TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसार्णव - द्नितीयः पटलः

रसार्णव नामक ग्रंथात विभिन्न रासायनिक प्रक्रियांद्वारे उत्पन्न होणारे तत्कालीन उत्प्रेरक शिवाय रासायनिक अभिक्रियांमध्ये तीव्रता प्रदान करणार्‍या पदार्थांमध्ये ज्यात अधिकांश वानस्पतिक श्रोत वापरले जातात त्यांचा खास उल्लेख आहे.


ढीक्षाविधान
श्रीदेव्युवाच
रसोपदेशदाता च कथं स्याद्वद मे प्रभो ।
शिष्यश्चैव कथं देव रसानुष्ठानतत्परः ॥१॥
श्रीभैरव उवाच
निस्पृहो निरहंकारो लोभमायाविवर्जितः ।
कुलमार्गरतो नित्यं गुरुपूजारतश्च यः ॥२॥
दान्तः शिष्योपदेशज्ञः शक्तिमान्गतमत्सरः ।
धर्मज्ञः सत्यवाक्दक्षः शीलवान्गुणवान्शुचिः ॥३॥
अनेकरसशास्त्रज्ञो रसमण्डपकोविदः ।
रसदीक्षाविधानज्ञो यन्त्रौषधिमहारसान् ॥४॥
रागसंख्यां बीजकलां द्वंद्वमेलापनं विडम् ।
रञ्जनं सारणं तैलं दलानि क्रामणानि च ॥५॥
वर्णोत्कर्षं मृदुत्वं च जारणां बालबद्धयोः ।
खेचरीं भूचरीं चैव यो वेत्ति स गुरुर्मतः ॥६॥
देशकालक्रियाभिज्ञो दयादाक्षिण्यसंयुतः ।
लोभमायाविनिर्मुक्तो मन्त्रानुष्ठानतत्परः ॥७॥
सामुद्रलक्षणोपेतो गम्भीरो गुरुवत्सलः ।
देवाग्नियोगिनीचक्र कुलपूजारतः सदा ।
शिष्यो विनीतस्तन्त्रज्ञः सत्यवादी दृढव्रतः ॥८॥
ये नराः कुम्भकुद्दाल ध्वजशङ्खादिलाञ्छितैः ।
करैरधिष्ठिता देवि योज्यास्ते निधिसाधने ॥९॥
बलवन्तो महासत्त्वाः कृष्णरक्तविलोचनाः ।
वक्रघोणाः सदा क्रूराः प्रशस्ता बिलसाधने ॥१०॥
निर्मांसमूर्धपिण्डीकान्रक्तकेशान्गतालसान् ।
कठिनानुष्णपादांश्च धातुवादे नियोजयेत् ॥११॥
आदौ परीक्षयेद्देवि साधकान्सुसमाहितान् ।
ब्राह्मणान्क्षत्रियान्वैश्यान्शूद्रांश्चानुक्रमेण तु ॥१२॥
जितेन्द्रियाः क्लेशसहा नित्योद्यमसमन्विताः ।
शूराश्च कृतविद्याश्च प्रशस्ताः साधकाः प्रिये ॥१३॥
रसदीक्षाविहीना ये प्रोक्तलक्षणवर्जिताः ।
विप्लावकाः पापरताः वर्जयेत्तान्प्रयत्नतः ॥१४॥
दुश्चारिणी दुराचारा निष्ठुरा कलहप्रिया ।
बह्वाशिनी च दुश्चित्ता कोटराक्षी च निर्दया ।
रसनिन्दाकरी या च तां नारीं परिवर्जयेत् ॥१५॥
ईदृशीभिर्वरारोहे सम्पूर्णं क्षितिमण्डलम् ।
न तादृशी भवेन्नारी यादृशी रसबन्धकी ॥१६॥
काकिणी कीकणी नारी तथैव काञ्चिकाचिनी ।
कृष्णपक्षे ऋतुमती सा नारी काकिणी स्मृता ॥१७॥
उभयपक्षे ऋतुमती सा नारी कीकणी मता ॥१८॥
शुक्लपक्षे ऋतुमती सा नारी काञ्चिकाचिनी ॥१९॥
नवयौवनसम्पन्ना सुरूपा चारुहासिनी ।
सूक्ष्मकेशा तु या नारी क्षीराहारप्रिया सदा ॥२०॥
प्रियालापकरी नित्यं शिवशास्त्रकथाप्रिया ।
पद्माकारं मुखं यस्या दृष्टिरिन्दीवराकृतिः ॥२१॥
दशना वज्रसदृशाः प्रवालसदृशोऽधरः ।
यस्याः पयोधरौ देवि तुङ्गपीनौ समावुभौ ॥२२॥
अश्वत्थपत्त्रसदृशी योनी यस्या भगः समः ।
यत्पादौ मांसलौ स्निग्धौ वर्तुलावर्तरोमकौ ॥२३॥
श्यामा च मध्ये क्षामा च तन्वी भक्तिपरा शिवे ।
पद्मिनी सा तु विज्ञेया प्रसन्ना मृगलोचना ॥२४॥
पूर्णिमायाममायां वा पक्षे पक्षे रजस्वला ।
षड्भेदा काकिणी नाम्ना पूर्वप्रोक्ता रसप्रदा ॥२५॥
यस्य तुष्टो महादेवस्तस्य सिद्धो रसायने ।
तयैव देवदेवेशि रसकर्माणि कारयेत् ॥२६॥
तस्य हि निर्मला बुद्धिर्निश्चिता रससाधने ।
तस्माद्गुरुश्च शिष्यश्च पूर्वोक्तः सिद्धिभाग्भवेत् ॥२७॥
श्रीदेव्युवाच
ईदृशैर्लक्षणैः नारीं कुतः प्राप्नोति साधकः ।
यत्र रूपं महादेव लक्षणं नात्र विद्यते ॥२८॥
लक्षणं विद्यते यत्र भावना नात्र विद्यते ।
अथवा रूपहीनाया रूपं केन प्रवर्तते ॥२९॥
लक्षणत्रितयं कुत्र त्वया दृष्टं महेश्वर ।
तदेतज्जायते येन तमुपायं वद प्रभो ॥३०॥
श्रीभैरव उवाच
शृणु देवि परं गुह्यं यत्सुरैरपि दुर्लभम् ।
पितुः सदाशिवाज्जातं जन्म यच्चण्डिकोदरे ॥३१॥
तासां बुद्धिर्भवेद्देवि निर्मला रससाधने ।
दापयेत्त्वरितामन्त्रं जपेत्तं दर्पवर्जिता ॥३२॥
लक्षमन्त्रं जपेद्या तु जायते सा सुलक्षणा ।
बद्ध्वा तु खेचरीं मुद्रां जपेत्फेट्कारभैरवीम् ॥३३॥
ममेयं चण्डिका माता जन्म च त्रिपुरान्तकात् ।
कालिकाहं समुद्भूता स्मीदृशं संस्मरेत्तु सा ॥३४॥
भूतं भव्यं भविष्यं च त्रैलोक्ये कथयेत्तु सा ।
सहायास्तादृशास्तस्य यादृशी भवितव्यता ॥३५॥
श्रीदेव्युवाच
देवदेव महादेव समस्तज्ञानभाजन ।
रसदीक्षां तु पृच्छामि साधकानां हिताय वै ॥३६॥
श्रीभैरव उवाच
शृणु भैरवि यद्भावं अपूर्वं वर्णयामि ते ।
रसदीक्षाविधानं तु तस्मान्निगदितं शृणु ॥३७॥
यत्र राजा नयपरो बलवान्धर्मतत्परः ।
मन्त्री च धर्मतत्त्वज्ञो भक्तिश्रद्धासमन्वितः ॥३८॥
तत्रेदं कारयेत्कर्म रसबन्धं रसायनम् ।
जना माहेश्वरा यत्र तत्र स्थाने तु कारयेत् ॥३९॥
कारयेद्विजने स्थाने पशुर्यत्र न विद्यते ।
सुगुप्ते सुषमे स्थाने सर्वबाधाविवर्जिते ॥४०॥
प्राकारपरिखोपेते कपाटार्गलरक्षिते ।
एकान्ते निर्मले हृद्ये नानापुष्पद्रुमान्विते ॥४१॥
हंसकारण्डवाकीर्णे चक्रवाकोपशोभिते ।
दिव्यौषधिगणोपेते सजले श्यामशाद्वले ॥४२॥
कुमुदोत्पलकह्लार कदलीषण्डमण्डिते ।
चित्रिते भवनोद्याने कारयेत्परमेश्वरि ॥४३॥
तन्मध्ये देवदेवेशि मत्तवारणसंयुतम् ।
वातायनसमोपेतं ऊर्ध्वनिर्गामिधूमकम् ॥४४॥
रक्तपताकासंयुक्तं सज्जोपकरणं तथा ।
प्रविभक्तौषधितुषा काष्ठारण्योत्पलालयम् ॥४५॥
समालिखितदिग्देवं समर्चितविनायकम् ।
प्रतिष्ठितं उमेशाभ्यां लोकपालैश्च रक्षितम् ॥४६॥
निर्मापयेदेकतलं द्वितलं वापि मण्डपम् ।
अथ पक्षे सिते देवि चन्द्रताराबलान्विते ॥४७॥
पुण्ये तिथौ मुहूर्ते च लग्ने सौम्यग्रहेक्षिते ।
स्नातः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ॥४८॥
मधुसर्पिर्दधिक्षीर तिलैः संपूज्य बालिकाः ।
कपिलागोमयालिप्ते हिरण्यकलशावृते ॥४९॥
यवसिद्धार्थकास्तीर्णे गन्धमाल्योपशोभिते ।
तत्रेष्टिकाभिः रचिते करपीठे सुरेश्वरि ॥५०॥
शिलापट्टं समुत्कीर्य शिलापट्टार्गलं प्रिये ।
न्यासं रसाङ्कुशेनैव कृत्वाङ्गुलिहृदादिषु ॥५१॥
रसलिङ्गं न्यसेत्तत्र हेम्ना च सहितं प्रिये ।
ओं ह्रीं श्रीं सूतराजस्य मूलमन्त्र उदाहृतः ॥५२॥
तस्मिन्रसाङ्कुशीं देवीं मूलेनावाहयेत्प्रिये ।
चतुरस्रे तु दिक्पालान्पूजयित्वा बहिः क्रमात् ॥५३॥
नन्दिनं च महाकालं भृङ्गिरीटं महाबलम् ।
कुम्भकर्णं च सुग्रीवं भृङ्गीकं च दृढायुधम् ॥५४॥
द्वारे चतुर्धा विन्यस्य पूजयेद्दक्षवामयोः ।
शुक्रं पूर्वेऽभिसंपूज्य स्कन्दमाग्नेयगोचरे ॥५५॥
दक्षिणस्यां ततो रुद्रं पवनं नैरृते तथा ।
शिवं पश्चिमभागे तु पावकं वायवे न्यसेत् ।
उमामुत्तरभागे तु व्यापकं चेशगोचरे ॥५६॥
लेपिका क्षेपिका चैव क्षारिका रञ्जिका तथा ।
लोहटी बन्धकारी च भूचरी मृत्युनाशिनी ॥५७॥
विभूतिः खेचरी चैव दश दूत्यः क्रमेण च ।
पूज्यास्त्वष्टदले पद्मे ऊर्ध्वाधस्तु दलेषु च ॥५८॥
माक्षिको विमलः शैलश्चपलो रसकस्तथा ।
सस्यको गन्धतालौ च पूर्वादिक्रमयोगतः ॥५९॥
अष्टादशभुजा रुद्राः पञ्चवक्त्रास्त्र्यम्बकाः ।
चन्द्रार्धशोभिमुकुटा नीलग्रीवा वृषध्वजाः ॥६०॥
स्वस्ववर्णधराः सर्वेऽप्यष्टविद्येश्वरास्तथा ।
पूजनीया महेशानि द्वितीयेऽष्टदलाम्बुजे ॥६१॥
कर्णिकायां तु पूर्वादि पूर्वं शक्तिचतुष्टयम् ।
मालिनी हेमशक्तिश्च परा शक्तिर्बला स्मृता ।
अपरा वज्रशक्तिश्च कान्तिज्ञेयं परापरम् ॥६२॥
मध्ये तासां च शक्तीनां सर्वज्ञं रसभैरवम् ।
शुद्धस्फटिकसंकाशं पञ्चवक्त्रं त्र्यम्बकम् ॥६३॥
ज्वलत्पिङ्गोग्रनेत्रं च ज्वलज्जिह्वाननं तथा ।
ज्वलद्भ्रुवं ज्वलत्केशं दुष्प्रेक्ष्यं प्रेतविष्टरम् ॥६४॥
जटामुकुटसंयुक्तं चन्द्रार्धकृतशिखरम् ।
व्याघ्रचर्मधरं नागो पवीतं वृषभध्वजम् ॥६५॥
अष्टादशभुजं देवं ईषत्प्रहसिताननम् ।
द्वात्रिंशार्णेन मनुना पूजयेत्सकलं शिवम् ॥६६॥
रसेश्वरस्य मन्त्रं च कथ्यमानं निबोध मे ॥६७॥
ओं ह्रीं क्रीं रसेश्वराय महाकालाय महाबलायाघोरभैरवाय वज्रवीर क्रोधकङ्काल क्ष्लौः क्ष्लः ॥६८॥
तस्योत्सङ्गे महादेवीं रत्नाभरणभूषणाम् ।
उत्तप्तहेमरुचिरां पीतवस्त्रां त्रिलोचनाम् ॥६९॥
श्वेतचामरयोर्मध्ये मुक्ताच्छत्त्रेण शोभिताम् ।
अङ्कुशं चाक्षमालां च दधतीं दक्षहस्तयोः ॥७०॥
पाशाभये च वामाभ्यां चन्द्रार्धकृतशेखराम् ।
रसाङ्कुशीं महादेवीं नीलग्रीवां कृपामयीम् ॥७१॥
पूजयेद्रससिद्ध्यर्थं विद्यया पञ्चबीजया ।
वाग्भवं भुवनेशीं च श्रीबीजं च सुरेश्वरि ॥७२॥
मादनं शक्तिबीजं च विद्या परमदुर्लभा ।
धूपदीपैस्तु नैवेद्यैः पुष्पताम्बूलचन्दनैः ॥७३॥
शान्तिपाठस्य निर्घोषैः स्तोत्रमङ्गलनिस्वनैः ।
घण्टाटङ्कारसंयुक्तैः पूजां कृत्वा यथाविधि ॥७४॥
अघोरेण बलिं दद्यात्सर्वविघ्नोपशान्तये ।
भूतेभ्यो यक्षरक्षभ्यो पिशाचेभ्यश्च यत्नतः ॥७५॥
अघोरमन्त्रसंयुक्तं ओंकारादिनमोऽन्तकम् ।
सर्वकर्माकरं देवि विघ्नोपद्रवनाशनम् ॥७६॥
यथाशक्ति जपित्वा तु विद्यामेव रसाङ्कुशीम् ।
कुण्डं विधाय देवेशि योनिचक्रं समेखलम् ॥७७॥
तत्राज्यतिलसंयुक्तं होमं कृत्वा क्रमेण तु ।
कलशं स्थापयेद्देवि पयःपूर्णं फलान्वितम् ॥७८॥
पञ्चरत्नसमोपेतं वासोभिः परिवेष्टितम् ।
तत्राष्टादशविद्याभिरभिमन्त्र्य पृथक्पृथक् ॥७९॥
गन्धपुष्पादिभिः पूर्णं पल्लवैरुपशोभितम् ।
अर्घ्यपात्रं च संपूज्य वर्धन्याभ्युक्ष्य साधकम् ॥८०॥
शतमष्टोत्तरं चैवं अर्घ्यपात्रोदकेन तु ।
अभिषिच्य विधानेन कुम्भतोयेन मन्त्रवित् ॥८१॥
विद्यामुपदिशेद्देवि पाठयेद्रससाधकम् ।
कुमारोयोगिनीयोगि साधकांश्च यथोचितैः ॥८२॥
तर्पयेदन्नपानैश्च जागरं तत्र कारयेत् ।
एवंविहितदीक्षस्तु साधकः क्षुरनायिके ॥८३॥
महाभूतमयीं तत्र वर्णपञ्चकसंयुताम् ।
पञ्चबीजात्मिकां विद्यां प्राणायामात्मसूत्रके ॥८४॥
मुद्रां रसाङ्कुशीं बद्ध्वा लक्षमेकं जपेत्प्रिये ।
तस्य सिध्यति देवेशि निर्विघ्नं रसभैरवः ॥८५॥
प्रणवादिनमोऽन्तस्तु तर्पणान्ते जपः परः ।
अहिंसा चन्दनं सत्यं पुष्पं अस्तेयधूपनम् ॥८६॥
ब्रह्मचर्यं महादीपं अप्रतिग्रहघण्टिकाम् ।
पायसान्नं महेशानि सर्वभूतदयात्मकम् ॥८७॥
संगूह्याराधयेद्देवीं स भवेत्सिद्धिभाजनम् ।
सहस्रं वा शतं वापि त्रिसंध्यं संजपेदिमाम् ॥८८॥
अस्या आज्ञाप्रसादेन जायते खेचरो रसः ।
दिव्यौषध्यश्च तस्यैव सिध्यन्ति सुरवन्दिते ॥८९॥
अनङ्कुशं समारुह्य वने मत्तगजं यथा ।
तथा रसाङ्कुशाभिज्ञो रसेन्द्रं प्राप्य सीदति ॥९०॥
विद्यया सह मन्तव्यं गुरोः सत्सम्प्रदायिनः ।
रसप्रयोगजातं तु सर्वतः सिद्धिमिच्छता ॥९१॥
अथ प्रश्नावताराय पूर्वोक्तं रसभैरवम् ।
समाहितमना ध्यायेत्तदालीनं समाचरेत् ॥९२॥
अनाहते ब्रह्मरन्ध्रे मनः कृत्वा निरामये ।
करन्यासं पुरा कृत्वा अङ्गन्यासमनन्तरम् ।
यथाशक्ति जपेन्मन्त्रं रसेन्द्रस्य समाहितः ॥९३॥
चतुष्कोणं पुनः कृत्वा मध्ये षट्कोणमण्डलम् ।
हस्तमात्रं द्विहस्तं वा तण्डुलैर्विमलैर्लिखेत् ॥९४॥
सुगन्धैर्लेपिते स्थाने पूजयेच्चन्दनादिभिः ॥९५॥
कर्णिकायां न्यसेद्देवि पूर्वोक्तं रसभैरवम् ।
षट्कोणे देवताषट्कं महाकालादि विन्यसेत् ॥९६॥
महाकालं महाबलं अघोरं वज्रवीरकम् ।
न्यसेत्क्रोधं च कङ्कालं मालामन्त्रैः समर्चयेत् ॥९७॥
ओं ह्रीं क्रौं क्ष्लैं क्ष्लं ह्रीं ह्रीं ह्रीं ह्रूः हुं फट्रसेश्वराय महाकालभैरवाय रौद्ररूपाय कृष्णपिङ्गललोचनाय ।
अवतर २ अवतारय २ जल्प २ जल्पय २ शुभाशुभं कथय २ कथापय २ महारक्षां कुरु २ रससिद्धिं देहि ।
इति मालामन्त्राः ।
ओं महाकालभैरवाय हृदयाय नमः ।
ओं महाबलभैरवाय शिरसे स्वाहा ।
ओं अघोरभैरवाय शिखायै वौषट् ।
ओं वज्रवीरभैरवाय कवचाय हुम् ।
ओं क्रोधभैरवाय नेत्राय वौषट् ।
ओं कङ्कालभैरवाय अस्त्राय फट् ।
सर्वत्र स्वाहान्तम् ।
एवमङ्गन्यासाः ।
एवमङ्गुलीन्यासान्कुर्यादादौ ।
एते षडङ्गे पूजने च मूलमन्त्राः ।
एवं न्यासाक्षरः कुटैः गन्धपुष्पैः समर्चयेत् ।
पूर्णकुम्भं न्यसेन्मध्ये शरावं तण्डुलैः सह ॥९८॥
तस्योपरि घृतदीपं वर्तीं मन्त्रैश्च मन्त्रयेत् ॥९९॥
समानीय कुमारीं तु कुमारं वा सुशोभनम् ।
एकद्वित्रिचतुःपञ्च यथालाभं समानयेत् ।
गन्धपुष्पैर्धूपदीपैः नैवेद्येन च पूजयेत् ॥१००॥
एकैकस्या न्यसेन्मन्त्रं हृदयाद्याश्च देवताः ॥१०१॥
ततो निरीक्ष्य तद्दीपं सर्वास्तत्र कुमारिकाः ।
पश्यन्ति देवता दीपे कुमाराश्च शुभाशुभम् ।
सिद्धिं वाप्यथवासिद्धिं कथयन्ति कुमारिकाः ॥१०२॥
प्रश्नावतारं ज्ञात्वेति रसकर्मणि संचरेत् ॥१०३॥
यः पुरा देवदेवेशि रसेन्द्रे भावितात्मवान् ।
सप्तजन्म मृतो जातो न त्यजेद्रसभावनम् ॥१०४॥
एवं शुभाशुभं ज्ञात्वा देवतानुग्रहान्वितः ।
मण्डपे पूर्ववद्देवीं अर्चयित्वा रसाङ्कुशीम् ॥१०५॥
आचार्यमपि संपूज्य धूपस्रक्चन्दनादिभिः ।
अघोरेण बलिं दत्त्वा ततः कर्म समाचरेत् ॥१०६॥
ओषध्यो मण्डपे प्राच्यां रसस्वेदोऽग्निगोचरे ।
दक्षिणस्यां लोहमारो नैरृत्यां पेषणादिकम् ॥१०७॥
द्रुतिक्रिया तु वारुण्यां वायव्ये धमनं प्रिये ।
वर्णोत्कर्षस्तु कौबेर्यां ऐशान्यां रसवेधनम् ॥१०८॥
आसनं तु गुरोर्मध्ये निवेश्य सुरनायिके ।
नियामनादिकं कर्म क्रामणान्तं वरानने ।
रसाङ्कुशेन मन्त्रेण कर्तव्यं साधकेन तु ॥१०९॥
यः पुरा देवदेवेशि वर्णितो रसभैरवः ।
सद्योजातं तस्य जानु वामदेवं तु गुह्यकम् ॥११०॥
अघोरं हृदयं तस्य वक्त्रं तत्पुरुषं स्मृतम् ।
यावद्भ्रूमध्यं ईशानं अर्धचन्द्रं ललाटकम् ॥१११॥
बिन्दुर्देवेशि तस्योर्ध्वे बिन्दोरूर्ध्वे स्थितो नदः ।
ललाटशिरसोर्मध्ये शक्तिस्तत्रैव संस्थिता ॥११२॥
व्यापिनी ब्रह्मरन्ध्रस्था तस्योर्ध्वे तून्मना भवेत् ।
उन्मना उन्मनीभावं उन्मनापदमव्ययम् ॥११३॥
तस्योर्ध्वे परमं सत्यं व्योमस्थायि परात्परम् ।
शून्यं शून्यं पुनः शून्यं त्रिशून्यं च निरामयम् ॥११४॥
नभश्च गगनं व्योम खमाकाशं च केवलम् ।
निष्कलं निर्मलं नित्यं निस्तरङ्गं निरामयम् ॥११५॥
निष्प्रपञ्चं निराधारं निर्गुणं गुणगोचरम् ।
एवंरूपं सदा ध्यायेत्स्वदेहे रसभैरवम् ॥११६॥
यदा च निश्चलं ध्यायेत्यदा च निश्चलं मनः ।
वह्निमध्ये तदा सूतो बध्यते निश्चलस्तथा ॥११७॥
यदा च चलति ध्यानं रसो वह्नौ न तिष्ठति ॥११८॥
मण्डलस्य बहिः रात्रौ सुरामत्स्यामिषादिभिः ।
अर्चयेद्यक्षगन्धर्वान्पिशाचान्राक्षसांस्तथा ॥११९॥
क्रियाकरणविघ्नाश्च फलविघ्नाश्च कोटिशः ।
सम्भवन्ति तथा तत्तच्छान्त्यै च वटुकेश्वरम् ।
अर्चानुग्रहषट्कं च सम्पूज्यादौ समाचरेत् ॥१२०॥
कर्मान्ते च पुनर्बालं अष्टाष्टकमनुग्रहम् ।
सम्पूज्य विनियुञ्ज्यात्तत्सिद्धद्रव्यं तु सिद्धिदम् ॥१२१॥
सिद्धस्तु नाशयेद्वादं तद्देशं तु परित्यजेत् ।
भ्रमेन्माधुकरीं भिक्षां सुसिद्धे तु महारसे ॥१२२॥
प्रमादादुत्थितो विघ्नो रसबन्धे कृते सति ।
रसशान्तिर्विधातव्या रसक्षोभं न कारयेत् ॥१२३॥
रसं न दर्शयेद्देवि नारीहस्ते न पातयेत् ।
नार्यै गुह्यं न वक्तव्यं द्रव्यं ताभ्यो हि गोपयेत् ॥१२४॥
परद्रव्यैर्न कर्तव्यं परदारान्न संस्पृशेत् ।
परान्नं नैव भुञ्जीत परांश्चैव न विश्वसेत् ॥१२५॥
न देयं दुष्टबुद्धीनां गोष्ठीरूपेण याचके ॥१२६॥
अष्टम्यां पौर्णमास्यां च अमावास्यां युगादिषु ।
अयने विषुवे चैव चतुर्दश्यां विशेषतः ।
रसोत्सवं प्रकुर्वीत यथावित्तानुसारतः ॥१२७॥
एवं रसोत्सवं देवि यः कुर्याद्भक्तिसंयुतः ।
ब्रह्महत्यादिपापानि नश्यन्ति विविधानि च ॥१२८॥
अनेन विधिना यत्र पूजां कुर्वन्ति साधकाः ।
न तत्र रोगदौर्गत्यं नेतयः प्रभवन्ति च ॥१२९॥
एवंविधां रसे पूजां प्रतिष्ठाप्य यथाविधि ।
पश्चात्कर्म विधातव्यं आत्मनः शुभमिच्छताम् ॥१३०॥
अन्यथा कुरुते यस्तु तस्य सिद्धिर्न जायते ।
अपायः पापशङ्का च बुद्धिभङ्गो हि जायते ॥१३१॥
अवज्ञा रोगजातं च संदेहश्च पदे पदे ।
आलस्याद्गुरुलोभाच्च परस्य कथनेन च ।
उत्पन्नमपि विज्ञानं हरन्ति कुलकाः प्रिये ॥१३२॥
दीक्षितो रसकर्माणि मन्त्रन्यासविदाचरेत् ।
तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुं इच्छसि ॥१३३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:15.0430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

practical approach

  • व्यावहारिक दृष्टिकोण 
RANDOM WORD

Did you know?

चतुर्थीला चंद्र पाहूनच उपास का सोडतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.