कलिविडम्बना

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे नीलकण्ठ दीक्षित रचित कलिविडम्बना.


न भेतव्यं न बोद्धव्यं न श्राव्यं वादिनो वचः  ।
झटिति प्रतिवक्तव्यं सभासु विजिगीषुभिः ॥१॥

असंभ्रमो विलज्जत्वं अवज्ञा प्रतिवादिनि  ।
हासो राज्ञः स्तवश्चेति पञ्चैते जयहेतवस् ॥२॥

उच्चैरुद्घोष्य जेतव्यं मध्यस्थश्चेदपण्डितस् ।
पण्डितो यदि तत्रैव पक्षपातोऽधिरोप्यतां ॥३॥

लोभो हेतुर्धनं साध्यं दृष्टान्तस्तु पुरोहितस् ।
आत्मोत्कर्षो निगमनं अनुमानेष्वयं विधिस् ॥४॥

अभ्यास्यं लज्जमानेन तत्त्वं जिज्ञासुना चिरं ।
जिगीषुना ह्रियं त्यक्त्वा कार्यः कोलाहलो महान् ॥५॥

पाठनैर्ग्रन्थनिर्माणैः प्रतिष्ठा तावदाप्यते  ।
एवं च तथ्यव्युत्पत्तिरायुषोऽन्ते भवेन्न वा ॥६॥

स्तोतारः के भविष्यन्ति मूर्खस्य जगतीतले  ।
न स्तौति चेत्स्वयं च स्वं कदा तस्यास्तु निर्वृतिस् ॥७॥

वाच्यतां समयोऽतीतः स्पष्टं अग्रे भविष्यति  ।
इति पाठयतां ग्रन्थे काठिन्यं कुत्र वर्तते ॥८॥

अगतित्वं अतिश्रद्धा ज्ञानाभासेन तृप्तता  ।
त्रयः शिष्यगुणा ह्येते मूर्खाचार्यस्य भाग्यजास् ॥९॥

यदि न क्वापि विद्यायां सर्वथा क्रमते मतिस् ।
मान्त्रिकास्तु भविष्यामो योगिनो यतयोऽपि वा ॥१०॥

अविलम्बेन संसिद्धौ मान्त्रिकैराप्यते यशस् ।
विलम्बे कर्मबाहुल्यं विख्याप्यावाप्यते धनं ॥११॥

सुखं सुखिषु दुःखेऽपि जीवनं दुःखशालिषु  ।
अनुग्रहायते येषां ते धन्याः खलु मान्त्रिकास् ॥१२॥

यावदज्ञानतो मौनं आचारो वा विलक्षणस् ।
तावन्माहात्म्यरूपेण पर्यवस्यति मान्त्रिके अः ॥१३॥

चारान्विचार्य दैवज्ञैर्वक्तव्यं भूभुजां फलं ।
ग्रहचारपरिज्ञानं तेषां आवश्यकं यतस् ॥१४॥

पुत्र इत्येव पितरि कन्यकेति मातरि  ।
गर्भप्रश्नेषु कथयन्दैवज्ञो विजयी भवेथ् ॥१५॥

आयुस्प्रश्ने दीर्घं आयुर्वाच्यं मौहूर्तिकैर्जनैस् ।
जीवन्तो बहुमन्यन्ते मृताः प्रक्ष्यन्ति कं पुनस् ॥१६॥

सर्वं कोटिद्वयोपेतं सर्वं कालद्वयावधि  ।
सर्वं व्यामिश्रं इव च वक्तव्यं दैवचिन्तकैस् ॥१७॥

निर्धनानां धनावाप्तिं धनिनां अधिकं धनं ।
ब्रुवाणाः सर्वथा ग्राह्या लोकैर्ज्यौतिषिका जनास् ॥१८॥

शतस्य लाभे ताम्बूलं सहस्रस्य तु भोजनं ।
दैवज्ञानां उपालम्भो नित्यः कार्यविपर्यये ॥१९॥

अपि सागरपर्यन्ता विचेतव्या वसुंधरा  ।
देशो ह्यरत्निमात्रेऽपि नास्ति दैवज्ञवर्जितस् ॥२०॥

वारान्के चिद्ग्रहान्के चित्के चिदृक्षाणि जानते  ।
त्रितयं ये विजानन्ति ते वाचस्पतयः स्वयं ॥२१॥

नैमित्तिकाः स्वप्नदृशो देवतानां अमी त्रयः  ।
निसर्गशत्रवः सृष्टा दैवज्ञानां अमी त्रयस् ॥२२॥

स्वस्थैरसाध्यरोगैश्च जन्तुभिर्नास्ति किं चन  ।
कातरा दीर्घरोगाश्च भिषजां भाग्यहेतवस् ॥२३॥

नातिधैर्यं प्रदातव्यं नातिभीतिश्च रोगिणि  ।
नैश्चिन्त्यान्नादिमे दानं नैराश्यादेव नान्तिमे ॥२४॥

भैषज्यं तु यथाकामं पथ्यं तु कठिनं वदेथ् ।
आरोग्यं वैद्यमाहात्म्यादन्यथात्वं अपथ्यतस् ॥२५॥

निदानं रोगनामानि सात्म्यासात्म्ये चिकित्सितं ।
सर्वं अप्युपदेक्ष्यन्ति रोगिणः सदने स्त्रियस् ॥२६॥

जृम्भमाणेषु रोगेषु म्रियमाणेषु जन्तुषु  ।
रोगतत्त्वेषु शनकैर्व्युत्पद्यन्ते चिकित्सकास् ॥२७॥

प्रवर्तनार्थं आरम्भे मध्ये त्वौषधहेतवे  ।
बहुमानार्थं अन्ते च जिहीर्षन्ति चिकित्सकास् ॥२८॥

लिप्समानेषु वैद्येषु चिरादासाद्य रोगिणं ।
दायादाः संप्ररोहन्ति दैवज्ञा मान्त्रिका अपि ॥२९॥

रोगस्योपक्रमे सान्त्वं मध्ये किं चिद्धनव्ययस् ।
शनैरनादरस्शान्तौ स्नातो वैद्यं न पश्यति ॥३०॥

दैवज्ञत्वं मान्त्रिकता भैषज्यं चाटुकौशलं ।
एकैकं अर्थलाभाय द्वित्रियोगस्तु दुर्लभस् ॥३१॥

अनृतं चाटुवादश्च धनयोगो महानयं ।
सत्यं वैदुष्यं इत्येष योगो दारिद्र्यकारकस् ॥३२॥

कातर्यं दुर्विनीतत्वं कार्पण्यं अविवेकतां ।
सर्वं मार्जन्ति कवयः शालीनां मुष्टिकिंकरास् ॥३३॥

न कारणं अपेक्षन्ते कवयः स्तोतुं उद्यतास् ।
किं चिदस्तुवतां तेषां जिह्वा फुरफुरायते ॥३४॥

स्तुतं स्तुवन्ति कवयो न स्वतो गुणदर्शिनस् ।
कीतः कश्चिदलिर्नाम कियती तत्र वर्णना ॥३५॥

एकैव कविता पुंसां ग्रामायाश्वाय हस्तिने  ।
अन्ततोऽन्नाय वस्त्राय ताम्बूलाय च कल्पते ॥३६॥

शब्दाख्यं अपरं ब्रह्म संदर्भेण परिष्कृतं ।
विक्रीयते कतिपयैर्वृथान्यैर्विनियुज्यते ॥३७॥

वर्णयन्ति नराभासान्वाणीं लब्ध्वापि ये जनास् ।
लब्ध्वापि कामधेनुं ते लाङ्गले विनियुञ्जते ॥३८॥

प्रशंसन्तो नराभासान्प्रलपन्तोऽन्यथान्यथा  ।
कथं तरन्तु कवयः कामपारम्यवादिनस् ॥३९॥

यत्सन्दर्भे यदुल्लेखे यद्व्यङ्ग्ये निभृतं मनस् ।
समाधेरपि तज्ज्यायाः शंकरो यदि वर्ण्यते ॥४०॥

----

बन्धवः

गृहिणी भगिनी तस्याः श्वशुरौ श्याल इत्यपि  ।
प्राणिनां कलिना सृष्टाः पञ्च प्राणा इमेऽपरे ॥४१॥

जामातरो भागिनेया मातुला दारबान्धवास् ।
अज्ञाता एव गृहिणां भक्ष्यन्त्याखुवद्गृहे ॥४२॥

मातुलस्य बलं माता जामातुर्दुहिता बलं ।
श्वशुरस्य बलं भार्या स्वयं एवातिथेर्बलं ॥४३॥

जामातुर्वक्रता तावद्यावच्छ्यालस्य बालता  ।
प्रबुध्यमाने सारल्यं प्रबुद्धेऽस्मिन्पलायनं ॥४४॥

भार्या ज्येष्ठा शिशुः श्यालः श्वश्रूः स्वातन्त्र्यवर्तिनी  ।
श्वशुरस्तु प्रवासीति जामातुर्भाग्यधोरणी ॥४५॥

भूषणैर्वासनैः पात्रैः पुत्राणां उपलालनैस् ।
सकृदागत्य गच्छन्ती कन्या निर्मार्ष्टि मन्दिरं ॥४६॥

गृहिणी स्वजनं वक्ति शुष्काहारं मिताशनं ।
पतिपक्ष्यांस्तु बह्वाशान्क्षीरपांस्तस्करानपि ॥४७॥

भार्ये द्वे पुत्रशालिन्यौ भगिनी पतिवर्जिता  ।
अश्रान्तकलहो नाम योगोऽयं गृहमेधिनां ॥४८॥

भार्ये द्वे बहवः पुत्रा दारिद्र्यं रोगसंभवस् ।
जीर्णौ च मातापितरावेकैकं नरकाधिकं ॥४९॥

----

उत्तमऋणाः

स्मृते सीदन्ति गात्राणि दृष्टे प्रज्ञा विनश्यति  ।
अहो महदिदं भूतं उत्तमऋणाभिशाब्धितं ॥५०॥

अन्तकोऽपि हि जन्तूनां अन्तकालं अपेक्षते  ।
न कालनियमः कश्चिदुत्तमार्णस्य विद्यते ॥५१॥

न पश्यामो मुखे दंष्ट्रां न पाशं वा कराञ्जले  ।
उत्तमार्णं अवेक्ष्यैव तथाप्युद्वेजिते मनस् ॥५२॥

----

दारिद्र्यम्

शत्रौ सान्त्वं प्रतीकारः सर्वरोगेषु भेषजं ।
मृत्यौ मृत्युञ्जयध्यानं दारिद्र्ये तु न किं चन ॥५३॥

शक्तिं करोति संचारे शीतोष्णे मर्षयत्यपि  ।
दीपयत्युदरे वह्निं दारिद्र्यं परमौषधं ॥५४॥

गिरं स्खलन्तीं मीलन्तीं दृष्टिं पादौ विसंस्थुलौ  ।
प्रोत्साहयति याच्ञायां राजाज्ञेव दरिद्रता ॥५५॥
*पाठान्तर. ५५बः  एम्. विसंस्थुलौ; एद् विसंस्फुटौ

जीर्यन्ति राजविद्वेषा जीर्यन्त्यविहितान्यपि  ।
आकिंचन्यबलाढ्यानां अन्ततोऽश्मापि जीर्यति ॥५६॥

नास्य चोरा न पिशुना न दायादा न पार्थिवास् ।
दैन्यं राज्यादपि ज्यायो यदि तत्त्वं प्रबुध्यते ॥५७॥

----

धनिनः

प्रकाशयत्यहंकारं प्रवर्तयति तस्करान् ।
प्रोत्साहयति दायादांल्लाक्ष्मीः किं चिदुपस्थिता ॥५८॥

विडम्बयन्ति ये नित्यं विदग्धान्धनिनो जनास् ।
त एव तु विडम्ब्यन्ते श्रिया किम्चिदुपेक्षितास् ॥५९॥

प्रामाण्यबुद्धिः स्तोत्रेषु देवताबुद्धिरात्मनि  ।
कीटबुद्धिर्मनुष्येषु नूतनायाः श्रियः फलं ॥६०॥

शृण्वन्त एव पृच्छन्ति पश्यन्तोऽपि न जानते  ।
विडम्बनानि धनिकाः स्तोत्राणीत्येव मन्वते ॥६१॥

आवृत्य श्रीमदेनान्धानन्योन्यकृतसंविदस् ।
स्वैरं हसन्ति+पार्श्वस्था बालोन्मत्तपिशाचवथ् ॥६२॥

स्तोतव्यैः स्तूयन्ते नित्यं सेवनीयैश्च सेव्यते  ।
न बिभेति न जिह्रेति तथापि धनिको जनस् ॥६३॥

क्षणमात्रं ग्रहावेशो याममात्रं सुरामदस् ।
लक्ष्मीमदस्तु मूर्खाणां आदेहं अनुवर्तते ॥६४॥

श्रीर्मासं अर्धमासं वा चेष्टित्वा विनिवर्तते  ।
विकारस्तु तदारब्धो नित्यं लशुनगन्धवथ् ॥६५॥

कण्टःए मदः कोद्रवजो हृदि ताम्बूलजो मदस् ।
लक्ष्मीमदस्तु सर्वाङ्गे पुत्रदारमुखेष्वपि ॥६६॥

यत्रासीदस्ति वा लक्ष्मीस्तत्रोन्मदः प्रवर्ततां ।
कुलेऽप्यवतरत्येष कुष्ठापस्मारवत्कथं ॥६७॥

अध्यापयन्ति शास्त्राणि तृणीकुर्वन्ति पण्डितान् ।
विस्मारयन्ति जातिं स्वां वराटाः पञ्चषा करे ॥६८॥

बिभर्तु भृत्यान्धनिको दत्तां वा देयं अर्थिषु  ।
यावद्याचकसाधर्म्यं तावल्लोको न मृष्यति ॥६९॥

----

पिशुनाः

धनभारो हि लोकस्य पिशुनैरेव धार्यते  ।
कथं ते तं लघूकर्तुं यतन्तेऽपरथा स्वतस् ॥७०॥

श्रमानुरूपं पिशुने किं उपक्रियते नृपैस् ।
द्विगुणं त्रिगुणं चैव कृतान्तो लालयिष्यति ॥७१॥

ङोकर्णे भद्रकर्णे च जपो दुष्कर्मनाशनस् ।
राजकर्णे जपः सद्यः सर्वकर्मविनाशनस् ॥७२॥

न स्वार्थं किम्चिदिच्छन्ति न प्रेर्यन्ते च केन चिथ् ।
परार्थेषु प्रवर्तन्ते शठाः सन्तश्च तुल्यवथ् ॥७३॥

कालान्तरे ह्यनर्थाय गृध्रो गेहोपरि स्थितस् ।
खलो गृहसमीपस्थः सद्योऽनर्थाय देहिनां ॥७४॥

----

लोभिनः

शुष्कोपवासो धर्मेषु भैषज्येषु च लङ्घनं ।
जपयज्ञश्च यज्ञेषु रोचते लोभशालिनां ॥७५॥

किं वक्ष्यतीव धनिकाद्यावदुद्विजतेऽधनस् ।
किं प्रक्ष्यतीति लुब्धोऽपि तावदुद्विजते ततस् ॥७६॥

सर्वं आतिथ्यशास्त्रार्थं साक्षात्कुर्वन्ति लोभिनस् ।
भिक्षाकबलं एकैकं ये हि पश्यन्ति मेरुवथ् ॥७७॥

धनपालः पिशाचो हि दत्ते स्वामिन्युपस्थिते  ।
धनलुब्धः पिशाचस्तु न कस्मै चन दित्सते ॥७८॥

दातारोऽर्थिभिरर्थ्यन्ते दातृभिः पुनोऽर्थिनस् ।
कर्तृकर्मव्यतीहारादहो निम्नोन्नतं कियथ् ॥७९॥

स्वस्मिन्नसति नार्थस्य रक्षकः संभवेदिति  ।
निश्चित्यैवं स्वयं अपि भुङ्क्ते लुब्धः कथं चन ॥८०॥

प्रस्थास्यमानः प्रविशेत्प्रतिष्ठेत दिने दिने  ।
विचित्रानुल्लिखेद्विघ्नांस्तिष्ठासुरतिथिश्चिरं ॥८१॥

----

धार्मिकाः

प्रदीयते विदुष्येकं कवौ दश नटे शतं ।
सहस्रं दाम्भिके लोके श्रोत्रिये तु न किम्चन ॥८२॥

घटकं सम्यगाराध्य वैराग्यं परमं वहेथ् ।
तावदर्थाः प्रसिद्ध्यन्ति यावच्चापलं आवृतं ॥८३॥

एकतः सर्वशास्त्राणि तुलसीकाष्ठं एकतस् ।
वक्तव्यं किं चिदित्युक्तं वस्तुतस्तुलसी परा ॥८४॥

विस्मृतं वाहटेनेदं तुलस्याः पठता गुणन् ।
विश्वसंमोहिनी वित्त- दायिनीति गुणद्वयं ॥८५॥

कौपीनं भसितालेपो दर्भा+रुद्राक्षमालिका  ।
मौनं एकासिका चेति मूर्खसंजीवनानि षठ् ॥८६॥

वासः पुण्येषु तीर्थेषु प्रसिद्धश्च मृतो गुरुस् ।
अध्यापनावृत्तयश्च कीर्तनीया धनार्थिभिस् ॥८७॥

मन्त्रभ्रंशे संप्रदायः प्रयोगश्च्युतसंकृतौ  ।
देशधर्मस्त्वनाचारे पृच्छतां सिद्धं उत्तरं ॥८८॥

यथा जानन्ति बहवो यथा वक्ष्यन्ति दातरि  ।
तथा धर्मं चरेत्सर्वं न वृथा किं चिदाचरेथ् ॥८९॥

सदा जपपटो हस्ते मध्ये मध्येऽक्षिमीलनं ।
सर्वं ब्रह्मेति वादश्च सद्यस्प्रत्ययहेतवस् ॥९०॥

आमध्याह्नं नदीवासः समाजे देवतार्चनं ।
सततं शुचिवेषश्च इत्येतद्दम्भस्य जीवितं ॥९१॥

तावद्दीर्घं नित्यकर्म यावत्स्याद्द्रष्टृमेलनं ।
तावत्संक्षिप्यते सर्वं यावद्द्रष्टा न विद्यते ॥९२॥

आनन्दबाष्पर्ॐआञ्चौ यस्य स्वेच्छावशंवदौ  ।
किं तस्य साधनैरन्यैः किंकराः सर्वपार्थिवास् ॥९३॥

----

दुर्जनाः

दण्ड्यमाना विकुर्वन्ति लाल्यमानास्ततस्तरां ।
दुर्जनानां अतो न्याय्यं दूरादेव विसर्जनं ॥९४॥

अदानं ईषद्दानं च किम्चित्कोपाय दुर्धियां ।
संपूर्णदानं प्रकृतिर्विरामो वैरकारणं ॥९५॥

ज्यायानसंस्तवो दुष्टैरीर्ष्यायै संस्तवः पुनस् ।
अपत्यसंबन्धविधिः स्वानर्थायैव केवलं ॥९६॥

ज्ञातेयं ज्ञानहीनत्वं पिशुनत्वं दरिद्रता  ।
मिलन्ति यदि चत्वारि तद्दिशेऽपि नमो नमस् ॥९७॥

परछिद्रेषु हृदयं परवार्तासु च श्रवस् ।
परमर्मासु वाचं च खलानां असृजद्विधिस् ॥९८॥

विषेण पुच्छलग्नेन वृश्चिकः प्राणिनां इव  ।
कलिना दशमांशेन सर्वः कालोऽपि दारुणस् ॥९९॥

यत्र भार्यागिरो वेदा यत्र धर्मोऽर्थसाधनं ।
यत्र स्वप्रतिभा मानं तस्मै श्रीकलये नमस् ॥१००॥

कामं अस्तु जगत्सर्वं कालस्यास्य वशंवदं ।
कालकालं प्रपन्नानां कालः किं नः करिष्यति? ॥१०१॥

कविना नीलकण्ठेन कलेरेतद्विडम्बनं ।
रचितं विदुषां प्रीत्यै राजास्थानानुमोदनं॥ १०२॥


इति नीलकण्ठविरचितं कलिविडम्बनं संपूर्णम्

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP