TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसार्णव - एकादशः पटलः

रसार्णव नामक ग्रंथात विभिन्न रासायनिक प्रक्रियांद्वारे उत्पन्न होणारे तत्कालीन उत्प्रेरक शिवाय रासायनिक अभिक्रियांमध्ये तीव्रता प्रदान करणार्‍या पदार्थांमध्ये ज्यात अधिकांश वानस्पतिक श्रोत वापरले जातात त्यांचा खास उल्लेख आहे.


बालजारण
श्रीदेव्युवाच
लक्षणं शोधनं चैव पारदस्य श्रुतं मया ।
चारणं जारणं चैव श्रोतुमिच्छामि भैरव ॥१॥
श्रीभैरव उवाच
सर्वपापक्षये जाते प्राप्यते रसजारणा ।
तत्प्राप्तौ प्राप्तमेव स्याद्विज्ञानं मुक्तिकारणम् ॥२॥
मोक्षाभिव्यञ्जकं देवि जारणं साधकस्य तु ।
यावन्न जार्यते सूतः तावत्तु न च निर्वृतिः ॥३॥
खल्लस्तु पीठिका देवि रसेन्द्रो लिङ्गमुच्यते ।
मर्दनं वन्दनं तस्य ग्रासः पूजा विधीयते ॥४॥
यावद्दिनानि वह्निस्थो जार्यते धार्यते रसः ।
तावद्युगसहस्राणि शिवलोके महीयते ॥५॥
दिनमेकं रसेन्द्रस्य यो ददाति हुताशनम् ।
द्रवन्ति तस्य पापानि कुर्वन्नपि न लिप्यते ॥६॥
जारणा द्विविधा बाल जारणा बद्धजारणा ।
तत्रादौ परमेशानि वक्ष्यते बालजारणा ॥७॥
गगनं जारयेदादौ सर्वसत्त्वमतः परम् ।
ततो माक्षिकशुद्धं च सुवर्णं तदनन्तरम् ॥८॥
गर्भस्थं द्रावयित्वा तु ततो बाह्यद्रुतिं द्रवेत् ।
सितं सितेन द्रव्येण रक्तं रक्तेन रञ्जयेत् ॥९॥
सारणं क्रामणं ज्ञात्वा ततो वेधं प्रयोजयेत् ॥१०॥
ओं नमोऽमृतलोहाय परामृतरसोद्भवाय हुं स्वाहा ॥११॥
सर्वसत्त्वोपकाराय भगवन्त्वदनुज्ञया ।
जारणं कर्तुमिच्छामि ग्रासं गृह्ण मम प्रभो ॥१२॥
कुरुष्वेति शिवेनोक्तं ग्राह्यमेव सुबुद्धिना ॥१३॥
शृणु देवि प्रवक्ष्यामि व्योमजारणं उत्तमम् ।
पत्त्राभ्रजारणं सत्त्व जारणं चेति तद्द्विधा ॥१४॥
निर्मुखं समुखं चैव वासनामुखमेव च ।
एकैकं त्रिविधं तच्च तद्वक्ष्याम्यानुपूर्वशः ॥१५॥
वैक्रान्तवज्रसंस्पर्शाद्दिव्यौषधिबलेन वा ।
निर्मुखो भक्षयेद्देवि क्षणेन गगनं रसः ॥१६॥
हेमकर्मणि हेमैव तारे तारो मुखं भवेत् ॥१७॥
तप्तखल्लकृता पिष्टिः श्लक्ष्णं अल्पाल्पमभ्रकम् ।
अम्लवेतसजम्बीर बीजपूराम्लभूखगैः ।
मर्दितं चरते देवि सेयं समुखजारणा ॥१८॥
क्षारत्रयं पञ्चपटु काक्षीकासीसगन्धकम् ।
माक्षिकं चाम्लसंयुक्तं ताम्रपात्रे तु जारयेत् ॥१९॥
एतच्चाभिषवाद्दिव्यं कारयित्वा विचक्षणः ।
जारणार्थं च बीजानां वज्राणां च विशेषतः ॥२०॥
तस्मिन्नावर्तितं नागं वङ्गं वा सुरवन्दिते ।
निषेचयेच्छतं वारं न रसायनकर्मणि ॥२१॥
अनेन सकलं देवि चारणावस्तु भावयेत् ।
क्षाराम्ले भावितं व्योम रजसा प्रथमेन च ॥२२॥
सृष्टित्रयोदककणा तुम्बुरुद्रवमर्दितम् ।
चरेज्जरेद्वा पुटितं यवचिञ्चारसेन च ॥२३॥
शतावरी गदा रम्भा मेघनादा पुनर्नवा ।
शिग्रुको यवचिञ्चा च भावितं तद्रसैः क्रमात् ॥२४॥
मूलं हिलमुचायास्तु कौवेरीमूलमेव च ।
कदलीमुसलीशिग्रु ताम्बूलीवाणपीलुकम् ॥२५॥
अलम्बुषा बला कोलं आस्फोटः खरमञ्जरी ।
तुम्बुरुस्तिक्तशाकं वाप्येषां एकरसेन तु ।
राजिकाव्योषयुक्तेन त्रिदिनं स्विन्नमभ्रकम् ॥२६॥
कासीसतुवरीसिन्धु टङ्कणक्षारसंयुतः ।
पूर्वाभिषवयोगेन सूतकश्चरति क्षणात् ॥२७॥
गोलको भवति क्षिप्रं सर्वसिद्धिप्रदायकः ॥२८॥
गृहीत्वा देवि धान्याम्लं अम्लवर्गेण संयुतम् ।
क्वाथयित्वाभ्रकं तत्तु स्नुहीक्षीरेण मर्दयेत् ॥२९॥
आरण्यगोमयेनैव कपोताख्यं पुटं ततः ॥३०॥
कदलीकन्दनिर्यासैर्मूलकन्दरसेन च ।
काकमाची च मीनाक्षी अपामार्गो मुनिस्तथा ॥३१॥
एरण्डमार्द्रकं चैव मेघनादा पुनर्नवा ।
एकैकस्य द्रवैरेव पुटैकैकं प्रदापयेत् ॥३२॥
वज्रीक्षीरेण संयुक्तं दोलायन्त्रेण पाचयेत् ।
छायाशुष्कं ततः कृत्वा चणकाम्लेन संयुतम् ॥३३॥
नवसारं च कासीसं वचां निम्बं तथैव च ।
अभ्रस्य षोडशांशेन एकैकं तत्र निक्षिपेत् ॥३४॥
निधाय ताम्रपात्रे तु घर्षयेत्तच्च सुव्रते ।
नववारं ततो देवि लोहपात्रे तु जारयेत् ॥३५॥
रसेन सह देवेशि चणकाम्लेन काञ्जिकम् ।
मृद्वग्निना तु निष्क्वाथ्यं प्रहरार्धेन जायेत ॥३६॥
सोमवल्लीरसैः पिष्ट्वा व्योम सौवर्चलान्वितम् ।
शनैः शनैर्हंसपाद्या दापयेच्च पुटत्रयम् ॥३७॥
सोमवल्लीरसेनैव सप्तवारं च दापयेत् ।
पातयेन्मृन्मये भाण्डे रसेन सह संयुतम् ॥३८॥
मूलं सितेषुपुङ्खाया गव्यक्षीरेण घर्षयेत् ।
कल्केन लेपयेत्सूतं गगनं च तदूर्ध्वगम् ॥३९॥
तापयेद्रवितापेन निर्मुखं ग्रसते क्षणम् ।
जायते पिष्टिका शीघ्रं नात्र कार्या विचारणा ॥४०॥
तिलपर्णीरसेनैव गगनं भावयेत्प्रिये ।
मर्दनाज्जायते पिष्टी नात्र कार्या विचारणा ॥४१॥
मुण्डीनिर्यासके नागं बहुशस्तु निषेचयेत् ।
तेनाभ्रकं तु संप्लाव्य भूयोभूयः पुटे दहेत् ॥४२॥
चित्रकार्द्रकमूलानां एकैकेन तु सप्तधा ।
प्लावितव्यं प्रयत्नेन गन्धकाभ्रकचूर्णकम् ॥४३॥
नागशुण्डीरसस्तन्य रजोलुङ्गाम्लभावितम् ।
षोडशांशेन तद्वत्तं दोलायां तु चरेद्रसः ॥४४॥
चतुःषष्टिगुणं देवि द्वात्रिंशद्गुणमेव वा ।
अथवा षोडशगुणं तथाष्टगुणमेव वा ।
चतुर्गुणं वा द्विगुणं समं वा चारयेत्प्रिये ॥४५॥
परमभ्रकसत्त्वस्य जारणं शृणु पार्वति ॥४६॥
व्योमसत्त्वं समांशेन ताप्यसत्त्वेन संयुतम् ।
स खल्वेवं चरेद्देवि गर्भद्रावी भवेद्रसः ॥४७॥
नागाभ्रं देवि वङ्गाभ्रं तीक्ष्णाभ्रं भास्कराभ्रकम् ।
ताराभ्रं देवि हेमाभ्रं रसगर्भेण जारयेत् ॥४८॥
पूर्वाभिषेकयोगेन गर्भे द्रवति मर्दनात् ॥४९॥
चतुःषष्ट्यंशकः पूर्वः द्वात्रिंशांशो द्वितीयकः ।
तृतीयः षोडशांशस्तु चतुर्थोऽष्टांश एव च ॥५०॥
पञ्चमस्तु चतुर्थांशः षष्ठो द्व्यंशः प्रकीर्तितः ।
ग्रासो रसस्य दातव्यः ससत्त्वस्याभ्रकस्य च ॥५१॥
चतुःषष्ट्यंशके ग्रासे दण्डधारी भवेद्रसः ।
जलौकावद्द्वितीये च ग्रासयोगे सुरेश्वरि ॥५२॥
ग्रासेन तु तृतीयेन काकविष्ठासमो भवेत् ।
ग्रासेन तु चतुर्थेन दधिमण्डसमो भवेत् ॥५३॥
पञ्चमे चरिते ग्रासे नवनीतसमो भवेत् ।
षष्ठे तु गोलकाकारः क्रमाज्जीर्णस्य लक्षणम् ॥५४॥
काञ्जिकेन निषिक्तेन रक्तव्योम शतप्लुतम् ।
खल्लान्तश्चारयेत्तच्च शुल्ववासनया सह ॥५५॥
हेम तारं च संघृष्य खल्ले तत्र रसं न्यसेत् ।
काञ्जीसहितकासीसं सिन्धुना चरते रसः ॥५६॥
हेम सीसं तु संघृष्य रसं तत्र प्रदापयेत् ।
नागहेमयुतं व्योम समजीर्णं द्रुतं भवेत् ।
अभ्रकोपरसान्क्षिप्रं मुखेनैव चरत्ययम् ॥५७॥
तारं वङ्गं च संघृष्य रसं तत्र प्रदापयेत् ।
नागहेमयुतं व्योम समजीर्णं द्रुतं भवेत् ।
मुखेन चरते व्योम तारकर्मणि शस्यते ॥५८॥
समुखं निर्मुखं वापि यत्नतश्चारयेन्नभः ॥५९॥
चारणां त्रिविधामेवं कृत्वा गर्भद्रुतिं रसे ।
जारयेत्स्वेदयेत्पिण्डं परिणामक्रमैस्त्रिभिः ॥६०॥
पट्वम्लक्षारगोमूत्र स्नुहीक्षीरैः प्रलेपितम् ।
बहिश्च बद्धं वस्त्रेण भूयो ग्रासं निवेदितम् ।
क्षारारनालतैलेषु स्वेदयेन्मृदुनाग्निना ॥६१॥
क्रमेणानेन देवेशि जार्यते दिवसैस्त्रिभिः ।
यन्त्रादुद्धृतमात्रं तु लोहपात्रे स्थितं रसम् ॥६२॥
कोष्णेन काञ्जिकेनादौ क्षालितं वस्त्रगालितम् ।
पात्रे सुखोष्णहस्तेन यावत्शेषं विमर्दयेत् ॥६३॥
चतुर्गुणेन वस्त्रेण पीडितो निर्मलश्च सः ॥६४॥
गालनक्रियया ग्रासे सति निष्पेषनिर्गते ।
स भवेद्दण्डधारी च जीर्णग्रासस्तथा रसः ॥६५॥
अजीर्णे पाचयेत्पिष्टीं स्वेदयेन्मर्दयेत्तथा ।
वेतसाम्लप्रयोगेण जीर्णे ग्रासं तु दापयेत् ॥६६॥
इष्टिकागुडदग्धोर्णा राजीसैन्धवधूमजैः ।
षोडशांशैः स धान्याम्लैः मर्द्यः स्वेद्यश्च पारदः ॥६७॥
निर्मलीकरणार्थं तु ग्रासे ग्रासे पुनः पुनः ।
जीर्णाभ्रो जीर्णबीजोऽपि रागान्गृह्णाति निर्मलः ॥६८॥
क्रमेणानेन दोलायां चार्यं ग्रासचतुष्टयम् ।
ततः कच्छपयन्त्रेण ज्वालनं बन्धनं क्रमात् ॥६९॥
ऊर्ध्वाधश्चाष्टमांशेन विडं दत्त्वापि जारयेत् ।
समजीर्णाभ्रकः सूतः शतवेधी भवेत्प्रिये ॥७०॥
सहस्रवेधी द्विगुणे त्रिगुणेऽयुतवेधकः ।
चतुर्गुणे लक्षवेधी स भवेद्भूचरो रसः ॥७१॥
जीर्णे पञ्चगुणे देवि ब्रह्मायुर्जायते रसः ।
आयुस्तु षड्गुणे विष्णोः कोटिवेधी भवेद्रसः ॥७२॥
रसस्य सर्वदोषास्तु षड्गुणेनाभ्रकेन तु ।
जीर्णेन नाशमायान्ति नात्र कार्या विचारणा ॥७३॥
रसराजे यदा जीर्णं षड्गुणं गगनं प्रिये ।
तदा ग्रसति लोहानि त्यजेच्च गतिमात्मनः ॥७४॥
धूमश्चिटिचिटिश्चैव मण्डूकप्लुतिरेव च ।
सकम्पश्च विकम्पश्च पञ्चावस्था रसस्य तु ॥७५॥
कपिलोऽथ निरुद्गारि विप्लुषश्चैव मुञ्चति ।
अग्नौ तिष्ठति निष्कम्पो व्योमजीर्णस्य लक्षणम् ॥७६॥
समजीर्णो भवेद्बालो यौवनस्थश्चतुर्गुणम् ।
वृद्धस्तु षड्गुणं जीर्णः कुर्यात्कर्म पृथक्पृथक् ॥७७॥
बालस्तु पत्त्रलेपेन कल्कयोगेन यौवनः ।
वृद्धो विध्यति लोहानि जारितः सारितोऽथवा ॥७८॥
कुमारस्तु रसो देवि न समर्थो रसायने ।
यौवनस्थो रसो देवि क्षमो देहस्य रक्षणे ॥७९॥
जरावस्थो रसो यश्च देहे लोहेन संक्रमेत् ।
अभावेऽभ्रकसत्त्वस्य कान्तसत्त्वं प्रदापयेत् ॥८०॥
कान्तस्य चाप्यभावे तु तीक्ष्णलोहं तु दापयेत् ।
अनेन क्रमयोगेन सर्वसत्त्वानि जारयेत् ॥८१॥
एकोऽपि हेमसंयुक्तश्चामीकरकरः क्षणात् ।
गन्धकात्परतो नास्ति रसेषूपरसेषु वा ॥८२॥
पूर्वोक्तयन्त्रयोगेन द्विरष्टगुणगन्धकम् ।
अथवा द्वादशगुणं षड्गुणं वापि जारयेत् ॥८३॥
माक्षिकं सत्त्वमादाय पादांशेन तु जारयेत् ।
ततोऽपि सर्वसत्त्वानि द्रावयेत्सूतगर्भतः ॥८४॥
हेमपावकयोः सख्यं तथा काञ्चनसूतयोः ।
वह्निसूतकयोर्वैरं तयोर्मित्रेण मित्रता ॥८५॥
अग्निको यवचिञ्चा च वसुहट्टश्च रागिणी ।
दोलास्वेदेन तत्पक्वं हेमजारणमुत्तमम् ॥८६॥
पलाशभस्मापामार्गो यवक्षारश्च काञ्जिकम् ।
सौवर्चलं च कासीसं सामुद्रं सैन्धवं तथा ॥८७॥
आसुरी टङ्कणश्चैव नवसारस्तथैव च ।
कर्पूरश्चैव माक्षीकं समभागानि कारयेत् ॥८८॥
स्नुह्यर्कदुग्धैर्देवेशि मूषालेपं तु कारयेत् ।
विडचूर्णं ततो दत्त्वा कनकं जारयेत्प्रिये ॥८९॥
शृणु देवि प्रवक्ष्यामि भूचराख्यं तु जारणम् ॥९०॥
कृष्णं पीतं रक्तमभ्रं शुल्वे तीक्ष्णे च मेलयेत् ॥९१॥
शुल्वे तीक्ष्णं यदा चूर्णं द्वाविंशतिगुणं प्रिये ।
गन्धनागं ततोऽर्धं तु क्रमेणैव तु मेलयेत् ॥९२॥
हेम्ना तु सह दातव्यं सूतकैकेन षोडश ।
गन्धनागं यदा जीर्णं तदा बद्धो भवेद्रसः ।
हेम्नि जीर्णे ततोऽर्धेन मृतलोहेन रञ्जयेत् ॥९३॥
गन्धकेन हतं शुल्वं माक्षिकं दरदायसम् ।
पुटेन मारयेच्छुद्धं हेम दद्यात्तु षड्गुणम् ॥९४॥
सूतके हेमबीजं च यदा जीर्णं चतुर्गुणम् ।
बद्धरागं विजानीयात्हेमाभो जायते रसः ॥९५॥
सारणायन्त्रमध्यस्थं तेनैव सह सारयेत् ।
त्रिभागसारितं कृत्वा पुनस्तत्रैव जारयेत् ॥९६॥
जारितः सारितश्चैव पुनर्जारितसारितः ।
सप्तशृङ्खलिकायोगात्कोटिवेधी भवेद्रसः ॥९७॥
भूचरी जारणा प्रोक्ता खेचरीं जारणां शृणु ॥९८॥
हीरमुख्यानि रत्नानि रसोच्छिष्टानि कारयेत् ।
कटुतुम्बस्य बीजानि तस्यार्धेन तु दापयेत् ॥९९॥
महाजारणमित्युक्तं कल्कं कुर्याद्विचक्षणः ।
वज्रमूषामुखे चैव तन्मध्ये स्थापयेद्रसम् ॥१००॥
कतकं कनकं चैवं एकीकृत्य च मर्दयेत् ।
पद्मरागं प्रयत्नेन रसे ग्रासं तु दापयेत् ॥१०१॥
एकादशगुणं यावत्पद्मरागं तु सूतके ।
रागजीर्णस्तु देवेशि लिङ्गाकारो भवेद्रसः ॥१०२॥
रक्षितव्यं प्रयत्नेन लोकपालाष्टकेन च ।
षड्भागं सूतकेन्द्रस्य तेषु सर्वेषु दापयेत् ॥१०३॥
भक्षितव्यं प्रयत्नेन नत्वा च गुरुदेवयोः ।
सर्वसिद्धान्नमस्कृत्य देवताश्च विशेषतः ॥१०४॥
मूर्छाङ्गदाहश्च ततो जायते नात्र संशयः ।
आत्मानमुत्थितं पश्येत्दिव्यतेजोमहाबलम् ॥१०५॥
शङ्खकाहलनिर्घोषैः सिद्धविद्याधरैः सह ।
इच्छया विचरेल्लोकान्कामरूपी विमानगः ॥१०६॥
देवाश्च यत्र लीयन्ते सिद्धस्तत्रैव लीयते ॥१०७॥
पुनरन्यं प्रवक्ष्यामि जारणायोगमुत्तमम् ॥१०८॥
सुघृष्टं पाचितं सूतं सर्वदोषोज्झितं ततः ।
शाकपल्लवसारेण विष्णुक्रान्तारसेन च ॥१०९॥
पलाशपुष्पतोयेन भावितं गन्धकं समम् ।
समं कृष्णाभ्रसत्त्वं च रसकं चाष्टकं गुणम् ॥११०॥
तीक्ष्णशुल्वोरगं चैव कूर्मयन्त्रेण जारयेत् ।
काञ्चनं जारयेत्पश्चात्विडयोगेन पार्वति ॥१११॥
ततः सिद्धं विजानीयात्द्वैधं शुल्वस्य दापयेत् ।
कर्मसंख्याप्रमाणेन नागो भवति काञ्चनम् ॥११२॥
अतः परं प्रवक्ष्यामि जारणाक्रममुत्तमम् ॥११३॥
बीजचूर्णानि तैलेन भावयित्वा पुनः पुनः ।
षोडशांशेन तद्ग्रासं अङ्गुल्या मर्दयेच्छनैः ॥११४॥
आर्द्रकादि ततो योगाद्दातव्यं षोडशांशतः ।
भूर्जे दत्त्वा ततो देयं दोलायन्त्रे विनिक्षिपेत् ॥११५॥
अहोरात्रेण तद्बीजं सूतको ग्रसति प्रिये ।
तमुद्धृत्य रसं देवि खल्ले संमर्दयेत्ततः ॥११६॥
ततो यन्त्रे विनिक्षिप्य दिवारात्रं दृढाग्निना ।
तप्तं समुद्धृतं यन्त्रात्तप्तखल्ले विमर्दयेत् ॥११७॥
मर्दयित्वाभ्रके पिण्डं क्षिप्त्वा तत्र पुटं ददेत् ।
ततो गर्भे पतत्याशु जारयेत्तत्सुखेन तु ॥११८॥
दोलायन्त्रे ततो दत्त्वा आर्द्रपिण्डेन संयुतम् ।
तृतीये दिवसे सूतो जरते ग्रसते ततः ॥११९॥
समजीर्णं ततो यावत्दोलायन्त्रे विचक्षणः ।
पश्चात्कच्छपयन्त्रेण समजीर्णं तु पार्वति ।
तं ग्रासद्वादशांशेन कच्छपेन तु जारयेत् ॥१२०॥
प्राग्वदार्द्रकयोगं च गर्भद्रावणमेव च ।
पश्चात्तं देवि निक्षिप्य पुटं दद्याद्विचक्षणः ॥१२१॥
अष्टांशेन ततो ग्रासं गर्भद्रावं च पूर्ववत् ।
कन्दोदरे सूरणस्य तं विनिक्षिप्य सूतकम् ।
पुटेत्तु जारितस्तावत्यावत्कन्दो न दह्यते ॥१२२॥
पादांशेन तु मूषाया ग्रासः सूते विधीयते ।
पूर्ववच्च विडं दद्यात्गर्भद्रावणमेव च ॥१२३॥
एवं चतुर्गुणे जीर्णे सूतको बलवान्भवेत् ।
ततः शलाकया ग्रासानग्निस्थो ग्रसते रसः ॥१२४॥
ततो रत्नानि जार्याणि वक्ष्यमाणक्रमेण तु ॥१२५॥
अभ्रकं भ्रामकं चैव शङ्खनाभिं तथैव च ।
रसानुपरसान्दत्त्वा महाजारणसंयुतान् ॥१२६॥
वज्रकन्दं वज्रलता मेषशृङ्ग्यमृतायसम् ।
कटुतुम्बस्य बीजानि मृतलोहानि पाचयेत् ॥१२७॥
सर्वाणि समभागानि शिखिशोणितमात्रितम् ।
तावत्तं मर्दयेत्प्राज्ञो यावत्कर्म दृढं भवेत् ॥१२८॥
मूषा वल्लाकृतिश्चैव कर्तव्या छादनैः सह ।
तन्मध्ये स्थापयेत्सूतं अधोवातेन धामयेत् ॥१२९॥
आदौ तत्रैव दातव्यं वज्रमौषधलेपितम् ।
गृह्यते कोऽत्र संदेहो यथा तीव्रे हुताशने ॥१३०॥
कुलिशेन पुटे दग्धे कर्ष्वग्नौ तेन मर्दयेत् ।
यावदेकादशगुणं कुलिशं जारयेत्पुनः ॥१३१॥
सुदग्धशङ्खनाभिश्च मातुलुङ्गरसप्लुतः ।
मुक्ताफलं ततो देयं वज्रजीर्णे तु सूतके ॥१३२॥
अनेन क्रमयोगेन ह्येकादशगुणं भवेत् ।
केवलं शिखिपित्तं च नीली निर्यासमिश्रितम् ॥१३३॥
नीलोत्पलानि लिप्तानि प्रक्षिप्तानि तु सूतके ।
रसे कल्पेन्महारागान्हीनरागान्परित्यजेत् ॥१३४॥
रक्तानि शिखिपित्तं च महारत्नसमन्वितम् ।
सद्रत्नं लेपयेत्तेन प्रद्रवेत्रसमध्यतः ॥१३५॥
रजनीं चैव कुष्ठं च ब्रह्मनिर्यासभावितम् ।
जारणं पुष्परागस्य तेनैव सह दापयेत् ॥१३६॥
बहुरत्नेषु जीर्णेषु भृङ्गरागेषु सुव्रते ।
रसेन्द्रो दृश्यते देवि नीलपीतारुणच्छविः ॥१३७॥
शुद्धानि हेमपत्त्राणि शतांशेन तु लेपयेत् ।
पुटेन मारयेदेतदिन्द्रगोपनिभं भवेत् ॥१३८॥
संस्पर्शाद्वेधयेत्सर्वं इदं हेम मृतं प्रिये ।
त्रिभागं सूतकेन्द्रस्य तेनैव सह सारयेत् ॥१३९॥
मूषामध्यस्थिते तस्मिन्पुनस्तेनैव जारयेत् ।
धूमवेधी भवेद्देवि पुनः सारितजारितः ॥१४०॥
अनेन क्रमयोगेन यदि जीर्णा त्रिशृङ्खला ।
वेधयेन्नात्र संदेहो गिरिपातालभूतलम् ॥१४१॥
पार्श्वज्योतिः प्रदृश्येत चोर्ध्वं नैव तु दृश्यते ।
भूचरं तं विजानीयात्रसेन्द्रं नात्र संशयः ॥१४२॥
तेनाश्रान्तगतिर्देवि योजनानां शतं व्रजेत् ।
दिव्यतेजा महाकायो दिव्यदृष्टिर्महाबलः ॥१४३॥
सर्वरोगविनिर्मुक्तो जीवेदाचन्द्रतारकम् ।
तस्य मूत्रपुरीषं तु सर्वलोहानि विध्यति ॥१४४॥
समजीर्णेन वज्रेण हेम्ना च सहितेन च ।
अग्निस्थो जारयेल्लोहान्बन्धमायाति सूतकः ॥१४५॥
सारयेत्तेन बीजेन सहस्रमपि वेधयेत् ।
सारितं जारयेत्पश्चात्लेप्यं क्षेप्यं सहस्रशः ॥१४६॥
सारयेत्तेन बीजेन लक्षवेधमवाप्नुयात् ।
अनेन क्रमयोगेन कोटिवेधी भवेद्रसः ॥१४७॥
केवलं तु यदा वज्रं समजीर्णं तु जारयेत् ।
बद्धः सूतस्तदा ज्ञेयो निष्कम्पो निरुपद्रवः ॥१४८॥
अग्निस्थो जायते सूतः शलाकां ग्रसते क्षणात् ।
हठाग्निना धाम्यमानो ग्रसते सर्वमादरात् ॥१४९॥
चरते जरते सूत आयुर्द्रव्यप्रदायकः ।
मूषास्थं धमयेत्सूतं हठाग्नौ नैव कम्पते ॥१५०॥
जारयेत्सर्वरत्नानि बद्धः खेचरतां नयेत् ।
इति लोहेऽष्टगुणिते जीर्णे स्याद्रसबन्धनम् ॥१५१॥
लोहानि सत्त्वं त्रिगुणं द्विगुणं कनकं तथा ।
धूमावलोकवेधी स्यात्भवेन्निर्वाणदो रसः ॥१५२॥
आदावष्टगुणं जार्यं व्योमसत्त्वं महारसम् ।
समं हेमदशांशेन वज्ररत्नानि जारयेत् ॥१५३॥
सर्वं च जारयेद्वज्रं तदासौ खेचरो रसः ।
भ्रमेत्प्रदक्षिणावर्तः कोटिवेधी च जायते ॥१५४॥
समे तु पन्नगे जीर्णे दशवेधी भवेद्रसः ।
द्विगुणे शतवेधी स्यात्त्रिगुणे तु सहस्रकम् ॥१५५॥
चतुर्गुणेऽयुतं देवि क्रमेणानेन वर्धयेत् ।
उत्तरोत्तरवृद्ध्यातु जारयेत्तत्र पन्नगम् ॥१५६॥
कुटिलं पन्नगं जार्यं तत्र संख्याक्रमेण तु ।
तद्वादमेति देवेशि कोटिवेधी भवेद्रसः ॥१५७॥
रुरुणा दानवेन्द्रेण भक्षितो भस्मसूतकः ।
जारितं द्वादशगुणं यत्र तीक्ष्णं सुरेश्वरि ॥१५८॥
भक्षयित्वा पलैकं तु दानवो बलदर्पितः ।
जगदुत्पाटितं तेन कैलासोऽपि च चूर्णितः ॥१५९॥
तत्र मया क्षणं ध्यात्वा दृष्ट्वा तन्मायया कृतम् ।
जारितं पन्नगे सूतं समांशं शिलया हतम् ॥१६०॥
तेन सूतेन संलिप्तं त्रिशूलं हिमशैलजे ।
तेन शूलेन निहतो दानवो बलदर्पितः ॥१६१॥
हेम शुल्वं तथा तीक्ष्णं वाजरं च पडालकम् ।
रोहणं कान्तलोहं च जारयेत्तत्त्वसंख्यया ॥१६२॥
एकैके रसराजोऽयं बद्धः खेचरतां नयेत् ।
गन्धनागे द्रुते देवि जारणां सुकरां शृणु ॥१६३॥
आदौ संशोधितं सूतं रजनीचूर्णसंयुतम् ।
मर्दयेद्यावदाकृष्णं क्षालयेदुष्णकाञ्जिकैः ॥१६४॥
एवं मुहुर्मुहुर्घृष्टो गन्धनागो द्रुतिं चरेत् ॥१६५॥
नागस्य मूत्रे देवेशि वत्सस्य महिषस्य वा ।
आवर्त्यावर्त्य भुजगं सप्त वारान्निषेचयेत् ॥१६६॥
कृत्वा कण्टकवेध्यानि तस्य पत्त्राणि सुन्दरि ।
चतुर्थांशप्रमाणेन गन्धकस्य तु योजयेत् ॥१६७॥
प्रसार्य लाक्षापटलं रोमाणि तदनन्तरम् ।
ऊर्ध्वं गन्धकचूर्णं च ततो नागदलं तथा ॥१६८॥
गन्धकं नरलोमानि लाक्षायाः पटलं क्रमात् ।
ऊर्ध्वं प्रसार्य संस्थाप्य सूत्रैर्वर्तिं तु कारयेत् ॥१६९॥
करञ्जतैलमध्ये तु दशरात्रं निधापयेत् ।
दीप्ताग्रभागां तां वर्तिं सण्डश्या तु विधारयेत् ॥१७०॥
तां द्रुतिं पातयेत्पात्रे सौवीरटङ्कणान्विते ।
काचकूप्याश्च मध्ये तु तत्तैलं स्थापयेत्प्रिये ॥१७१॥
कृत्वा गोस्तनमूषायां लिप्तायां शिलया रसम् ।
चतुःषष्ट्यादिभागेन ज्ञात्वा देवि बलाबलम् ॥१७२॥
गन्धनागद्रुतिं दत्त्वा तां मूषां सुरवन्दिते ।
गर्ते गोमयसम्पूर्णे विन्यस्य पुटपाचनम् ।
दद्यात्करीषतुषयोः प्रसृतिद्वितयेन च ॥१७३॥
दद्यादजीर्णशङ्कायां सिंहवल्लीरसस्य तु ।
चतुर्बिन्दून्पुटे प्राग्वदेवं प्रतिदिनं भवेत् ॥१७४॥
जारणात्रिगुणात्सूतो भवेज्जम्बूफलप्रभः ॥१७५॥
माक्षिकं सत्त्वमल्पाल्पं मृतनागसमन्वितम् ।
मूषागतं भवेद्यावत्काचं दत्त्वाधरोत्तरम् ।
एवं द्वादशवारांस्तु सुध्मातं रञ्जितं भवेत् ॥१७६॥
तेन पक्वं बीजचूर्णं पारदे पादभागिकम् ।
मर्दितं चणकाम्लेन क्षणाद्गर्भद्रुतिर्भवेत् ॥१७७॥
गर्भद्रुतिर्न चेद्देवि वर्णिकाद्वयगन्धयोः ।
रक्तसिन्धूद्भवालर्क टङ्कणाशुगपुङ्खतः ।
कल्केन लिप्तं पुटितं बीजं गर्भे द्रुतं भवेत् ॥१७८॥
बीजे पादार्धतुल्यांशे जीर्णे वेधं करोति सः ।
दशषोडशभागेन द्वाविंशांशेन च क्रमात् ॥१७९॥
संयोज्य त्रिगुणां रीतिं तारे तारावशेषितैः ।
तारारिष्टमिदं लिप्त्वा तेन सूतेन वेधयेत् ॥१८०॥
अतः परं तु संस्कारं वक्ष्ये नागाभ्रजारणम् ।
करवीरारुणां देवि चूर्णयित्वा मनःशिलाम् ॥१८१॥
भावयेद्विंशतिं वारान्यवचिञ्चारसेन तु ।
तेन कल्केन संलिप्य नागपत्त्रं प्रयत्नतः ।
कर्ष्वनलेन विपचेत्यावत्तत्चूर्णितं भवेत् ॥१८२॥
रसकस्य च भागांस्त्रीन्भागैकं दरदस्य च ।
पेषयेन्मातुलुङ्गेन पादगन्धं शिलाविषम् ॥१८३॥
कल्केनानेन लिप्तायां मूषायां पुटपाचितम् ।
तं नागं धमयेदेवं सप्तधा हेमवद्भवेत् ॥१८४॥
पीताभ्रकं त्वेकदलं लिप्तायां मरिचेन तु ।
मूषायां ध्मातमग्न्याभं सौभाञ्जनरसे क्षिपेत् ॥१८५॥
पातयेत्पूर्वविधिना तत्सत्त्वं हेमभासुरम् ॥१८६॥
पत्त्रं रञ्जितनागस्य सत्त्वं पीताभ्रकस्य च ।
स्त्रीस्तन्यकाचधूमोत्थ गुञ्जायस्कान्तटङ्कणैः ।
तुत्थेन संयुतेनैतन्नागाभ्रं द्वंद्वितं भवेत् ॥१८७॥
किंवारनालसिद्धार्थ धूमसारेष्टकागुडैः ।
मर्दयेत्त्रिदिनं सूतं दोलायां स्वेदयेत्त्र्यहम् ॥१८८॥
पुनर्नवामेषशृङ्गी सर्पाक्षीकल्कसंयुतम् ।
अथासुरी सिन्धुविषं मरिचैः परिपेषितैः ।
दोलायन्त्रे पुनरपि स्वेदयेद्दिवसत्रयम् ॥१८९॥
अष्टमांशेन नागाभ्रं चारयित्वा सुरेश्वरि ।
शिलाभागद्वयं चैकं सिन्धुसौवर्चलं भवेत् ॥१९०॥
टङ्कार्धं विषपादं च विडः पिण्डाष्टमांशतः ।
त्रिदिने कच्छपे जार्यं एवं जार्यं तु षड्गुणम् ॥१९१॥
शैलं तुत्थोरगं ताम्रं तीक्ष्णघोषारकाञ्चनम् ।
क्रमवृद्धं इदं तुत्थं ताप्यसत्त्वनिपातनात् ॥१९२॥
हेमावशेषं तद्बीजं पादांशं मातुलाम्भसा ।
चारयेद्रसराजस्य जारयेत्कनकान्वितैः ॥१९३॥
ताप्यसौवर्चलशिला गन्धकासीसटङ्कणैः ।
पद्मयन्त्रे निवेश्याथ कीलं दत्त्वा सुरेश्वरि ॥१९४॥
धमेद्दिनत्रयं मन्दं यावद्बीजं द्रुतं भवेत् ।
तमेव समजीर्णं तु वह्नौ निष्कम्पनं रसम् ॥१९५॥
ततः षड्गुणबीजेन सारणा क्रमयोगतः ।
तारारिष्टमहिं शुल्बं सहस्रांशेन वेधयेत् ॥१९६॥
विषगन्धकताप्याभ्र काकविष्ठा घनध्वनिः ।
सहदेवीवह्निशिखा कल्केन क्रमते रसः ॥१९७॥
मूर्छितो मृतसूतश्च जलूकाबन्ध एव च ।
चतुर्थो मूर्तिबन्धस्तु पट्टबन्धस्तु पञ्चमः ।
भस्मसूतश्च खोटश्च संस्कारात्सप्तधा रसः ॥१९८॥
नागवर्णं भवेत्सूतं विहाय घनचापलम् ।
लक्षणं दृश्यते यस्य मूर्छितं तं वदन्ति हि ॥१९९॥
आर्द्रत्वं च घनत्वं च तेजोगौरवचापलम् ।
यस्यैतानि न दृश्यन्ते तं विद्यान्मृतसूतकम् ॥२००॥
नानावर्णं तथा स्वच्छं द्रुतं योनौ जलूकवत् ।
बध्यते सूतकं यच्च जलूकाबन्धलक्षणम् ॥२०१॥
गुरुत्वमरुणत्वं च तेजसा सूर्यसंनिभम् ।
शिखिमध्ये धृतं तिष्ठेत्मूर्तिबन्धस्य लक्षणम् ॥२०२॥
शलाकाजारणाद्वापि मूर्तिबन्धत्वमिष्यते ॥२०३॥
श्वेतं पीतं गुरु तथा मृदु सिक्थकसंनिभम् ।
अग्निमध्ये यदा तिष्ठेत्पट्टबन्धस्य लक्षणम् ॥२०४॥
कृष्णं श्वेतं तथा पीतं नीलं भस्मनिभं तथा ।
चपलत्वं यदा नष्टं भस्मसूतस्य लक्षणम् ॥२०५॥
कुक्कुटाण्डनिभं सूतं यदा लवणभेदि च ।
आवर्तते रसस्तद्वत्खोटकस्य च लक्षणम् ॥२०६॥
अथवा छेदने स्निग्धं रश्मिना मृदुना द्रवेत् ।
अक्षयं कठिनं श्वेतं खोटबन्धस्य लक्षणम् ॥२०७॥
खोटादयस्तु ये पञ्च विहाय जलुकाकृति ।
हठाग्नौ धामिताः सन्ति न तिष्ठत्येव मूर्छितः ॥२०८॥
तरुणादित्यसंकाशो नानावर्णः सुरेश्वरि ।
वेधयेद्देहलोहानि रञ्जितो रसभैरवः ॥२०९॥
शोधनं सूतकस्यादौ ग्रासमानमतः परम् ।
जारणं व्योमसत्त्वस्य सर्वसत्त्वस्य जारणम् ॥२१०॥
गर्भबाह्यद्रुतिः पश्चात्सुवर्णस्य तु जारणम् ।
दिव्यौषधिपुटः पश्चात्रत्नबन्धमतः परम् ॥२११॥
रञ्जनं च ततो देवि जारणा चानुसारणा ।
क्रामणं च ततो देयं सूतकस्य विचक्षणैः ॥२१२॥
एवं क्रमं तु यो वेत्ति तस्य सिद्धिर्न संशयः ॥२१३॥
वेधकं यस्तु जानाति देहे लोहे रसायने ।
तस्य जन्म जरा व्याधिर्नश्यत्येव न संशयः ॥२१४॥
देहे तु पञ्चरत्नानि नागं वङ्गं तथायसम् ।
क्रामणं रसराजस्य भेषजं व्याधिनाशनम् ॥२१५॥
औषधैः क्रमते सूतो योगशक्तिक्रमेण तु ।
क्रमते व्याधिसंघाते ग्रसते दुष्टमामयम् ॥२१६॥
तस्य तु क्रामणं ज्ञात्वा ततो वैद्यैरुपाचरेत् ।
क्रामणेन विना सूतो न क्रमेत्न च वेधयेत् ।
देहलोहामयान्सर्वान्वृथा स्यात्केवलं श्रमः ॥२१७॥
यस्य रोगस्य यो योगस्तेनैव सह योजयेत् ।
रसेन्द्रो हरति व्याधीन्नरकुञ्जरवाजिनाम् ॥२१८॥
आरोटो बलमाधत्ते मूर्छितो व्याधिनाशनः ।
बद्धेन खेचरीसिद्धिः मारितेनाजरामरः ॥२१९॥
विशेषाद्व्याधिशमनो गन्धकेन तु मूर्छितः ।
ओषध्या घातितः सूतो यथा भूयो न जीवति ॥२२०॥
सहि क्रामति लोहेषु तेन कुर्याद्रसायनम् ।
तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥२२१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:23.2330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अश्मह्रदय

  • वि. पाषाणह्रदयी ; निर्दय ; निष्ठुर . [ सं . ] 
  • a  Stone-hearted. 
RANDOM WORD

Did you know?

भावाला राखी बांधण्यामागील धार्मिक अथवा भावनिक महत्व काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.