TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसार्णव - षष्ठः पटलः

रसार्णव नामक ग्रंथात विभिन्न रासायनिक प्रक्रियांद्वारे उत्पन्न होणारे तत्कालीन उत्प्रेरक शिवाय रासायनिक अभिक्रियांमध्ये तीव्रता प्रदान करणार्‍या पदार्थांमध्ये ज्यात अधिकांश वानस्पतिक श्रोत वापरले जातात त्यांचा खास उल्लेख आहे.


आभ्रकादिलक्षणसंस्कारनिर्णय
श्रीदेव्युवाच
देवदेव महादेव शक्तीनां लक्षणं कथम् ।
रसकर्मणि योग्यत्वे संस्कारस्तस्य कथ्यताम् ॥१॥
श्रीभैरव उवाच
कदाचिद्गिरिजा देवी हरं दृष्ट्वा मनोहरम् ।
मुमोच यत्तदा वीर्यं तज्जातं शुभमभ्रकम् ।
पीतं कृष्णं तथा शुक्लं रक्तं भूमेश्च संगमात् ॥२॥
अभ्रकं कान्तपाषाणं वज्रं वैक्रान्तकं शृणु ॥३॥
पिनाकं दर्दुरं नागं वज्रं चाभ्रं चतुर्विधम् ।
पिनाकेऽग्निं प्रविष्टे तु शब्दश्चिटिचिटिर्भवेत् ॥४॥
दर्दुरेऽग्निं प्रविष्टे तु शब्दः कुक्कुटवद्भवेत् ।
अग्निं प्रविष्टं नागं तु फूत्कारं देवि मुञ्चति ॥५॥
अग्निं प्रविष्टं वज्रं तु वज्रवत्तिष्ठति प्रिये ॥६॥
कुष्ठप्रदं पिनाकाभ्रं दर्दुरं मरणप्रदम् ।
नागं देहगतं नित्यं व्याधिं कुर्याद्भगंदरम् ॥७॥
रसे रसायने चैव योज्यं वज्राभ्रकं प्रिये ।
अनेकवर्णभेदेन तच्चतुर्विधमभ्रकम् ॥८॥
रक्तं पीतं च हेमार्थे कृष्णं हेमशरीरयोः ।
तारकर्मणि शुक्लं च काचकिट्टं सदा त्यजेत् ॥९॥
एकपत्त्रं कृतं पूर्वं अभ्रकं सुरनायिके ।
अगस्त्यपुष्पतोयेन कुमुदानां रसेन च ॥१०॥
कपितिन्दुकजम्बीर मेघनादपुनर्नवैः ।
यवचिञ्चारनालाम्ल करवीरारुणोत्पलैः ॥११॥
वनसूरणभूधात्री भिण्डीमूलाम्लवेतसैः ।
मेषशृङ्गीशशवसा शृङ्गतैलशमीरसैः ॥१२॥
वज्रवल्लीक्षीरकन्द मरिचैः सुमुखेन च ।
त्रिदिनं स्वेदयेद्देवि जायते दोषवर्जितम् ॥१३॥
धान्याभ्रकं पुरा कृत्वा सुश्लक्ष्णं नवनीतवत् ।
त्रिंशत्पलं व्योमरजः क्षुद्रमत्स्यपलद्वयम् ॥१४॥
तिलचूर्णपलं गुञ्जा त्रिपलं पादटङ्कणम् ।
गोधूमबद्धा तत्पिण्डी पञ्चगव्येन भाविता ॥१५॥
धमनात्कोष्ठिकायन्त्रे भस्त्राभ्यां तीव्रवह्निना ।
पतत्यभ्रकसत्त्वं तु सत्त्वानि निखिलानि च ॥१६॥
स्वेदनौषधिनिर्यास लोलितं पुटितं मुहुः ।
मृतं तु पञ्चनिचुल पुटैर्बहुलपोतकम् ॥१७॥
पिण्डितं व्योम निष्क्लेदं दत्त्वा सत्त्वं निरञ्जनम् ।
उमाफलैश्च पुष्पैश्च षष्टिकाम्लपरिप्लुतैः ।
औमदण्डविमर्देन गमनं द्रवति स्फुटम् ॥१८॥
अग्निजारं नवे कुम्भे स्थापयित्वा धरोत्तरम् ।
गगनं द्रवति क्षिप्रं मुक्ताफलसमप्रभम् ॥१९॥
शतधा कञ्चुकीचूर्णं कञ्चुकीरसभावितम् ।
द्रावयेद्गगनं देवि लोहानि सकलानि च ॥२०॥
धान्याम्लके पर्य्युषितं निचुलक्षारवारिणि ।
स्थितं तद्द्रवतां वाति निर्लेपरससन्निभम् ॥२१॥
अगस्त्यपुष्पतोयेन पिष्ट्वा सूरणकन्दके ।
कोष्ठभूमिगतं मासं जायते रससन्निभम् ॥२२॥
छागमूत्रेण संसिक्तं कपितिन्दुकरेणुना ।
अभ्रकं वापितं देवि जायते जलसन्निभम् ॥२३॥
काकिनीवीजचूर्णेन घृष्टमभ्रकजं रजः ।
स्नुहिक्षीरेण सप्ताहं सिक्तं ध्मातं द्रुतं भवेत् ॥२४॥
अपामार्गस्य पञ्चाङ्गं अभ्रकं च सुपेषितम् ।
स्थापयेन्मृन्मये पात्रे तद्भवेत्सलिलं यथा ॥२५॥
घृष्टमभ्रकचूर्णं तु कपालीमरिचैः सह ।
शिलया वापितं भूयोऽप्यगस्त्यरससंयुतम् ॥२६॥
मार्जारपादीस्वरस फलमूलाम्लमर्दितम् ।
मातुलुङ्गफले न्यस्तं व्रीहिमध्ये निधापयेत् ।
तद्द्रवेत्पक्षमात्रेण शिलासैन्धवयोजितम् ॥२७॥
एकपत्रीकृतं सप्त दिनं मुनिरसे क्षिपेत् ।
दार्वीमरिचसंमिश्रं मौर्वीरसपरिप्लुतम् ॥२८॥
सौवर्च्चलयुतो मेघा वज्रवल्लीरसप्लुतः ।
शरावसंपुटे ध्मातो जायते जलसन्निभः ॥२९॥
वेगाफलस्य चूर्णेन सममभ्रकजं रजः ।
भावितां कुलिशक्षीरे ध्मातं द्रवति तत्क्षणात् ॥३०॥
वज्रवल्लीरसैः पिष्ट्वा व्योम सौवर्चलान्वितम् ।
शरावसंषुटे पक्त्वा द्रवेत्सलिलसन्निभम् ॥३१॥
गोमांससैन्धवार्कैस्तु मुनितोययुतं पुनः ।
कदलीकन्दकान्तःस्थं गोमयाग्नौ त्र्यहं द्रवेत् ॥३२॥
कृष्णाभ्रपत्रं संगृह्य पीलुतैलेन लेपयेत् ।
सप्ताहमातपे तप्तं आम्ले क्षिप्त्वा दिनत्रयम् ॥३३॥
वज्रार्कचित्रकक्षारं तुम्बीक्षारस्तथार्जुनः ।
सर्जक्षारो यवक्षार ष्टङ्कणश्चाष्टमो भवेत् ॥३४॥
क्षीरकन्दरसं चैव वज्रकन्दरसं तथा ।
वृहतीत्रयसंयुक्तं क्षारवर्गञ्च लेपयेत् ॥३५॥
कल्केनानेन लिप्तं तत्पत्राभ्रं कांस्यभाजने ।
धमनात्सूर्य्यतापोत्थात्त्रिदिनेन द्रुतं भवेत् ॥३६॥
अथवाभ्रकपत्रं तु कञ्चुकोक्षीरमध्यगम् ।
भावयेच्च तथा तेन यावच्चूर्णं ततो भवेत् ॥३७॥
ग्राहयेदभ्रपत्राणि निक्षिप्याम्ले दिनत्रयम् ।
लेपयेत्तेन कल्केन कांस्यपात्रे निधापयेत् ।
सूर्य्यतापेन सप्ताहं द्रुतिः सञ्जायते क्षणात् ॥३८॥
काकाण्डीफलचूर्णेन द्रावकैः पञ्चभिस्तथा ।
अभ्रकस्य युतं चूर्णं ध्मातं मूषागतं द्रवत् ॥३९॥
भ्रामकं चुम्बकं चैव कर्षकं द्रावकं तथा ।
एवं चतुर्विधं कान्तं रोमकान्तञ्च पञ्चमम् ॥४०॥
एकद्वित्रिचतुःपञ्च सर्ब्बतोमुखमेव तत् ।
पीतं कृष्णं तथा रक्तं त्रिवर्णं स्यात्पृथक्पृथक् ॥४१॥
क्रमेण देवतास्तत्र ब्रह्मविष्णुमहेश्वराः ॥४२॥
स्पर्शवेधि भवेत्पीतं कृष्णं श्रेष्ठं रसायने ।
रक्तवर्णं महाभागे रसबन्धे प्रशस्यते ॥४३॥
भ्रामकं तु कनिष्ठं स्यात्चुम्बकं मध्यमं प्रिये ।
उत्तमं कर्षकं देवि द्रावकं चोत्तमोत्तमम् ॥४४॥
भ्रामयेल्लोहजातं तु तत्कान्तं भ्रामकं प्रिये ।
चुम्बयेच्चुम्बकं कान्तं कर्षयेत्कर्षकं प्रिये ॥४५॥
यत्साक्षाद्द्रावयेल्लोहं तक्रान्तं द्रावकं भवेत् ।
तद्रोमकान्तं स्फुटितात्यथा रोमोद्गमो भवेत् ॥४६॥
कनिष्ठं स्यादेकमुखं मध्यं द्वित्रिमुखं भवेत् ।
चतुःपञ्चमुखं श्रेष्ठं उत्तमं सर्वतोमुखम् ॥४७॥
भ्रामकं चुम्बकञ्चैव व्याधिनाशे प्रशस्यते ।
रसे रसायने चैव कर्षकं द्रावकं हितम् ॥४८॥
मदोन्मत्तगजः सूतः कान्तमङ्कुशमुच्यते ।
क्षेत्रं खात्वा ग्रहीतव्यं तत्प्रयत्नेन भूयसा ॥४९॥
मारुतातपविक्षिप्तं वर्जयेत्सुरसुन्दरि ।
बहिःस्थितं त्वयस्कान्तं छागरक्तेन भावयेत् ॥५०॥
छागरक्तप्रलिप्तेन वाससा परिवेष्टयेत् ।
छागचर्मपरीवेष्ट्य विन्यसेत्पूर्व्ववत्क्षितौ ॥५१॥
उद्धृतं सप्तभिर्मासैः तोयकुम्भे विनिक्षिपेत् ॥५२॥
रक्तपुष्पैः सदा पूज्यं रक्तमाल्यानुलेपनैः ।
पूजितं मद्यमांसैश्च योज्यं रसरसायने ॥५३॥
संस्कृतं छागरक्तेन भ्रामकं चुम्बकं भवेत् ।
अनेन क्रमयोगेन द्रावकं भवति प्रिये ॥५४॥
सूतलोहस्य वक्ष्यामि संस्कारमतिसौख्यदम् ।
जीवदेहे प्रवेशे च देहसौख्यबलप्रदम् ॥५५॥
कान्तलोहं विना सूतो देहे न क्रामति क्वचित् ।
वेधयेद्व्यापयेच्छीघ्रं तैलबिन्दुरिवाम्भसि ॥५६॥
न सूतेन विना कान्तो न कान्तः सूतवर्जितः ।
कान्तसूतसमायुक्तः प्रयोगो देहधारकः ॥५७॥
यवक्षारन्तु संगृह्य स्निग्धभाण्डे निधापयेत् ।
मरिचाभ्रकचूर्णेन पिण्डीबन्धन्तु कारयेत् ।
कान्तलोहं द्रवेद्ध्मातं नात्र कार्या विचारणा ॥५८॥
त्रिंशच्चुम्बककान्तं च पिष्ट्वा तु त्रिफलाम्भसा ।
तेनैव क्षालनं कार्य्यं पञ्चनिष्कं तु टङ्कणम् ॥५९॥
जीर्णवस्त्रे विनिक्षिप्य मधुसर्पिर्युतं पुटेत् ।
संस्थाप्य मासपर्य्यन्तं तत्र शुद्धिर्भवेत्प्रिये ॥६०॥
सिनाडिकाया मूलं तु दशनिष्कमितं युतम् ।
फलत्रयकषायन खल्ले तु परिमर्दयेत् ॥६१॥
त्रिमूषासु समं स्थाप्यं अष्टाङ्गुलमितासु च ।
मूषकालेपनं कार्य्यं तन्मूलं निष्कमात्रकम् ॥६२॥
शिवपञ्चमुखीकार्य्या मूषां प्रति समं ततः ।
यन्त्रहस्ते सुसंबध्य खोटकं च शिलातले ॥६३॥
तैलेन मिश्रितं कृत्वा कान्तनागं लभेत्ततः ।
अभ्रकक्रमयोगेन द्रुतिपातञ्च साधयेत् ॥६४॥
सुरासुरैर्मथ्यमाने क्षीरोदे मन्दराद्रिणा ।
पीतं तदमृतं देवैरमरत्वं उपागतम् ॥६५॥
पिबतां बिन्दवो देवि पतिता भूमिमण्डले ।
शुष्कास्ते वज्रतां याता नानावर्णा महाबलाः ॥६६॥
बिन्दवः केऽपि सञ्जाताः सस्यका विमलास्तथा ।
ब्राह्मणाः क्षत्त्रिया वैश्वाः शुद्राश्चैवमनेकधा ॥६७॥
श्वेता रक्तास्तथा पीता कृष्णाश्चैव चतुर्विधाः ।
पुरुषाश्च स्त्रियश्चैव नपुंसकं अनुक्रमात् ॥६८॥
वृत्ताः फलकसंपूर्णास्तेजस्वन्तो महत्तराः ।
पुरुषास्ते निबोद्धव्या रेखाबिन्दुविवर्जिताः ॥६९॥
रेखाबिन्दुसमायुक्ताः खण्डाश्चैव तु योषितः ।
त्रिकोणाः पत्तला दीर्घाः विज्ञेयास्ते नपुंसकाः ॥७०॥
सत्त्ववन्तो बलोपेता लोहे क्रामणशीलिनः ।
रसबन्धकराः शीघ्रं पुंवज्राः सुरवन्दिते ॥७१॥
शरीरकान्तिजननाः स्त्रीवज्राः स्वल्पशक्तयः ।
नपुंसकाः सत्त्वहीनाः कष्टं लोहे क्रमन्ति च ॥७२॥
क्षत्रियाः सर्वकार्य्येषु वर्ज्याश्च रसकर्मणि ।
उत्तमा मध्यमाश्चैव कनिष्ठाः परिकीर्तिताः ॥७३॥
स्थूलातिस्थूलमध्याश्च सूक्ष्माः सूक्ष्मतराः प्रिये ।
आस्फोटदाहभेदैश्च निर्व्यङ्गा निरुपद्रवाः ।
वीर्य्यवन्तश्च ते ज्येष्ठा निर्मला बलवत्तराः ॥७४॥
रसायने भवेद्विप्रो ह्यणिमादिगुणप्रदः ।
क्षत्रियो मृत्युनाशार्थो वलीपलितरोगहा ॥७५॥
द्रव्यकारो तथा वैश्यः शरीरं दृढतां नयेत् ।
व्याधिप्रशमनं शूद्रो वयःस्तम्भं करोति च ॥७६॥
क्लीबे क्लीवाः स्त्रियः स्त्रीणां सर्ब्बेषां पुरुषा हिताः ॥७७॥
यथा जातिस्तथोत्साहं यथा सत्त्वं तथा गुणान् ।
यथा रुचिस्तथा शीलं यथा शीलं तथा वरम् ।
यथा वरस्तथा वर्णं कुर्वन्ति कुलिशाः प्रिये ॥७८॥
श्यामा शमी घनरवो वषाभून्मत्तकोद्रवाः ।
आखुकर्णी मुनितरुः कुलत्थं चाम्लवेतसम् ॥७९॥
मेषशृङ्गी रसोऽप्येषां कन्दस्य सूरणस्य तु ।
शोधयेत्त्रिदिनं वज्रं शुद्धिमेति सुरेश्वरि ॥८०॥
मेषशृङ्गं भुजङ्गास्थि कूर्मपृष्ठं शिलाजतु ।
स्नुक्कीलालरसं स्तन्यं कान्तपाषाणमेव च ॥८१॥
वज्रकं चापि वैक्रान्तं तन्मध्ये प्रक्षिपेत्प्रिये ।
तीव्रानले पुटं दत्त्वा पुटान्तं यावदागतम् ॥८२॥
कुलत्थं कोद्रवं चापि हयमूत्रेण पेषयेत् ।
तप्तं निपेचयेत्पीठे यावत्तद्भस्मतां गतम् ॥८३॥
एष कापालिको योगो वज्रमारण उत्तमः ॥८४॥
माक्षिकं मेषशृङ्गं च शिलागन्धकटङ्कणम् ।
वैक्रान्तं तालकं चापि वज्रीक्षीरपरिप्लुतम् ॥८५॥
लेपं मूषोदरे दत्त्वा समावर्त्तं तु कारयेत् ।
म्रियन्ते हीरकास्तत्र द्वन्द्वे सम्यङ्मिलन्ति च ॥८६॥
गन्धकं च शिलाधातुं भ्रामकस्य मुखं तथा ।
शशकस्य च दन्तांश्च वेतसाम्लेन पेषयत् ॥८७॥
अनेन सिद्धकल्केन मूषालेपं तु कारयेत् ।
अन्धमूषागतं ध्मातं वज्रं तु म्रियते क्षणात् ॥८८॥
तेनैव मिलितं वज्रं तारहेम्नि न संशयः ॥८९॥
तालकं गन्धकं कान्तं ताप्यं कर्पूरटङ्कणम् ।
चिञ्चास्थि मेषशृङ्गं च स्त्रीरजःपरिपेषितम् ।
मूषालेपगतं ध्मातं वज्रं तु म्रियते क्षणात् ॥९०॥
शरपुङ्खस्य पञ्चाङ्गं पेष्यं स्त्रीरजसा ततः ।
पेटारीबीजं अथवा संपेष्यं तण्डुलाम्भसा ॥९१॥
पेष्यं त्रिकर्षकार्पास मूलं वा तण्डुलाम्भसा ।
आरक्तराकामूलं वा स्त्रीस्तन्येन तु पेषितम् ॥९२॥
पेषयेद्वज्रकन्दं वा वज्रीक्षीरेण सुव्रते ।
तत्कल्कपुटितं ध्मातं वज्रं चैव मृतं भवेत् ॥९३॥
महानदीश्वेतशुक्त्यां दिनमेकन्तु भावितम् ।
क्षीरेणोत्तरवारुण्याः कल्केनानेन सुव्रते ॥९४॥
तालेन मेषशृङ्ग्या च वज्रवल्ल्या च वेष्टितम् ।
अन्धमूषागतं ध्मातं वज्रं तु म्रियते क्षणात् ॥९५॥
कान्तस्य पिष्टिकामध्ये वज्रं देवि विनिक्षिपेत् ।
पेषयेद्गन्धतैलेन म्रियते वज्रं ईश्वरि ॥९६॥
कुलत्थाम्भसि कासीस सौराष्ट्रीतालकान्विते ।
अपामार्गक्षारयुते वज्रं सिक्तं मृतं भवेत् ॥९७॥
अमृताकन्दतिमिर बीजत्वक्क्षीरवेष्टितम् ।
मेषशृङ्गगतं वज्रं मृल्लिप्तं म्रियते पुटैः ॥९८॥
पेटारी हंसपादी च वज्रवल्ली च सूरणम् ।
अश्वत्थस्याङ्कुरा देवि सर्वे स्त्रीस्तन्यपेषिताः ॥९९॥
अनेन सिद्धकल्केन वेष्टितं बृहतीफले ।
क्षिप्तं बहिर्मृदा लिप्तं म्रियते सप्तभिः पुटैः ॥१००॥
श्वेतेन्दुरेखापुष्पाम्बु गन्धकत्रयमाक्षिकैः ।
वेष्टितं कुलिशं देवि पुटपाकात्मृतं भवेत् ॥१०१॥
अश्वत्थबदरीभिण्डी माक्षीकं कर्कटास्थि च ।
स्नुहीक्षीरेण संपेष्य पुटाद्विप्रो मृतो भवेत् ॥१०२॥
करवीरार्कदुग्धेन मेषशृङ्गं सहिङ्गुलम् ।
उदुम्बरसमायुक्तं पुटात्क्षत्रियमारणम् ॥१०३॥
बाला चातिबला चैव गन्धकं कर्कटास्थि च ।
क्षीरेणोत्तरवारुण्याः पुटनाद्वैश्यमारणम् ॥१०४॥
कण्डूलसूरणेनैव शिलया लशुनेन च ।
न्यग्रोधशङ्खदुग्धेन शूद्रोऽपि म्रियते क्षणात् ॥१०५॥
स्थूला बहुस्थूलपुटैः नश्यन्ति फलकादयः ।
सुस्विन्ना इव जायन्ते मृदुत्वमुपजायते ॥१०६॥
पिष्ट्वामलकपञ्चाङ्गं गौराभां इन्द्रवारुणीम् ।
अनेन वेष्टितं वज्रं म्रियते सप्तभिः पुटैः ॥१०७॥
मातृवाहकजीवस्य मध्ये वज्रं विनिक्षिपेत् ।
दोलास्वेदे त्र्यहं देवि गुणपत्त्रसमं भवेत् ॥१०८॥
एरण्डवृक्षमध्ये तु वज्रं देवि विनिक्षिपेत् ।
एकमासे गते देवि गुणपत्त्रसमं भवेत् ॥१०९॥
कान्तस्य पिष्टिकामध्ये वज्रं देवि विनिक्षिपेत् ।
कार्पासनिम्बपत्त्रं च बदरीपत्त्रसंयुतम् ॥११०॥
एकत्र पेषयेत्तत्तु कान्तगोलकवेष्टितम् ।
बाह्ये ताम्बूलपत्त्रेण स्थापयेज्जानुमध्यतः ॥१११॥
यामद्वयेन तद्वज्रं जायते मृदु निश्चितम् ।
तत्क्षणान्म्रियते वज्रं तारे हेम्नि न संशयः ॥११२॥
जम्बीरफलमध्यस्थं वस्त्रपोटलिकागतम् ।
क्वाथयेत्कोद्रवक्वाथे क्रमेणानेन तु त्र्यहम् ।
तद्वज्रं जायते खोटं हेम्ना मिलति तत्क्षणात् ॥११३॥
नागवल्ल्या प्रलिप्तं तु तत्पत्त्रेणैव वेष्टितम् ।
जानुमध्ये स्थितं यामं मृदु संजायते ध्रुवम् ॥११४॥
मूले वज्रलतायास्तु मृदु वज्रं विनिक्षिपेत् ।
पुटं दद्यात्प्रयत्नेन भस्मीभवति तत्क्षणात् ॥११५॥
सुखाद्बन्धकरं ह्याशु सत्त्वं मुञ्चति तत्क्षणात् ।
सर्वमृत्युप्रशमनाः सर्वसिद्धिकराश्च ते ॥११६॥
अस्थिशृङ्खलमध्यस्थं कृत्वा वज्रं विरन्ध्रितम् ।
जलभाण्डे तु तत्स्विन्नं सप्ताहं द्रवतां व्रजेत् ॥११७॥
क्षारत्रयं रामठं च चणकाम्लाम्लवेतसम् ।
क्षिप्त्वा ज्वालामुखीक्षीरं स्थलकुम्भीरसेन च ॥११८॥
एतैस्तु मर्दितं वज्रं स्नुह्यर्कपयसा तथा ।
दोलायां स्वेदयेद्देवि जायते रसवद्यथा ॥११९॥
अथवाप्यभ्रकं स्विन्नं मौक्तिकं च प्रवालकम् ।
माक्षिकं नीलपुष्पं च पीतं मरकतं महत् ।
वैडूर्यस्फटिकादीनि द्रवन्ति सलिलं यथा ॥१२०॥
लोहजातं तथा ध्मातं अग्निवर्णं तु दृश्यते ।
वापितं सकृदेकेन मृतं जलसमं भवेत् ॥१२१॥
मुक्ताफलं तु सप्ताहं वेतसाम्लेन भावितम् ।
जम्बीरोदरमध्यस्थं धान्यराशौ निधापयेत् ।
पुटपाकेन तच्चूर्णं जायते सलिलं यथा ॥१२२॥
शृणु देवि महाभागे वैक्रान्ताख्यं महारसम् ॥१२३॥
दैत्येन्द्रो महिषः सिद्धो हरदेहसमुद्भवः ।
दुर्गा भगवती देवी तं शूलेन व्यमर्दयत् ॥१२४॥
तस्य रक्तं तु पतितं यत्र यत्र स्थितं भुवि ।
तत्र तत्र तु वैक्रान्तो वज्राकारो महारसः ॥१२५॥
विन्ध्यस्य दक्षिणे चास्ति उत्तरे नास्ति सर्वथा ।
विकृन्तयति लोहानि तेन वैक्रान्तकः स्मृतः ॥१२६॥
श्वेतः पीतस्तथा रक्तो नीलः पारावतप्रभः ।
मयूरवालसदृशश्चान्यो मरकतप्रभः ॥१२७॥
देहसिद्धिकरः कृष्णः पीते पीतः सिते सितः ।
सर्वार्थसिद्धिदो रक्तः तथा मरकतप्रभः ।
शेषे द्वे निष्फले वर्ज्ये वैक्रान्तमिति सप्तधा ॥१२८॥
यत्र क्षेत्रे स्थितं देवि वैक्रान्तं तत्र भैरवम् ।
विनायकं च सम्पूज्य गृह्णीयात्साधकोत्तमः ॥१२९॥
वैक्रान्तं चूर्णितं सूक्ष्मं सुरासुरनमस्कृतम् ।
व्याघ्रीकन्दस्य मध्यस्थं धमयित्वा पुटे स्थितम् ॥१३०॥
अश्वमूत्रेण मृद्वग्नौ स्वेदयेत्सप्तवासरात् ।
छायाशुष्कं ततः कुर्यादिदं वैक्रान्तमुत्तमम् ॥१३१॥
अथवा लवणक्षार मूत्राम्लकृष्णतैलकैः ।
कुलत्थकोद्रवक्वाथे स्वेदयेत्सप्त वासरान् ॥१३२॥
वन्ध्याचूर्णं तु वैक्रान्तं समांशेन तु चूर्णयेत् ।
अजामूत्रेण संभाव्य छायाशुष्कं तु कारयेत् ।
अन्धनाले धमित्वा तु मूषासत्त्वं तु जायते ॥१३३॥
मोक्षमोरटपालाश क्षारगोमूत्रभावितम् ।
वज्रकन्दशिफाकल्क लाक्षाटङ्कणसंयुतम् ॥१३४॥
वैक्रान्तसम्भवं चूर्णं मेषशृङ्गीद्रवान्वितम् ।
पिण्डितं मूकमूषायां ध्मातं सत्त्वं विमुञ्चति ॥१३५॥
वैक्रान्तं वज्रकन्दं च पेषयेद्वज्रवारिणा ।
माहिषे नवनीते च सक्षौद्रं पिण्डितं ततः ।
शोधयित्वा धमेत्सत्त्वं इन्द्रगोपसमं पतेत् ॥१३६॥
केतकीस्वरसः काङ्क्षी मणिमत्थं सखेचरम् ।
स्वेदनाज्जायते देवि वैक्रान्तं रससंनिभम् ॥१३७॥
सुवर्णं रजतं ताम्रं कान्तलोहस्य वा रजः ।
अनेन स्वेदविधिना द्रवन्ति सलिलं यथा ॥१३८॥
इत्युक्तमभ्रकादीनां चतुर्णां लक्षणादिकम् ।
तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुं इच्छसि ॥१३९॥

इति श्रीपार्वतीपरमेश्वरसंवादे रसार्णवे रससंहितायां अभ्रकादिलक्षणसंस्कारनिर्णयो नाम षष्ठः पटलः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:21.7130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

जुनें हाड तें जुनेंच

  • म्‍हातारी माणसे फार कणखर असतात. 
RANDOM WORD

Did you know?

घराच्या दाराबाहेर शुभ-लाभ कां लिहीतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.