TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसार्णव - चतुर्थः पटलः

रसार्णव नामक ग्रंथात विभिन्न रासायनिक प्रक्रियांद्वारे उत्पन्न होणारे तत्कालीन उत्प्रेरक शिवाय रासायनिक अभिक्रियांमध्ये तीव्रता प्रदान करणार्‍या पदार्थांमध्ये ज्यात अधिकांश वानस्पतिक श्रोत वापरले जातात त्यांचा खास उल्लेख आहे.


य़न्त्रमूषाग्निवर्णनः
श्रीदेव्युवाच
यन्त्रमूषाग्निमानानि न ज्ञात्वा मन्त्रवेद्यपि ।
किं करोति महादेव तानि मे वक्तुमर्हसि ॥१॥
श्रीभैरव उवाच
रसोपरसलोहानि वसनं काञ्जिकं विडम् ।
धमनीलोहयन्त्राणि खल्लपाषाणमर्दकम् ॥२॥
कोष्ठिका वक्रनालं च गोमयं सारमिन्धनम् ।
मृन्मयानि च यन्त्राणि मुसलोलूखलानि च ॥३॥
सण्डसीपट्टसंदंशं मृत्पात्रायःकटोरकम् ।
प्रतिमानानि च तुला छेदनानि कषोपलम् ॥४॥
वंशनाडीलोहनाडीं ऊषाङ्गारांस्तथौषधीः ।
स्नेहाम्ललवणक्षार विषाण्युपविषाणि च ॥५॥
एवं संगूह्य सम्भारं कर्मयोगं समाचरेत् ॥६॥
द्रवद्रव्येण भाण्डस्य पूरितार्धोदरस्य च ।
मुखे तिर्यक्कृते भाण्डे रसं सूत्रेण लम्बितम् ।
तं स्वेदयेत्तलगतं दोलायन्त्रमिति स्मृतम् ॥७॥
लोहमूषाद्वयं कृत्वा द्वादशाङ्गुलमानतः ।
ईषच्छिद्रान्वितां एकां तत्र गन्धकसंयुताम् ॥८॥
मूषायां रसयुक्तायां अन्यस्यां तां प्रवेशयेत् ।
तोयं स्यात्सूतकस्याधः ऊर्ध्वाधो वह्निदीपनम् ॥९॥
रसोनकरसं भद्रे यत्नतो वस्त्रगालितम् ।
दापयेत्प्रचुरं यत्नाताप्लाव्य रसगन्धकौ ॥१०॥
स्थालिकायां निधायोर्ध्वं स्थालीं अन्यां दृढां कुरु ।
संधिं विलेपयेद्यत्नात्मृदा वस्त्रेण चैव हि ॥११॥
स्थाल्यन्तरे कपोताख्यं पुटं कर्षाग्निना सदा ।
यन्त्रस्याधः करीषाग्निं दद्यात्तीव्राग्निमेव वा ॥१२॥
एवं तु त्रिदिनं कुर्यात्ततो यन्त्रं विमोचयेत् ।
तप्तोदके तप्तचुल्ल्यां न कुर्याच्छीतले क्रियाम् ॥१३॥
न तत्र क्षीयते सूतो न च गच्छति कुत्रचित् ।
अनेन क्रमयोगेन कुर्याद्गन्धकजारणम् ॥१४॥
ऊर्ध्वं वह्निरधश्चापो मध्ये तु रससंग्रहः ।
मूषायन्त्रमिदं देवि जारयेद्गगनादिकम् ॥१५॥
गर्भयन्त्रं प्रवक्ष्यामि पिष्टिकाभस्मकारणम् ।
चतुरङ्गुलदीर्घां तु मूषिकां मृन्मयीं दृढाम् ॥१६॥
त्र्यङ्गुलां मध्यविस्तारे वर्तुलं कारयेन्मुखम् ।
लोहस्य विंशतिर्भागा एको भागस्तु गुग्गुलोः ॥१७॥
सुश्लक्ष्णं पेषयित्वा तु तोयं दद्यात्पुनः पुनः ।
मूषालेपं ततः कुर्यात्तले पिष्टीं च निक्षिपेत् ॥१८॥
तुषकर्षाग्निना भूमौ मृदुस्वेदं तु कारयेत् ।
अहोरात्रं त्रिरात्रं वा रसेन्द्रो भस्मतां व्रजेत् ॥१९॥
जारणे मारणे चैव रसराजस्य रञ्जने ।
यन्त्रमेकं परं मर्म यत्रौषध्यो महाबलम् ॥२०॥
औषधीरहितश्चायं हठाद्यन्त्रेण बध्यते ।
सर्वत्र सूतको याति मुक्त्वा भूधरलक्षणम् ॥२१॥
देवताभिः समाकृष्टो लोष्टस्थोऽपि हि गच्छति ।
तस्माद्यन्त्रबलं चैकं न विलङ्घ्यं विजानता ॥२२॥
मन्त्रौषधिसमायोगात्सुसिद्धं कुरुते ह्ययम् ।
मन्त्रोऽघोरोऽत्र जप्तव्यो जपान्ते पूजयेद्रसम् ॥२३॥
एकान्ते तु क्रिया कार्या दृष्टान्यैर्विफला भवेत् ॥२४॥
गन्धकस्य क्षयो नास्ति न रसस्य क्षयो भवेत् ।
क्षयो यन्त्रस्य विज्ञेयः यन्त्रे विक्रियते क्रिया ।
अलाभे कान्तलोहस्य यन्त्रं लोहेन कारयेत् ॥२५॥
वह्निलक्ष्यं अविज्ञाय रसस्यार्धक्षयो भवेत् ।
यन्त्रक्षयविधिज्ञस्य चतुर्थांशक्षयो भवेत् ॥२६॥
द्विमासेन द्वितीयांशं तृतीयांशं त्रिभिर्भवेत् ।
महाग्निं सहते ह्येष सारितो यत्र तिष्ठति ॥२७॥
खर्परं सिकतापूर्णं कृत्वा तस्योपरि न्यसेत् ।
अपरं खर्परं तत्र शनैर्मृद्वग्निना पचेत् ॥२८॥
पञ्चक्षारैस्तथा मूत्रैर्लवणैश्च विडं ततः ।
हंसपाकः स विज्ञातो यन्त्रतन्त्रार्थकोविदैः ॥२९॥
कृष्णा रक्ता च पीता च शुक्लवर्णा च मृत्तिका ।
आद्या श्रेष्ठा कनिष्ठान्त्या मध्यमा मध्यमा मता ॥३०॥
दग्धधान्यतुषोपेता मृत्तिका कोष्ठिकाविधौ ।
वक्रनालकृता वापि शस्यते सुरसुन्दरि ॥३१॥
गारा दग्धा तुषा दग्धा दग्धा वल्मीकमृत्तिका ।
अजाश्वानां मलं दग्धं यावत्तत्कृष्णतां गतम् ॥३२॥
वासकस्य च पत्त्राणि वल्मीकस्य मृदा सह ।
पेषयेद्वह्नितोयेन यावत्तत्श्लक्ष्णतां गतम् ॥३३॥
मर्दयेत्तेन बध्नीयात्वक्रनालं च कोष्ठिकाम् ॥३४॥
गारा दग्धा तुषा दग्धा दग्धा वल्मीकमृत्तिका ।
चीरमङ्गारकः किट्टं वज्रेणापि न भिद्यते ॥३५॥
दग्धाङ्गारस्य षड्भागा भागैका कृष्णमृत्तिका ।
चीरमङ्गारकः किट्टं वज्रमूषा प्रकीर्तिता ॥३६॥
तुषं वस्त्रसमं दग्धां मृत्तिका चतुरंशिका ।
कुपीपाषाणसंयुक्ता वरमूषा प्रकीर्तिता ॥३७॥
प्रकाशा चान्धमूषा च मूषा तु द्विविधा स्मृता ॥३८॥
प्रकाशमूषा देवेशि शरावाकारसंयुता ।
द्रव्यनिर्वाहणे सा च वादिकैः सुप्रशस्यते ॥३९॥
अन्धमूषा तु कर्तव्या गोस्तनाकारसंनिभा ।
पिधानकसमायुक्ता किंचिदुन्नतमस्तका ॥४०॥
पत्त्रलेपे तथा रङ्गे द्वंद्वमेलापके तथा ।
सैव छिद्रान्विता मन्दा गम्भीरा सारणोचिता ॥४१॥
तिलभस्म द्विरंशं तु इष्टकांशसमन्वितम् ।
भस्ममूषा तु विज्ञेया तारासंशोधने हिता ॥४२॥
मोक्षक्षारस्य भागौ द्वौ इष्टकांशसमन्वितौ ।
मृद्भागास्तारशुद्ध्यर्थं उत्तमा वरवर्णिनि ॥४३॥
रक्तवर्गेण सम्मिश्रा रक्तवर्गपरिप्लुता ।
रक्तवर्गकृतालेपा सर्वशुद्धिषु शोभना ॥४४॥
शुक्लवर्गेण सम्मिश्रा शुक्लवर्गपरिप्लुता ।
शुक्लवर्गकृतालेपा शुक्लशुद्धिषु शोभना ॥४५॥
विडवर्गेण सम्मिश्रा धृतिमिच्छति जारणे ।
निर्वाहणं प्रकुर्वीत रक्तवर्गप्रलिप्तया ॥४६॥
विषटङ्कणगुञ्जाभिः मूषालेपं तु कारयेत् ।
प्रकाशायां प्रकुर्वीत यदि वाङ्गारलेपनम् ॥४७॥
तस्यां विन्यस्य मूषायां द्रव्यमावर्तयेद्बुधः ।
लेपो वर्णपुटं देवि रक्तमृत्सिन्धुभूखगैः ॥४८॥
आवर्तमाने कनके पीता तारे सिता प्रभा ।
शुल्वे नीलनिभा तीक्ष्णे कृष्णवर्णा सुरेश्वरि ॥४९॥
वङ्गे ज्वाला कपोताभा नागे मलिनधूमका ।
शैले तु धूसरा देवि आयसे कपिलप्रभा ॥५०॥
अयस्कान्ते धूम्रवर्णा सस्यके लोहिता भवेत् ।
वज्रे नानाविधा ज्वाला खसत्त्वे पाण्डुरप्रभा ॥५१॥
न विस्फुलिङ्गो न च बुद्बुदश्च यदा न रेखापटलं न शब्दः ।
मूषागतं रत्नसमं स्थिरं च तदा विशुद्धं प्रवदन्ति लोहम् ॥५२॥
प्रतीवापः पुरा योज्यो निषेकस्तदनन्तरम् ।
छादनं तु प्रतीवापः निषेकं मज्जनं विदुः ।
अभिषेकं तदिच्छन्ति स्नपनं क्रियते तु यत् ॥५३॥
वापो निषेकः स्नपनं द्रुते निर्मलतां गते ।
उष्णेनैव हि वाञ्छन्ति शीतलं न च वाञ्छति ॥५४॥
शुक्लदीप्तिः सशब्दश्च यदा वैश्वानरो भवेत् ।
लोहावर्तः स विज्ञेयः सत्त्वं पतति निर्मलम् ॥५५॥
षोडशाङ्गुलविस्तीर्णं हस्तमात्रायतं शुभम् ।
धातुसत्त्वनिपातार्थं कोष्ठकं वरवर्णिनि ॥५६॥
वंशखादिरमाधूक बदरीदारुसम्भवः ।
परिपूर्णं दृढाङ्गारैः धमेद्वातेन कोष्ठकम् ।
भस्त्रया ज्वालमार्गेण ज्वालयेच्च हुताशनम् ॥५७॥
प्रविततमुखभागं संवृतान्तःप्रदेशं स्थलरचितचिरान्तर्जालकं कोष्ठकं स्यात् ।
बकगलसममानं वङ्कनालं विधेयं शुषिरनलिनिका स्यान्मृन्मयी दीर्घवृत्ता ॥५८॥
मृन्मये लोहपात्रे वा अयस्कान्तमयेऽथवा ।
पाषाणे स्फटिके वाथ मुक्ताशैलमयेऽथवा ॥५९॥
सुदृढो मर्दकः कार्यः चतुरङ्गुलकोच्छ्रयः ।
स च लोहमयः शैलो ह्ययस्कान्तमयोऽथवा ॥६०॥
अघोरास्त्राभिधानेन महापाशुपतेन वा ।
मन्त्रेण रचयेच्छुद्धिं भूमिं तेनैव शोधयेत् ॥६१॥
इन्धनानि च सर्वाणि द्रव्याणि च विशेषतः ।
दाहकं ज्वालयेत्तेन खल्लं तेनैव शोधयेत् ॥६२॥
रसं विशोधयेत्तेन विन्यसेत्दिवसे शुभे ।
खल्लोपरि न्यसित्वा च शिवमूर्तिमनुस्मरेत् ॥६३॥
देवतानुग्रहं प्राप्य यन्त्रमूषाग्निमानवित् ।
देवेशि रससिद्ध्यर्थं जानीयातोषधीरपि ॥६४॥
यन्त्रमूषाग्निमानानि वर्णितानि सुरेश्वरि ।
तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥६५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:20.0700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

credit trade

  • पतीवरचा व्यापार 
  • पतीवरचा व्यापार 
RANDOM WORD

Did you know?

अशुभ कार्य करून आल्यावर, घरात प्रवेश करण्यापूर्वी पाय कां धुवावेत?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.