TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

हर्षचरितम्‌ - अष्टम उच्छ्वासः

हर्षचरित संस्कृत में बाणबट्ट द्वारा रचित एक ग्रन्थ है। इसमें भारतीय सम्राट हर्ष का जीवनचरित वर्णित है।


अष्टम उच्छ्वासः
सहसा संपादयता मनोरथप्रार्थितानि वस्तूनि  ।
दैवेनापि क्रियते भव्यानां पूर्वसेवेव ॥८.१॥
विद्वज्जनसंपर्को नष्टेष्टज्ञातिदर्शनाभ्युदयः  ।
कस्य न सुखाय भवने भवति महारत्नलाभश्च ॥८.२॥

अथापरेद्युरुत्थाय पार्थिवस्तस्माद्ग्रामकान्निर्गत्य विवेश विन्ध्याटवीं ।
आट च तस्यामितश्चेतश्च सुबहून्दिवसान् ।
एकदा तु भूपतेर्भ्रमत एवाटविकसामन्तस्य शरभकेतोः सूनुर्व्याघ्रकेतुर्नाम कुतोऽपि कज्जलश्यामलश्यामलतावलयेनाधिललाटमुच्चैः कृतमौलिबन्धम्, अन्धकारिणीमकारणभुवा भ्रकुटिभङ्गेन त्रिशाखेन त्रिशाखेन त्रियामामिव साहससहचारिणीं ललाटस्थलीं सदा समुद्वहन्तम्, अवतंसितैकशुकपक्षकप्रभाहरितायमानेन पिनद्धकाचरकाचमणिकर्णिकेन श्रवणेन शोभमानम्, किञ्चिच्चुल्लस्य प्रविरलपक्ष्मणश्चक्षुषः सहजेन रागरोचिषा रसायनरसोपयुक्तं तारक्षवं क्षतजमिव क्षरन्तम्, अवनाटनासिकं चिपिटाधरम्, चिकिनचिबुकम्, अपीनहनूत्कटकपोलकूटास्थिपर्यन्तमीषदवाग्रग्रीवाबन्धम्, स्खन्नस्कन्धार्धभागम्, अनवरतकठिनकोदण्डकुण्डलीकरणकर्कशव्यायामविस्तारितेनांसलेनोरसा हसन्तमिव तटशिलाप्रथिमानं विन्ध्यगिरेः, अजगरगरीयसा च भुजयुगलेन लघयन्तं तुहिनशैलशालद्रुमाणां द्राघिमाणम्, वराहबालवलितबन्धनाभिर्नागदमनजूटिकावाटिकाभिर्जटिलीकृतपृष्ठे प्रकोष्ठे प्रतिष्ठां गतं गोदन्तमणिचित्रं त्रापुषं वलयं बिभ्राणम्, अतुन्दिलमपि तुण्डिभम्, अहीरमणिचर्मनिर्मितपट्टिकयोश्चित्रचित्रकत्वक्तारकितपरिवारया संकुब्जाजिनजालकितया शृङ्गमयमसृणमुष्टिभागभास्वरया पारदरसलेशलिप्तसमस्तमस्तिकया कृपाण्या करलितविशङ्कटकटिप्रदेशम्, प्रथमयौवनोल्लिख्यमानमद्यभागभ्रष्टमांसभरिताविव स्थवीयसावूरुदम्डौ दधतम्, अच्छभल्लचर्ममयेन भल्लीप्रायप्रभूतशरभृता शबलशार्दूलचर्मपटपीडिते नालिकुलकालकम्बललोलल्ॐना पृष्ठभागभाजा भस्राभरणेन पल्लवितमिव कार्श्यमुपदर्शयन्तं उत्तरत्रिभागोत्तंसितचाषपिच्छचारुशिखरे खदिरजटानिर्माणे खरप्राणे प्रचुरमयूरपित्तपत्रलताचित्रितत्वचि त्वचिसारगुणे गुरुणि वामस्कन्धाध्यासितधनुषि दोषि लम्बमानेनावाक्शिरसा शितशरकृत्तैकनलकविवरप्रवेशितेतरजङ्गजनितस्वस्तिकबन्धेन बन्धूकलोहितरुधिरराजिरञ्जितघ्राणवर्त्मना वपुर्विततिव्यक्तविभाव्यमानक्ॐअलक्रोडर्ॐअशुक्लिम्ना शशेन शिताटनीशिखाग्रग्रथितग्रीवेण चापावृतचञ्चूत्तानताम्रतालुना तित्तिरिणा वर्णकमुष्टिमिव मृगयायाः, दर्शयन्तम्, विषमविषदूषितवदनेन च विकर्णेन कृष्णाहिनेव मूलगृहीतेन व्यग्रदक्षिणकराग्रम्, जङ्गममिव गिरितटतमालपादपम्, यन्त्रोल्लिखितमश्मसारस्तम्भमिव भ्रमन्तम, अञ्जनशिलाच्छेदमिव चलन्तम्, अयःसारमिव गिरेर्विन्ध्यस्य गलन्तम्, पाकलं करिकुलानाम्, कालपाशं कुरङ्गयूथानाम्, धूमकेतुं मृगराजचक्राणाम्, महानवमीमहं महीषमण्डलानाम्, हृदयमिव हिंसायाः, फलमिंव पापस्य, कारणमिव कलिकालस्य, कामुकमिव कालरात्रेः शबरयुवानमादायाजगाम ।
दूरे च स्थापयित्वा विज्ञापयांबभूव--देव! सर्वस्यास्य विन्ध्यस्य स्वामी सर्वपल्लीपतीनां प्राग्रहरः शबरसेनापतिर्भूकम्पो नाम ।
तस्यायं निर्घातनामा स्वस्रीयः सकलस्यास्य विन्ध्यकान्तारारण्यस्य पर्णानामप्यभिज्ञः किमुत प्रदेशानां ।
एनं पृच्छतु देवो योग्योऽयमाज्ञां कर्तुम्ऽ ।
इति कथिते च निर्गातस्तु क्षितितलनिहितमौलिः प्रणाममकरोत् ।
उपनिन्ये च तित्तिरिणा सह शशोपायनं ।
अवनिपतिस्तु संमानयन्स्वयमेव तमप्राक्षीत्--"अङ्ग! अभिज्ञा यूयमस्य सर्वस्योद्देशस्य? विहारशीलाश्च दिवसष्वेतेषु भवन्तः? सेनापतेर्वान्यस्य वा तदनुजीविनः कस्यचिदुदाररूप नारी न गता भवेद्दर्शनगोचरम्?ऽ इति ।
निर्घातस्तु भूपालालापनप्रसादेनात्मानं बहुमन्यमानः प्रणनाम, दर्शितादरं च व्यज्ञापयत्--"देव! प्रायेणात्र हिरण्योऽपि नापरिगताः संचरन्ति सेनापतेः, कुत एव नार्यः? नाप्येवंरूपा काचिदबला ।
तथापि देवादेशादिदानीमन्वेषणं प्रति प्रतिदिनमनन्यकृत्यैः क्रियते यत्नः ।
इतश्चार्धगव्यूतिमात्र एव मुनिमहिते महति महीधरमालामूलरुहि महीरुहां षण्डेऽपि पिण्डपाती प्रभूतान्तेवासिपरिवृतः पाराशरी दिवाकरमित्रनामा गिरिनदीमाश्रित्य प्रतिवसति, स यदि विन्देद्वार्ताम्ऽ इति ।
तच्छ्रु त्वा नरपतिरचिन्तयत्--श्रूयते हि तत्रभवतः सुगृहीतनाम्नः स्वर्गतस्य ग्रहवर्मणो बालमित्रं मैत्रायणीयस्त्रयीं विहाय ब्राह्नणायनो विद्वानुत्पन्नसमाधिः सौगते मते युवैव काषायाणि गृहीतवान्ऽ इति ।
प्रायशश्च जनस्य जनयति सुहृदपि दृष्टो भृशमाश्वासं ।
अभिगमनीयाश्च गुणाः सर्वस्य ।
कस्य न प्रतीक्ष्यो मुनिभावः ।
भगवती च वैधेयेऽपि धर्मगृहिणी गरिमाणमापादयति प्रव्रज्या, किं पुनः सकलजनमन्ॐउषि विदुषि जने ।
यतो नः कुतूहलि हृदयमभूत्सततमस्य दर्शनं प्रति प्रासङ्गिकमेवेदमापतितमतिकल्याणं पश्यामः प्रयत्नप्रार्थितदर्शनं जनमिति ।
प्रकाशं चाब्रवीत्--"अङ्क! समुपदिश तमुद्देशं यत्रास्ते स पिण्डपातीऽ इति ।
एवमुक्त्वा च तेनेवोपदिश्यमानवर्त्मा प्रावर्तत गन्तुं ।
अथ क्रमेण गच्छत एव तस्य अनवकेशिनः कुड्मलितकर्णिकाराः, प्रचूरचम्पकाः स्फीतफलेग्रहयः, फलभरभरितनमेरवः नीलदलन लदनारिकेलनिकराः, हरिकेसरसरलपरिकराः कोरकनिकुरम्बर्ॐआञ्चितकुरबकराजयः, रक्ताशोकपल्लवलावण्यलिप्यमानदशदिशः, प्रविकसितकेसररजोविसरबध्यमानचारुधूसरिमाणः स्वरजः सिकतिलतिलकतालाः, प्रविचलितहिङ्गवः, प्रचुरपूगफलाः, प्रसवपूगपिङ्गलप्रियङ्गवः, परागपिञ्जरितमञ्जरीपुञ्जायमानमधुपमञ्जुशिञ्जाजनितजनमुदः, मदमलमेचकितमुचुकुन्दस्कन्धकाण्डकथ्यमाननिःशङ्ककरिकरटकण्डूतयः, उड्डीयमाननिःशङ्कचटुलकृष्णशारशावसकलशाद्वलसुभगभूमयः, तमः कालतमतमालमालामीलितातपाः, स्तबकदन्तुरितदेवदारवः, तरलताम्बूलीस्तम्बजालकितजम्बूजम्भीरवीथयः, कुसुमरजोधवलधूलीकदम्बचक्रचुम्बितव्य्ॐआनः, बहलमधुमोक्षोक्षितक्षितयः, परिमलघटितघनघ्राणतृप्तयः, कतिपयदिवससूतकुक्कुटीकुटीकृतकुटजकोटराः, चटकासंचार्यमाणवाचाटचाटकैरक्रियमाणचाटवः, सहचरोचारणचञ्चुरचकोरचञ्चवः, निर्भयभूरिभुरुण्डभुज्यमानपाककपिलपीलवः, सदाफलकट्फलविशसननिःशूकशुकशकुन्तशातितशलाटवः, शैलेयसुकुमारशिलातलसुखशयितशशशिशवः, शेफालिकाशिफाविवरविस्रब्धविवर्तमानगौधेरराशयः, निरातङ्करह्गवः, निराकुलनकुलकुलकेलयः, कलकोकिलकुलकवलितकलिकोद्रमाः, सहकारारामर्ॐअन्थायमानचमरयूथाः, यथासुखनिषण्णनीलाण्डजमण्डलाः, निर्विकारवृकविलोक्यमानपोतपीतगवयधेनवः, श्रवणहारिसनीडगिरिनितम्बनिर्झरनिनादनिद्रानन्दमन्दायमानकरिकुलकर्णतालदुन्दुभ्यः समासन्नकिन्नरीगीतरवरसमानरुरवः, प्रमुदिततरतरक्षवः, क्षतहरितहरिद्राद्रवरज्यमाननववराहपोतपोत्रवलयः, गुञ्जाकुञ्जगुञ्जज्जाहकाः, जातीफलकसुप्तशालिजातकवलयः, दशनकुपितकपिपोतपेटकपाटितपाटलमुखकीटपुटकाः, लकुचलम्पटगोलाङ्गूललङ्घ्यमानलवलयः, बद्धवालुकालवालवलयाः, कुटिलकुटावलिवलितवेगगिरिनदिकास्रोतसः निबिडशाखाकाण्डलम्बमानकमण्डलवः, सूत्रशिक्यासक्तरिक्तभिक्षाकपालपल्लवितलतामण्डपाः, निकटकुटीकृतपाटलमुद्राचैत्यकमूर्तयः, चोवराम्बररागकषायोदकदूषितोद्देशाः, मेघमया इव कृतशिखण्डिकुलकोलाहलाः, वेदमया इवापरिमितशाखाभेदगहनाः, माणिक्यमया इव महानीलतनवः, तिमिरमया इव सकलजननयनमुषः, यामुना इवोर्ध्वीकृतमहाह्रदाः, मरकतमणिश्यामलाः क्रीडापर्वतका इव वसन्तस्य, अञ्जनाचला इव पल्लविताः, तनया इवाटवीजाता विन्ध्यस्याद्रेः, पातालान्धकारराशय इव भित्त्वा भुवमुत्थिताः, प्रतिप्रवेशिका इव वर्षावासराणऽम्, अंशावतारा इव कृष्णार्धरात्रीणाम्, इन्द्रनीलमयाः प्रासादा इव वनदेवतानाम्, पुरस्ताद्दर्शनपथमवतेरुस्तरवः ।
ततो नरपतेरभवन्मनस्यदूरवर्तिना खलु भवितव्यं भदन्तेनेति ।
अवतीर्य च गिरिसरिति समुपस्पृश्य युगपद्विश्रामसमयसमुन्मुक्तहेषाघोषबधिरीकृताटवीगहनामस्मिन्नेव प्रदेशे स्थापयित्वा वाजिसेनामवलम्ब्य च तपस्विजनदर्शनोचितं विनयं हृदयेन दक्षिणेन च हस्तेन माधवगुप्तमंसे विरलैरेव राजभिरनुगम्यमानस्चरणाब्यामेव प्रावर्तत गन्तुं ।
अथ तेषां तरूणां मद्ये नानादेशीयैः स्थानस्थानेषु स्थाणूनाश्रितैः शिलातलेषूपविष्टैर्लताभवनान्यध्यावसद्भिररण्यानीनिकुञ्जेषु निलीनैर्विटपच्छायासु निषण्णैस्तरुमूलानि निषेवमाणैर्वीतरागैरार्हतैर्मस्करिभिः श्वेतपटैः पाण्डुरबिक्षुभिर्भागवतैर्वर्णिबिः केशलुञ्चनैः कापिलैर्जैनैर्लोकायतिकैः काणादैरोपनिषदैरैश्वरकारणिकैः कारन्धमिभिर्धर्मशास्त्रिभिः पौराणिकैः साप्ततन्तवैः शाब्दिकैः पाञ्चरात्रिकैरन्यैश्च स्वान्स्वान्सिद्धान्ताञ्शृण्वद्भिरभियुक्तैश्चिन्तयद्भिस्च प्रत्युच्चरद्भिश्च संशयानैश्च निश्चिन्वद्भिश्च व्युत्पादयद्भिश्च विवदमानैश्चाभ्यसद्भिश्च व्याचक्षाणैश्च शिष्यतां प्रतिपन्नैर्दूरादेवावेद्यमानम्, अतिविनीतैः कपिभिरपि चैत्यकर्म कुर्वाणैस्त्रिसरणपरैः परमोपासकैः शुकैरपि शाक्यशासनकुशलैः कोशं समुपदिशद्भिः शिक्षापदोपदेशदोषोपशमशालिनीभिः शारिकाभिरपि धर्मदेशानां दर्शयन्तीभिरनवरतश्रवणगृहीतालोकैः कौशिकैरपि बोधिसत्त्वजातकानि जपद्भिर्जातसौगतशीलशीतलस्वभावैः शार्दूलैरप्यमांसाशिभिरुपास्यमानम्, आसनोपान्तोपविष्टविस्रब्धानेककेसरिशावकतया मुनिपरमेश्वरम्, अकृत्रिम इव सिंहासने निषण्णम्, उपसममिव पिबद्बिर्वनहरिणैर्जिह्वालताभिरुपलिह्यमानपादपल्लवम्, वामकरतलनिविष्टेन नीवारमश्नता पारावतपोतकेन कर्णोत्पलेनेव प्रियां मैत्रीं प्रसादयन्तम्, इतरकरकिसलयनखमयूखलेखाभिर्जनितजनव्यामोहम्, उद्ग्रीवं मयूरं मरकतमणिकरकमिव वारिधाराभिः पूरयन्तम्, इतस्ततः पिपीलकश्रेणीनां श्यामाकतण्डुलकणान्स्वयमेव किरन्तम्, अरुणेन चीवरपटलेन म्रद्रीयसा संवीतम्, बहलबालातपानुलिप्तमिव पौरन्दरं दिग्भागम्, उल्लिखितपझरागप्रभाप्रतिमया रक्तावदातया देहप्रभया पाटलीकृतानां काषायग्रहणमिव दिशामप्युपदिशन्तम्, अनौद्धत्यादध्ॐउखेन मन्दमुकुलितकुमुदाकरेण स्निग्धधवलप्रसन्नेन चक्षुषा जनक्षुण्णक्षुद्रजन्तुजीवनार्थममृतमिव वर्षन्तम्, सर्वशास्त्राक्षरपरमाणुभिरिव निर्मितम्, परमसौगतमप्यवलोकितेश्वरम्, अस्खलितमपि तपसि लग्नम्, आलोकमिव यथावस्थितसकलपदार्थप्रकाशकं दर्शनार्थिनाम्, सुगतस्याप्यभिगमनीयम्, अवधर्मस्याप्याराधनीयमिव, प्रसादस्यापि प्रसादनीयमिव, मानस्यापि माननीयमिव, वन्द्यत्वस्यापि वन्दनीयमिव, आत्मनोऽपि स्पृहणीयमिव, ध्यानस्यापि ध्येयमिव, ज्ञानस्यापि ज्ञेयमिव, जन्म जपस्य, नेमिं नियमस्य, तत्त्वं तपसः, शरीरं शौचस्य, कोशं कुशलस्य, वेश्म विश्वासस्य, सद्वृत्तं सद्वृत्ततायाः, सर्वस्वं सर्वज्ञतायाः, दाक्ष्यं दाक्षिण्यस्य, पारं परानुकम्पायाः, निर्वृति सुखस्य, मध्यमे वयसि वर्तमानं दिवाकरमित्रमद्राक्षीत् ।
अतिप्रशान्तगम्भीराकारारोपितबहुमानश्व सादरं दूरादेव शिरसा वचसा मनसा च ववन्दे ।
दिवाकरमित्रस्तु मैत्रीमयः प्रकृत्या विशेषतस्तेनापरेणादृष्टपूर्वेणामानुषलोकोचितेन सर्वाभिभाविना महानुभावाभोगभाजा म्राजिष्णुना भूपतेरप्राकृतेनाकारविशेषेण तेन चाबिजात्यप्रकाशकेन गरीयसा प्रश्रयेण चाह्लादितश्चक्षुषि च चेतसि च युगपदग्रहीत ।
धीरस्वभावोऽपि च संपादितससंभ्रमाभ्युत्थानः संकलय्य किञ्चिदुद्गमनकेन विलोलं विलम्बमानं वामांसाच्चीवरपटान्तमुत्क्षिप्य चानेकाभयदानदीक्षादक्षिणो दक्षिणं महापुरुषलक्षणलेखाप्रशस्तं स्निग्धमधुरया वाचा स्गौरवमारोग्यदानेन राजानमन्वग्रहीत् ।
अब्यनन्दच्च स्वागतगिरा गुरुमिवाब्यागतं बहु मन्यमानः स्वेनासनेनासद्द्वमत्रेति निमन्त्रयाञ्चकार ।
पार्श्वस्थितं च शिष्यमब्रवीत्--"आयुष्न्! उपानय कमण्डलुना पादोदकम्ऽ इति ।
राजा त्वचिन्तयत्--"अलोहः खलु संयमनपाशः शौजन्यमभिजातानां ।
स्थाने खलु तत्रभवान्गुणानुरागी ग्रहवर्मा बहुशो वर्णितवानस्य गुणान्ऽ इति ।
प्रकाशं चाबभाषे--"भगवन्! भवद्दर्शनपुण्यानुगृहीतस्य मम पुनरुक्त इवायमार्यप्रयुक्तः प्रतिभात्यनुग्रहः ।
चक्षुःप्रमाणप्रसादस्वीकृतस्य च परकरणमिवासनादिदानोपचारचेष्टितं ।
अतिभूमिर्भूमिरेवासनं भवादृशां पुरः संबाषणा मृताभिषेकप्रक्षालितसकलवपुषश्च मे प्रदेशवृत्तिः ।
पाद्यमप्यपार्थकं ।
आसतां भवन्तो यथासुखं ।
आसीनोऽहम्ऽ इत्यभिधाय क्षितावेवोपाविशत् ।
"अलङ्कारो हि परमार्थतः प्रभवतां प्रश्रयातिशयः, रत्नादिकस्तु शिलाभारःऽ इत्याकलय्य पुनः पुनरब्यर्थ्यमानोऽपि यदा न प्रत्यपद्यत पार्थिवो वचनं तदा स्वमेवासनं पुनरपि भेजे भदन्तः ।
भूपतिमुखनलिननिहितनिभृतनयनयुगलनिगडनिश्चलीकृतहृदयस्च स्थित्वा काञ्चित्कालकलां कलिकालकल्मषकालुष्यमिव क्षालयन्नमलाभिर्दन्तमयूखमालाभिर्मूलफलाब्यवहारसंभवमुद्वमन्निव च परिमलसुबगं विकचकुसुमपटलपाण्डुरं लतावनमवादीत्--"अद्यप्रभृति न केवलमयमनिन्द्यो वन्द्योऽपि प्रकाशितसत्सारः संसारः ।
कि नाम नालोक्यते जीवद्भिरद्भुतं येन रूपमचिन्ततोपनतमिदं दृक्पथमुपगतं ।
एवंविधैरनुमीयन्ते जन्मान्तरावस्थितसुकृतानि हृदयोत्सवैः ।
इहापि जन्मनि दत्तमेवास्माकममुना तपःक्लेशेन फलमसुलभदर्शनं दर्शयता देवानांप्रियं ।
आ तृप्तेरापीतममृतमीक्षणाभ्यां ।
जातं निरुत्कण्ठं मानसं निवृत्तिसुखस्य ।
महद्भिः पुण्यैर्विना न विश्राम्यन्ति सज्जने त्वादृसि दृशः ।
सुदिवसः स त्वं यस्मिञ्जातोऽसि ।
सा सुजाता जननी या सकलजीवलोकजीवितजनकमजनयदायुष्मन्तं ।
पुण्यवन्ति पुण्यान्यपि तानि येषामसि परिणामः ।
सुकृततपसस्ते परमाणवो ये तव परिगृहीतसर्वावयवाः ।
तत्सुभगं सौभाग्यमाश्रितोऽसि येन ।
भव्यः स पुरुषभावो भवत्यवस्थितो यः ।
यत्सत्यं मुमुक्षोरपि मे पुण्यभाजमालोक्य पुनः श्रद्धा जाता मनुजजन्मनि ।
नेच्छद्भिरप्यस्माभिर्दृष्टः कुसुमायुधः ।
कृतार्थमद्य चक्षुर्वनदेवतानां ।
अद्य सफलं जन्म पादपानां येषामसि गतो गोचरं ।
अमृतमयस्य भवतो वचसां माधुर्यं कार्यमेव ।
अस्यत्वीदृशे शैशवे विनयस्योपाध्यायं ध्यायन्नपि न संभावयामि भुवि ।
सर्वथा शून्य असीदजाते दीर्घायुषि गुणग्रामः ।
धन्यः स भूभृद्यस्य वंशे मणिरिव मुक्तामयः संभूतोऽसि ।
एवंविध्स्व च पुण्यवतः कथञ्चित्प्राप्तस्य केन प्रियं समाचराम इति पारिप्लवं चेतो नः ।
सकलवनचरसार्थधारणस्य कन्दमूलफलस्य गिरिसरिदम्भसो वा के वयं ।
अपरोपकरणीकृतस्तु कायकलिरयमस्माकं ।
सर्वस्वमवशिष्टमिष्टातिथ्याय ।
स्वायत्तस्च विद्यन्ते विद्याबिन्दवः कतिचित् ।
उपयोगं तु न प्रीतिर्विचारयति ।
यदि च नोपरुणद्धि कञ्चत्कार्यलवमरक्षणीयाक्षरं वा कथनीयं तत्कथयतु भवान्स श्रोतुमभिलषति हृदयं सर्वमिदं नः ।
केन कृत्यातिभारेण भव्यो भूषितवान्भूमिमेतामब्रमणयोग्याम्? कियदवधिर्वायं शून्याटवीपर्यटनवलेशः कल्याणराशेः? कस्माच्च संतप्तरूपेव ते तनुरियमसंतापार्हा विभाव्यते?ऽ इति ।
राजा तु सादरतरमब्रवीत्--"आर्य! दर्शितसंभ्रमेणानेन मधुरसविसरममृतमिव हृदयधृतिकरमनवरतं वर्षता वचसैव ते सर्वमनुष्ठितं ।
धन्योऽस्मि यदेवमभ्यर्हितमनुपचरणीयमपि मान्यो मन्यते मां ।
अस्य च महावनभ्रमणपरिक्लेशस्य कारणमवधारयतु मतिमान् ।
मम हि विनष्टनिखिलेष्टबन्धोर्जीवितानुबन्धस्य निबन्धनमेकैव यवीयसी स्वसावशेषा ।
सापि भर्तुर्वियोगाद्वैरिपरिभवभयाद्ब्रमन्ती कथमपि विन्ध्यवनमिदम्, अशुभशबरबलबहुलम्, अगणितगजकुलकलिलम्, अपरिमितमृगपतिशरभभयम्, उरुमहिषमुषितपथिकगमनम्, अतिनिशितशरकुशपरषम्, अवटशतविषममविशत् ।
अतस्तामन्वेष्टुं वयमनिशं निशि निशि च सततमिमामटवीमटामः ।
न चैनामासादयामः कथयतु च गुरुरपि यदि कदाचित्कुतश्चिद्वने चरतः श्रुतिपथमुपगता तद्वार्ताऽ इति ।
अथ तच्छुत्वा जातोद्वेग इव भदन्तः पुनरभ्यधात्--"धीमन्! न खलु कश्चिदेवंरूपो वृत्तान्तोऽस्मानुपागतवान् ।
अभाजनं हि वयमीदृशानां प्रियाख्यानोपायनानां भवताम्ऽ ।
इत्येवं भा,माण इव तस्मिन्नकस्मादाग्तयापरः शमिनि वयसि वर्तमानः संभ्रान्तरूप इव पुरस्तादुपरचिताञ्जलिर्जातकरुणः प्रक्षरितचक्षुर्बिक्षुरभाषत--"भगवन्भदन्त! महत्करुणं वर्तते ।
बालैव च बलवद्व्यसनाबिभूता भूतपूर्वापि कल्याणरूपा स्त्रोशोकावेशविवशा वैश्वानरं विशति ।
संभावयतु तामप्रोषितप्राणां भगवान् ।
अभ्युपपद्यतां समुचितैः समाश्वासनः ।
अनुपरतपूर्वं कृमिकीटप्रायमपि दुःखितं दयाराशेरार्यस्य गोचरगतम्ऽ इति ।
राजा तु जातानुजाशह्कः सोदर्यस्नेहाच्चान्तर्द्रुत इव दुःखेन दोदूयमानहृदयः कथमपि गद्गदिकागृहीतकण्ठो विकलवाग्बाष्पायमाणदृष्टिः पप्रच्छ--"पाराशरिन्! कियद्दूरे सा योषिदेवञ्जातीया दीवेद्वा कालमेतावन्तमिति ।
पृष्टा वा त्वया भद्रे! कासि, कस्यासि, कुतोऽसि, किमर्थं वनमिदमभ्युपगतासि, विशसि च किंनिमित्तमनलम्? इत्यादितश्च प्रभृति कार्त्स्न्येन कथ्यमानमिच्छामि श्रोतुं कथमार्यस्य गता दर्शनगोचरमाकारतो वा कीदृशोऽ इति ।
तथाभिहितस्तु भूभुजा भिक्षुराजजक्षे--"महाभाग! श्रूयताम्--अहं हि प्रत्युषस्येवाद्य वन्दित्वा भगवन्तमनेनैव नदीरोधसा सैकतसुकुमारेणयदुच्छया विहृतवानतिदूरं ।
एकस्मिंञ्च वनलतागहने गिरिनदीसमीपभाजि भ्रमरीणामिव हिमहतकमलाकरकातराणां रसितं सार्यमाणानामतितारतानवर्तिनीनां वीणातन्त्रीणामिव झाङ्कारमेकतानं नारीणां रुदितमधृतिकरमतिकरुणमाकर्णितवानस्मि ।
समुपजातकृपश्च गतोऽस्मि तं प्रदेशं ।
दृष्टवानस्मि च दृष्त्खण्डखण्डिताङ्गुलिगलल्लोहितेन च पार्ष्णिप्रविष्टशरशलाकाशल्यशूलसंकोचितचक्षुषा चाध्वनीनश्रमश्वयथुनिश्चलचरणेन च स्थाणवव्रणव्यथितगुर्फबद्धभूर्जत्वचा च वातखुडखेदखञ्जजङ्घाजातज्वरेण च पांसुपाण्डुरपिच्छकेन च खर्जूरजूटजटाजर्जरितजानुना च शतावरीविदारितोरुणा च विदारीदारिततनुदुकूलपल्लवेन चोत्कटवंशविटपकण्टककोटिपाटितकञ्चुककर्पटेन स फललोभावलम्बितानम्रबदरीलताजालकैरुत्कण्टकैरुल्लिखितसुकुमारकरोदरेण च कुरङ्गशृङ्गोत्खातैः कन्दमूलफलैः कदर्थितबाहुना ताम्बूलविरहविरसमुखखण्डितक्ॐअलामलकीफलेन कुशकुसुमाहतिलोहिताना श्वयथुमतामक्ष्णां लेपीकृतमनःशिलेन च कण्टकिलतालूनालकलतेन च केनचित्किसलयोपपादितातपत्रकृत्येन केनचित्कदलीदलव्यजनवाहिना केनचित्कमलिनीपलाशपुटगृहीताम्भसा केनचित्पाथेयीकृतमृणालपूलिकेन केनचिच्चीनांशुकदशाशिक्यानिहितनालिकेरकोशकलशीकलितसरलतैलेन, कतिपयावशेषशोकविकलमूककुब्जवामनबधिरबर्बराविरलेनाबलानां चक्रवालेन परिवृताम्, आपत्कालेऽपि कुलोद्गतेनेवामुच्यमानां प्रभालेपिना लावण्येन, प्रतिबिम्बितैरासन्नवनलताकिसलयैः सरसैर्दुःखक्षतैरिवान्तःपटलीक्रियमाणकायाम्, कठोरदर्भाह्कुरक्षतक्षारिणा क्षतजेनानुसरणालक्तकेनेव रक्तचरणाम्, उन्नालेनान्यतरनारीधृतेनारविन्दिनीदलेन कृतच्छायमपि विच्छायं मुखमुद्वहन्तीम्, आकाशमपि शूनय्तयातिशयानाम्, मृन्मयीमिव निश्चेतनतया मरुन्मयीमिव निःश्वाससंपदा पावकमयीमिव संतापसंतानेन सलिलमयीमिवाश्रुप्रस्रवणेन वियन्मयीमिव निरवलम्बनतया तडिन्मयीमिव पारिप्लवतया शब्दमयीमिव परिदेवितवाणीबाहुल्येन मुक्तमुक्तांशुकरत्नकुसुमकनकपत्राभरणां कल्पलतामिव महावने पतिताम्, परमेस्वरोत्तमाङ्गपातदुर्ललिताङ्गां गङ्गामिव गां गातम्, वनकुसुमधूलिधूसरितपादपल्लवाम्, प्रभातचन्द्रमूर्तिमिव लोकान्तरमबिलषन्तीम्, निजजलमोक्षकदर्थितदर्शितधवलायतनेत्रश्ॐआं मन्दाकिनीमृणालिनीमिव परिम्लायमानाम्, दुःसहरविकिरणसंस्पर्शखेदनिमीलितां कुमुदिनीमिव दुःखेन दिवसं नयन्तीम्, दग्धदशाविसंवादितां प्रत्यूषप्दीपशिखामिव क्षामक्षामां पाण्डुवपुषम्, पार्श्ववर्तिवारणाभियोगरक्ष्यमाणां वनकरिणीमिव महाह्रदे निमग्नाम्, प्रविष्टां वनगहनं ध्यानं च, स्थिता तरुतले मरणे च पतितां धात्र्युत्स ङ्गे महानर्थे च, दूरीकृतां भर्त्रा सुखेन च, विरेचितां भ्रमणेनायुषा च, आकुलां केशकलापेन मरणोपायेन च, विवर्णितामध्वधूलिभिरङ्गवेदनाभिश्च, दग्धां चण्डातपेन वैधव्येन च, धृतमुखीं पाणिना मौनेन च, गृहीतां प्रियसखीजनेन मन्युना च, तथा च भ्रष्टैर्बन्धुभिर्विलासैश्च, मुक्तेन श्रवणयुगलेनात्मना च, परित्यक्तै र्भूषणैः सर्वारम्भैश्च, भग्नैर्वलयैर्मनोरथैश्च, चरणलग्नाभिः, परिचारिकाभिर्दर्भाङ्कु रसूचीभिश्च, हृदयविनिहितेन चक्षुषा प्रियेण च, दीर्घैः शोकस्वसितैः केशेश्च, क्षीणेन वपुषा पुण्येन च पादयोः पतन्तोबिर्वृद्धाभिरश्रुवाराभिश्च, स्वल्पावशेषेण परिजनेन जोवितेन च, अलसामुत्मेषे, दक्षामश्रुमोक्षे, संततां चिन्तासु, विच्छिन्नामाशासु, कृसां काये, स्थूलां श्वसिते, पूरितां दुःखेन, रिक्ता सत्त्वेन, अध्यासितामायासेन, शून्यां हृदयेन, निस्चलां निस्चयेन, चलितां धैर्यात्, अपि च वसतिं व्यसनानाम्, आधानमाधीनाम्, अवस्थानमनवस्थानाम्, आधारमधृतीनाम्, आवासमवसादानाम्, आस्पदमापदाम्, अभियोगमभाग्यानाम्, उद्वेगमुद्वेगानाम्, कारणं करुणायाः, पारं परायत्तताया योषितं ।
चिन्तितवानस्मि च चित्रमीदृशीमप्याकृतिमुपतापाः स्पृशन्तीति ।
सा तु समीपगते मयि तदवस्थापि सबहुमानमानतमौलिः प्रणतवती ।
अहं तु प्रबलकरुणाप्रेर्यमाणस्तामालपितुकामः पुनः कृतवान्मनसि--कथमिव महानुभावामेनामामन्त्रये ।
"वत्सेऽ इत्यतिप्रणयः, "मातःऽ इति चाटु, "भगिनिऽ इत्यात्मसंभावना, "देविऽ इति परिजनालापः, "राजपुत्रिऽ इत्यस्फुटम्, "उपासिकेऽ इति मनोरथः, "स्वामिनिऽ इति भृत्यभावाभ्युपगमः, "भद्रेऽ इतीतरस्त्रीसमुचितम्, "आयुष्मतिऽ इत्यवस्थायामप्रियम्, "कल्याणिनिऽ इति दशायां विरुद्धम्, "चन्द्रमुखिऽ इत्यमुनिमतम्, "बालेऽ इत्यगौरवोपेतम्, "आर्येऽ इति जरारोपणं "पुण्यवतिऽ इति फलविपरीतम्, "भवतिऽ इति सर्वसाधारणं ।
अपि च "कासिऽ इत्यनभिजातम्, किमर्थं रोदिषिऽ इति दुःखकारणस्मरणकारि, "मा रोदीःऽ इति शोकहेतुमनपनीय न शोभते, "समास्वसिहिऽ इति किमाश्रित्य, "स्वागतम्ऽ इति यातयामम्, "सुखमास्यतेऽ इति मित्या ।
इत्येवं चिन्तयत्येव मयि तस्मात्स्त्रैणादुत्थायान्यतरा योषिदार्यरूपेव शोकविक्लवा समुपसृत्य कतिपयपलितशारं शिरो नीत्वा महीतलमतुलहृदयसंतापसूचकैरश्रुबिन्दुभिस्चरणयुगलं दहन्ती ममातिकृपणैरक्षरैश्च हृदयमभिहितवती--"भगवन्! सर्वसत्त्वानुकम्पिनी प्रायः प्रव्रज्या ।
प्रतिपन्नदुःखक्षपणदीक्षादक्षाश्च भवन्ति सौगताः ।
करुणाकुलगृहं च भगवतः शाक्यमुनेः शासनं ।
सकलजनोपकारसज्जा सज्जनता जैनी ।
परलोकसाधनं च धर्मो मुनीनां ।
प्राणरक्षणाच्च न परं पुण्यजातं जगति गीयते जनेन ।
अनुकम्पाभूमयः प्रकृत्यैव युवतयः किं पुनर्विपदभिभूताः? साधुजनश्च सिद्धक्षेत्रमार्तवचसां ।
यत इयं नः स्वामिनी मरणेन पितुरभावेन भर्तृः प्रवासेन च भ्रातुः भ्रंशेन च शेषस्य बान्धववर्गस्यातिमृदुहृदयतयानपत्यतया च निरवलम्बना, परिभवेन च नीचारातिकृतेन, प्रकृतिमनस्विनी अमुना च महाटवीपर्यटनवलेशेन कदर्थितसौकुमार्या, दग्धदैवदत्तैरेवंविधैर्बहुभिरुपर्युपरि व्यसनैविवलवीकृतहृदया, दारुणं दुःखमपारयन्ती सोढुं निवारयन्तमानाक्रान्तपूर्वं स्वप्नेऽप्यवगणय्य गुरुजनमनुनयन्तीरखण्डितप्रणया नर्मस्वपि समवधीर्य प्रियसखीर्विज्ञापयन्तमशरणमनाथमश्रुव्याकुलनयनमपरिभूतपूर्वं मनसापि परिभूय भृत्यवर्गमग्निं प्रविशति ।
परित्रायतां ।
आर्योऽपि तावदसङ्यशोकापनयनोपायोपदेर्शानपुणां व्यापारयतु वाणीमस्याम्ऽ इति चातिकृपणं व्याहरन्तीमहमुत्थाप्योद्विग्नतरः शनैरभिहितवान्--"आर्ये! यथा कथयसि तथा ।
अस्मद्गिरामगोचरोऽयमस्याः पुण्याशयायाः शोकः ।
शक्यते चेन्मुहूर्तमात्रमपि त्रातुमुपरिष्टान्न व्यर्थेयमभ्यर्थना भविष्यतीति ।
मम हि गुरुरपर इव भगवान्सुगतः समीपगत एव ।
कथिते मयास्मन्नुदन्ते नियतमागमिष्यति परमदयालुः ।
दुःखान्धकारपटलभिदुरैश्च सौगतैः सुभाषितैः स्वकीयैश्च दर्शितनिदर्शनैर्नानागमगुरुभिर्गिरां कौशलैः कुशलशीलामेनां प्रबोधपदवीमारोपयिष्टतिऽ इति ।
तच्च श्रुत्वा "त्वरतामार्यःऽ इत्यभिदधाना सा पुनरपि पादयोः पतितवती ।
सोऽहमुपगत्य त्वरमाणो व्यतिकरमिममधृतिकरमशरणकृपणबहुयुवतिमरणमतिकरुणमत्रभवते गुरवे निवेदितवान्ऽ इति ।
अथ भूभृद्भैक्षवं समवधार्य तद्भाषितमश्रुमिश्रितमश्रुतेऽपि स्वसुर्नाम्नि निंम्नीकृतमना मन्युना सर्वाकारसंवादिन्या दशयैव दूरीकृतसंदेहो दग्ध इव सोदर्यावस्थाश्रवणेन श्रवणयोः श्रमणाचार्यमुवाच--"आर्य! नियतं सैवेयमनार्यस्यास्य जनस्यातिकठिनहृदयस्यातिनृशंसस्य मन्दभाग्यस्यभगिनी भागधेयैरेतामवस्थां नीता निष्कारणवैरिभिर्वराकी विदीर्यमाणं मे हृदयमेवं निवेदयतिऽ इत्युक्त्वा तमपि श्रमणमब्यधात्--"आर्य! उत्तिष्ट ।
दर्शय व्कासौ ।
यतस्व प्रभूतप्राणपरित्राणपुण्योपार्जनाय यामः, यदि कथञ्चिज्जीवन्तीं संभावयामःऽ इति भाषमाण एवोत्तस्थौ ।
अथ समग्रशिष्यवर्घानुगतेनाचार्येण तुरगेभ्यश्चावतीर्य समस्तेन सामन्तलोकेन पश्चादाकृष्यमाणाश्वीयेनानुगम्यमानः पुरस्ताच्च तेन शाक्यपुत्रीयेण प्रदिश्यमानवर्त्मा पद्भ्यामेव तं प्रदेशमविरलैः पदैः पिबन्निवप्रावर्तत ।
क्रमेण च समीपमुपगतः शुश्राव लतावनान्तरितस्य मुमूर्षोर्महतः स्त्रैणस्य तत्कालोचिताननेकप्रकारानालापान्--"भगवन्धर्म! धाव शीघ्रं ।
ब्कासि कुलदेवते ।
देवि धरणि, धीरयसि न दुखितां दुहितरं ।
व्क नु खलु प्रोषिता पुष्पभूतिकुटुम्बिनी लक्ष्मीः ।
अनाथां नाथ मुखरवश्यविविधाधिविधुरां वधूं विधवां विबोधयसि किमिति नेमां ।
भगवन्, भक्तजने संज्वरिणि सुगत सुप्तोऽसि ।
राजधर्मपुष्पभूतिभवनपक्षपातिन्, उदासीनीभूतोऽसि कथं ।
त्वय्यपि विपद्बान्धव विन्ध्य, वन्ध्योऽयमञ्जलिबन्धः ।
मातर्महाटवि, रटन्तीं, नशृणोषीमामापत्पतितां ।
पतङ्ग, प्रसीद पाहि पतिव्रतामशरणं ।
प्रयत्नरक्षित कृतघ्न चारित्रचण्डाल, न रक्षसि राजपुत्रीं ।
किमवधृतं लक्षणैः ।
हा देवि दुहितृस्नेहमयि यश्ॐअति, मषितासि दग्धधवदस्युना ।
देव, दुहितरि दह्यमानायां नापतसि ।
प्रतापशील, शिथिलीभूतमपत्यप्रेण ।
महाराज राज्यवर्धन, न धावसि मन्दीभूता भगिनीप्रीतिः ।
अहो निष्ठुरः प्रेतबावः ।
व्यपेहि पाप पावक स्त्रीघातनिर्घृण, ज्वलन्न लज्जसे ।
ब्रातर्वात, दासी तवास्मि ।
संवादय द्रुतं देवीदाहं देवाय दुःखितजनातिहराय हर्षाय ।
नितान्तनिःशूक शोकश्वपाक, सकामोऽसि ।
दुःखदायिन्वियोगराक्षस, संतुष्टीऽसि ।
विजने वने कमाक्रन्दामि कस्मै कथयामि, कमुपयामि शरणम्, कां दिशं प्रतिपद्ये, कर्ॐइ किमभागधेया ।
गान्धारिके, गृहीतोऽयं लतापाशः ।
पिशाचि मोचनिके, मुञ्च शाखाग्रहणकलहं ।
कलहंसि हंसि, किमतःपरमुत्तमाङ्गं ।
मङ्गलिके मुक्तगलं किमद्यापि रुद्यते ।
सुन्दरि, दूरीभवति सखीसार्थः ।
स्थास्यसि कथमिवाशिवे शवशिबिरे शबरिके सुतनु तनूनपाति पतिष्यसि त्वमपि ।
मृणालक्ॐअले मालावति, मलानासि ।
मातर्मातङ्गिके, अङ्गीकृतस्त्वयापि मृत्युः ।
वत्से वत्सिके, वत्स्यसि कथमनभिप्रेते प्रेतनगरे ।
नागरिके, गरिमाणमागतास्यनया स्वामिभक्त्या ।
विराजिके, विराजितासि राजपुत्रीविपदि जीवितव्ययव्यवसायेन ।
भृगुपतनाभ्युद्यमबागाभिज्ञे भृङ्गारधारिणि, धन्यासि ।
केतकि, कुतः पुनरीदृशी स्वप्नेऽपि सुस्वामिनी ।
मेनके, जन्मनि जन्मनि देवीदास्यमेव ददातु देवो देवं दहन्दहनः ।
विजये, वीजय कृशानुं ।
सानुमति, नमतीन्दीवरिका दिवं गन्तुकामा ।
कामदासि, देहि दहनप्रदक्षिणावकाशं ।
विचारिके, विरचय वह्निं ।
विकिर किरातिके, कुसुमप्रकरं ।
कुररिके, कुरु कुरुबककोरकाचितां चितां ।
चामरं चामरग्राहिणि, गृहाण ।
पुनरपि कण्ठे मर्षयितव्यानिनर्मदे नर्मनिर्मितानि निर्मर्यादहसितानि ।
भद्रे सुभद्रे, भद्रमस्तु ते परलोकगमनं ।
अग्रामीणगुणानुरागिणि ग्रामेयिके, गच्छ सुगतिं ।
वसन्तिके, अन्तरं प्रयच्छ ।
आपृच्छते छत्रधारी देवि, देहि दृष्टिं ।
इष्टा तव जहाति जीवितं विजयसेना ।
सेयं मुक्तिका मुक्तकण्ठमारटति निकटे नाटकसूत्रधारी ।
पादयोः पतति ते ताम्बूलवाहिनी बहुमता राजपुत्रि, पत्रलता ।
कलिङ्गसेने, अयं पश्चिमः परिष्वङ्गः ।
पीडय निर्भरमुरसा मां ।
असवः प्रवसन्ति वसन्तसेने ।
मञ्जुलिके, मार्जयसि कतिकृत्वः सुदुःसहदुःखसहस्रास्रदिग्धं चक्षुरिदं, रोदिषि कियदाश्लिष्य च मां ।
निर्माणमीदृशं प्रायशो यशोधने ।
धीरयस्यद्यापि किं मां माधविके ।
क्वेयमवस्था संस्थापनानां ।
गतः कालः कालिन्दि, सखीजनानुनयाञ्जलीनां ।
उन्मत्तिके मत्तपालिके, कृताः पृष्टतः प्रणयिनीप्रणिपातानुरोधाः ।
शिथिलयचकोरवति, चरणग्रहणं ग्रहिणि ।
कमलिनि, किमनेन पुनः पुनर्दैवोपालम्भेन ।
न प्राप्तं चिरं सखीजनसंगमसुखं ।
आर्ये महत्तरिके तरड्गसेने, नमस्कारः ।
सखि सौदामिनि, दृष्टासि ।
समुपनय हव्यवाहनाचनकुसुमानि कमुदिके ।
देहि चितारोहणाय रोहिणि, हस्तावलम्बनं ।
अम्व, धात्रि, धीरा भव ।
भवन्त्येवंविधा एव कर्मणां विपाकाः पापकारिणीनां ।
आर्यचरणानामयमञ्जलिः ।
परः परलोकप्रयाणप्रणामोऽयं मातः ।
मरणसमये कस्माल्लवलिके, हलहलको बलीयानानन्दमयो हृदयस्य मे ।
हृष्यन्त्युच्चर्ॐआञ्चमुञ्चि किमङ्गीकृत्याङ्गानि ।
वामनिके, वामेन मे स्फुरितमक्ष्णा ।
वृथा विरससि वयस्य वायस, वृक्षे क्षीरिणि क्षणे क्षणे क्षीणपुण्यायाः पुरः ।
हरिणि, हेषितमिव हयानामुत्तरतः ।
कस्येदमातपत्रमुच्चमत्र पादपान्तरेण प्रभावति, विभाव्यते ।
कुरङ्गिके, केन सुगृहीतनाम्नो नाम गृहीतममृतमयमार्यस्य ।
देवि, दिष्ट्या वर्धसे देवस्य हर्षस्यागमनमहोत्सवेनऽ ।
इत्येतच्च श्रुत्वा सत्वरमुपससर्प ।
ददर्श च मुह्यन्तीमग्निप्रवेशायोद्यतां राजा राज्यश्रियं ।
आललम्बे च मूर्च्छामीलितलोचनाया ललाटं हस्तेन तस्याः ससंभ्रमं ।
अथ तेन भ्रातुः प्रेयसः प्रकोष्ठबद्धानामोषधीनां रसविरसमिव प्रत्युज्जीवनक्षमं क्षरता वमतेव पारिहार्यमणीनामचिन्त्यं प्रबावममृतमिव नखचन्द्ररश्मिभिरुद्गिरता बध्नतेव चन्द्रोदयच्युतशिशिरशीकरं चन्द्रकान्तचूडामणिं मूर्धनि मृणालमयाङ्गुलिनेवातिशीतलेन निर्वापयता दह्यमाम हृदयप्रत्यानयतेव कुतोऽपि जीवितमाह्लादकेन हस्तसंस्पर्शेन सहसैव समुन्मिमील राज्यश्रीः ।
तथा चासंभावितागमनस्याचिन्तितदर्शनस्य सहसा प्राप्तस्य भ्रातुः स्वप्नदृष्टदर्शनस्येव कण्ठे समाश्लिष्य तत्कालाविर्भावनिर्भरेणाभिभूतसर्वात्मना दुःखसंभारेण निर्दयं नदीमुखप्रणालाब्यामिवमुक्ताभ्यां स्थूलप्रवाहमुत्सृजन्ती बाष्पवारि विलोचनाभ्यां "हा तात, हा अम्ब हा सख्यःऽ इति व्याहरन्ती, मुहुर्मुहुरुच्चैस्तरां च समुद्भूतभगिनीस्नेहसद्भावभारभावितमन्युना मुक्तकण्ठमतिचिरं विक्रुश्य "वत्से, स्थिरा भव त्वम्ऽ इति भ्रात्रा करस्थगितमुखी समाश्वास्यमानापि, "कल्याणिनि, कुरु वचनमग्रजस्य गुरोःऽ इत्याचार्येण याच्यमानापि, देवि, न पश्यसि देवस्यावस्थां ।
अलमतिरुदितेनऽ इति राजलोकेनाब्यर्थ्यमानापि, "स्वामिनि, भ्रातरमवेक्षस्वऽ इति परिजनेन विज्ञाप्यमानापि, "दुहितः, विश्रम्य पुनरारटितव्यम्ऽ इति निवार्यमाणापि बान्धववृद्धाभिः, "प्रियसखि, कियद्रोदिषि, तूष्णीमास्स्व ।
दृढं दूयते देवऽ इति सखीभिरनुनीयमानापि, चिर संभावितानेकदुःसहदुःखनिवहनिर्बवणबाष्पोत्पीडपीड्यमानकण्ठभागा, प्रभूतमन्युभारभरितान्तःकरणा करुणं काहलेन स्वरेण कतिचित्कालमतिदीर्घं रुरोद ।
विगते च मन्युवेगे वह्नेः समीपादाक्षिप्य भ्राता नीता निकटवर्तिनि तरुतले निषसाद ।
शनैराचार्यस्तु तथा हर्ष इति विज्ञाय विवर्धितादरः सुतरां मुहूर्तमिवातिवाह्य निभृतसंज्ञाज्ञापितेन शिष्येणोपनीतं नलिनीदलैः स्वयमेवादाय नम्रो मुखप्रक्षालनायोदकमुपनिन्ये ।
नरेन्द्रोऽपि सादरं गृहीत्वा प्रथममनवरतरोदनाताम्रं चिरप्रवृत्ताश्रुजलजालं रक्तपङ्गजमिव स्वसुश्चक्षुरक्षालयत्पश्चादात्मनः ।
प्रक्षालितमुखशशिनि च महीपाले सर्वतो निःशब्दः संबभूवसकलो लिखित इव लोकः ।
ततो नरेन्द्रो मन्दमन्दमब्रवीत्स्वसारम्--"वत्से! वन्दस्वात्रभवन्तं भदन्तं ।
एष ते भर्तुर्हृदयं द्वितीयमस्माकं च गुरुःऽ इति ।
राजवचनात्तु राजदुहितरि पतिपरिचयश्रवणोद्घातेन पुनरानीतनेत्राम्भसि नमन्त्यामाचार्यः प्रयत्नरक्षितागमागतबाष्पाम्भःसंभारभज्यमानधैर्यार्द्रलोचनः किञ्चित्परावृत्तनयनो दीर्घं निःशश्वास ।
स्मित्वा च क्षणमेकं प्रदर्शितप्रश्रयो मृदुवादी मधुरया वाचा व्याजहार--"कल्याणराशे! अलं रुदित्वातिचिरं ।
राजलोको नाद्यापि रोदनान्निवर्तते ।
क्रियतामवश्यकरणीयः स्नानविधिः ।
स्नात्वा च गम्यता तामेव भूयो भुवम्ऽ इति ।
अथ भूपतिरनुवर्तमानो लौकिकमाचारमाचार्यवचनं चोत्थाय स्नात्वा गिरिसरिति सह स्वस्रा तामेव भूमिप्तयासीत् ।
तस्यां च सपरिजनां प्रथममाहितावधानः पार्श्ववर्ती परवतीं शुचा पतिपिण्डप्रदर्शितप्रयत्नप्रतिपन्नाभ्यवहारकारणां भगिनीमभोजयत् ।
अनन्तरं च स्वयमाहारस्थितिमकरोत् ।
भुक्तवांश्च बन्धनात्प्रभृति विस्तरतः स्वसुः कान्यकुब्जाद्गौडसंभ्रमं गुप्तितो गुप्तनाम्ना कुलपुत्रेण निष्कासनं निर्गतायाश्च राज्यवर्धनमरणश्रवणं श्रुत्वा चाहारनिराकरणमनाहारपराहतायाश्च विन्ध्याटवीपर्यटनखेदं जातनिर्वेदायाः पात्रकप्रवेशोपक्रमणं यावत्सर्वमशृणोद्व्यतिकरं परिजनतः ।
ततः सुखासीनमेकत्र तरुतले विविक्तभुवि भगिनीद्वितीयं दूरस्थितानुजीविजनं राजानमाचार्यः समुपसृत्य शनैरासांचक्रे ।
स्थित्वा च कञ्चित्कालांशं लेशतो वक्तुमुपचक्रमे--"श्रीमन्! आकर्ण्यतां ।
आख्येयमस्ति नः किञ्चित्-- अयं हि यौवनौन्मादात्परिभूय भूयसीर्भार्या यौवनावतारतरलतरास्ताराराजो रजनीकर्णपूरः पुरा पुरुहूतपुरोधसो धिषणस्य पुरन्ध्रीं धर्मपत्नीं पत्नीयन्नतितरलस्तारां नामापजहार ।
नाकतश्च पलायाञ्चक्रे ।
चकितचकोरलोचनया च तया सहातिकामया सर्वाकाराभिरामया रममाणो रमणीयेषु देशेषु चचार ।
चिराच्च कथञ्चित्सर्वगीर्वाणवाणीगौरवाद्गिरां पत्युः पुनरिप प्रत्यर्पयामास तां ।
हृदये त्वनिन्धनमदह्यत विरहाद्वरारोहायास्तस्याः सततं ।
एकदा तु शैलादुदयाददयमानो विमले वारिणि वरुणालयस्य संक्रान्तमात्मनः प्रतिबिम्बं विलोकितवान् ।
दृष्ट्वा च तत्तदा सस्मरः सस्मार स्मेरगण्डस्थलस्य ताराया मुखस्य ।
मुमोच स मन्मथोन्मादमथ्यमानमानसः स्वःस्थोऽप्यस्वस्थः स्थवीयसः पीतसकलकुमुतवनप्रभाप्रवाहधवलताराभ्यामिव लोचनाभ्यां बाष्पवारिबिन्दून् ।
अथ पततस्तानुदन्वति समस्तानेवाचेमुर्मुक्ताशुक्तयः ।
तासां च कुक्षिकोषेषु मुक्ताफलीभूतानवाप तान्कथमपि रसातलनिवासी वासुकिर्नाम विषमुचामीशः ।
स च तैर्मुक्ताफलैः पातालतलेऽपि तारागणमिव दर्शयद्भिरेकावलीमकल्पयत् ।
चकार च मन्दाकिनीति नाम तस्याः ।
सा च भगवतः स्ॐअस्य सर्वासामोषधीनामधिपतेः प्रभावादत्यन्तविषघ्नी हिमामृतसंभवत्वाच्च स्पर्शेन सर्वसत्त्वसंतापहारिणी बभूव ।
यतः स तां सर्वदा विषोष्मशान्तये वासुकिः पर्यधत्त ।
समतिक्रामति च कियत्यपि काले कदाचिन्नामैकावलीं तस्मान्नागराजान्नागार्जुनो नाम नागैरेवानीतः पातालतलं भिक्षुरभिक्षत लेभे च ।
निर्गत्य च रसातलात्त्रिसमुद्राधिपतये सातवाहननाम्ने नरेन्द्राय सुहृदे स ददौ तां ।
सा चास्माकं कालेन शिष्यपरम्परया कथमपि हस्तमुपगता ।
यद्यपि च परिभव इव भवति भवादृशां दत्त्रिम उपचारस्तथाप्योषधिबुद्ध्या बुद्धिमता सर्वसत्त्वराशिरक्षाप्रवृत्तेन रक्षणीयशरीरेणायुष्मता विषरक्षापेक्षया गृह्यताम्ऽ इत्यभिधाय भिक्षोरभ्याशवर्तिनश्चीवरपटान्तसंयतां मुमोच तामेकावलीं मन्दाकिनीं ।
उन्मुच्यमानाया एव यस्याः प्रभालेपिनि लब्धावकाशे विशदमहसि महीयसि विसर्पति रश्मिमण्डले युगपद्धवलायमानेषु दिङ्मुकेषु मुकुलितलतावधूत्कण्ठितैरामूलाद्विकसितमिव तरुभिः, अभिनवमृणाललुब्धैर्धावितमिव धुतपक्षपुटपटलधवलितगगनं वनसरसीहंसयूथैः, स्फुटितमिव भरवशविशीर्यमाणधूलिधवलैर्गर्भभेदसूचितसूचीसंचयशुचिभिः केतकीवाटेः, उद्दलितदन्तुराबिः प्रबुद्धमिव कुमुदिनीभिः, विद्युतसितसटाभारभरितदिक्चक्रैश्चलितमिव केसरिकुलैः, प्रहसितमिव सितदशनांशुमालालोकलिप्यमानवनं वनदेवताभिः, विकसितमिव शिथिलितकुसुमकोशकेसराट्टहसानिरङ्कुशं काशकाननैः, भ्रान्तमिव संब्रमभ्रमितबालपल्लवपरिवेषश्वेतायमानैश्चमरीकदम्बकैः, प्रसृतमिव स्फायमानफेनिलतरलतरतरह्गोद्गारिणा गिरिनदीपूरेण, अपरतारागणलोभमुदितेनोदितमिव विकचमरीचिचक्रान्तककुभा पूर्णचन्द्रेण, प्रक्षालित इव दावानलधूलिधूसरितदिगन्तो दिवसः, पुनरिव धौतान्यश्रुजलक्लिष्टानि नारीणां मुखानि ।
राजा तु मांसलैस्तस्याः संमुखैर्मयूखैराकुलीक्रियमाणं मुहुर्मुहुरुन्मीलयन्निमीलयंश्च चक्षुः कथमपि प्रयत्नेन ददर्श सर्वाशापूरणीं पङ्क्तीकृतामिव दिङ्नागकरशीकरसंहतिम्, घनमुक्तां शारदीमिव लेखीकृतां ज्योत्स्नाम्, प्रकटपदकचिह्नां संचारवीथीमिव बालेन्दोर्निश्चलीभूतां सप्तर्षिमालामिव हस्तमुक्ताम्, अभिभूतसकलभुवनभूषणभूतिप्रभावामिवैशानीं शशिकलाम्, धवलतागुणपरिगृहीतां कान्तिमिव निर्गतां क्षीरराशेः अनेकमहामहीभृत्परम्परागतां गङ्गामिव दुर्गतिहराम्, अनवरतस्फुरिततरलाशुकां पुरःसरपताकामिव महेश्वरभावागमस्य, अनसारशुक्लां दन्तपङ्क्तिमिवाभिमुखस्येश्वरस्य, वरमनोरथपूरणसमर्थां स्वयंवरस्रजमिव भुवनश्रियः, निजकरपल्लवावरणादुर्लक्ष्यां चक्षूरागविहसतिकामिव वसुधायाः, मन्त्रकोशसाधनप्रवृत्तस्याक्षमालामिव राजधर्मस्य, समुद्रालङ्गारभूतां संख्यालेख्यपट्टिकामिव कुबेरकोशस्य ।
पश्यंश्चैतां विस्मयमाजगाम मनसा सुचिरं ।
आचार्यस्तु तामुद्धृत्य बबन्ध बन्धुरे स्कन्धभागे भूपतेः ।
अथ नरपतिरपि प्रतिप्रीतिमुपदर्शयन्प्रत्यवादीत्--"आर्य! रत्नानामीदृशानामनर्हाः प्रायेण पुरुषाः ।
तपःसिद्धिरियमार्यस्य देवताप्रसादो वा ।
के च वयमिदानीमात्मनोऽपि किमुत ग्रहणस्य प्रत्याख्यानस्य वा ।
दर्शनात्प्रभृति प्रभूतगुरुगुणगणहृतेन हृदयेन परवन्तो वयं ।
संकल्पितमिदमामरणादार्योपयोगाय शरीरं ।
अत्र कामचारो वः कर्तव्यानाम्ऽ इति ।
समतिक्रान्ते च कियत्यपि काले गते चैकावलीवर्णनालापे लोकस्यानन्तरं लब्धविश्रम्भा राज्यश्रीस्ताम्बूलवाहिनीं पत्रलतामाहूयोपांशुकिमपि सर्णमूले शनैरादिदेश ।
दर्शितविनया च पत्रलता पार्थिवं व्यज्ञापयत्--"देव! देवी विज्ञापयति न स्मराम्यार्यस्य पुरः कदाचिदुच्चैर्वचनमपि ।
कुतो विज्ञापनं ।
इयं हि शुचामसह्यतां व्यापारयन्ती हतदैवदत्ता च दशा शिथिलयति विनयं ।
अबलानां हि प्रायशः पतिरपत्यं वावलम्बनं ।
उभयविकलानां तु दुःखानलेन्धनायमानं प्राणितमशालीनत्वमेव केवलं ।
आर्यागमनेन च कृतोऽपि प्रतिहतो मरणप्रयत्नः ।
यतः काषायग्रहणाभ्यनुज्ञयानुगृह्यतामयमपुण्यभाजनं जनःऽ इति ।
जनाधिपस्तु तदाकर्ण्य तूष्णीमेवावतिष्ठत् ।
अथाचार्यः सुधीरमभ्यधात्--"आयुष्मति! शोको हि नाम पर्यायः पिशाचस्य, रूपान्तरमाक्षेपस्य, तारुण्यं तमसः, विशेषणं विषस्य, अनन्तकः प्रेतनगरनायकः, अयमनिर्वृतिधर्मा दहनः, अयमक्षयो राजयक्ष्मा, अयमलक्ष्मीनिवासो जनार्दनः, अयमपुण्यप्रवृत्तः क्षपणकः, अयमप्रतिबोधो निद्राप्रकारः, अयमनलसधर्मा संनिपातः, अयमशिवसहचरो विनायकः, अयमबुधसेवितो ग्रहवर्गः, अयमयोगसमुत्थो ज्योतिःप्रकारः, अयं स्नेहाद्वायुप्रकोपः, मानसादग्निसंभवः, आर्द्रभावाद्रजःक्षोभः, रसादभिशोषः, रागात्कालपरिणामः ।
तदस्याजस्रास्रस्राविणो हृदयमहाव्रणस्य बहलदोषान्धकारलब्धप्रवेशप्रसरस्य प्राणतस्करस्य शून्यताहेतोर्महाभूतग्रामघातकस्य सकलविग्रहक्षपणदक्षस्य दोषचक्रवर्तिनः कार्श्यश्वासप्रलापोपद्रवबहलस्य दोर्घरोगस्यासद्ग्रहस्य सकललोकक्षयधूमकेतोर्जीवितापहारदक्षस्याक्षणरुचेरनभ्रवज्रगातस्य स्फुरदनवद्यविद्याविद्युद्विद्योतमानानि गहनग्रन्धगूढगर्भग्रहणगम्भीराणि भूरिकाव्यकथाकठोराणि बहुशाखोद्वहनबृहन्ति विदुषामपि हृदयानि नालं सोढुमापातं किमुत नवमालिकाकुसुमक्ॐअलानां सरसबिसतन्तुदुर्बलकमबलानां हृदयं ।
एवं सति सत्यव्रते! वद किमत्र क्रियते, कतम उपालभ्यते, कस्य पुर उच्चैराक्रद्यन्ते, हृदयदाहि दुःखं वा ख्याप्यते? सर्वमक्षिणो निमोल्य सोढव्यममूढेन मर्त्यधर्मणा ।
पुण्यवति! पुरातन्यः स्थितय एताःकेन शक्यन्तेऽन्यथाकर्तुं ।
संसरन्त्यो नक्तन्दिवं द्राघीयस्यो जन्मजरामरणघटनघटीयन्त्रराजिरज्जवः सर्वपञ्चजनानां ।
पञ्चमहाभूतपञ्चकुलाधिष्ठितान्तःकरणव्यवहारदर्शननिपुणाः सर्वङ्कषा विषमा धर्मराजस्थितयः ।
क्षणमपि क्षममाणा गलन्त्यायुष्कलाकलनकुशला निलये निलये कालनालिकाः ।
जगति सर्वजन्तुजीवितोपहारपातिनी संचरति झटिति चण्डिका यमाज्ञा ।
रटन्त्यनवरतमखिलप्राणिप्रयाणप्रकटनपटवः प्रेतपतिपटहाः ।
प्रतिदिशं पर्यटन्ति पेटकैः प्रतप्तलोहलोहिताक्षाः कालकूटकान्तिकालकायाः कालपाशपाणयः कालपुरुषाः ।
प्रतिभवनं भ्रमन्ति भीषणकिङ्करकरघट्टितयमघण्टापुटपटुटाङ्कारभयङ्कराः सर्वसत्त्वसंघसंहरणाय घोराघातघोषणाः ।
दिशि दिशि वहन्ति बहुचिताधूमधूसरितप्रेतपतिपताकापटुपतितगृध्रदृष्टयः शोककृतकोलाहलकुलकुटुम्बिनीविकीर्णकेशकलापशबलशवशिबिकासहस्रसंङ्कुलाः किलकिलायमानश्मशानशिविरशिवाशावकाः परलोकावसथपथिकसार्थप्रस्थानविशिखा वीथयः ।
सकललोककवलावलेहलम्पटा बहला वहंलिहा लेढि लोहिताचिता चिताङ्गारकाली कालरात्रिजिह्वा जीवितानि जीविनां ।
तृप्तमशिक्षिता च भगवतः सर्वभूतभुजो बुभुक्षा मृत्योः ।
अतिद्रुतवाहिनी चानित्यतानदी ।
क्षणिकाश्च महाभूतग्रामगोष्ठयः ।
रात्रिषु भह्गुराणि पात्रयन्त्रपञ्जरदारूणि देहिनां ।
अशूभशुभावेशविवशा विशरवः शरीरनिर्माणपरमाणवः ।
छिदुरा जीवबन्धनपाशतन्त्रीतन्तवः ।
सर्वमात्मनोऽनीश्वरं विश्वं नश्वरं ।
एवमवधृत्य नात्यर्थमेवार्हसि मेधाविनि मृदुनि मनसि तमसः प्रसरं दातुं ।
एकोऽपि प्रतिसंख्यानक्षण आधारीभवति धृतेः ।
अपि च दूरगतेऽपि हि शोके नन्विदानीमपेक्षणीय एवायं ज्येष्ठः पितृकल्पो भ्राता भवत्या गुरुः ।
इतरथा को न बहु मन्येत कल्याणरूपमीदृसं संकल्पमत्रभवत्याः काषायग्रहणकृतं ।
अखिलमनोज्वरप्रशमनकारणं हि भगवती प्रव्रज्या ।
ज्यायः खल्विदं परमात्मवतां ।
महाभागस्तु भिनत्ति मनोरथमधुना ।
यदयमादिशति तदेवानुष्ठेयं ।
यदि भ्रातेति यदि ज्येष्ठ इति यदि वत्स इति यदि गुणवानिति यदि राजेति सर्वथा स्थातव्यमस्य नियोगेऽ इत्युक्त्वा व्यरंसीत् ।
उपरतवचसि च तस्मिन्निजगाद नरपतिः--"आर्यमपहाय कोऽन्य एवमभिदध्यात् ।
अनभ्यर्थितदैवनिर्मिता हि विषमविपदवलम्बनस्तम्भा भवन्तो लोकस्य ।
स्नेहार्द्रमूर्तयो मोहान्धकारध्वंसिनश्च धर्मप्रदीपाः ।
किन्तु प्रणयप्रदानदुर्ललिता दुर्लभमपि मनोरथमतिप्रीतिरभिलषति ।
धीरस्यापि धार्ष्ट्यमारोपयति हृदयं लङ्घितलघिमातिवल्लभत्वं ।
युक्तायुक्तविचारशून्यत्वाच्च शालीनमपि शिक्षयन्ति स्वार्थतृष्णाः प्रागल्भ्यं ।
अभ्यर्थनाया रक्षन्ति च जलनिधय इव मर्यादामार्याः ।
दत्तमेव च शरीरमिदमनभ्यर्थितेन प्रथममेवातिथ्याय माननीयेन भवता म्हयं ।
अतः किञ्चिदर्थये भदन्तमियं नः स्वसा बाला च बहुदुःखखेदिता च सर्वकार्यावधीरणोपरोधेनापि यावल्लालनीया नित्यं ।
अस्माभिश्च भ्रातृवधापकारिरिपुकुलप्रलयकरणोद्यतस्य बाहोर्विधेयैर्भूत्वा सकललोकप्रत्यक्षं प्रतिज्ञा कृता ।
पूर्वावमाननाभिभवमसहमानैरर्पित आत्मा कोपस्य ।
अतो नियुङ्क्तां कियन्तमपि कालमात्मानमार्योऽपि कार्ये मदीये ।
दीयतामतिथये शरीरमिदं ।
अद्यप्रभृति यावदयं जनो लघयति प्रतिज्ञाभारम्, आश्वासयति च तातविनाशदुःखविक्लवाः प्रजाः, तावदिमामत्रभवतः कथाभिश्च धर्म्याभिः, कुशलप्रतिबोधविधायिभिरुपदेशैश्च दूरापसारितरजोभिः, शीलोपशमदायिनीभिश्च देशनाभिः, क्लेशप्रहाणहेतुभूतैश्च तथागतैर्दर्शनैः, अस्मात्पार्श्वोपयायिनीमेव प्रतिबोध्यमानामिच्छामि ।
इयं तु ग्रहीष्यति मयैव समं समाप्तकृत्येन काषायाणि ।
अर्थिजने च किमिवनातिसृजन्ति महान्तः ।
सुरनाथमात्मास्थिभिरपि यावत्कृतार्थमकरोद्धैर्योदधिर्दधीचः ।
मुनिनाथोऽप्यनपेक्षितात्मस्थितिरनुकम्पेति कृत्वा कृपावानात्मानं वठरसत्त्वेभ्यः कतिकृत्वो न दत्तवान् ।
अतः परं भवन्त एव बहुतरं जानन्ति--इत्युक्त्वा तूष्णीं बभूव भूपतिः ।
भूयस्तु बभाषे भदन्तः--"भव्या न द्विरुच्चारयन्ति वाचं ।
चेतसा प्रथममेव प्रतिग्राहिता गुणास्तावकाः कायबलिमिमां ।
अमुना जनेन उपयोगस्तु निरुपयोगस्यास्य लघुनि गुरुणि वा कृत्ये गुणवदायत्तःऽ इति ।
अथ तथा तस्मिन्नभिनन्दितप्रणये प्रीयमाणः पार्थिवस्तत्र तामुषित्वा विभावरीमुषसि च वसनालङ्कारादिप्रदानपरितोषितं विसर्ज्य निर्घातमाचार्येण सह स्वसारमादाय प्रयाणकैः ।
कतिपयैरेव कटकमनुजाह्नवि निविष्ट प्रत्याजगाम ।
तत्र च राज्यश्रीप्राप्तिव्यतिकरकथां कथयत एव प्रणयिभ्यो रविरपि ततार गगनतलं ।
बहलमधुपङ्कपिङ्गलः पङ्गजाकर इव संचुकोच चक्रवाकवल्लभो वासरः प्रकीर्णऽनि नवरुधिररसारुणवर्णानि लोकालोकजूंषि यजूंषीव कुपितयाज्ञवल्क्यवक्त्रवान्तानि निजवपुषि पूषा पापमूषि पुनरपि संजहार जालकानि रोचिषां ।
क्रमेण च समुपोह्यमानमांसलरागरोचिष्णुरुष्णाशुरुष्णीषबन्धसहजचूडामणिरिव वृकोदरकरपुटोत्पाटितः, प्रत्यग्रशोणितशोणाङ्गरागरौद्रो द्रौणायनस्य, रुद्रभिक्षादानशौण्डपुरमथनमुक्तमुण्डशिरानाडिरुधिरपूरणशोणितकपिलः कपालकर्पर इव च पैतामहः, पितृवधरुषितरामरागरचितः पृथुविकटकार्तवीर्यांसकूटकुट्टाककुठारतुण्डतष्टदुष्टक्षत्रियकण्ठकुहररुधिरकुल्याप्रणालसहस्रपूरितो ह्रद इव दूररोधी रौधिरो भयनिगूढकरचरणमुण्डमण्डलाकृतिर्गुरुगरुडनखपञ्जराक्षेपक्षपणक्षिप्तक्षतजोक्षितो व्यसुर्विभावसुः कण्ठ इव च लोठ्यमानः, नभस्यरुणगर्भमांसपिण्ड इव च खण्जिमानमानीतः, नियतकालातिपातदूयमानदाक्षायणीक्षिप्तः धातुतट इव च सुमेरोरसुरवधाभिचारचरुपचनपिशुनः शोणितव्काथकषायितकुक्षिरतिविसंकटः कटाह इव च बार्हस्पत्यः, सद्योगलितगजदानवदेहलोहितोपलेपभीषणः मुखमण्डलाभोग इव महाभैरवस्य मुहूर्तमदृश्यत ।
जलनिधिजलप्रतिबिम्बितरविबिम्बाराजिभास्वराभ्रावलम्बिनी गृहीतार्द्रमांसभारेव चाबभासे वासरावसानवेला वेतालनिभा ।
ज्वलत्संध्यारागरज्यमानजलप्रवाहः पुनरिव पुराणपुरुषपीवरोरुसंपुटपिष्टमधुकैटभरुधिरपटलपाटलवपुरभवदधिपतिरर्णसां ।
समवसिते च संध्यांसमये समनन्तरमपरिमितयशःपानतृषिताय मुक्ताशैलशिलाचषक इव निजकुलकीर्त्या, कृतयुगकरणोद्यतायादिराजराजतशासनमुद्रानिवेश इव राज्यश्रिया, सकलद्वीपजिगीषाचलिताय श्वेतद्वीपदूत इव चायत्या, श्वेतभानुरुपानीयत निशया नरेन्द्रायेति भद्रम्ॐ॥


इति श्रीमहाकविबाणभट्टकृतौ हर्षचरितेऽष्टम उच्छ्वासः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:22.8670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

longitudinal sequence

  • अनुलंब क्रम 
RANDOM WORD

Did you know?

मूल जन्मानंतर पांचव्या दिवशी सटवाई पूजन करतात, ते काय आहे?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.