चाटुप्रवाहवीचयः - सुभाषित १५४१ - १५६०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


३५. धूलिः

यस्योद्योगे बलानां दिशि दिशि वलतामुज्जिहानै रजोभिर्
जम्बालिन्यम्बरस्य स्रवदमरधुनीवारिपूरेण मार्गे ।
संसीदच्चक्रशल्याकुलतरणिकरोत्पीडिताश्वीयदत्त
द्वित्रावस्कन्दमन्दः कथमपि चलति स्यन्दनो भानवीयः ॥१५४१॥

बाणस्य । (सु.र. १५६५)

सप्तद्वीपकुटुम्बभूतलभुवो निष्पीतसप्ताब्धयस्
तन्मार्गेण च सप्तपन्नगफणारत्नावलोकच्छिदः ।
क्रीडा दिग्विजये च सप्तजगतीभाजो यदक्षौहिणी
जन्माः प्रसरन्ति सप्तपवनस्कन्धस्पृशो धूलयः ॥१५४२॥

मुरारेः ।

यस्याशाविजयप्रवृत्तपृतनाचक्रे परिक्रामति
क्षुण्णक्ष्मातलधूलिसंकुलमभून्मर्त्यस्थलाभम् ।
एतस्यामदसीयसम्प्लवपरिक्षीणाम्भसि प्रावृषि
प्रायः सम्भवति स्म भूपरिसरे भूयानिवावग्रहः ॥१५४३॥

तिलचन्द्रस्य ।

अब्धौ मज्जन्ति मीना इव फणिन इव क्षौणिरन्ध्रं विशन्ति
क्रामन्त्यद्रीन्विहङ्गा इव कपय इव क्वाप्यरण्ये चरन्ति ।
देव क्ष्मापालशक्र प्रसरदनुपमत्वच्चमूचक्रवाह
व्यूहव्याधूतधूलीपटलहतदृशः कान्दिशीकाः क्षितीशाः ॥१५४४॥

विश्वेश्वरस्य ।

भूतिस्नानप्रमोदं तनुभिरलभत स्पष्टमष्टाभिरीशो
भूयस्तुङ्गत्वमापुः पिहितगिरिगुहागह्वरऽः क्ष्माधरेन्द्राः ।
यात्रायां यस्य खेलत्तुरगखुरखुरोत्खातधूलीभरेण
प्रापुर्वर्षाभ्रलक्ष्मीमतिमलिनतया शारदास्तोयवाहाः ॥१५४५॥

तस्यैव ।


३६. अश्वधूलिः

यात्रा नेहसि यस्य दिग्विजयिनः काम्बोजवाहावली
विङ्खोल्लेल्खविसर्पिणि क्षितिरजःपूरे वियच्चुम्बति ।
भानोर्वाजिभिरङ्गकर्षणरसानन्दः समासादितो
लब्धः किं च नभस्तलामरधुनीपङ्केरुहैरन्वयः ॥१५४६॥

वसुकल्पस्य । (सु.र. १३८१)

देव त्वद्विजये तुरङ्गमखुरव्रातक्षतक्ष्मातल
प्रोद्भूते परितः परागपटले दिक्चक्रमाक्रमति ।
अक्ष्णां पंक्तिशतानि निन्दति निजं हस्तद्वयं निन्दति
स्वां निन्दत्यनिमेषतां परिपतद्बास्पाम्बुधारो हरिः ॥१५४७॥

जयोकस्य ।

वाहव्यूहखुराग्रटङ्कविहतिक्षुण्णक्षमाजन्माभिर्
धूलिभिः पिहिते विहायसि भवत्प्रस्थानकालोत्सवे ।
दिङ्मोहाकुलसूरसूतविपथभ्राम्यत्तुरङ्गावली
दीर्घायुः प्रतिवासरं प्रतिदिशं व्यस्तो रविर्भ्राम्यति ॥१५४८॥

महोदधेः । (सु.र. १४४७)

त्वद्भावावलिटापटङ्कविगलद्भूगोलधूलीभरैर्
उत्पत्यापतयालुभिः स्थलमये जातेऽद्य नीराम्बुधौ ।
शङ्के सेतुकथैककर्मठभुजाशौटीरशाखामृगा
हङ्कारस्तुतिभिर्भविष्यति कथं न व्रीडितो मारुतिः ॥१५४९॥

हीरोकस्य ।

सप्ताम्भोधीन्पिबद्भिर्दिशि दिशि सरितः स्वादयद्भिस्तडाग
व्यूहं गण्डूषयद्भिर्गगनतलगतां जाह्न्वईमुल्लिहद्भिः ।
यात्रायां यस्य हेलाचलतुरगचमूशश्वदुद्धूतधूली
पूरैरैकाब्धिमात्रव्ययजनितमदो लज्जितः कुम्भजन्मा ॥१५५०॥

छित्तपस्य ।

३७. संग्रामधूलिः

यस्याहवे हयचमूखुरखण्डितोर्वी
पांशुप्रसारपरिपूर्तिभिया वहन्ति ।
नेत्राणि नित्यविकचानि मरुत्तरुण्यो
नीरन्ध्रपाणिपुटयुग्मपिधानवन्ति ॥१५५१॥

राजशेखरस्य ।

त्वङ्गत्तुरङ्गमुखरोच्छलितै रजोभिर्
लग्नैरजस्रगलदस्रसहस्रनेत्रः ।
पाणिग्रहे समरभूमिजयश्रियस्ते
स्वाराड्यं नृपतिनाथ सहस्रधारः ॥१५५२॥

पजोकस्य ।

त्वङ्गद्वैरिकरीन्द्रकुम्भनिपतन्निस्त्रिंशलेखोल्लसद्
वह्निज्वालतडित्करम्बिततनुर्व्रध्नत्विषो रुन्धती ।
राजंस्तर्पितबर्हिणा सरभसैरालोकिता चातकैर्
बलात्त्वद्बलधूलिजालजलदश्रेणी समुत्सर्पति ॥१५५३॥

सुरभेः ।

एतत्कृत्तोत्तमाङ्गप्रतिसुभटनटारब्धनाट्याद्भुतानां
कष्टं द्रष्टैव नाभूद्भुवि समरसमालोकिलोकास्पदेऽपि ।
अश्वैरस्वैरवेगैः कृतखुरखुरलीमङ्क्षुविक्षुद्यमान
क्ष्मापृष्ठोत्तिष्ठदन्धंकरणरणधुराधूलिधारान्धकारात॥१५५४॥

कविपण्डितश्रीहर्षस्य । (ण्च्१२.१००)

मातङ्गाभोदवीथीविकसितमहसि प्रौढसेनापराग
ध्वान्तोद्गारे गरीयस्युपनयति मुहुर्विश्वदिङ्मोहमुद्राम् ।
कीरित्र्वेलावनेषु भ्रमति भुजमथालम्बते वीरलक्ष्मीर्
देव त्वत्खड्गधारासरणिपरिसरे वैरिणो निष्पतन्ति ॥१५५५॥

जलचन्द्रस्य ।

३८. युद्धं

राजन्वाजिपदातिकुञ्जरशिरश्छिन्नं रणे यत्त्वया
नृत्यद्योधकबन्धकण्ठमिलितं तेनारिवीरव्रजः ।
हेरम्बीयति किंनरीयति शिरोराहूयतीति क्षणं
निर्माणं तव बङ्गनायक कथापाण्डित्यमुन्मीलति ॥१५५६॥

उदयादित्यस्य ।

सङ्ग्रामाङ्गणसङ्गतेन भवता चापे समारोपिते
देवाकर्णय येन येन सहसा यद्यत्समासादितम् ।
कोदण्डेन शराः शरैरशिरस्तेनापि भूमण्डलं
तेन त्वं भवता च कीर्तिरनघा कीर्त्या च लोकत्रयम् ॥१५५७॥

कर्कराजस्य । (स.क.आ. १.११५, सु.र. १४०७)

शत्रूणां कालरात्रौ समिति समुदिते बाणवर्षान्धकारे
प्राग्भारे खड्गधारां सरितमिव समुत्तीर्य मग्नारिवंशाम् ।
अन्योन्याघातमत्तद्विरदघनघटादन्तविद्युच्छटाभिः
पश्यन्तीयं समन्तादभिसरति मुदा सांयुगीनं जयश्रीः ॥१५५८॥

जयदेवस्य ।

यदस्त्रव्यापारादभिमुखहतैः क्षत्रियभटैः
स्वसत्त्वेन क्रीतं भुवनमभिसर्पद्भिरभितः ।
कृतच्छिद्रश्रेणीविधुरपरिभोगं भगवतो
गभस्तीनां पत्युस्तितौतुलनां मण्डलमगात॥१५५९॥

मुरारेः ।

यन्निस्त्रिंशहतोद्गतैररिशिरश्चक्रैर्बभूव क्षणं
लोके चान्द्रमसे विधुंतुदघटावस्कन्दकोलाहलः ।
किं चामीभिरपि स्फुरन्मुखतया शीतांशुकोटिभ्रमं
बिभ्राणैरुदपादि राहुभुवने भूयान्सुभिक्षोत्सवः ॥१५६०॥

तस्यैव । (सु.र. १५७०)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP