संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः|
सुभाषित ३६ - ४०

देवप्रवाहः - सुभाषित ३६ - ४०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


३६. गङ्गाप्रशंसा

धर्मस्योत्सववैजयन्तिमुकुटस्रग्वेणिगौरीपतेस्
त्वां रत्नाकरपत्नि जह्नुतनये भागीरथि प्रार्थये ।
त्वत्तोयान्तशिलानिषण्णवपुषस्त्वद्वीचिभिः प्रेङ्खतस्
त्वन्नाम स्मरतस्तदर्पितदृशः प्राणाः प्रयास्यन्ति मे ॥१७६॥

लक्ष्मीधरस्य । (सु.र. १६१३, स.क.आ. ४.१८३)

शत्रौ मे सुहृदीव काप्युपकृतिर्भूयादसूया न तु
स्वाच्छ्यं सत्सु मतिर्जनेषु करुणा हीना न दीनात्मसु ।
प्रक्षीणा कलिकल्मषक्षयकरी तृष्णा न कृष्णार्चने
देवि श्रद्दधतां गतिस्त्वयि मुदा मन्दा न मन्दाकिनि ॥१७७॥

तस्यैव ।

प्रसीद श्रीगङ्गे मृडमुकुटचूडाग्रसुभगे
तवोल्लोलोन्मूलः स्खलतु मम संसारविटपी ।
अथोत्पत्स्ये भूयस्त्रिजगदधिराजोऽपि न तदा
श्वपाकः काको वा भगवति भवेयं तव तटे ॥१७८॥

पादुकस्य ।

कदा ते सानन्दं विततनवदूर्वाञ्चिततटी
कुटीरे तीरे वा सवनमनु मन्वादिकथितैः ।
कथाबन्धैरन्धङ्करणकरणग्रामनियमाद्
यमादुज्झन्भीतिं भगवति भवेयं प्रमुदितः ॥१७९॥

गोपीचन्द्रस्य ।

बद्धाञ्जलिर्नौमि कुरु प्रसादम्
अपूर्वमाता भव देवि गङ्गे ।
अन्ते वयस्यङ्गगताय मह्यम्
अदेहबन्धाय पयः प्रयच्छ ॥१८०॥

केवट्टपपीपस्य ।
३७. हरेर्मत्स्यावतारः

मत्स्यः पुनातु जगदोङ्कृतिकुञ्चितास्यो
ब्रह्माद्वयप्रणयपीवरमध्यभागः ।
क्रीडन्नसौ जलधिवीचिभिरेव नेति
नेत्यादरादिव विभावितपुच्छकम्पः ॥१८१॥

आवन्त्यकृष्णस्य ।

देव्याः श्रुतेर्दनुजदुर्णयदूषिताया
भूयःसमुद्गमविधाववलम्बभूमिः ।
एकार्णवीभवदशेषपयोधिमध्य
द्वीपं वपुर्जयति मीनतनोर्मुरारेः ॥१८२॥

उमापतिधरस्य ।

ब्रह्माण्डोदरदर्पणे भ्रमिरयोत्क्षिप्ताम्बुधिक्षालिते
संक्रान्तामनिमेषलोचनयुगेनोत्पश्यतः स्वां तनुम् ।
शौरेर्मीनतनोः कृशानुकपिशं पार्श्वद्वयं प्रोल्लसच्
चन्द्रार्काङ्कितकाञ्चनाद्रिशिखराकारं शिरः पातु वः ॥१८३॥

वसन्तदेवस्य ।

पातु त्रीणि जगन्ति पार्श्वकषणप्रक्षुण्णदिङ्मण्डलो
नैकाब्धिस्तिमितोदरः स भगवान्क्रीडाझषः केशवः ।
त्वङ्गन्निष्ठुरपृष्ठरोमखचितब्रह्माण्डभाण्डावधेर्
यस्योत्फालकुतूहलेन कथमप्यङ्गेषु जीर्णायितम् ॥१८४॥

रघुनन्दस्य । (सु.र. १३५)

मत्स्यः पुच्छाभिघातेन तुच्छीकृतमहोदधिः ।
अपर्याप्तजलक्रीडारसो दिशतु वः शिवम् ॥१८५॥

कस्यचित।

३८. कूर्मः

पृष्ठभ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनान्
निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः ।
यत्संस्कारकलानुवर्तनवशाद्वेलाछलेनाम्भसां
यातायातमयन्त्रितं जलनिधेर्नाद्यापि विश्राम्यति ॥१८६॥

केशटाचार्यस्य । (भ्P १२.१३.२; सु.र. १०५, वाक्पतिराजस्य; स्व३६)


क्षीराब्धौ मथ्यमाने त्रिदशदनुसुतोन्मुक्तकोलाहलौघे
ब्रह्माण्डकाण्डचण्डस्फुटनगुरुरवभ्रान्तिभाजित्रिलोक्याम् ।
सद्यो निर्दावबोधादुपरि रयवशक्षिप्तदीर्घक्षितिधा
लग्नग्रीवाप्रकाण्डो जयति कमठराट्चण्डविष्कम्भतुल्यः ॥१८७॥

वसुसेनस्य ।

पायाद्वो मन्दराद्रिभ्रमणनिकषणाकृष्टपृष्ठाग्रकण्डू
लीनानिद्रालुरब्धेः क्षुभितमगणयन्नद्भुतः कूर्मराजः ।
यस्याङ्गमर्दहेलावशचलितमहाशैलकीला धरित्री
त्वङ्गत्कल्लोलरत्नाकरवलयचलन्मेखला नृत्यतीव ॥१८८॥

सूरेः ।

पार्श्वास्फालातिवेगाज्झगिति च विरहादुच्छलद्भिः पतद्भिर्
भूयो भूयः समुद्रैर्मिहिरमतिरयादापिबद्भिर्वमद्भिः ।
कोटीरस्तोयदानां क्षणमिव गगने दर्शयन्वः पुनीताद्
प्षद्गात्रावहेलाचलितवसुमतीमण्डलः कूर्मराजः ॥१८९॥

धरणीधरस्य ।

कुर्मः कूर्माकृतये हरये मुक्तावलम्बनाय नमः ।
पृष्ठे यस्य निषण्णं शैवलवल्लीसमं विश्वम् ॥१९०॥

भवानन्दस्य ।
३९. वराहः

दंष्ट्रापिष्टेषु सद्यः शिखरिषु न कृतः स्कन्धकण्डूविनोदः
सिन्धुष्वङ्गावगाहः खुरकुहरविशत्तोयतुच्छेषु नाप्तः ।
प्राप्ताः पातालपङ्के न लुठनरतयः पोत्रमात्रोपयुक्ते
येनोद्धारे धरित्र्याः स जयति विभुताबृंहितेच्छो वराहः ॥१९१॥

वराहमिहिरस्य । (सु.र. १३४)

अस्ति श्रीस्तनपत्रभङ्गमकरीमुद्राङ्कितोरःस्थली
देवः सर्वजगत्पतिर्मधुवधूवक्त्राब्जचन्द्रोदयः ।
क्रीडाक्रोडतनोर्नवेन्दुविशदे दंष्ट्राङ्कुरे यस्य भूर्
भाति स्म प्रलयाब्धिपल्वलतलोत्खातैकमुस्ताकृतिः ॥१९२॥

नग्नस्य । (सु.र. १०४)

सेयं चन्द्रकलेति नागवन्तिआनेत्रोत्पलैरर्चिता
मद्भारापगमक्षमेति फणिना सानन्दमालोकिता ।
दिङ्नागैः सरलीकृतायतकरैः स्पृष्टा मृणालाशया
भित्त्वोर्वीमभिनिःसृता मधुरिपोर्दंष्ट्रा चिरं पातु वः ॥१९३॥

केशवस्य ।

घोणाघोराभिधातोच्छलदुदधिजलासारसिक्ताग्ररोमा
रोमाग्रप्रोततारानिकर इति सुरैर्धीरमालोकितो वः ।
श्वासाकृष्टावकृष्टप्रविशदपसरद्बुध्नबिम्बानुबन्धाद्
आविर्नक्तं दिनश्रीः स दिशतु दुरितध्वंसमाद्यो वराहः ॥१९४॥

नरसिंहस्य ।

येनाधोमुखपद्मिनीदलधिया कूर्मश्चिरं वीक्षितो
घ्रातो येन मृणालमुग्धलतिकाबुद्ध्या फणिग्रामणीः ।
यः शालूकमिवोद्दधार धरणीबिम्बं पुनीतादसौ
त्वामेकार्णवपल्वलैकरसिकः क्रीडावराहो हरिः ॥१९५॥

कस्यचित।

४०. नरसिंहः

सोमार्धायितनिष्पिधानदशनः सन्ध्यायितान्तर्मुखो
बालार्कायितलोचनः सुरधनुर्लेखायितभ्रूलतः ।
अन्तर्नादगभीरपल्वलगलत्वग्रूपनिर्यत्तडित्
तारस्फारसटावरुद्धगगनः पायान्नृसिंहो जगत॥१९६॥

मुरारेः ।

चटच्चटिनि चर्मणि च्छमिति चोच्छलच्छोणिते
धगद्धगिति मेदसि स्फुटतरोऽस्थिषु ष्ठादिति ।
पुनातु भवतो हरेरमरवैरिनाथोरसि
क्वणत्करजपञ्जरक्रकचकाषजन्मा रवः ॥१९७॥

वाक्पतिराजस्य । (सु.र. ११६, शा.प. १२६, सूक्तिमुक्तावलि २.७७)

प्रेङ्खद्भास्वरकेशरौघरचितत्रैलोक्यसन्ध्यातपो
ब्रह्माण्डोदररोधिघर्घरसघूत्कारप्रचण्डध्वनिः ।
स्फूर्जद्वज्रकठोरनखरक्षुण्णासुरोरःस्थली
रक्तास्वादविदीर्णदीर्घरसनः पायान्नृसिंहो जगत॥१९८॥

तस्यैव ।

चक्र ब्रूहि विभो गदे जय हरे कम्बो समाज्ञापय
भो भो नन्दक जीव पन्नगरिपो किं नाथ भिन्नो मया ।
को दैत्यः कतमो हिरण्यकशिपुः सत्यं भवद्भ्यः शपे
केनास्त्रेण नखैरिति प्रवदतः शौरेर्गिरः पान्तु वः ॥१९९॥

केशटस्य ।

किं किं सिंहस्ततः किं नरसदृशवपुर्देव चित्रं गृहीतो
नैवं धिक्कोऽत्र जीव द्रुतमुपनय तं सोऽपि सम्प्राप्त एव ।
चापं चापं न खड्गं झटिति हहहहा कर्कशत्वं नखानाम्
इत्येवं दैत्यराजं निजनखकुलिशैर्जघ्निवान्सोऽवताद्वः ॥२००॥

श्रीव्यासपादानाम् । (सु.र. १२८, सूक्तिमुक्तावलि २.७६)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP