TransLiteral Foundation

रसार्णव - सप्तमः पटलः

रसार्णव नामक ग्रंथात विभिन्न रासायनिक प्रक्रियांद्वारे उत्पन्न होणारे तत्कालीन उत्प्रेरक शिवाय रासायनिक अभिक्रियांमध्ये तीव्रता प्रदान करणार्‍या पदार्थांमध्ये ज्यात अधिकांश वानस्पतिक श्रोत वापरले जातात त्यांचा खास उल्लेख आहे.


अहारसोपरसलोहलक्षणसंस्काररत्नद्रावणमारणनिर्णयः
श्रीदेव्युवाच
सह लक्षणसंस्कारैराज्ञापय महारसान् ।
अन्यच्च तादृशं देव रसविद्योपकारकम् ॥१॥
श्रीभैरव उवाच
माक्षिको विमलः शैलश्चपलो रसकस्तथा ।
सस्यको दरदश्चैव स्रोतोञ्जनं अथाष्टकम् ।
अष्टौ महारसाश्चैवं एतान्प्रथमतः शृणु ॥२॥
कृष्णस्तु भारतं श्रुत्वा योगनिद्रामुपागतः ।
तस्य पादतले विद्धं व्याधेन मृगशङ्कया ॥३॥
ये तत्र पतिता भूमौ क्षताद्रुधिरबिन्दवः ।
ते निम्बफलसंस्थाना जाता वै माक्षिकोपलाः ॥४॥
माक्षिको द्विविधस्तत्र पीतशुक्लविभागतः ।
विमलस्त्रिविधो देवि शुक्लः पीतश्च लोहितः ॥५॥
तैलारनालतक्रेषु गोमूत्रे कदलीरसे ।
कुलत्थकोद्रवक्वाथैः माक्षिकं विमलं तथा ।
मुहुः शूरणकन्दस्थं स्वेदयेद्वरवर्णिनि ॥६॥
क्षाराम्ललवणैरण्ड तैलसर्पिःसमन्वितम् ।
पुटत्रयं प्रदातव्यं तद्द्वयं शोधितं भवेत् ॥७॥
माक्षिकं चूर्णितं स्तन्य स्नुह्यर्कक्षीरभावितम् ।
सत्त्वं मुञ्चति सुध्मातं टङ्ककङ्कुष्ठमोदितम् ॥८॥
कदलीकन्दतुलसी नारङ्गाम्लपरिप्लुतम् ।
सप्तसप्तपुटोपेतं पञ्चद्रावकसंयुतम् ।
स्त्रीस्तन्यमोदितं ध्मातं सत्त्वं मुञ्चति माक्षिकम् ॥९॥
क्षौद्रगन्धर्वतैलाभ्यां गोमूत्रेण घृतेन च ।
कदलीकन्दसारेण भावितं माक्षिकं मुहुः ।
मूषायां मुञ्चति ध्मातं सत्त्वं शुल्वनिभं मृदु ॥१०॥
देवदालीरसं क्षिप्त्वा पादांशटङ्कणैर्युतम् ।
प्रकटां मूषिकां कृत्वा धमेत्सत्त्वं अपेक्षितम् ॥११॥
किमत्र चित्रं कदलीरसेन सुपाचितं सूरणकन्दसम्पुटे ।
वातारितैलेन पुटेन ताप्यं पुटेन दग्धं वरशुद्धिं एति ॥१२॥
गोमूत्रैश्च स्नुहिक्षीरैः भाव्यमेरण्डतैलकैः ।
माक्षिकं दिनं एकं तु मर्दितं वटकीकृतम् ।
अभ्रवद्धमयेत्सत्त्वं सस्यकस्याप्ययं विधिः ॥१३॥
ताप्यं आवर्तकं धातु माक्षिकं मधुधातुकम् ।
माक्षिकं तिक्तमधुरं मेहार्शःक्षयकुष्ठनुत् ।
कफपित्तहरं बल्यं योगवाहि रसायनम् ॥१४॥
ज्वरसंनिपातदारिद्र्याण्यपि यन्नामकथनमात्रेण ।
नश्यन्ति योजनशते कस्तस्माल्लोहवेधकरः ॥१५॥
विमलं शिग्रुतोयेन काङ्क्षीकासीसटङ्कणैः ।
वज्रकन्दसमायुक्तं भावितं कदलीरसैः ॥१६॥
मोक्षकक्षारसंयुक्तं धामितं मूकमूषया ।
सत्त्वं चन्द्रार्कसंकाशं प्रयच्छति न संशयः ॥१७॥
पतितोऽपतितश्चेति द्विविधः शैला ईश्वरि ।
ग्रन्थान्तरेऽपि कीर्त्योऽसौ कीर्तितो बहुभिः सुरैः ॥१८॥
निदाघे घर्मसंतप्ता धातुसारं धराधराः ।
निर्यासं च विमुञ्चन्ति तच्छिलाजतु कीर्तितम् ॥१९॥
शिलावद्धातुकं ध्मातं शैलजं गिरिसानुजम् ।
जत्वद्रिजं गिरिः शैलः प्रोक्तस्त्वयानुकीर्तितः ॥२०॥
क्षाराम्लगोजलैर्ध्मातं शुध्यते च शिलाजतु ।
अथवा गोघृतेनापि त्रिफलद्व्यार्द्रकद्रवैः ।
लोहपात्रे विनिक्षिप्य शोधयेत्तत्तु यत्नतः ॥२१॥
शैलं विचूर्णयित्वा तु धान्याम्लोपविषैर्विषैः ।
पिण्डं बद्ध्वा तु विधिवत्पातयेच्चपलं यथा ॥२२॥
गौरः श्वेतोऽरुणः कृष्णश्चपलस्तु प्रशस्यते ।
हैमाभश्चैव ताराभो विशेषाद्रसबन्धकः ॥२३॥
शेषौ मध्यौ च लाक्षावत्शीघ्रद्रावौ तु निष्फलौ ।
वङ्गवद्द्रवते वह्नौ चपलस्तेन कीर्तितः ॥२४॥
वस्त्रेण बद्ध्वा चपलं लङ्घयेद्यदि सागरम् ।
वस्त्रं च वेष्टयेत्सद्यः तेनासौ चपलः स्मृतः ॥२५॥
सारयेत्पुटपाकेन चपलं गिरिमस्तके ।
देहबन्धं करोत्येव विशेषाद्रसबन्धनम् ॥२६॥
चपलश्चपलावेधं करोति घनवच्चलः ।
चपलो लेखनः स्निग्धो देहलोहकरो मतः ॥२७॥
मृत्तिकागुडपाषाण भेदतो रसकस्त्रिधा ॥२८॥
पीतस्तु मृत्तिकाकारो मृत्तिकारसको वरः ।
गुडाभो मध्यमो ज्ञेयः पाषाणाभः कनिष्ठकः ॥२९॥
कटुकालाबुनिर्यासे नालोड्य रसकं पचेत् ।
शुद्धो दोषविनिर्मुक्तः पीतवर्णस्तु जायते ॥३०॥
किमत्र चित्रं रसकं रसेन रजस्वलायाः कुसुमेन भावितम् ।
क्रमेण कृत्वा उरगेन रञ्जितं करोति शुल्बं त्रिपुटेन काञ्चनम् ॥३१॥
क्षीयते नापि वह्निस्थः सत्त्वरूपो महाबलः ॥३२॥
रसकं चूर्णयित्वा तु बद्ध्वा वस्त्रे विचक्षणः ।
मूत्रे निधापयेत्स्त्रीणां सप्तरात्रं सुरेश्वरि ॥३३॥
पुष्पाणां रक्तपीतानां रसैः पत्त्रैश्च भावयेत् ॥३४॥
क्षारैः स्नेहैस्तथा चाम्लैः भावितं रसकं मुहुः ।
ऊर्णालाक्षानिशापथ्या भूलताधूमसंयुतम् ॥३५॥
मूकमूषागतं ध्मातं टङ्कणेन समन्वितम् ।
सत्त्वं कुटिलसंकाशं मुञ्चत्येव न संशयः ॥३६॥
गोभद्दो रसकस्तुत्थं क्षितिकिट्टो रसोद्भवः ।
खर्परो नेत्ररोगारिः रीतिकृत्ताम्ररञ्जकः ॥३७॥
रसको रञ्जको रूक्षो वातकृत्श्लेष्मनाशनः ।
त्रिदोषघ्नं तु तत्सत्त्वं नेत्रदोषविनाशनम् ॥३८॥
कालकूटविषं पीत्वा गरुडः सोढुमक्षमः ।
सुधामपि तथावामत्भुक्त आशीविषामृते ।
स्वयं विनिर्गते चञ्च्वोः सस्यकोऽभूत्स कालिकः ॥३९॥
एकधा सस्यकस्तस्य स्त्रीमूत्रे भावयेद्रजः ।
शशशोणितमध्ये वा दिनमेकं निधापयेत् ॥४०॥
तस्य चूर्णं महेशानि पादसौभाग्यसंयुतम् ।
करञ्जतैलमध्यस्थं दिनमेकं निधापयेत् ॥४१॥
मध्यस्थमन्धमूषायाः धमयेत्कोकिलात्रयम् ।
इन्द्रगोपकसंकाशं सत्त्वं पतति शोभनम् ॥४२॥
एकधा सस्यकस्तस्मात्ध्मातो निपतितो भवेत् ।
कालिकारहितो रक्तः शिखिकण्ठसमाकृतिः ॥४३॥
सस्यो मयूरतुत्थं स्यात्वह्निकृत्कालनाशनः ।
रसायने तु योग्यः स्याद्वयःस्तम्भकरो भवेत् ॥४४॥
सस्यकः शुद्धिमाप्नोति रक्तवर्गेण भावितः ॥४५॥
दरदस्त्रिविधः प्रोक्तश्चर्मारः शुकतुण्डकः ।
हंसपादस्तृतीयः स्याद्गुणवानुत्तरोत्तरः ॥४६॥
चूर्णपारदभेदेन द्विविधो दरदः पुनः ॥४७॥
गोमांसे माहिषे मूत्रे दध्यम्लतिलतैलयोः ।
एकैकं त्रिदिनं पक्त्वा शिखिपित्तेन भावयेत् ॥४८॥
दरदं पातनायन्त्रे पातयेत्सलिलाशये ।
सत्त्वं तु सूतसंकाशं जायते नात्र संशयः ॥४९॥
लघुकन्दरसो म्लेच्छो हिङ्गुलं चूर्णपारदम् ।
मणिरागजमस्यैव नाम चर्मारगन्धिकम् ॥५०॥
तिक्तोष्णं हिङ्गुलं दिव्यं रसगन्धकसम्भवम् ।
लोहकुष्ठहरं दिव्य बलमेधाग्निदीपनम् ॥५१॥
किमत्र चित्रं दरदः सुभावितः क्षीरेण मेष्या बहुशोऽम्लवर्गैः ।
सितं सुवर्णं बहुघर्मतापितं करोति साक्षाद्वरकुङ्कुमप्रभम् ॥५२॥
वल्मीकशिखराकारं भङ्गे नीलोत्पलद्युति ।
घृष्टं तु गैरिकच्छायं स्रोतोजं सुरवन्दिते ॥५३॥
गोशकृद्रसमूत्रेषु घृतक्षौद्रवसासु च ।
भावितं बहुशस्तच्च क्षिप्रं बध्नाति सूतकम् ॥५४॥
एवं महारसाः प्रोक्ताः शृणुष्वोपरसान्प्रिये ॥५५॥
गन्धकस्तालकः शिला सौराष्ट्री खगगैरिकम् ।
राजावर्तश्च कङ्कुष्ठं अष्टा उपरसाः स्मृताः ॥५६॥
श्वेतद्वीपे पुरा देवि सर्वरत्नविभूषिते ।
सर्वकाममये रम्ये तीरे क्षीरपयोनिधेः ॥५७॥
विद्याधरीभिर्मुख्याभिरङ्गनाभिश्च योषिते ।
सिद्धाङ्गनाभिस्त्विष्टाभिस्तथैवाप्सरसां गणैः ॥५८॥
देवाङ्गनाभिरन्याभिः क्रीडिताभिः पुरा प्रिये ।
गीतनृत्यैर्विचित्रैश्च वाद्यैर्नानाविधैस्तथा ॥५९॥
एवं संक्रीडमानायास्तवाभूत्प्रसृतं रजः ।
तद्रजोऽतीव सुश्रोणि सुगन्धि सुमनोहरम् ॥६०॥
रजसश्चातिबाहुल्यात्वासस्ते रक्ततां ययौ ।
तत्र त्यक्त्वा तु तद्वासः सुस्नाता क्षीरसागरे ॥६१॥
वृता देवाङ्गनाभिस्त्वं सुरैश्चापि पुरं गता ।
ऊर्मिभिस्ते रजोवस्त्रं नीतं मध्ये पयोनिधेः ॥६२॥
एवं ते शोणितं भद्रे प्रविष्टं क्षीरसागरे ।
क्षीराब्धिमथने चैतदमृतेन सहोत्थितम् ।
निजगन्धेन तान्सर्वान्हर्षयद्देवदानवान् ॥६३॥
ततो देवगणैरुक्तं गन्धकाख्यो भवत्वयम् ॥६४॥
रसस्य बन्धनार्थाय जारणाय भवत्वयम् ।
ये गुणाः पारदे प्रोक्तास्ते चैवात्र भवन्त्विति ॥६५॥
इति देवगणैः प्रीतैः पुरा प्रोक्तं सुरेश्वरि ।
तेनायं गन्धको नाम विख्यातः क्षितिमण्डले ॥६६॥
स चापि त्रिविधो देवि शुकचञ्चुनिभो वरः ।
मध्यमः पीतवर्णः स्याच्छुक्लवर्णोऽधमः प्रिये ॥६७॥
करञ्जैरण्डतैलेन द्रावयित्वाजदुग्धके ।
सिञ्चेदुन्मत्तनिर्यासे त्रीन्वारांस्तं पृथक्पृथक् ॥६८॥
ज्वालिनीबीजचूर्णेन मत्स्यपित्तैश्च भावयेत् ।
भृङ्गाम्भसा वा सप्ताहं भावितः क्षालितोऽम्भसा ॥६९॥
तापितो बदराङ्गारैः घृताक्ते लोहभाजने ।
आवर्तितश्च मृद्वग्नौ घृताक्तकर्पटोपरि ॥७०॥
क्षिप्रं भृङ्गस्य निर्यासे क्षालितो गन्धको हितः ॥७१॥
गन्धको हि स्वभावेन रसरूपः स्वरूपतः ।
गन्धकं शोधयेत्क्षीरे शृङ्गवेररसे तथा ॥७२॥
रसे च भृङ्गराजस्य निम्बुकस्य रसे तथा ।
शोधितः सप्तवाराणि गन्धको जायतेऽमलः ॥७३॥
तालकः पटलः पिण्डो द्विधा तत्राद्य उत्तमः ।
कुष्माण्डे तु शतं वारान्तालकं स्वेदयेद्बुधः ॥७४॥
स्नुक्क्षीरकटुकालाबु रसयोः सप्तधा पृथक् ।
तिलसर्षपशिग्रूणि लाक्षा च लवणं गुडः ।
टङ्कणं च युतैर्ह्येतैः तालकं भूधरे द्रवेत् ॥७५॥
व्याधिघातफलक्षारं मधुकुष्माण्डकं तथा ।
द्रवैः पुनर्नवोद्भूतैः सप्ताहं मर्दयेद्बुधः ॥७६॥
दत्त्वा पादांशकं सर्वं ततः पातनयन्त्रके ।
दद्यात्पुटं गजाकारं पतेत्सत्त्वं सुतालकात् ॥७७॥
रक्ता शिला तु गोमांसे लुङ्गाम्लेन विपाचिता ।
तां रक्तपीतपुष्पाणां रसैः पित्तैश्च भावयेत् ॥७८॥
सिता कृष्णा च सौराष्ट्री चूर्णखण्डात्मिका च सा ॥७९॥
गोपित्तेन शतं वारान्सौराष्ट्रीं भावयेत्ततः ।
धमित्वा पातयेत्सत्त्वं क्रामणं चातिगुह्यकम् ॥८०॥
कासीसं त्रिविधं शुक्लं कृष्णं पीतमिति प्रिये ॥८१॥
कासीसं चूर्णयित्वा तु कासमर्दरसेन च ।
राजकोशातकीतोयैः पित्तैश्च परिभावयेत् ॥८२॥
गैरिकं त्रिविधं रक्त हेमकेवलभेदतः ।
रक्तवर्गरसक्वाथ पित्तैस्तद्भावयेत्पृथक् ॥८३॥
अनेन क्रमयोगेन गैरिकं विमलं धमेत् ।
क्रमात्सितं च रक्तं च सत्त्वं पतति शोभनम् ॥८४॥
राजावर्तो द्विधा देवि गुलिकाचूर्णभेदतः ॥८५॥
तच्चूर्णं देवदेवेशि महिषीक्षीरसंयुतम् ।
विपचेदायसे पात्रे गोघृतेन विमिश्रितम् ॥८६॥
तच्चूर्णितं सुरेशानि कुनटीघृतमिश्रितम् ।
सौभाग्यपञ्चगव्येन पिण्डीबद्धं तु कारयेत् ।
धमितं खादिराङ्गारैः सत्त्वं मुञ्चति शोभनम् ॥८७॥
कङ्कुष्ठं विद्रुमच्छायं तच्च सत्त्वमयं प्रिये ॥८८॥
सूर्यावर्तोदककणा वह्निशिग्रुशिफारसैः ।
कदलीकन्दसारेण वन्ध्याकोशातकीरसैः ॥८९॥
काकमाचीदेवदाली वज्रकन्दरसैस्तथा ।
एभिर्व्यस्तैः समस्तैर्वा क्षाराम्लस्नेहसैन्धवैः ।
महारसाश्चोपरसाः शुद्धिमायान्ति भाविताः ॥९०॥
लाक्षालवणसौभाग्य धूमसारकटुत्रयम् ।
शिग्रुमूलमधूच्छिष्टं पथ्यागुग्गुलुधातवः ॥९१॥
सर्जिकासर्जनिर्यास पिण्याकोर्णासमन्वितम् ।
पारावतमलक्षुद्र मत्स्यद्रावकपञ्चकम् ॥९२॥
तिलसर्षपगोधूम माषनिष्पावचिक्कसम् ।
छागक्षीरेण संयुक्तं वज्रपिण्डी तु कीर्तिता ॥९३॥
अनया वज्रपिण्ड्या तु पञ्चमाहिषयुक्तया ।
महारसा मोदितास्तु पञ्चगव्येन भाविताः ॥९४॥
कोष्ठे खराग्निना ध्माताः सत्त्वं मुञ्चन्ति सुव्रते ।
एवं शिलाभ्यो जीवेभ्यो मृद्भ्यः सत्त्वं प्रजायते ॥९५॥
एवं चोपरसाः प्रोक्ताः शृणु लोहान्यतः परम् ॥९६॥
सुवर्णं रजतं ताम्रं तीक्ष्णं वङ्गं भुजंगमम् ।
लोहं तु षड्विधं तच्च यथा पूर्वं तदक्षयम् ॥९७॥
तत्रादितः सुरेशानि सारं लोहद्वयं स्मृतम् ।
साधारणे तीक्ष्णशुल्वे वङ्गनागौ तु पूतिकौ ॥९८॥
रसजं क्षेत्रजं चैव लोहसंकरजं तथा ।
त्रिविधं जायते हेम चतुर्थं नोपलभ्यते ॥९९॥
रक्ताभं पीतवर्णं च द्विविधं देवि काञ्चनम् ।
दाहे रक्तं सितं छेदे निकषे कुङ्कुमप्रभम् ॥१००॥
सगौरवं मृदु स्निग्धं तारशुल्वविवर्जितम् ।
हेम षोडशवर्णाढ्यं शस्यते देहलोहयोः ॥१०१॥
मृत्तिका मातुलुङ्गाम्लैः पञ्चवासरभाविता ।
सभस्मलवणा हेम शोधयेत्पुटपाकतः ॥१०२॥
शुक्लं च तारकृष्णं च द्विविधं रजतं प्रिये ।
गुरु स्निग्धं मृदु श्वेतं तारमुत्तममिष्यते ॥१०३॥
नागेन क्षारराजेन द्रावितं शुद्धिमिच्छति ।
तारं त्रिवारं निक्षिप्तं पिशाचीतैलमध्यतः ॥१०४॥
ताम्रं च द्विविधं प्रोक्तं रक्तं कृष्णं सुरेश्वरि ।
घनघातसहं स्निग्धं रक्तपत्त्रं मृदूत्तमम् ॥१०५॥
स्नुह्यर्कक्षीरलवण क्षाराम्लपरिलेपितम् ।
ताम्रपत्त्रं च निर्गुण्डी रसमध्ये तु ढालयेत् ॥१०६॥
रोहणं वाजरं चैव तृतीयं च पडालकम् ।
इति तीक्ष्णं त्रिधा तच्च कान्तलोहमिति स्मृतम् ॥१०७॥
नीलं कृष्णमिति स्निग्धं सूक्ष्मधारमयः शुभम् ।
गुडूची हंसपादी च नक्तमालः फलत्रयम् ॥१०८॥
गोपालकी गोरसानां तुम्बुरुर्लोहनिघ्नकः ।
एषां रसे ढालयेत्तत्गिरिदोषनिवृत्तये ॥१०९॥
त्रपु च द्विविधं ज्ञेयं श्वेतकृष्णविभेदतः ।
श्वेतं लघु मृदु स्निग्धं उत्तमं वङ्गमुच्यते ॥११०॥
नागस्त्वेकविधो देवि शीघ्रद्रावी मृदुर्गुरुः ॥१११॥
महिषस्यास्थिचूर्णेन वापात्तन्मूत्रसेचनात् ।
वङ्गं शुद्धं भवेत्तद्वत्नागो नागास्थिमूत्रतः ॥११२॥
गौरीफलानि क्षुरको रजनीतुम्बुरूणि च ।
कुबेराक्षस्य बीजानि मल्लिकायाश्च सुन्दरि ॥११३॥
पलाशशुष्कापामार्ग क्षारस्नुक्क्षीरयोगतः ।
सप्तधा परिवापेन शोधयन्ति भुजंगमम् ॥११४॥
स्नुहीक्षीरसमायोगात्वङ्गं चावापयेत्ततः ॥११५॥
स्नुह्यर्कक्षीरहलिनी कञ्चुकीकन्दचित्रकैः ।
गुञ्जाकरञ्जधुत्तूर हयगन्धाङ्घ्रितालकैः ॥११६॥
नक्तमालेङ्गुदीशक्र वारुणीमूलसंयुतैः ।
पिष्टैर्माहिषतक्रे तु सप्तरात्रोषितैस्ततः ।
निषेकः सर्वलोहानां मलं हन्ति न संशयः ॥११७॥
देवदालीफलरजः स्वरसैर्भावितं मुहुः ।
द्रावयेत्कनकं वापात्भूयो न कठिनं भवेत् ॥११८॥
अखिलानि च सत्त्वानि द्रावयेत्तत्प्रभावतः ॥११९॥
समांशं सुरगोपस्य सुरदाल्याश्च यद्रजः ।
आवापात्कुरुते देवि कनकं जलसंनिभम् ॥१२०॥
मण्डूकास्थिवसाटङ्क हयलालेन्द्रगोपकैः ।
प्रतिवापेन कनकं सुचिरं तिष्ठति द्रुतम् ॥१२१॥
त्रिःसप्तकृत्वो गोमूत्रे ज्वालिनीभस्म गालितम् ।
शोषयेत्तस्य वापेन तीक्ष्णं मूषागतं द्रवेत् ॥१२२॥
त्रिःसप्तकृत्वो निचुल भस्मना भावितेन तु ।
केतक्यास्तु रसैस्तीक्ष्णं आवापाद्द्रवतां व्रजेत् ॥१२३॥
पक्वधात्रीफलरसैः शङ्खे सप्ताहभावितम् ।
पुनः कञ्चुकितोयेन भावितं सप्तवासरम् ॥१२४॥
शरावयुगलान्तःस्थं सुदृढं परिधामितम् ।
तत्तीक्ष्णचूर्णं देवेशि रसरूपं प्रजायते ॥१२५॥
तालकं गन्धपाषाण शिलामाक्षिकगैरिकम् ।
कासीसं खण्डसौराष्ट्री तुत्थमभ्रकमेव च ॥१२६॥
श्वशृगालतरक्षूणां कुक्कुटस्य मलं तथा ।
मयूरगृध्रमार्जार विष्ठा च समभागकम् ॥१२७॥
भावयेत्त्रिः स्नुहीक्षीरैर्देवदालीरसेन च ।
तत्कल्कं अष्टमांशेन लोहपत्त्राणि लेपयेत् ॥१२८॥
धमेद्द्रुतं भवेल्लोहं एतैरेव निषेचयेत् ।
अङ्कोलस्य तु मूलानि काञ्जिकेन प्रपेषयेत् ।
लोहलेपं ततो दद्यातग्निस्थं धारयेत्प्रिये ॥१२९॥
पुनर्लेपं ततो दद्यात्परिच्छिन्नारसेन तु ।
मत्स्यपित्तेन देवेशि वह्निस्थं धारयेत्प्रिये ॥१३०॥
पुनर्लेपं प्रकुर्वीत लाङ्गलीकन्दसम्भवम् ।
त्रिभिर्लेपैर्द्रुतं लोहं निर्मलं स्वच्छवारिवत् ॥१३१॥
चूर्णितं देवि कूर्मास्थि मेषशृङ्गं शिलाजतु ।
कुरुते प्रतिवापेन बलवज्जलवत्स्थिरम् ॥१३२॥
अर्कापामार्गमुसली निचुलं चित्रकं तथा ।
कदली पोतकी दाली क्षारमेषां तु साधयेत् ॥१३३॥
गालयेन्माहिषे मूत्रे षड्वारान्सुरवन्दिते ।
आवापाद्द्रावयेदेत दभ्रसत्त्वादिजं रजः ॥१३४॥
दन्तीदन्तो विशेषेण द्रावयेत्सलिलं यथा ॥१३५॥
रसेनोत्तरवारुण्याः प्लुतं वैक्रान्तजं रजः ।
प्रतिवापेन लोहानि द्रावयेत्सलिलोपमम् ॥१३६॥
रत्नानां द्रावणं वक्ष्ये गगनस्य द्रुतिं तथा ॥१३७॥
त्रिफला च त्रिकटुकं त्रिक्षारं पटुपञ्चकम् ।
बला चातिबला चैव तृतीया च महाबला ॥१३८॥
अश्वगन्धा चवी नारी भूलता मातृवाहकः ।
गोपेन्द्रमण्डली चैव षड्बिन्दुर्द्विमुखी तथा ॥१३९॥
धीरा सूरणकन्दश्च कञ्चुकी च पुनर्नवा ।
स्नुह्यर्कोन्मत्तहलिनी पाठा चोत्तरवारुणी ॥१४०॥
अयस्कान्तो गोक्षुरश्च मृदुदूर्वाम्लवेतसम् ।
शिलाजतु च सौवीरं विषगन्धकटङ्कणम् ॥१४१॥
पृथग्दशपलं सर्वं सूक्ष्मचूर्णं तु कारयेत् ।
कुम्भद्वयं कुलत्थानां काष्ठेन तिनिशस्य च ॥१४२॥
क्वाथयेन्मृदुतापेन यावत्कुम्भावशेषितम् ।
तेन क्वाथेन तच्चूर्णं भावयेदेकविंशतिम् ॥१४३॥
रत्नानि तेन लिप्तानि तत्क्वाथस्थं धमेत्पुनः ।
अहोरात्रेण तान्याशु द्रवन्ति सलिलं यथा ॥१४४॥
अभ्रकादीनि लोहानि द्रवन्ति ह्यविचारतः ।
निर्मलानि च जायन्ते हरबीजोपमानि च ॥१४५॥
मिलन्ति च रसेनाशु वह्निस्थान्यक्षयाणि च ।
तैर्द्रुतैः स्पर्शमात्रेण क्षणाद्बध्येत सूतकः ॥१४६॥
लोहानां मारणं वक्ष्ये समाहितमनाः शृणु ।
स्नुहीक्षीरेण सिन्दूरं कनकं रजतं पुनः ॥१४७॥
तेनैव माक्षिकं ताम्रं अजाक्षीरेण गन्धकम् ।
स्तन्येन हिङ्गुलं तीक्ष्णं वङ्गतालपलाशकम् ॥१४८॥
नागं शिलार्कक्षीरेण स्वच्छपत्त्रीकृतं प्रिये ।
मारयेत्पुटपाकेन निरुत्थं भस्म जायते ॥१४९॥
न सोऽस्ति लोहमातंगो यं न गन्धककेसरी ।
निहन्याद्गन्धमात्रेण यद्वा माक्षिककेसरी ॥१५०॥
रसीभवन्ति लोहानि मृतानि सुरवन्दिते ।
हरन्ति रोगान्सकलान्रसयुक्तानि किं पुनः ।
शीलनान्नाशयन्त्येव वलीपलितरुग्जराः ॥१५१॥
वज्रमाक्षिकतीक्ष्णाभ्रं शस्यते देहकर्मणि ।
नागं वङ्गं सुवीरं च द्रव्यकर्मणि योजयेत् ॥१५२॥
परिबालं तु यल्लोहं तथा च मलयोद्भवम् ।
एतल्लोहद्वयं देवि विशेषाद्देहरक्षणम् ॥१५३॥
रागं महारसादीनां ज्ञात्वा बीजानि साधयेत् ।
तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमर्हसि ॥१५४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:21.8870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

monoclonal

  • एक कृत्तक 
RANDOM WORD

Did you know?

केस काढण्यासंबंधी विशेष माहिती द्यावी.
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.