रावणवध - भाग १०

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे कवी भट्टि रचित रावणवध.


१०.११ अथ स वल्कदुकूलकुथाऽऽदिभिः परिगतो ज्वलदुद्धतवालधिः
१०.१२ उदपतद्दिवमाकुललोचनैर्नृरिपुभिः सभ्यैरभिवीक्षितः.
१०.२१ रणपण्डितोऽग्र्यविबुधाऽरिपुरे कलहं स राममहितः कृतवान्,
१०.२२ ज्वलदग्नि रावणगृहं च बलात्बलहंस्राममहितः कृतवान्.

पादाऽन्तयमकम्
१०.३१ निखिलाऽभवन्न सहसा सहसा ज्वलनेन पूः प्रभवता भवता
१०.३२ वनिताजनेन वियता वियता त्रिपुराऽपदं नगमिता गमिता.
पदाऽऽदियमकम्
१०.४१ सरसां सरसां परिमुच्य तनुं पततां पततां ककुभो बहुशः
१०.४२ सकलैः सकलैः परितः करुणै रुदितै रुदितैरिव खं निचितम्.
पादमध्ययमकम्
१०.५१ न च कांचन काञ्चनसद्मचितिं न कपिः शिखिना शिखिना समयौत्,
१०.५२ न च न द्रवता द्रवता परितो हिमहानकृता न कृता क्व च न.
चक्रवालयमकम्
१०.६१ अवसितं हसितं प्रसितं, मुदा विलसितं ह्रसितं स्मरभासितम्,
१०.६२ न समदाः प्रमदा हतसंमदाः, पुरहितं विहितं न समीहितम्.
समुद्रयमकम्
१०.७१ समिद्धशरणा दीप्ता देहे लङ्का मतेश्वरा
१०.७२ समिद्धशरणाऽऽदीप्ता देहेऽलंकामतेश्वरा
काञ्चीयमकम्
१०.८१ पिशिताऽशिनामनुदशं स्फुटतां स्फुटतां जगाम परिविह्वलता,
१०.८२ हलता जनेन बहुधा चरितं चरितं महत्त्वरहितं महता.
१०.९१ न गजा नगजा दयिता दयिता, विगतं विगतं, ललितं ललितम्,
१०.९२ प्रमदा प्रमदाऽऽमहता, महता मरणं मरणं समयात्समयात्.
१०.१०१ न वानरैः पराक्रान्तां महद्भिर्भीमविक्रमैः
१०.१०२ न वा नरैः पराक्रान्तां ददहा नगरीं कपिः.
१०.१११ द्रुतं द्रुतं वह्निसमागतं गतं महीमहीनद्युतिरोचितं चितम्
१०.११२ समं समन्तादपगोपुरं पुरं परैः परैरप्यनिराकृतं कृतम्
१०.१२१ नश्यन्ति ददर्श वृन्दानि कपीन्द्रः
१०.१२२ हारीण्याबलानां हारीण्याबलानाम्.
१०.१३१ नारीणामपनुनुदुर्न देहखेदान्नाऽऽरीणाऽमलसलिला हिरण्यवाप्यः,
१०.१३२ नाऽऽरीणामनलपरीतपत्रपुष्पान्नाऽरीणामभवदुपेत्य शर्म वृक्षान्.
१०.१४१ अथ लुलितपतत्रिमालं रुग्णाऽसनबाणकेशरतमालम्
१०.१४२ स वनं विविक्तमालं सीतां द्रष्टुं जगामाऽलम्.
१०.१५१ घनगिरीन्द्रविलङ्घनशालिना वनगता वनजद्युतिलोचना
१०.१५२ जनमता ददृशे जनकाऽऽत्मजा तरुमृगेण तरुस्थलशायिनी
विपथयमकम्
१०.१६१ कान्ता महमाना दुःखं च्युतभूषा
१०.१६२ रामस्य वियुक्ता कान्ता सहमाना.
मध्याऽन्तयमकम्
१०.१७१ मितमवददुदारं तां हनूमान्मुदाऽरं रघुवृषभसकाशं यामि देवि ! प्रकाशम्
१०.१७२ तव विदितविषादो दृष्टकृत्स्नाऽऽमिषादः श्रियमनिशमवन्तं पर्वतं माल्यवन्तम्.
गर्भयमकम्
१०.१८१ उदपतद्वियदप्रगमः परै रुचितमुन्नतिमत्पृथुसत्त्ववत्
१०.१८२ रुचितमुन्नतिमत्पृथुसत्त्ववत्प्रतिविधाय वणुर्भयदं द्विषाम्.
सर्वयमकम्
१०.१९१ बभौ मरुत्वान्विकृतः समुद्रो, बभौ मरुत्वान्विकृतः समुद्रः,
१०.१९२ बभौ मरुत्वान्विकृतः समुद्रो, बभौ मरुत्वान्विकृतः स मुद्रः.
महायमकम्
१०.२०१ अभियाता वरं तुङ्गं भूभृतं रुचिरं पुरः कर्कशं प्रथितं धाम ससत्वं पुष्करेक्षणम्.
१०.२०२ अभियाऽताऽऽवरं तुङ्गं भूभृतं रुचिरं पुरः कर्कशं प्रस्थितं धाम ससत्वं पुष्करे क्षणम्.
आद्यन्तयमकम्
१०.२११ चित्रं चित्रमिवाऽऽयातो विचित्रं तस्य भूभृतम्
१०.२१२ हरयो वेगमासाद्य संत्रस्ता मुमुहुर्मुहुः.
आदिदीपकम्
१०.२२१ गच्छन्स वारीण्यकिरत्पायोधेः, कूलस्थितांस्तानितरूनधुन्वन्,
१०.२२२ पुष्पाऽऽस्तरांस्तेऽङ्गसूखानतन्वन्, तान्किन्नरा मन्मथिनोऽध्यतिष्ठन्.
अन्तदीपकम्
१०.२३१ स गिरिं तरुखण्डमण्डितं समवाप्य त्वरया लतामृगः
१०.२३२ स्मितदर्शितकार्यनिश्चयः कपिसैन्यैर्मुदितैरमण्डयत्.
मध्यदीपकम्
१०.२४१ गरुडाऽनिलतिग्मरश्मयः पततां यधपि संमता जवे,
१०.२४२ अचिरेण कृताऽर्थमागतं तममन्यन्त तथाप्यतीव ते.
रूपकम्
१०.२५१ व्रणकन्दरलीनशस्त्रसर्पः पृथुवक्षःस्थलकर्कशोरुभित्तिः
१०.२५२ च्युतशोणितबद्धधातुरागः  शुशुभे वानरभूधरस्तदाऽसौ.
अस्यैव भेदा अपरे चत्वारः एतद्विशिष्टोपमायुक्तं रूपकम्
१०.२६१ चलपिङ्गकेशरहिरण्यलताः स्थुटनेत्रपङ्क्तिमणिसंहतयः
१०.२६२ कलधैतसानव इवाऽथ गिरेः कपयो बहूः पवनजाऽऽगमने.
एतच्छेषाऽर्थाऽन्ववसितमवतंसकम्
१०.२७१ कपितोयनिधीन्प्लवङ्गमेन्दुर्मदयित्वा मधुरेण दर्शनेन
१०.२७२ वचनाऽमृतदीधितीर्वितन्व न्नकृताऽऽनन्दपरीतनेत्रवारीन्.
अर्धरूपकम्
१०.२८१ परिखेदितविन्ध्यवीरुधः परिपीताऽमलनिर्झराऽम्भसः
१०.२८२ दुधुवुर्मधुकाननं ततः कपिनागा मुदिताऽङ्गदाऽऽज्ञया.
एतदन्वर्थोपमायुक्तं ललामकम्
१०.२९१ विटपिमृगविषादध्वान्तनुद्वानराऽर्कः प्रियवचनमयुखैर्बोधिताऽर्थाऽरविन्दः,
१०.२९२ उदयगिरिमिवाऽद्रिं संप्रमुच्याऽभ्यगात्खं नृपहृदयगुहाखं घ्नन्प्रमोहाऽन्धकारम्.
इवोपमा
१०.३०१ रघुतनयमगात्तपोवनखं विधृतजटाऽजिनवल्कलं हनूमान्
१०.३०२ परमिव पुरुषं नरेण युक्तं समशमवेशसमाधिनाऽनुजेन,
यथोपमा
१०.३११ करपुटनिहितं दधत्स रत्नं परिविरलाऽङ्गुलि निर्गताऽल्पदीप्ति
१०.३१२ तनुकपिलघनस्थितं यथेन्दुं नृपमनमत्परिभुग्नजानुमूर्धा.
सहोपमा
१०.३२१ रुचिरोन्नतरत्नगौरवः परिपूर्णाऽमृतरश्मिमण्डलः
१०.३२२ समदृश्यत जीविताऽऽशया सह रामेण वधूशिरोमणिः.
तद्धितोपमा
१०.३३१ अवसन्नरुचिं वनाऽऽगतं तमनाऽऽमृष्टरजोविधूसरम्
१०.३३२ समपश्यदपेतमैथिलिं दधतं गौरवमात्रमात्मवत्.
लुप्तोपमा
१०.३४१ सामर्थ्यसंपादितवाञ्छिताऽर्थश्चिन्तामणिः स्यान्न कथं हनूमान्,
१०.३४२ सलक्ष्मणो भूमिपतिस्तदानीं शाखामृगाऽनीकपतिश्च मेने.
समोपमा
१०.३५१ "युश्मानचेतन्क्षयवायुकल्पान्सीतास्फुलिङ्गं परिगृह्य जाल्मः
१०.३५२ लङ्कावनं सिंहसमोऽधिशेते मर्तुं द्विषन्नित्यवदद्धनूमान्
अर्थाऽन्तरन्यासः
१०.३६१ "अहृत धनेश्वरस्य युधि यः समेतमायो धनं, तमहमितो विलोक्य विबुधैः कृतोत्तमाऽऽयोधनम्
१०.३६२ विभवमदेन निह्नुतह्रियाऽतिमात्रसंपन्नकं, व्यथयति सत्पथादधिगताऽथवेह संपन्न कम्.
आक्षेपः
१०.३७१ ऋद्धिमान्राक्षसो मूढश्, चित्रं नाऽसौ यद्दुधतः,
१०.३७२ को वा हेतुरनार्याणां धर्म्ये वर्त्मनि वर्तितुम्.
आक्षेप एव
१०.३८१ तस्याऽधिवासे तनुरुत्सुकाऽसौ दृष्टा मया रामपतिः प्रमन्युः,
१०.३८२ कार्यस्य सारोऽयमुदीरितो वः, प्रोक्तेन शेषेण किमुद्धतेन.
व्यतिरेकः
१०.३९१ समतां शशिलेखयोपयाया दवदाता प्रतनुः क्षयेण सीता,
१०.३९२ यदि नाम कलङ्क इन्दुलेखा मतिवृत्तो लघयेन्न चाऽपि भावी.
विभावना
१०.४०१ अपरीक्षितकारिणा गृहीतां त्वमनासेवितवृद्धपण्डितेन
१०.४०२ अविरोधितनिष्ठुरेण साध्वीं दयितां त्रातुमलं घटस्व राजन्!"
समासोक्तिः
१०.४११ स च विह्वलसत्त्वसंकुलः परिशुष्यन्नभवन्महाह्रदः
१०.४१२ परितः परितापमूर्च्छितः, पतितं चाऽम्बु निरभ्रमीप्सितम्.
अतिशयोक्तिः
१०.४२१ अथ लक्ष्मणतुल्यरूपवेशं गमनाऽऽदेशविनिर्गताऽग्रहस्तम्
१०.४२२ कपयोऽनुययुः समेत्य रामं नतसुग्रीवगृहीतसाऽऽदराज्ञम्.
यथासंख्यम्
१०.४३१ कपिपृष्ठगतौ ततो नरेन्द्रौ. कपयश्च ज्वलिताऽग्निपिङ्गलाऽक्षाः
१०.४३२ मुमुचुः, प्रययुर्, द्रुतं समीयुर्, वसुधां, व्य्ॐअ, महीधरं महेन्द्रं
उत्प्रेक्षा
१०.४४१ स्थितमिव परिरक्षितुं समन्ता दुदधिजलौघपरिप्लवाद्धरित्रीम्
१०.४४२ गगनतलवसुन्ध्राऽन्तराले जलनिधिवेगसहं प्रसार्य देहं
वार्ता
१०.४५१ विषधरनिलये निविष्टमूलं शिखरशतैः परिमृष्टदेवलोकम्
१०.४५२ घनविपुलनितम्बपूरिताशं फलकुसुमाऽऽचितवृक्षरम्यकुञ्जं
प्रेयः
१०.४६१ मधुकरविरुतैः प्रियाध्वनीनां सरसिरुहैर्दयिताऽऽस्यहास्यलक्ष्म्याः
१०.४६२ स्फुटमनुहरमाणमादधानं पुरुषपतेः सहसा परंप्रमोदं
रसवत्
१०.४७१ ग्रहमणिरसनं दिवो नितम्बं विपुलमनुत्तमलब्धकान्तियोगम्
१०.४७२ च्युतघनवसनं मनोऽभिरामं शिखरकरैर्मदनादिव स्पृशन्तं
ऊर्जस्वी
१०.४८१ प्रचपलमगुरुं भराऽसहिष्णुं जनमसमानमनूर्जितं विवर्ज्य
१०.४८२ कृतवसतिमिवाऽर्णवोपकण्ठे स्थिरमतुलोन्नतिमूढतुङ्गमेघम्.
पर्यायोक्तिः
१०.४९१ स्फठिकमणिगृहैः सरत्नदीपैः प्रतरुणकिन्नरगीतनिस्वनैश्च
१०.४९२ अमरपुरमतिं सुराऽङ्गनानां दधतमदुःखमनल्पकल्पवृक्षम्.
समाहितम्
१०.५०१ अथ ददृशुरुदीर्णधूमधूम्रां दिशमुदधिव्यवधिं समेतसीताम्
१०.५०२ सहरघुतनयाः प्लवङ्गसेनाः पवनसुताऽङ्गुलिदर्शितामुदक्षाः.
उदारम्
१०.५११ जलनिधिमगमन्महेन्द्रकुञ्जात्प्रचयतिरोहिततिग्मरश्मिभासः
१०.५१२ सलिलसमुदयैर्महातरङ्गैर्भुवनभरक्षममप्यभिन्नवेलं
उदारमेव
१०.५२१ पृथुगुरुमणिशुक्तिगर्भभासा ग्लपितरसातलसंभृताऽन्धकारम्
१०.५२२ उपहतरविरश्मिवृत्तिमुच्चैः प्रलघुपरिप्लवमानवज्रजालैः
उदारमेव
१०.५३१ समुपचितजलं विवर्धमानै रमलसरित्सलिलैर्विभावरीषु
१०.५३२ स्फुटमवगमयन्तमूढवारीन्शशधररत्नमयान्महेन्द्रसानून्

श्लिष्टम्
१०.५४१ भुवनभरसहानलङ्घ्यधाम्नः पुरुरुचिरत्नभृतो गुरूरुदेहान्
१०.५४२ श्रमविधुरविलीनकूर्मनक्रान्दधतमुदूढभुवो गिरीनहींश्च
श्लिष्टमेव
१०.५५१ प्रददृशुरुरुमुक्तशीकरौघान्विमलमणिद्युतिसंभृतेन्द्रचापान्
१०.५५२ जलमुच इव धीरमन्द्रघोषान्क्षितिपरितापहृतो महातरङ्गान्
हेतुश्लिष्टम्
१०.५६१ विद्रुममणिकृतभूषा मुक्ताफलनिकररञ्जिताऽऽत्मानः
१०.५६२ बभुरुदकनागभग्ना वेलातटशिखरिणो यत्र,
अपह्नुतिः
१०.५७१ भृतनिखिलरसातलः सरत्नः शिखरिसमोर्मितिरोहिताऽन्तरीक्षः
१०.५७२ कुत इह परमाऽर्थतो जलौघो जलनिधिमीयुरतः समेत्य मायां
विशेषोक्तिः
१०.५८१ शशिरहितमपि प्रभूतकान्तिं विबुधहृतश्रियमप्यनष्टशोभम्
१०.५८२ मथितमपि सुरैर्दिवं जलौघैः समभिभवन्तमविक्षतप्रभावं
व्याजस्तुतिः
१०.५९१ क्षितिकुलगिरिशेषदिग्गजेन्द्रान्सलिलगतामिव नावमुद्वहन्तम्
१०.५९२ धृतविधुरधरं महावराहं गिरिगुरुपोत्रमपीहितैर्जयन्तं
उपमारूपकम्
१०.६०१ गिरिपरिगतचञ्चलाऽऽपगाऽन्तं जलनिवहं दधतं मनोऽभिरामम्
१०.६०२ गलितमिव भुवो विलोक्य रामं धरणिधरस्तनशुक्लचीनपट्टम्.
तुल्ययोगिता
१०.६११ अपरिमितमहाऽद्भुतैर्विचित्रश्च्युतमलिनः शुचिभिर्महानलङ्घ्यैः
१०.६१२ तरुमृगपतिलक्ष्मणक्षितीन्द्रैः समधिगतो जलधिः परं बभासे.
निदर्शनम्
१०.६२१ न भवति महिमा विना विपत्ते रवगमयन्निव पश्यतः पयोधिः
१०.६२२ अविरतमभवत्क्षणे क्षणेऽसौ शिखरिपृथुप्रथितप्रशान्तवीचिः.
विरोधः
१०.६३१ मृदुभिरपि बिभेद पुष्पबाणैश्चलशिशिरैरपि मारुतैर्ददाह
१०.६३२ रघुतनयमनर्थपण्डितोऽसौ, न च मदनः क्षतमाततान्, नाऽर्चिः
उपमेयोपमा
१०.६४१ अथ मृदुमलिनप्रभौ दिनाऽन्ते जलधिसमीपगतावतीतलोकौ
१०.६४२ अनुकृतिमितरेतरस्य मूर्त्योर्दिनकरराघवनन्दनावकार्ष्टाम्.
सहोक्तिः
१०.६५१ अपहरदिव सर्वतो विनोदान्दयितगतं दधदेकधा समाधिम्
१०.६५२ घनरुचि ववृधे ततोऽन्धकारं सह रघुनन्दनमन्मथोदयेन.
परिवृत्तिः
१०.६६१ अधिजलधि तमः क्षिपन्हिमांशुः परिददृशेऽथ दृशां कृताऽवकाशः
१०.६६२ विदधदिव जगत्पुनः प्रलीनम्. भवति महान्हि पराऽर्थ एव सर्वः.
ससन्देहः
१०.६७१ अशनिरयमसौ, कुतो निरभ्रे. शितशरवर्षमसत्तदप्यशार्ङ्गम्.
१०.६७२ इति मदनवशो मुहुः शशाऽङ्के रघुतनयो, न च निश्चिकाय चन्द्रम्.
अनन्वयः
१०.६८१ कुमुदवनचयेषु कीर्णरश्मिः क्षततिमिरेशु च दिग्वधूमुखेषु
१०.६८२ वियति च विललास तद्वदिन्दुर्, विलसति चन्द्रमसो न यद्वदन्यः.
उत्प्रेक्षाऽऽवयवः
१०.६९१ शरणमिव गतं तमो निकुञ्जे विटपिनिराकृतचन्द्ररश्म्यरातौ
१०.६९२ पृथुविषमशिलाऽन्तरालसंस्थं सजलघनद्युति भीतवत्ससाद.
संसृष्टिः
१०.७०१ अथ नयनमनोहरोऽभिरामः स्मर इव चित्तभवोऽप्यवामशीलः
१०.७०२ रघुसुतमनुजो जगाद वाचं सजलघनस्तनयित्नुतुल्यघोषः
आशीः
१०.७११ "पतिवधपरिलुप्तलोलकेशीर्नयनजलाऽपहृताऽञ्जनौष्ठरागाः
१०.७१२ कुरु रिपुवनिता, जहीहि शोकं, क्व च शरणं जगतां भवान्, क्व मोहः
हेतुः
१०.७२१ अधिगतमहिमा मनुश्यलोके वत सुतरामवसीदति प्रमादी,
१०.७२२ गजपतिरुरुशैलशृङ्गवर्ष्मा गुरुरवमज्जति पङ्कभाङ्, न दारु.
निपुणम्
१०.७३१ बोद्धव्यं किमिव हि, यत्त्वया न बुद्धं, किं वा ते निमिषितमप्यबुद्धिपूर्वम्,
१०.७३२ लब्धाऽऽत्मा तव सुकृतैरनिष्टशङ्की स्नेहौघो घटयति मां तथापि वक्तुम्."
१०.७४१ स्ॐइत्रेरिति वचनं निशम्य रामो जृम्भावान्भुजयुगलं विभज्य निद्रान्
१०.७४२ अध्यष्ठाच्छिशयिषया प्रवालतल्पं रक्षायै प्रतिदिशमादिशन्प्लवङ्गान्.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP