चाटुप्रवाहवीचयः - सुभाषित १४६१ - १४८०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


१९. विक्रमः

देवे निर्भरसाहसैकरसिके निःशङ्कवीरेऽधुना
निःसीमप्रसरे निरङ्कुशमतौ ज्ञाने मनाङ्निर्दये ।
निःसंपत्ति निरायुधं निरशनं निर्भूमि निःसैनिकं
निस्तेजश्च निराश्रयं च निखिलं तद्राजकं वर्तते ॥१४६१॥

वसुकल्पस्य ।

मत्पर्यन्तवसुन्धराविजयिने मुक्तादिरत्नं मया
त्तव्यं ढौकितमेव सोऽहमधुना जातोऽस्मि निष्किञ्चनः ।
इत्युल्लासितबाहुवीचिरुदयान्मार्तण्डबिम्बच्छलात्
प्रातस्तप्तकुठारमेष वहते देव त्वदग्रेऽम्बुधिः ॥१४६२॥

कस्यापि । (सु.र. १३९७)

शास्त्रैः शत्रुशिरोधितक्षणकलातीक्ष्णोज्ज्वलैः किंतराम्
अद्यापि क्षितिपाललक्षणधरौ क्लिश्नासि कान्तौ करौ ।
तादृक्क्रूरकटाक्षवीक्षणमिलन्मौर्वीकमुर्वीतले
सोढा कस्तव देव कोपकुटिलं भ्रूकार्मुकं भूपतिः ॥१४६३॥

करञ्जयोगेश्वरस्य ।

यद्यङ्केषु कराः शतं प्रतिकरं यद्यङ्गुलीनां शतं
प्रत्येकं यदि पर्वसन्धिषु भवन्त्येतासु रेखाः शतम् ।
शक्यन्ते निपुणैस्तदा गणयितुं येन स्वदोर्विक्रमैर्
उत्खाताः कति रोपिताः कति कति व्यापादिताः क्ष्माभुजः ॥१४६४॥

वामदेवस्य ।

शिक्षन्ते चाटुवादान्विदधति यवसानानने काननेषु
भ्राम्यन्ति ज्याकिणाङ्कं विदधति शिबिरं कुर्वते पर्वतेषु
अभ्यस्यन्ति प्रणामं त्वयि चलति चमूचक्रविक्रान्तिभाजि
प्राणत्राणाय देव त्वदरिनृपतयश्चक्रिरे कार्मणानि ॥१४६५॥

जयदेवस्य ।

२०. पौरुषम्

समाजे सम्राजां सदसि विदुषां धाम्नि धनिनां
निकाये नीचानामपि च रमणीनां परिषदि ।
कथंचिद्यत्र स्मः क्षणमितथयस्तत्र शृणुमः
स्फुरद्रोमोद्भेदाः सुभग भवतः पौरुषकथाः ॥१४६६॥

छित्तपस्य ।

दैवेन त्वदरेस्तवापि सदृशी प्रायः पराजेष्यते
नान्येनेति किल द्वयोरपि लिपिर्न्यस्ताः ललाटे ध्रुवम् ।
भूयानर्थकृतस्तु सम्प्रति तयोर्भेदोऽयमुन्मीलति
स्थाने पौरुषमाश्रयन्ति कृतिनो दैवे निरस्यादरम् ॥१४६७॥

लङ्गदत्तस्य ।

वाहू द्वाविदमेकमेव भुवनं कस्तत्र वीरो रसः
साम्राज्यस्य च पूर्वपूरुषभुजक्षुण्णस्य किं न प्रियम् ।
इत्यूर्जस्वलपौरुषस्य पुरुषप्रायं जगत्पश्यतो
यस्यात्मापि न मानिनो बहुमतः कुत्रेतरे क्षत्रियाः ॥१४६८॥

शुङ्गोकस्य ।

गन्धेभस्कन्धकण्डूमदगुरुमरुदुल्लोललौहित्यखेलद्
वीचीवाचालकालाचलरिपुशशिना केलितल्पे निषण्णाः ।
कामिन्यः सैनिकानां विधुतविधुरताभीतयो गीतबन्धैर्
यस्य प्राग्ज्योतिषेन्द्रप्रणतिपरिगतं पौरुषं प्रस्तुवन्ति ॥१४६९॥

उमापतिधरस्य ।

भीष्मः क्लीबकतां दधार समिति द्रोणेन मुक्तं धनुर्
मिथ्या धर्मसुतेन जल्पितमभूद्दुर्योधनो दुर्मदः ।
छिद्रेष्वेव धनञ्जयस्य विजयः कर्णः प्रमादी ततः
श्रीमन्नस्ति न भारतेऽपि भवतो यः पौरुषैर्वर्धते ॥१४७०॥

जयदेवस्य ।

२१. शौर्यम्

व्यायामोचितबाहुसाहसवशादेकोऽपि कोपोत्कटं
वक्षस्युत्कटसोढसायकभरो भिन्दन्बहून्विद्विषः ।
त्वं यस्मादयशस्त एव समिति त्रस्तो न शस्त्रक्षतैस्
तेनैवायशसः परिग्रहममी मुक्तायुधाः कुर्वते ॥१४७१॥

कमलगुप्तस्य ।

अयं सेनोत्तंसः करकृतकृपाणो रणभुवि
द्विषद्भूमीपालाः किमपसरत प्राणकृपणाः ।
किमभ्यर्थ्यः पृथ्वीधरकुहरवासोऽद्य भवतां
न किं हृद्या विद्याधरनगरनीलोत्पलदृशः ॥१४७२॥

कस्यचित।

कः शैलान्गिलति क्षमां चलयति क्षाराम्बुधौ धावति
को वा चुम्बति सूर्यबिम्बमनलज्वालां समालिङ्गति ।
लीलोल्लासितकृत्तमस्तकमिव व्यालोलजिह्वालतं
कस्त्वां काञ्चनभृङ्गसङ्गरजयश्रीघोषणाघोषणाः ॥१४७३॥

करञ्जधनञ्जयस्य ।

देव त्वत्तत्प्रतापज्वलनकवलिताः सर्वतो दह्यमानैर्
अङ्गैर्युक्तं यदेते हिमगिरिशिखरोत्सङ्गमीयुर्नरेन्द्राः ।
किं तु त्वच्छौर्यलीलामनुहरति पुरः सिंहयूनां निकाये
तत्राप्यातङ्कभाजः क्व ननु विधिहताः स्थैर्यमासादयन्ति ॥१४७४॥

युवराजदिवाकरस्य ।


नो कोऽपि श्लोकः ॥१४७५॥

२२. प्रतापः

कूर्मः पादोऽस्य यष्टिर्भुजगपतिरसौ भाजनं भूतधात्री
तैलोत्पूराः समुद्राः कनकगिरिरयं वृत्तवर्तिप्ररोहः ।
अर्चिश्चण्डांशुरोचिर्गगनमलिनिमा कज्जलं दह्यमाना
शत्रुश्रेणी पतङ्गा ज्वलति रघुपते त्वत्प्रतापप्रदीपः ॥१४७६॥

श्रीहनूमतः । (शा.प. १२४८, सूक्तिमुक्तावलि ९७.४७, सु.र. १४५७)

तादृग्दीर्घविरिञ्चिवासरविधौ जानामि यत्कर्तृतां
शङ्के यत्प्रतिबिम्बमम्बुधिपयः पूरोदरे बाडवः ।
तत्तादृक्प्रतिपक्षराजकयशस्ताराः पराभावुकः
कासामस्य न स प्रतापतपनः पारं गिरां गाहते ॥१४७७॥

कविपण्डितश्रीहर्षस्य । (ण्च्१२.११, स्व२५२७, सूक्तिमुक्तावलि ९७.४८)

निष्पिष्टप्रतिराज राजति सजातीयत्रयं तेजसाम्
और्वश्चाग्निरिरंमदश्च भवतश्चैष प्रतापानलः ।
आद्यो माद्यति वारिभिर्जलनिधेरम्भोमुचां मध्यमः
प्रत्यर्थिक्षितिपालयौवनदृशामुद्गत्वरैरन्तिमः ॥१४७८॥

हरेः ।

वंशोत्तंसमशोकसङ्कुलमतिप्रोद्दामबाणासनं
दृप्यद्द्वीपि चमच्चमूरु निनदहन्ति भ्रमत्खड्गि च ।
यस्योज्जागरनागरङ्गमभितः पुंनागपुण्याश्रयं
जग्राह प्रतिराजकं वनमभि क्रुद्धः प्रतापानलः ॥१४७९॥

शुङ्गोकस्य ।

एकद्वित्रिकलाक्रमेण शशिनं गृह्णन्विमुञ्चन्नयं
यच्चण्डद्युतिरातनोति भगवानद्यापि चान्द्रायणम् ।
देवैतद्भवदीयभास्वरभुजस्तम्भप्रतापानल
स्पर्धायै क्रमभुक्तलाञ्छनपशोर्नैतत्पुनः सेत्स्यति ॥१४८०॥

आचार्यगोपीकस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP