चन्द्रतुल्यानि व्योमभासानि कानिचित् ।
चन्द्रवृद्ध्याभिवर्धेरन्क्षीयेरन्तत्क्षयेण तु ॥१९१॥
दृष्ट्वा चन्द्रोदकं मन्त्री पौर्णमास्यां विशेषतः ।
निर्गच्छति महीं भित्त्वा चन्द्रवृद्ध्या विवर्धते ॥१९२॥
क्षेत्रबन्धं पुरा कृत्वा देवमभ्यर्च्य शंकरम् ।
चतुर्दश्यां च तत्क्षेत्रं पूजयित्वा विचक्षणः ।
अहोरात्रोषितो भूत्वा बलिं तत्र निवेदयेत् ॥१९३॥
पूर्णमास्यां च रात्रौ च गत्वा तस्य समीपतः ।
चन्द्रोदकं तु संगृह्य मन्त्रयुक्तं सुमन्त्रितम् ।
आलोड्य मधुसर्पिर्भ्यां पिबेत्तत्तु समाहितः ॥१९४॥
पीतमात्रेण तेनैव मूर्छा भवति तत्क्षणात् ।
चन्द्रोदये ततो दृष्टे क्षीरं तस्य तु दापयेत् ।
सप्तरात्रप्रयोगेण चन्द्रवन्निर्मलो भवेत् ॥१९५॥
एकविंशतिरात्रेण जीवेद्ब्रह्मदिनत्रयम् ।
एकमासप्रयोगेण ब्रह्मायुः स भवेन्नरः ॥१९६॥
चन्द्रोदकेन गगनं रसं हेम च मर्दयेत् ।
मूषामध्यगतं ध्मातं तत्क्षणाद्गुटिका भवेत् ॥१९७॥
अयं च स्पर्शमात्रेण लोहान्यष्टौ च वेधयेत् ॥१९८॥
तद्रसेन रसं भाव्यं वज्रेण समजारितम् ।
चतुःषष्ट्यंशतः पिण्डे द्विगुणे तु सहस्रकम् ॥१९९॥
दशसंकलिकाबद्धं गुञ्जामात्रं रसं नरः ।
त्रिलोहवेष्टितं वक्त्रे धृत्वा चादृश्यतां व्रजेत् ॥२००॥
ओं नमो रुद्राय दंष्ट्रोत्कटाय विघ्ननाशाय दिशां रक्ष रक्ष विदिशां रक्ष रक्ष रुद्रो विज्ञापयति हुं फट्स्वाहा ।
ओं नमो भगवते रुद्राय त्रिशूलहस्ताय अमृतोद्भवाय रक्ष रक्ष फट्स्वाहा ।
अथातः सम्प्रवक्ष्यामि कर्तरीरसबन्धनम् ॥२०१॥
असुराणां समायोगे क्रोधाविष्टेन चेतसा ।
सुदर्शनं महाचक्रं प्रेरितं मुरवैरिणा ॥२०२॥
भालपट्टात्ततस्तस्य निपेतुः स्वेदबिन्दवः ।
ते भूमौ पतिता दिव्याः संजाताः कर्तरीरसः ॥२०३॥
रक्षार्थं स्थापितं तत्र विष्णुना च सुदर्शनम् ।
चक्रतुल्यं भ्रमत्येतदायुधानि निकृन्तति ॥२०४॥
कुरुते गर्जितं नादं धूमं ज्वालां विमुञ्चति ।
कर्तरी दृष्टिमात्रेण तथान्या शब्दकर्तरी ॥२०५॥
सा स्पर्शकर्तरी छाया कर्तरी धूमकर्तरी ।
सा ज्वालाकर्तरी चैव शक्तिर्घोरस्य कर्तरी ॥२०६॥
लोकानां तु हितार्थाय घोरशक्तिर्व्यवस्थिता ।
रसरूपा महाघोरा असिद्धानां तु छेदिनी ॥२०७॥
तस्याः क्षेत्रं यदा गच्छेतघोरास्त्रं जपेत्तदा ।
पुनर्घोरं न्यसेत्तत्र अथास्त्रं विन्यसेद्बुधः ॥२०८॥
अनुलोमविलोमेन देहेऽधिष्ठाप्य कर्तरीम् ।
मुद्रया मुद्रयेत्तां तु अघोरास्त्रेण योजिताम् ॥२०९॥
दीपेनाराधयेत्तां तु स्तम्भयेद्धूपनेन च ।
विष्टरामुद्रया तां तु स्थानयोगं नियोजयेत् ॥२१०॥
कञ्चुकी तु शिला क्रान्ता कुमारी वज्रकन्दकम् ।
योषिद्रक्तं गवां मूत्रं तिलकः सर्ववश्यकृत् ॥२११॥
अथातः सम्प्रवक्ष्यामि विषोदरसबन्धनम् ॥२१२॥
विषोदकं विषसमं घृतवच्च घृतोदकम् ।
सितपीतादिवर्णाढ्यं तच्च देवि रसोत्तमम् ॥२१३॥
तत्र गत्वा वनोद्देशे स्मरेद्घोरसहस्रकम् ।
केशाः क्षिप्ताः स्फुटन्त्यस्मिनात्मच्छाया न दृश्यते ॥२१४॥
तैलं च गोलकाकारं घृतं चैव विसर्पति ।
गन्धकस्य हरेद्गन्धं लवणाम्लं च जायते ॥२१५॥
आप्त्वा पालाशपत्त्रेण कटुकालाबुके क्षिपेत् ।
विषोदकं गन्धकं च हरबीजं च तत्समम् ॥२१६॥
अजाक्षीरेण पिष्ट्वा तु शुल्वपत्त्राणि लेपयेत् ।
तत्पुटेन च देवेशि सिन्दूरारुणसंनिभम् ।
शतांशेनैव देवेशि सर्वलोहानि वेधयेत् ॥२१७॥
अनेन विधिना देवि नागः सिन्दूरतां व्रजेत् ।
सहस्रांशेन तस्यैवं तारं वेधं प्रदापयेत् ॥२१८॥
रक्तं पीतं तथा कृष्णं उत्तरोत्तरकार्यकृत् ॥२१९॥
त्रिपलं कान्तपात्रे वा पात्रेऽलाबुमयेऽपि वा ।
गृहीत्वा पूर्ववत्पत्त्रैः पालाशैर्वेष्टयेद्बहिः ॥२२०॥
स्थापयेद्धान्यराशौ तु दिवसानेकविंशतिम् ।
महिषीक्षीरमध्ये तु बिन्दुमेकं तु साधयेत् ॥२२१॥
पायसं भक्षयेद्यस्तु मध्वाज्येन तु संयुतम् ।
यावच्चूर्णपलं देवि जीवेत्तद्बिन्दुसंख्यया ॥२२२॥
लाङ्गली गृहधूमं च सिन्दूरं रजनीद्वयम् ।
मेषशृङ्गीं च शृङ्गीं च कृष्णोन्मत्तं च मारकम् ॥२२३॥
सबीजं सूतकं चैव विषतोयेन मर्दितम् ।
विषतोयेन मेधावी सप्तवारांश्च भावयेत् ।
अथवा भावयेत्तत्तु यावच्चूर्णं तु तद्भवेत् ।
तेन नागं प्रतीवाप्य षोडशांशेन सम्भवेत् ॥२२४॥
मूषाख्ये वेणुयन्त्रे च त्रिवारमपि भावयेत् ।
धूमं परिहरेत्तस्य अङ्गव्याधिकरं परम् ॥२२५॥
स्थापयेन्नागसिन्दूरं पात्रेऽलाबुमये ततः ।
तच्चूर्णं तु शतांशेन तारपत्त्राणि वेधयेत् ॥२२६॥
विषपानीयमादाय यवागौ वर्तितं शुभम् ।
निषिक्तं तच्च वर्तेऽयं तारं भवति शोभनम् ॥२२७॥
विषपानीयमादाय प्रक्षिपेच्च रसोत्तमे ।
कुनटीगन्धपाषाण विषटङ्कणलाङ्गली ।
नष्टपिष्टीकृतं खल्ले तारपत्त्राणि लेपयेत् ।
अन्धमूषागतं ध्मातं निर्बीजं कनकं भवेत् ॥२२८॥
ओं श्रीनीलकण्ठाय ठ ठः ।
अस्यायुतं जपेत् ।
विषतृणविधिं वक्ष्ये समाहितमनाः शृणु ॥२२९॥
गन्धमाक्षीकदरदं कुनट्या रससंयुतम् ।
विषतृणसमायुक्तं मातुलुङ्गाम्लमर्दितम् ॥२३०॥
एतत्कल्कं पलमात्रं चौषध्या लेपनं कुरु ।
निर्यासे तु पुटं कुर्यात्त्रिवारं हेम शोभनम् ॥२३१॥
संजीवनीजलस्याथ विधिं वक्ष्यामि पार्वति ॥२३२॥
शुक्रेणाराधितो देवि प्रागहं सुरवन्दिते ।
दानवानां हितार्थाय मृतानां देवसंगरे ॥२३३॥
मया संजीवनी विद्या दत्ता चोदकरूपिणी ।
तया संजीविता दैत्या ये मृता देवसंगरे ॥२३४॥
निक्षिप्ता मर्त्यलोके सा सम्यक्ते कथयाम्यहम् ॥२३५॥
अस्ति मर्त्ये महापुण्या पवित्रा दक्षिणापथे ।
नदी गोदावरी नाम प्रसिद्धा जाह्नवी यथा ॥२३६॥
दक्षिणे च तटे तस्याः कदलीनगरं परम् ।
तस्य दक्षिणतः शैलः सर्वलोकेषु विश्रुतः ॥२३७॥
नाम्ना कृष्णगिरिश्चेति दृश्यते सर्वमङ्गले ।
सुप्रसिद्धाम्बिका नाम ग्रामस्तस्यास्ति संनिधौ ॥२३८॥
तत्राप्युदकमालोक्य परीक्ष्येत सुरार्चिते ॥२३९॥
गृहीत्वा शुष्कवंशं तु क्षिपेत्तोयस्य मध्यतः ।
जायते हरितं स्निग्धं अहोरात्रेण निश्चितम् ।
मुञ्चत्यङ्कुरपत्त्राणि दृश्यते तन्मनोहरम् ॥२४०॥
बलिपुष्पोपहारेण ततो देवीं समर्चयेत् ।
क्षेत्राधिपं गणेशंच चण्डयोनीश्वरं तथा ॥२४१॥
तस्य मन्त्रं प्रवक्ष्यामि त्रिषु लोकेषु दुर्लभम् ॥२४२॥
ओं चण्डाय पिनाकिने शूलहस्ताय ओं दिशां बन्धय विदिशां बन्धय ठठः ।
तिलांश्च तण्डुलांश्चैव मन्त्रेणानेन सर्षपान् ।
सप्ताभिमन्त्रितान्कृत्वा साधको दिक्षु निक्षिपेत् ॥२४३॥
कटुकालाबुके तोयं कृतरक्षं समाहितः ।
गृहीत्वा तत्प्रयत्नेन निजस्थानं समाश्रयेत् ॥२४४॥
ओं नमोऽमृतेऽमृतरूपिणि अमृतं मे कुरु कुरु एवं रुद्र आज्ञापयति स्वाहा ।
सप्ताभिमन्त्रितं कृत्वा मन्त्रेणानेन तज्जलम् ।
दिनमेकं तथा सूतं स्वर्णमाषद्वयान्वितम् ।
मर्दयेत्तेन तोयेन पिबेत्तत्तु विचक्षणः ॥२४५॥
एकविंशतिरात्रेण क्षीराहारोऽथ यत्नतः ।
जीवेत्कल्पायुतं साग्रं कामरूपो महाबलः ॥२४६॥
योजनानां शतं गत्वा पुनरेव निवर्तते ।
अवध्यः सर्वभूतानां स्वेच्छाचारः स खेचरः ॥२४७॥
कनकं पारदं व्योम सममेकत्र योजयेत् ।
मर्दयेत्तेन तोयेन सप्तवारं तु स्वेदयेत् ॥२४८॥
स रसः सर्वलोहानि षष्ट्यंशेन तु वेधयेत् ॥२४९॥
अथवा तं रसं दिव्यं मधुना सह भक्षयेत् ।
मासमात्रप्रयोगेण जीवेद्ब्रह्मदिनायुतम् ॥२५०॥
तस्य मूत्रमलस्वेदैः शुल्वं भवति काञ्चनम् ॥२५१॥
निर्वाते तोयमादाय अञ्जलित्रितयं पिबेत् ।
पीतमात्रे भवेन्मूर्छा स्वास्थ्यं स्यात्प्रहरत्रयात् ॥२५२॥
एकविंशद्दिनान्येवं क्षीराहारो भवेत्ततः ।
अष्टवर्षाकृतिः प्राज्ञः कामरूपो महाबलः ॥२५३॥
पश्येच्छिद्रां महीं सर्वां सप्तपातालसंयुताम् ।
अवध्यो देवदैत्यानां कल्पायुश्च प्रजायते ॥२५४॥
अथवोदकमादाय पारदं च मनःशिलाम् ।
मर्दयेत्खल्लपाषाणे नष्टपिष्टं भवेत्ततः ॥२५५॥
स्वेदयेत्सप्तरात्रं तु त्रिलोहेन च वेष्टयेत् ॥२५६॥
अन्तर्धानं क्षणाद्गच्छेत्विद्याधरपतिर्भवेत् ।
सिद्धकन्याशतवृतो यावत्कल्पान्चतुर्दश ॥२५७॥
दिनेषु तेषु सर्वेषु दद्याच्छाल्योदनं घृतम् ।
पयसा च समायुक्तं नित्यमेवं तु कारयेत् ॥२५८॥
उष्णोदकविधिं वक्ष्ये समाहितमनाः शृणु ।
पश्येदुष्णोदकं यत्र वासं तत्रैव कारयेत् ॥२५९॥
अस्ति गोदावरी नाम महाराष्ट्रेऽतिविश्रुता ।
तस्या उत्तरभागे तु सह्याद्रिः पुण्यपर्वतः ॥२६०॥
तत्र मातापुरं नाम प्रसिद्धं देवतागृहम् ।
तस्मादुत्तरतो देवि कम्पाख्यं नगरं परम् ॥२६१॥
तत्र कम्पेश्वरो देवस्तत्रास्त्युष्णोदकं ध्रुवम् ।
प्रणीताख्या नदी तत्र स्नात्वा वै साधकोत्तमः ।
पश्चादुष्णोदके कुण्डे विधिं कुर्याद्यथोदितः ॥२६२॥
शर्वरीं उषितस्तत्र धनवांश्च दिने दिने ।
भक्षयेन्मासमात्रं तु जीवेद्वर्षशताष्टकम् ॥२६३॥
वर्षमेकं प्रयुञ्जीत जीवेद्वर्षायुतं सुखी ।
वलीपलितनिर्मुक्तो भोगी चैव पुरंदरः ॥२६४॥
वर्षमेकं पिबेत्तोयं जीवेच्चन्द्रार्कतारकम् ।
तस्य मूत्रपुरीषेण शुल्वं भवति काञ्चनम् ॥२६५॥
उष्णोदकं च कासीसं गन्धपाषाणसंयुतम् ।
चतुर्थांशेन रसकं दशभागं विनिक्षिपेत् ॥२६६॥
शुल्वं च मर्दयेत्सर्वं नष्टपिष्टं क्षणेन तु ।
तेन लेपितमात्रेण शुल्वं भवति काञ्चनम् ॥२६७॥
निषिक्तं तेन तोयेन प्रतिवापं ददेद्बुधः ।
शुल्वं च जायते हेम तरुणादित्यवर्चसम् ॥२६८॥
तज्जलेन निषिक्तं च हेम बीजार्थसंयुतम् ।
तारं चानेन मार्गेण निषिक्तं हेमतां व्रजेत् ॥२६९॥
उष्णोदकेन भल्लातं तिलपिष्टं च भक्षयेत् ।
मासद्वयप्रयोगेण जीवेद्वर्षशतत्रयम् ॥२७०॥
रसगन्धाश्मरसकं तुत्थं दरदमाक्षिकम् ।
याममुष्णाम्भसा घृष्टं तारपत्त्राणि लेपयेत् ॥२७१॥
द्विवारं तु धमेद्देवि स्याच्चतुर्दशवर्णकम् ।
क्रमेणानेन देवेशि शुल्वं षोडशवर्णकम् ॥२७२॥
एकैकं हेमतारांशं द्वंद्वं कान्ताभ्रयोः पृथक् ।
उष्णोदकेन संमर्द्य धमनात्खोटतां व्रजेत् ॥२७३॥
तन्मुखे धारयेन्मासं वज्रकायो भवेन्नरः ।
तच्चूर्णं यवमात्रं तु भक्षयेन्मधुसर्पिषा ।
यावत्पलं तस्य मलैः शुल्वं भवति काञ्चनम् ॥२७४॥
उष्णोदपाचितान्खादेत्कुलत्थान्क्षीरपो भवेत् ।
स्नानमुष्णाम्भसा कुर्यात्वर्षाद्वर्षशतायुषम् ॥२७५॥
क्षीरमुष्णोदकं क्वाथं त्रिफलायाश्च पाचयेत् ।
पायसं कान्तपात्रे तन्मासं एकं तु भक्षयेत् ।
भुक्त्वा जीवेत्कल्पशतं वैष्णवायुर्भवेन्नरः ॥२७६॥
अतः परं प्रवक्ष्यामि शैलोदकविधिं प्रिये ।
कर्दमापो महीशैलं शिलं चेति चतुर्विधम् ॥२७७॥
कानिचित्क्षणवेधीनि दिनवेधीनि कानिचित् ।
पक्षमासादिषण्मास वेधनानि महीतले ॥२७८॥
क्षिप्तं यदा भवेत्काष्ठं शैलीभूतं च दृश्यते ।
बहिरन्तश्च देवेशि वेधकं तत्प्रकीर्तितम् ॥२७९॥
हिङ्गुलं हरितालं च गन्धकं च मनःशिला ।
एषां गन्धापहारं यत्कुरुते तच्च वेधकम् ॥२८०॥
गन्धकं तालकं चैव तोयपूर्णे घटे क्षिपेत् ।
यदा तद्बुद्बुदाकारं तदा शैलोदकं भवेत् ।
अन्यथा वेष्टकं देवि तदग्राह्यं निरर्थकम् ॥२८१॥
श्रीशैले श्रीवनप्रान्ते पर्यङ्काख्ये शिलातले ।
तत्रस्थं क्षणवेधि स्यात्नदीभगवतीतटे ।
एकाहे वेधकं तत्र गोकर्णे तु दिनत्रयम् ॥२८२॥
भद्राङ्गे दिनवेधि स्यात्त्रिस्थलान्ते त्रिवासरम् ।
धारेश्वरे पाक्षिकं स्यात्वर्षापुर्यां दिनैकतः ॥२८३॥
ब्रह्मेश्वरे मासिकं स्यात्व्याघ्रपुर्यां तु वासरम् ।
अघोरेशे मासिकं तु सिंहद्वीपे तथा पुनः ।
दिनमेकं ब्रह्मगिरौ विन्ध्ये तु क्षणवेधकम् ॥२८४॥
वासरं माल्यवन्तेषु क्षणवेधि शिलोदकम् ॥२८५॥
किष्किन्ध्यापर्वते रम्ये पम्पातीरे तृणोदकम् ।
तस्य पश्चिमतो देवि योजनद्वितये पुनः ।
भूशैलमस्ति तत्रैव त्रिदिनं वेधि पर्वते ॥२८६॥
सह्याचले पुरे देव्याः क्षीरक्षेत्रस्य संनिधौ ।
शैलोदकं कोटिवेधि दुर्जदेशेऽपि वासरम् ।
लक्षवेधि नृसिंहस्य नगरे गोकुलाभिधे ॥२८७॥
अन्यत्र यत्र तत्रापि ब्रह्मविष्णुशिवोद्भवम् ।
अमृतं तत्र तत्रापि वज्रीकरणं उत्तमम् ॥२८८॥
तस्योत्पत्तिं प्रवक्ष्यामि यथा जानन्ति साधकाः ॥२८९॥
महीं समुद्धृतवतो वराहस्य कलेवरात् ।
यः स्वेदः पतितस्तस्माज्जातं शैलोदकं परम् ॥२९०॥
तन्मुखे क्षणिकं जातं क्रोडदेशे तु वासरम् ।
बाहुभ्यां त्र्यहवेधि स्यात्मासवेधि तु पार्श्वयोः ।
षण्मासमपराङ्गे च सर्वं समफलं भवेत् ॥२९१॥
अघोरास्त्रेण तत्क्षेत्र रक्षां कृत्वा दिशां बलिम् ।
दत्त्वा लक्षं जपित्वा तु गृह्णीयादमृतं परम् ॥२९२॥
शरद्ग्रीष्मवसन्तेषु हेमन्ते वा सुरार्चिते ।
आयसे ताम्रपात्रे वा पात्रेऽलाबुमयेऽथवा ।
शैलाम्बुपलमष्टौ तु पलं क्षीरस्य निक्षिपेत् ॥२९३॥
क्षीरावशेषं संक्वाथ्य त्रिसप्ताहं पिबेन्नरः ।
जीवेद्वर्षसहस्रं तु वलीपलितवर्जितः ॥२९४॥
अथवाष्टपलं क्षीरं पलैकेनाम्बुना युतम् ।
क्षीरावशेषं सेवेत पूर्वोक्तं लभते फलम् ॥२९५॥
कुलत्थाष्टगुणं वारि पचेदष्टावशेषितम् ।
चतुर्गुणेन तेनाज्यं पाचयेद्धृतशेषितम् ॥२९६॥
लिह्यान्मधुसमोपेतं त्रिसप्ताहं बृहस्पतिः ।
मासेन शास्त्रसम्पत्तिं ज्ञात्वा देवि बलाबलम् ।
द्विरष्टवर्षकाकारः सहस्रायुर्न संशयः ॥२९७॥
अवशिष्टकुलत्थं तु पादांशं मधुसर्पिषा ।
भक्षयेद्वर्षं एकं तु मासेनायुतजीवितः ॥२९८॥
तत्सिद्धतैलेनाभ्यङ्गं मर्दनं चापि कारयेत् ।
मासमेकं ततो मर्द्यं देहसिद्धिं करोति च ॥२९९॥
पामाविचर्चिकादद्रु कुष्ठानि सहसा जयेत् ।
वलीपलितनिर्मुक्तः सहस्रायुश्च जायते ॥३००॥
यः पिबेत्प्रातरुत्थाय शैलाम्बुचुलुकत्रयम् ।
षण्मासात्स्यात्सहस्रायुर्वलीपलितवर्जितः ॥३०१॥
अथवा सूतकं देवि वारिणा सह मर्दयेत् ।
मासेनैकेन देवेशि नष्टपिष्टं भविष्यति ॥३०२॥
मासमात्रं समश्नीयात्स भवेदजरामरः ॥३०३॥
अथवा तं रसं हेम्ना हेमभस्म ततो बली ।
मर्दयेत्तेन तोयेन धामयेत्खदिराग्निना ॥३०४॥
गुटिका सुन्दरी नाम सर्वायुधनिवारणी ।
कर्ता हर्ता स्वयं सिद्धो जीवेच्चन्द्रार्कतारकम् ॥३०५॥
कुनटी चाभ्रमाक्षीकं हेम तारं तथैव च ।
तत्सर्वं पयसा क्षीरैर्मद्यं पाच्यं दिनत्रयम् ।
मासमात्रप्रयोगेण वलीपलितवर्जितः ॥३०६॥
अथ तेनोदकेनैव क्षीरार्धं पायसं पचेत् ।
मासमात्रप्रयोगेण वलीपलितनाशनम् ॥३०७॥
पक्त्वा तेनाम्भसा पथ्याः षष्टिं त्रीणि शतानि च ।
मधु संयोज्य भाण्डस्थं भूमौ सर्वं निधापयेत् ॥३०८॥
दिने दिने तथैकैकं भक्षयेत्प्रातरुत्थितः ।
वलीपलितनिर्मुक्तो जीवेद्वर्षसहस्रकम् ॥३०९॥
शैलीभूतं कुलत्थं वा भक्षयेन्मधुसर्पिषा ।
षण्मासेन प्राशनेन जीवेद्वर्षसहस्रकम् ॥३१०॥
कूष्माण्डं मारितं कृत्वा यानि कानि फलानि च ।
जले क्षिप्तानि लोहानि शैलीभूतानि भक्षयेत् ।
क्षीराहारश्च जीर्णान्ते वज्रकायो भवेन्नरः ॥३११॥
तेनोदकेन संमर्द्य अभ्रकं क्वाथयेत्प्रिये ।
कटुत्रययुतं खादेत्जीवेद्वर्षसहस्रकम् ॥३१२॥
अथवा रसकर्षैकं तज्जलेन तु मर्दयेत् ।
इङ्गुदीफलमध्यस्थं तच्छैलोदकमध्यगम् ।
कालेन त्रिगुणेनैव काठिन्यं तस्य जायते ॥३१३॥
षण्मासं तन्मुखे धार्यं वज्रकायं करोति च ।
दशनागसमप्राणो देवैः सह च मोदते ॥३१४॥
गृहीत्वा त्रिफलां तत्र शैलवारिणि निक्षिपेत् ।
यदा भवति तच्छैलं गृहीत्वा चूर्णयेत्ततः ॥३१५॥
कान्तजीर्णरसं तेन सार्धं घृतमधुप्लुतम् ।
भक्षयेद्वर्षमेकं तु ततः क्षीराशनो भवेत् ॥३१६॥
उदयादित्यसंकाशो मेधावी प्रियदर्शनः ।
नीलकुञ्चितकेशश्च जीवेच्चन्द्रार्कतारकम् ॥३१७॥
पारदं हरितालं च शिला माक्षिकमेव च ।
दरदं च विषं चैव सर्वमेकत्र कारयेत् ॥३१८॥
मर्दयेत्खल्लपाषाणे मातुलुङ्गरसेन च ।
गोलकं कारयित्वा तु वारिमध्ये निधापयेत् ॥३१९॥
तेन तारं च शुल्वं च काञ्चनं भवति ध्रुवम् ॥३२०॥
उपयुञ्जीत मासैकं वलीपलितवर्जितः ।
सहस्रं जीवितं तस्य महाबलपराक्रमः ॥३२१॥
शैलीभूतां हरिद्रां तु तच्चूर्णवापमात्रतः ।
हेमत्वं लभते नागो बालार्कसदृशप्रभम् ॥३२२॥
शैलोदके विनिक्षिप्य भूशैले कर्दमेऽपि वा ।
ज्ञात्वा कालप्रमाणेन बन्धयेत्पारदं ततः ॥३२३॥
रक्तक्षारयुतं ध्मातं सुवर्णं समसारितम् ।
शतांशेन तु लोहानां सर्वेषां हेमकारकम् ॥३२४॥
द्वितीयसारणां प्राप्य भक्षयेन्मधुसर्पिषा ।
तत्कालं चित्तजातानां ऊर्ध्वं भवति चानिलः ॥३२५॥
कालज्ञानं भवेत्तस्य जीवेदयुतपञ्चकम् ॥३२६॥
द्वितीयसारणां प्राप्य सहस्रांशेन विध्यति ।
तं खोटं धारयेद्वक्त्रे दिव्यत्वं लभते ध्रुवम् ॥३२७॥
निचुले ककुभे चैव किंशुके मधुकेऽपि वा ।
इङ्गुदीफलमध्ये वा रजनीद्वयमध्यतः ॥३२८॥
पारदं गन्धकं चैव मर्दयेत्गुलिकाकृति ।
पाचयेद्दिनमेकं तु हेम्ना संवेष्ट्य धारयेत् ॥३२९॥
त्रिफलाव्योषकल्केन वेष्टयित्वा प्रयत्नतः ।
पादेन कनकं दत्त्वा पारदं तत्र योजयेत् ।
क्षिपेच्छैलाम्बुमध्यस्थं गुलिका वज्रवद्भवेत् ॥३३०॥
पूर्ववत्सारणा कार्या पूर्ववत्सिद्धिदा भवेत् ।
धार्यमाणा मुखे सा तु सहस्रायुष्करी भवेत् ॥३३१॥
द्वितीयसारणायोगादयुतं वेधयेत्तु सा ।
धार्यमाणा मुखे सेयं अयुतायुःप्रदा भवेत् ॥३३२॥
तृतीयसारणायोगाज्जायते लक्षवेधिनी ।
तं खोटं धारयेद्वक्त्रे लक्षायुर्जायते नरः ॥३३३॥
चतुर्थीं सारणां प्राप्य कोटिवेधो न संशयः ।
कोट्यायुर्जीवितं तस्य खेचरत्वं च लभ्यते ॥३३४॥
पञ्चभिर्दशकोटिः स्यात्षड्भिः कोटिशतं भवेत् ।
यावच्चन्द्रार्कजीवित्वं अनन्तबलवीर्यवान् ॥३३५॥
ददाति सप्तमीं सापि सारणां गुटिका परा ।
खेचरी नाम विख्याता भैरवेण प्रचोदिता ॥३३६॥
यस्तु तद्राजिकामात्रं मासमेकं तु भक्षयेत् ।
वज्रदेहः स सिद्धः स्यात्दिव्यस्त्रीजनवल्लभः ।
क्रीडते खेचरैर्भोगैः स्वेच्छया शिवतां व्रजेत् ॥३३७॥
नानाविधफलं च स्यात्तद्रसैर्बीजतैलतः ।
तद्बद्धं पारदं चैव गुटिकां शृणु सुन्दरि ॥३३८॥
शुद्धबद्धरसेन्द्रस्तु गन्धकं तत्र जारयेत् ।
त्रिगुणे गन्धके जीर्णे तेन हेम तु कारयेत् ॥३३९॥
कारयेद्भस्म सूतं तु काञ्चनं तत्र सूतकम् ।
तद्भस्म सूतके जार्यं रसेन्द्रस्य समे समम् ॥३४०॥
तेन सूतकजीर्णेन वज्ररत्नं तु जारयेत् ।
तद्वज्रं जायते भस्म सिन्दूरारुणसंनिभम् ॥३४१॥
तद्भस्म जारयते सूते त्रिगुणे तु सुरार्चिते ।
हाटके सारयेत्तं तु गुटिकां तेन कारयेत् ॥३४२॥
त्रिलोहावेष्टितं तं तु मुखे प्रक्षिप्य साधकः ।
नष्टच्छायो भवेत्सोऽयं अदृश्यो देवदानवैः ॥३४३॥
तत्क्षणाद्वेधयेद्देवि सर्वलोहानि काञ्चनम् ।
बहुवर्षसहस्राणि निर्वलीपलितो भवेत् ॥३४४॥
शूलिनं शक्तिसंयुक्तं रत्नादिगुणभूषितम् ।
वक्त्रे करे च बिभृयात्सर्वायुधनिवारणात् ॥३४५॥
व्योम माक्षिकसत्त्वं च तारामात्रं सुरायुधम् ।
वैक्रान्तं तालकं सूतं रत्नादिगुणभूषितम् ॥३४६॥
गुटिका सा वरारोहे मधुरत्रयसंयुता ।
वक्त्रस्था नाशयेत्साक्षात्पलितं नात्र संशयः ।
शिवशक्तिश्च देवेशि रत्नादिशिवगा यथा ॥३४७॥
हेम तारं तथा भानुं समभागानि कारयेत् ।
स्त्रीरजो व्याघ्रमध्यस्थं पद्मसूत्रेण वेष्टयेत् ॥३४८॥
सेचयेत्तत्तथावेष्ट्य गुह्यस्थाने निधापयेत् ।
रणे राजकुले द्यूते दिव्ये काम्ये जयो भवेत् ।
यन्मुखे चैव तद्गोलं स सर्वरञ्जको भवेत् ॥३४९॥
वैक्रान्ताभ्रककान्तं तु सस्यकं तु सुरायुधम् ।
विभीतकादिसम्भूत काञ्चिकस्य समं भवेत् ॥३५०॥
राजावर्तं ततः सूते योजयेत्पादयोगतः ।
कुमारीरससंघृष्टा कृतैका गुटिका शुभा ।
रोगमृत्युजरा हन्ति वक्त्रस्था नात्र संशयः ॥३५१॥
पञ्चतारं वरारोहे सूतकं द्वयमेव च ।
त्रयो गगनभागाः स्युरेकैकं हेमकान्तयोः ॥३५२॥
अर्धशुल्वविधानेन गुटिकामरसुन्दरि ।
अक्षयो ह्यजरश्चैव भवेत्तेन महाबलः ।
सर्वरोगविनिर्मुक्तो जीवेद्वक्त्रे विधारणात् ॥३५३॥
भस्मसूतपलैकं च मृतकान्तपलं तथा ।
माक्षिकस्य पलं चैव शिलाजतुपलं पुनः ॥३५४॥
पलमेकं विडङ्गस्य पथ्याचूर्णपलं तथा ।
एकीकृत्याथ तत्सर्वं मध्वाज्येन तु पेषयेत् ॥३५५॥
गुटिकाः कारयेद्देवि षष्ट्यधिकशतत्रयम् ।
एकैकं भक्षयेन्नित्यं वर्षमेकं निरन्तरम् ॥३५६॥
जीवेद्वर्षसहस्राणि रुद्रतुल्यो महाबलः ॥३५७॥
अतः परं प्रवक्ष्यामि रसभस्मरसायनम् ।
विज्ञेयं निष्परीहारं साक्षाद्दिव्यौषधं परम् ॥३५८॥
आमलक्यादि कान्तं च पारदं च मनःशिलाम् ।
वाकुचीसप्तभागं च क्षीरिणीरसपेषितम् ।
मेघनादरसोपेतं मूकमूषागतं पुटेत् ॥३५९॥
माषं त्रिमाषं त्रिगुणं भक्षयेत्तु क्रमेण तु ।
वर्षत्रयपरं देवि पादनिष्कार्धकं क्रमात् ॥३६०॥
षट्सप्ताष्टौ च वर्षाणि क्रमान्निष्कप्रमाणतः ।
भुञ्जीत स च दिव्यान्नं जरावैरूप्यवर्जितः ॥३६१॥
किंचित्काञ्चनसंयुक्तं निष्कं निष्कार्धमेव च ।
यो भक्षयेत्त्रिभिर्वर्षैः सर्वव्याधीन्जयत्यलम् ॥३६२॥
अष्टवर्षे सहस्रायुः द्वादशे लक्षवेधकः ।
षोडशे वत्सरे देवि दिव्यरूपः स जायते ॥३६३॥
शतपलं अभयानां अक्षधात्र्योस्तथैव क्वथितजलशताष्टौ भागमष्टावशेषम् ।
घृतमधुसितयाढ्यं व्योषचित्रं दशांशं रसफलरससिद्धं लोहजीर्णं मृतं च ॥३६४॥
गिरिजतुसममभ्रं कान्तभृङ्गं विडङ्गं रससहितसुभाव्यं तण्डुलैर्दिव्यमुख्यैः ।
अहिमरकृतकल्कं लोहपात्रस्थमाषं त्रिदिनतनुसुसिद्धं कल्कमेतद्वरिष्ठम् ॥३६५॥
लिहति शयनकाले वामनेत्रावसेवी घननिबिडसुमध्यो मत्तमातंगदर्पः ।
विगतसकलदोषः सर्वदिग्दिव्यचक्षुः मदन इव सुकान्तिः कामिनीनां प्रवीरः ॥३६६॥
जलदलववपुष्मान्कुञ्चितानीलकेशः सुरगुरुरिव शुद्धः सत्कविश्चित्रकारी ।
वृषभगतिविचेष्टः स्निग्धगम्भीरघोषः सुरगज इव लोके श्रान्तिहन्ताशु नित्यम् ॥३६७॥
प्रभवति खलु लोके सोमतारार्कजीवी कमलसदनसुश्रीर्न्यायशास्त्रादिवेत्ता ।
सुजनसमयपाता धर्मदीक्षानुमाता हरिहरमगभीरः सूर्यसोमाब्धिधीरः ॥३६८॥
कान्तहेमरविचन्द्रमभ्रकं गोलकं निहितमिङ्गुदीफले ।
शैलवारिवरसिद्धगोलकं सुन्दरं ह्यमररञ्जकं शुभम् ॥३६९॥
कान्तहेमरविचन्द्रं अभ्रकं वज्ररत्नं अहिराजगोलकम् ।
क्षिप्तं आमलककाष्ठकोटरे भूमिशैलनिहितं समुद्धृतम् ।
शैलतां गतमथाहितं मुखे वज्रकायकरं अल्पवासरैः ॥३७०॥
तालहेमवरशुल्बसूतकैः गोलकं वरणकाष्ठयन्त्रितम् ।
शैलवारिकृतसुन्दरीरसं खेचरीति गुटिका निगद्यते ॥३७१॥
शैलाम्बुनिक्षिप्तपलाशबीजं शैलीकृतं क्षौद्रघृतेन खादेत् ।
त्रिःसप्तरात्रं दिनमेकमेकं सहस्रजीवी विजयी नरः स्यात् ॥३७२॥
सूतकं चाभ्रकं चैव वज्रीक्षीरसमन्वितम् ।
हाटकेन समायुक्तं गुटिका खेचरी भवेत् ॥३७३॥
करञ्जफलमध्यस्थं सूतकं तत्र निक्षिपेत् ।
घृतशैलाम्बुमध्यस्थं सहस्रायुः प्रयच्छति ॥३७४॥
तिन्दुके द्विसहस्रायुः जम्बीरे त्रिसहस्रकम् ।
मातुलुङ्गे च नारङ्गे चतुःपञ्चसहस्रकम् ॥३७५॥
रम्भाफले षट्सहस्रं पनसे सप्तसंख्यकम् ।
विभीतकफले चैव दशसाहस्रसंख्यकम् ॥३७६॥
नारिकेले महाभागे सहस्राणि चतुर्दश ।
त्रिंशत्सहस्रं पद्मे च लक्षमामलके पुनः ॥३७७॥
अभ्रपत्त्रद्रवे क्वाथं अहोरात्रं शिलोदके ।
तस्मात्तु चोद्धृतं सूतं मृत्युदारिद्र्यनाशनम् ॥३७८॥
सारणाक्रमयोगेन नवीनं जायते वपुः ।
रसे रसायने चैव लक्षवेधी न संशयः ॥३७९॥
कर्दमं च कुमार्याश्च रसेन कृतगोलकम् ।
धमनात्पतते सत्त्वं मुखे तद्धारयेन्नरः ।
षण्मासेन प्रयोगेण ह्यजरामरतां व्रजेत् ॥३८०॥
स्रोतोञ्जनयुतं ध्मातं सत्त्वं पारदमिश्रितम् ।
तं खोटं धारयेद्वक्त्रे अदृश्यो भवति ध्रुवम् ॥३८१॥
यस्य यो विधिराम्नात उदकस्य शिवागमे ।
रसेनैव तु काले तु कुर्यादेव रसायनम् ॥३८२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:23.4430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

vertebral foramen

  • Zool. कशेरु रंध 
  • कशेरु रंध 
  • कशेरु रंध 
RANDOM WORD

Did you know?

गणेशोत्सवाच्या काळात सत्यनारायण पूजा करावी काय? मग कोणती पूजा करावी?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.