TransLiteral Foundation

रसार्णव - दशमः पटलः

रसार्णव नामक ग्रंथात विभिन्न रासायनिक प्रक्रियांद्वारे उत्पन्न होणारे तत्कालीन उत्प्रेरक शिवाय रासायनिक अभिक्रियांमध्ये तीव्रता प्रदान करणार्‍या पदार्थांमध्ये ज्यात अधिकांश वानस्पतिक श्रोत वापरले जातात त्यांचा खास उल्लेख आहे.


ऱसशोधन
श्रीदेव्युवाच
रसस्य लक्षणं किंवा रसकर्म च कीदृशम् ।
तन्न जानामि देवेश वक्तुमर्हसि तत्त्वतः ॥१॥
श्रीभैरव उवाच
प्रागेवोक्ता रसोत्पत्तिस्तल्लक्षणं अतः शृणु ॥२॥
तस्य नामसहस्राणि अयुतान्यर्बुदानि च ।
शक्यते न मया वक्तुं संक्षेपात्कथ्यते शृणु ॥३॥
रसो रसेन्द्रः सूतश्च पारदश्चाथ मिश्रकः ॥४॥
रसं सिद्धरसं विद्यात्सिद्धक्षेत्रसमाश्रयम् ।
नाशयेत्सकलान्रोगान्वलीपलितमेव सः ॥५॥
देहलोहकरं शुद्धं रसेन्द्रमधुना शृणु ।
शरीरे हेम्नि कर्ता च जारणे सारणासु च ॥६॥
ईषत्पीतश्च रूक्षाङ्गो दोषयुक्तश्च सूतकः ॥७॥
यो बाह्याभ्यन्तरे श्वेतो बहुलं कञ्चुकावृतः ।
तं विद्यात्पारदं देवि तारकर्मणि योजयेत् ॥८॥
यथा काञ्जिकसंस्पर्शात्क्षीरभाण्डं विनश्यति ।
तथा हेम शरीरं च पारदेन विनश्यति ।
मयूरपत्त्रिकाभासं मिश्रकं च विदुर्बुधाः ।
धूम्रवर्णं रसं दृष्ट्वा विशेषेणोपलभ्यते ।
मिश्रकं तु विजानीयादुद्वाहकर्मकारकम् ॥९॥
एवं पञ्चविधा देवि रसभेदा निरूपिताः ॥१०॥
स्वेदनं मर्दनं चैव चारणं जारणं तथा ।
द्रावणं रञ्जनं चैव सारणं क्रामणं क्रमात् ।
इति यो वेत्ति तत्त्वेन तस्य सिध्यति सूतकः ॥११॥
तीव्रत्वं जायते स्वेदातमलत्वं च मर्दनात् ।
चारणेन बलं कुर्यात्जारणाद्बन्धनं भवेत् ॥१२॥
एकत्वं द्रावणात्तस्य रक्तत्वं रक्तकाञ्जनात् ।
व्यापित्वं सारणात्तस्य क्रामित्वं क्रामणात्तथा ॥१३॥
मलगो मलरूपेण त्वरितो हंसगो भवेत् ।
मलगो मलरूपेण सधूमो धूमगो भवेत् ॥१४॥
अन्या जीवगतिर्देवि जीवोऽण्डादिव निष्क्रमेत् ।
स तावज्जीवयेज्जीवं तेन जीवो रसः स्मृतः ॥१५॥
चतुष्टयी गतिस्तस्य निपुणेन तु लभ्यते ।
चतस्रो गतयो दृश्या अदृश्या पञ्चमी गतिः ॥१६॥
मन्त्रध्यानादिना तस्य क्षीयते पञ्चमी गतिः ॥१७॥
धूमश्चिटिचिटिश्चैव मण्डूकप्लुतिरेव च ।
अकम्पश्च विकम्पश्च पञ्चावस्था रसस्य तु ॥१८॥
मथ्यमानस्य कल्केन सम्भवेद्धि गतित्रयम् ।
जले गतिर्मलगतिः पुनर्हंसगतिस्ततः ॥१९॥
हेम दत्त्वा ततः शुद्धं तत्तु स्तम्भेन्नियामके ।
नियामकगणौषध्या रसं दत्त्वा विपाचयेत् ॥२०॥
नियमितो न प्रयाति तथा धूमगतिं शिवे ॥२१॥
कणिकाचालरहितो बुद्बुदैश्चापवर्जितः ।
नियमितो भवत्येष चुल्लिकाग्निसहस्तथा ॥२२॥
अनियम्य यदा सूतं जारयेत्काञ्जिकाशये ।
जायते निश्चितं भद्रे तदा तस्य गतित्रयम् ॥२३॥
दोलास्वेदेन चावश्यं स्वेदितो हि दिनत्रयम् ।
वसुभण्टादिभिर्देवि रसराजो न हीयते ॥२४॥
अक्षीणं तु रसं दृष्ट्वा दद्याद्व्योमादिकं ततः ।
स्वेदनं च ततः कर्म दीयमानस्य मर्दनम् ॥२५॥
रसालिङ्गित आहारः पिष्टिकेत्यभिधीयते ।
तद्द्रुतं रसगर्भे तु जारणं परिकीर्तितम् ॥२६॥
जारणा तत्समाख्याता तदेवं चोपलभ्यते ।
जीर्णान्ते रञ्जनं कार्यं रक्तवर्गगणेन च ॥२७॥
जीर्णं जीर्णं तु संरक्तं समहेम्ना तु सारयेत् ।
सारणायन्त्रयोगेन बध्यते सारितो रसः ॥२८॥
सारितः सारितश्चैव यथा भवति सूतकः ।
क्रामणेन समायुक्तं तं च वेधे नियोजयेत् ॥२९॥
आरोटः पारदो ब्रह्मा मूर्छितस्तु जनार्दनः ।
बद्धस्तु रुद्ररूपः स्यात्कर्मयोगबलाद्रसः ॥३०॥
शृणु देवि प्रवक्ष्यामि कर्मयोगस्य विस्तरम् ॥३१॥
पारदस्य त्रयो दोषा विषं वह्निर्मलस्तथा ।
विषेण सविषं विद्यात्वह्नौ कुष्ठी भवेन्नरः ।
मलेनोदररोगी स्यात्म्रियते च रसायने ॥३२॥
षट्त्रुट्यश्चैकलिक्षा स्यात्षड्लिक्षा यूक एव च ।
षड्यूकास्तु रजःसंज्ञाः कथितास्तव सुव्रते ॥३३॥
षड्रजः सर्षपः साक्षात्सिद्धार्थः स च कीर्तितः ।
षट्सिद्धार्थाश्च देवेशि यवस्त्वेकः प्रकीर्तितः ॥३४॥
षड्यवैरेकगुञ्जा स्यात्षड्गुञ्जाश्चैकमाषकः ।
माषा द्वादश तोलः स्यातष्टौ तोलाः पलं भवेत् ॥३५॥
द्वात्रिंशत्पलकं देवि शुभं तु परिकीर्तितम् ।
शुभस्य तु सहस्रे द्वे भार एकः प्रकीर्तितः ॥३६॥
द्वे सहस्रे पलानां तु सहस्रं शतमेव वा ।
अष्टाविंशत्पलानां तु दश पञ्चकमेव वा ॥३७॥
पलार्धेनैव संस्कारः कर्तव्यः सूतकस्य तु ॥३८॥
महाबला नागबला मेघनादा पुनर्नवा ।
मेषशृङ्गी च तत्सारैः नवसारसमन्वितम् ।
पारदं देवदेवेशि स्वेदयेद्दिवसत्रयम् ॥३९॥
गिरिकर्णी च मीनाक्षी सहदेवी पुनर्नवा ।
उरगा त्रिफला कान्ता लघुपर्णी शतावरी ॥४०॥
तुषवर्जे तु धान्याम्ले सर्वं संक्षुभ्य निक्षिपेत् ।
एकादशगुणेऽम्लेऽस्मिन्षोडशांशैर्विमर्दितम् ॥४१॥
आसुरीलवणव्योष चित्रकार्द्रकमूलकैः ।
दोलायां स्वेदयेद्देवि त्रिदिनं मृदुनाग्निना ॥४२॥
अङ्कोलस्तु विषं हन्ति वह्निमारग्वधः प्रिये ।
चित्रकस्तु मलं हन्यात्कुमारी सप्तकञ्चुकम् ॥४३॥
तस्मादेभिः समोपेतैर्मर्दयेत्पातयेद्बुधः ॥४४॥
विद्याधरेण यन्त्रेण भावयेद्दोषवर्जितम् ।
ततस्त्रिगुणवस्त्रस्थं तं रसं देवि गालितम् ॥४५॥
त्रिफलावह्निमूलत्वात्गृहकन्यारसान्वितम् ।
निरुद्गारे तु पाषाणे मर्दयेत्पातयेत्पुनः ॥४६॥
धूमसारगुडव्योष रजनीसितसर्षपैः ।
इष्टिकाकाञ्जिकोर्णाभिः त्रिदिनं मर्दयेत्ततः ॥४७॥
निर्मलो जायते सूतः मत्प्रभावं प्रकाशयेत् ॥४८॥
वासकेन विभीतेन मर्दयेत्पातयेत्पुनः ।
नागवङ्गादिका दोषा यान्ति नाशं उपाधिजाः ॥४९॥
सप्तवारं काकमाच्या गतदोषं विमर्दयेत् ।
पातयेत्सप्तवारं च गिरिदोषं त्यजेद्रसः ॥५०॥
क्षेत्रदोषं त्यजेद्देवि गोकर्णरसमूर्छितः ॥५१॥
कार्पासपत्त्रनिर्यासे स्विन्नस्त्रिकटुकान्विते ।
सप्तकञ्चुकनिर्मुक्तः सप्ताहाज्जायते रसः ॥५२॥
काकमाची जया ब्राह्मी गाङ्गेरी रक्तचित्रकः ।
मण्डूकी मुद्गपर्णी च शृङ्गवेरं रसाङ्कुशः ॥५३॥
देवदाली शङ्खपुष्पी काकजङ्घा शतावरी ।
कुमारी भृङ्गराजश्च निर्गुण्डी ग्रीष्मसुन्दरः ॥५४॥
शूलिनी शूर्पपर्णी च गोजिह्वा क्षीरकञ्चुकः ।
तद्रसैर्मर्दितः पात्यः सप्तधा निर्मलो भवेत् ॥५५॥
ताम्रेण पिष्टिकां कृत्वा पातयेदूर्ध्वपातने ।
वङ्गनागौ परित्यज्य शुद्धो भवति सूतकः ॥५६॥
मर्दितस्त्रिफलाशिग्रु राजिकापटुचित्रकैः ।
ऊर्ध्वभाण्डगतः पाच्यः प्रदीप्तैरुपलैरधः ॥५७॥
सृष्ट्यम्बुजनिरोधेन लब्धप्रायो भवेद्रसः ।
कर्कोटीकञ्चुकीबिम्बी सर्पाक्ष्यम्बुजसंयुतम् ॥५८॥
रसं नियामके दद्यात्तेजस्वी निर्मलो भवेत् ।
एवं विशोधितः सूतो भद्राष्टांशविशोषितः ॥५९॥
क्षुद्राम्ललवणक्षार भूखगोषणशिग्रुभिः ।
राजिकाटङ्कणयुतैरारनाले दिनत्रयम् ।
स्वेदनाद्दीपितो देवि ग्रासार्थी जायते रसः ॥६०॥
व्योमसत्त्वादिबीजानि रसजारणशोधने ।
तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥६१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:23.0630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

determination of price

  • कीमत निर्धारण तत्त्व 
RANDOM WORD

Did you know?

गणपतीला २१ दुर्वा वाहतांना काय मंत्र म्हणावा ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.