TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः|
सुभाषित ३१ - ३५

देवप्रवाहः - सुभाषित ३१ - ३५

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


सुभाषित ३१ - ३५
३१. भृङ्गी

दिग्वासा यदि तत्किमस्य धनुषा सास्त्रस्य किं भस्मना
भस्माथास्य किमङ्गना यदि च सा कामं परिद्वेष्टि किम् ।
इत्यन्योन्यविरुद्धचेष्टितमिदं पश्यन्निजस्वामिनो
भृङ्गी सान्द्रशिरावनद्धपरुषं धत्तेऽस्थिशेषं वपुः ॥१५१॥

योगेश्वरस्य (सु.र. १०३, स्व२३९९)

कस्मात्त्वं तात गेहादपरमभिनवा ब्रूहि का तत्र वार्ता
देव्या देवो जितः किं वृषडमरुचिताभस्मभोगीन्द्रचन्द्रान।
इत्येवं बर्हिनाथे कथयति सहसा भर्तृभिक्षा विभूषा
वैगुण्योद्वेगजन्मा जगदवतु चिरं हारवो भृङ्गिरीटेः ॥१५२॥

तुङ्गोकस्य । (सु.र. ९८)

चर्चेयं क्षुधिता सदैव गृहिणी पुत्रोऽप्ययं षण्मुखो
दुष्पूरोदरभारमन्थरवपुर्लम्बोदरोऽपि स्वयम् ।
इत्येवं स्वकुटुम्बमेकवृषभो देवः कथं पोक्षतीत्य्
आलोक्येव विशुष्कपञ्जरतनुर्भृङ्गी चिरं पातु वः ॥१५३॥

नीलाङ्गस्य ।

भिक्षाभोजिनि कृत्तिवाससि वसुप्राप्तिः कुतः स्यादिति
प्रागर्धं वपुषः स्वयं व्यसनिनो यस्याहरत्पार्वती ।
तस्यार्धं कुपिता हठाद्यदि हरेन्मूर्ध्नि स्थिता जाह्नवी
हा नाथ क्व तदेति दुःस्थहृदयो भृङ्गी भृशं शुष्यति ॥१५४॥

भवानन्दस्य ।

सेवां नो कुरुते करोति न कृषिं वाणिज्यमस्यास्ति नो
पैत्र्यं नास्ति धनं न बान्धवबलं नैवास्ति कश्चिद्गणः ।
द्यूतस्त्रीव्यसनं न मुञ्चति तथापीशस्तदस्मात्फलं
किं मे स्यादिति चिन्तयन्निव कृशो भ्ङ्गी चिरं पातु वः ॥१५५॥

कस्यचित।

३२. गणोच्चावचम्

स्थूलो दूरमयं न यास्यति कृशो नैष प्रयाणक्षमस्
तेनैकस्य ममैव तत्र कशिपुप्राप्तिः परं दृश्यते ।
इत्यादौ परिचिन्तितं प्रतिमुहुस्तद्भृङ्गिकूष्माण्डयोर्
अन्योन्यप्रतिकूलमीशशिवयोः पाणिग्रहे पातु वः ॥१५६॥

कस्यचित। (सु.र. ९९)

चर्चायाः कथमेव रक्षति सदा सद्यो नृमुण्डस्रजं
चण्डीकेशरिणो वृषं च भुजगान्सूनोर्मयूरादपि ।
इत्यन्तःपरिभावयन्भगवतो दीर्घं धियः कौशलं
कूष्माण्डो धृतिसम्भृतामनुदिनं पुष्णाति तुन्दश्रियम् ॥१५७॥

कस्यचित। (सु.र. ९७)

देवी सूनुमसूत नृत्यत गणाः किं तिष्ठतेत्युद्भुजे
हर्षाद्भृङ्गरिटावयाचितगिरा चामुण्डयालिङ्गिते ।
अव्याद्वो हतदुन्दुभिस्वनघनध्वानातिरिक्तस्तयोर्
अन्योन्यप्रचलास्थित्पञ्जररणत्कङ्कालजन्मा रवः ॥१५८॥

योगेश्वरस्य । (सु.र. ७१, सूक्तिमुक्तावलि २.५५)

शृङ्गं भृङ्गिन्विमुञ्च त्यज गजवदन त्वं च लाङ्गूलमूलं
मन्दानन्दोऽसि नन्दिन्नलमबल महाकाल कण्ठग्रहेण ।
इत्युक्त्वा नीयमानः सुखयतु वृषभः पार्वतीपादमूले
पश्यन्नक्षैर्विलक्षं वलितगलचलत्कम्बलं त्र्यम्बकं वः ॥१५९॥

अभिनन्दस्य । (सु.र. ७७)

दिग्वासा वृषवाहनो नरशिरोधारी दधानोऽजिनं
भिक्षुर्भस्मभुजङ्गभूषिततनुर्भूतैर्भ्रमन्काननम् ।
स्मर्त्èणां शिवकृत्तथापि जगति ज्येष्ठोऽस्मदीयः प्रभुर्
धन्योऽस्मीत्यतितोषपुष्टजठरः कूष्माण्डकोऽव्याज्जगत॥१६०॥

महानिधेः ।

३३. हरिहरौ

यद्बद्धार्धजटं यदर्धमुकुटं यच्चन्द्रमन्दारयोर्
धत्ते धाम च दाम च स्मितलसत्कुन्देन्द्रनीलश्रियोः ।
तत्खट्वाङ्गरथाङ्गसङ्गविकटं श्रीकण्ठवैकुण्ठयोर्
वन्दे नन्दिमहोक्षतार्क्ष्यपरिषन्नामाङ्कमेकं वपुः ॥१६१॥

राजशेखरस्य । (सु.र. १६३९)

नियमितजटावल्लीलीलाप्रसुप्तमहोरगं
चरणकमलप्रान्ते मुक्तस्वविक्रमगोवृषम् ।
विततफणिभुक्पत्रच्छत्रं गदालगुडश्रियं
हरिहरवपुर्ब्रह्मोपास्यं पुनातु जगत्त्रयम् ॥१६२॥

भवानन्दस्य ।

येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो
यो गङ्गां च दधेऽन्धकक्षयकरो यो बर्हिपत्रप्रियः ।
यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः
सोऽव्यादिष्टभुजङ्गहारवलयस्तां सर्वदो माधवः ॥१६३॥

भारवेः । (स्व४४, सूक्तिमुक्तावलि २.१०४, Sआह्.द्. १०.१२)

एकावस्थितिरस्तु वः पुरमुरप्रद्वेषिणोर्देवयोः  
प्रालेयाञ्जनशैलशृङ्गसुभगच्छायाङ्गयोः श्रेयसे ।
तार्क्ष्यत्रासविहस्तपन्नगफटा यस्यां जटापालयो  
बालेन्दुद्युतिकोशसुप्तजलजो यस्यां च नाभीह्रदः ॥१६४॥

तुङ्गोकस्य ।

यज्जम्बूकम्बुरोचिः फणधरपरिषद्भोजिभोगीन्द्रकान्तं
नन्दच्चन्द्रारविन्दद्युतिचरणशिरःस्यन्दिमन्दाकिनीकं  ।
रक्षासंहारदक्षं मदनसमुदयोद्दीपनं शश्वदव्याद्
अव्याघातं विबोधेऽप्युदधिगिरिसुताकान्तयोर्देहमेकम् ॥१६५॥

जलचन्द्रस्य ।

३४. कान्तासहितहरिहरौ

सम्भोगस्पृहयालुमन्मथपुनर्जन्मास्पदं भूर्भुवः
स्वः पायात्पुरुषोत्तमक्रतुभिदोरर्धार्धपूर्णं वपुः ।
यल्लक्ष्मीगिरिजाकटाक्षकुटिलक्रीडाहठाकृष्टिभिः
स्यादेव त्रुटितं परस्परगुणस्यूतं न चेदन्तरा ॥१६६॥

त्रिपुरारिपालस्य ।

वपुरवतु जटाकिरीटमिश्रं
पुरमुरसूदनयोर्विमिश्रितं वः ।
गिरिजलघिसुतास्वभर्तृकण्ठ
ग्रहचलिताहृतबाहुवल्लरीकम् ॥१६७॥

तस्यैव ।

स्फटिकमरकतश्रीहारिणोः प्रीतियोगात्
तदवतु वपुरेकं कामकंसद्विषोर्वः ।
न विरमति भवान्याः सार्धमब्धेर्दुहित्रा
सदृशमहसि कण्ठे यत्र सीमाविवादः ॥१६८॥

योगेश्वरस्य । (शा.प. ११०, सूक्तिमुक्तावलि २.१०३)

देवस्यैकतमालपत्रमुकुटस्यार्धं पुरद्वेषिणो
देहार्धेन समस्यमानमसमं श्वःश्रेयसायास्तु वः ।
यस्मिन्भूधरकन्यकाब्धिसुतयोरप्राप्तसम्भोगयोर्
अन्योन्यप्रतिकर्मनर्मभिदुरो भूयाननङ्गज्वरः ॥१६९॥

हरेः ।

धात्रा सौहृदसीमविस्मितमुखं भेदभ्रमापासनात्
सानन्दं मुनिभिः सनिर्वृति सुरैरेकत्र सेवासुखात।
पार्वत्या स्वपदावकृष्टिकुटिलभ्रूभङ्गमालोकितः
पायाद्वो भगवांश्चराचरगुरुर्देहार्धहारी हरः ॥१७०॥

आर्याविलासस्य ।

३५. गङ्गा

ब्राह्मं तेजो द्विजानां ज्वलयति जडिमप्रक्रमं हन्ति बुद्धेर्
वृद्धिं सेकेन सद्यः शमयति वलिनो दुष्कृतानोकहस्य ।
ऊर्ध्वं चैवात्र लोकादपि नयतितरां जन्मिनो मग्नमूर्तींस्
त्वद्धारावारि काशीप्रणयिनि परितः प्रक्रिया कीदृशीयम् ॥१७१॥

कोलाहलस्य ।

दुर्वारदोषतिमिरागमवासरश्रीः
कैवल्यकैरवविकाससितांशुलेखा ।
जीयात्त्रिविष्टपधुनी कलिकालभग्न
गीर्वाणराजनगराकरवैजयन्ती ॥१७२॥

ग्रहेश्वरस्य ।

तीर्थाटनैः किमधिकं क्षणमीक्षिता चेत्
पीतं त्वदम्बु यदि देवि मुधा सुधापि ।
स्नातं यदि त्वयि विरिञ्चिपदं न दूरे
मुक्तिः करे यदि च सा समुपासितासि ॥१७३॥

विरिञ्चेः ।

तीरं तवावतरतीह यथा यथैव
देहेन देवि जरता मुनजो मुमूर्षुः ।
अम्ब स्वयंवरवशंवदनाकनारी
दोर्वल्लिपल्लवि नभोऽपि तथा तथैव ॥१७४॥

तस्यैव ।

तप्तं यन्न तपो हुतं च न हविर्यज्जातवेदो मुखे
दत्तं यच्च न किंचिदेव न कृतो यत्तीर्थयात्रादरः ।
काकेनेव शुनेव केवलमयं यत्पूरितः पुद्गलो
मातस्त्वां परिरभ्य जाह्नवि स मे शान्तोऽयमन्तर्ज्वरः ॥१७५॥

सेन्तुतस्य ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:56:19.5530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

पुरुषांच्या कष्टाचें खावें पण दृष्टीचें खाऊं नये

  • पुरुषाकरितां श्रम करुन त्यानें मिळविलेलें धन घ्यावें पण केवळ त्याला दृष्टिसुख देऊन म्हणजे त्यानें कामुकतेनें दिलेलें धन घेऊं नये. 
RANDOM WORD

Did you know?

तेल आणि तूप दिवा एकत्र का लावूं नये?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site