TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

हर्षचरितम्‌ - षष्ठ उच्छ्वासः

हर्षचरित संस्कृत में बाणबट्ट द्वारा रचित एक ग्रन्थ है। इसमें भारतीय सम्राट हर्ष का जीवनचरित वर्णित है।


षष्ठ उच्छ्वासः
उच्चित्योच्चित्य भुवि प्रहितनिगूढात्मदूतनीतानां ।
विजिगीषुरिव कृतान्तः शूराणां संग्रहं कुरुते ॥६.१॥
विस्रब्धघातदोष- स्ववधाय खलस्य वीरलोपकरः  ।
नवतरुभङ्गध्वनिरिव हरिनिद्रातस्करः करिणः ॥६.२॥

अथ प्रथमप्रेतपिण्डभुजि भुक्ते द्विजन्मनि, गतेषूद्वेजनीयेष्वशौचदिवसेषु, चक्षुर्दाहदायिनि दीयमाने द्विजेभ्यः शयनासनचामरातपत्त्रामत्रपत्त्रशस्त्रादिके नृपनिकटोपकरणकलापे, नीतेषु तीर्थस्थानानि सह जनहृदयैः कीकसेषु, कल्पितशोकशल्ये सुधानिचयचिते चिताचैत्यचिह्ने, वनाय विसर्जिते महाविजिति राजगजेन्द्रे, क्रमेण च मन्दष्वाक्रन्देषु, विरलीभवत्सु च विलापेषु, विश्राम्यत्यश्रुणि, शिथिलीभवत्सु उपदेशश्रवणक्षमेषु श्रोत्रेषु; अनुरोधावधानयोग्येषु हृदयेषु, गणनीयेषु नृपगुणेषु, प्रदेशवृत्तितामाश्रयति शोके, कृतेषु कविरुदितकेषु, जाते च स्वप्नावशेषदर्शने हृदयावशेषावस्थाने चित्रावशेषाकृतौ काव्यावशेषनाम्नि नरनाथे, देवो हर्षः कदाचिदुत्सृष्टव्यापारः पुञ्जीभूतवृद्धबन्धुवर्गाग्रेसरेणावनतमूकमुखेन महाजनेन मौलेनाकाल आत्मानं वेष्ट्यमानमद्राक्षीत् ।
दृष्ट्वा चाकरोन्मनसिकिमन्यदार्यमागतमावेदयत्ययं शोकपराभूतो लोकाकरःऽ इति ।
वेपमानहृदयश्च पप्रच्छ प्रविशन्तमधिकतरप्रचारमन्यतमं पुरुषं "अङ्ग! कथय ।
किमार्यः प्राप्तःऽ इति ।
स मन्दमब्रवीत्--"देव! यथादिशसि द्वारिऽ इति श्रुत्वा च सोदर्यस्नेहनिहितनिरतिशयमन्युमृदूकृतमनाः कथमपि न ववाम बाष्पवारिप्रवाहोत्पीडेन सह जीवितं ।
अनन्तरं च द्वारपालप्रमुक्तेन प्रथमप्रविष्टेन परिजनेनेवाक्रन्देन कथ्यमानम्, दूरद्रुतागमनमुषितबाहुल्येन विच्छिन्नच्छत्रधारेण लम्बिताम्बरवाहिना भ्रष्टभृङ्गारग्राहिणा च्युताचमनधारिणा ताम्यत्ताम्बूलिकेन खञ्जत्खङ्गग्राहिणा कतिपयप्रकाशदासेरकप्रायेण बहुवासरान्तरितस्नानभोजनशयनश्यामक्षामवपुषा परिजनेन परिवृतम्, अविरतमार्गधूलिधूसरितशरीरतया शरणीकृतमिवाशरणया क्रमागतया वसुंधरया, हूणनिर्जयसमरशरव्रणबद्धपट्टकैर्दीर्घधवलैः समासन्नराज्यलक्ष्मीकटाक्षपातैरिव शबलीकृतकायम्, अवनिपतिप्राणपरित्राणार्थमिव च शोकहुतभुजि हुतमांसैरतिकृशैरवयवैरावेद्यमानदुःखभारम्, अवगतचूडामणिनि मलिनाकुलकुन्तले शेखरशून्ये शिरसि शूचमारूढां मूर्तिमतीमिव दधानम्, आतपगलितस्वेदराजिना रुदतेव पितृपादपतनोत्कण्ठितेन ललाटपट्टेन लक्ष्यमाणम्, प्रथीयसा बाष्पपयःप्रवाहेणाभिमतपतिमरणमूर्च्छितामिव महीमनवरतं सिञ्चन्तम्, अनन्तसंतताश्रुप्रवाहनिपतननिम्नीकृताविव दुःखक्षाणौ कपोलावुद्वहन्तम्, अत्युष्णमुखमारुतमार्गगतेन द्रवतेव गलितताम्बूलरागेणाधरबिम्बेनोपलक्षितम्, पवित्रिकामात्रावशेषेन्दरनीलिकांशुश्यामायमानमचिरश्रुतपितृमरणजन्यमहाशोकाग्निदग्धमिव श्रवणप्रदेशमुद्वहन्तम्, अस्फुटाभिव्यक्तव्यञ्जनेनाप्यध्ॐउखस्तिमितनयननीलतारकमयूखमालाखचितेन शोकप्ररूढश्मश्रुश्यामलेनेव मुखशशिना लक्ष्यमाणम्, केसरिणमिव महाभूभृद्विनिपातविह्वलनिरवलंबनम्, दिवसमिव तेजःपतिपतनपरिम्लानश्रियं श्यामीभूतम्, नन्दनमिव भग्नकल्पपादपं विच्छायम्, दिग्भागमिव प्रोषितदिक्कुञ्जरशून्यम्, गिरिमिव गुरुवज्रपातदारितं प्रकम्पमानम्, क्रीतमिव क्रशिम्ना, किङ्करीकृतमिव कारुण्येन, दासीकृतमिव दौर्मनस्येन, शिष्यीकृतमिव शोचितव्येन, अन्धीकृतमिवाधिना, मूकीकृतमिव मौनेन, पिष्टमिव पिडया, स्विन्नमिव संतापेन, उच्चितमिव चिन्तया, विलुप्तमिव विलापेन, धृतमिव वैराग्येण, प्रत्याख्यातमिव प्रतिसंख्यानेन, अवज्ञातमिव प्रज्ञया, दूरीकृतमिव दुरभिभवत्वेन, अबोध्येन वृद्धबुद्धीनाम्, असाध्येन साधुभाषितानाम्, अगम्येन गुरुगिराम्, अशक्येन शास्त्रशक्तीनाम्, अपथेन प्रज्ञाप्रयत्नानाम्, अगोचरेण सुहृदनुरोधानाम्, अविषयेण विषयोपभोगानाम्, अभूमिभूतेन कालक्रमोपचयानां शोकेन कवलीकृतं ज्येष्ठं भ्रातरमपश्यत् ।
आवेगोद्गतकृत्स्नस्नेहोत्कलिकाकलापोत्क्षिप्य माणकाय इव च परवशः समुदगात् ।
अथ तं दूरादेव दृष्ट्वा देवो राज्यवर्धनश्चिरकालकलितं बाष्पावेगं मुमुक्षुः सुदूरप्रसारितेन संकल्पयन्निव सर्वदुःखानि दीर्घेण दर्दण्डद्वयेन गृहीत्वा कण्ठे मुक्तकण्ठं पुनः पतितक्ष्ॐए क्षामे वक्षसि पुनः, कण्ठे पुनः स्कन्धभागे पुनः कपोलोदरे निधाय तथा तथा रुरोद यथा संबन्धनानीवोदपाट्यन्त हृदयानि ।
अश्रुस्रोतःशिरा इवामुच्यत लोचनेषु लोकेनास्मृतनृपतिना राजवल्लभेनापि प्रतिशब्दकनिभेन निर्भरमिवारुद्यत ।
सुचिराच्च कथं कथमपि निर्वृष्टनयनजलः पर्जन्य इव शरदि स्वयमेवोपशशाम ।
उपविष्टश्च परिजनोपनीतेन तोयेन तरत्करनखमयूखपुञ्जतया महाजलप्लवजायमानफेनलेखमिव पुनः पुनः प्रमृष्टमपि पक्ष्माग्रसंगलद्बाष्पबिन्दुवृन्दमन्दोन्मेषमुषितदर्शनं कथं कथमपि चक्षुरक्षालयत् ।
ताम्बूलिकोपस्थापितेन च वाससा चन्द्रातपशकलेनेवोष्णोष्णबाष्पदग्धं वदनमुन्ममार्ज ।
तूष्णीमेव च चिरं स्थित्वोत्थाय स्नानभूमिमगात् ।
तस्यां च स्थित्वा विभूषं वित्रस्तव्यस्तकुन्तलं मौलिमनादरान्निष्पीड्य सावशेषमन्युस्फुरितेन जिजीविषतेव जलधौतसुभगमात्मानमपि चुचुम्बिषतेवाधरेण क्षालितस्य चक्षुषः श्वेतिम्ना च शारदशशिकरविकसितविशदकुमुदवनदलावलिबलिविक्षेपैरिव दिग्देवतार्चनकर्म कुर्वाणश्चतुःशालवितर्दिकाविनिवेशितायामप्रतिपादिकायां चापाश्रयविनिहितैकोपबर्हणायां पर्यङ्किकायां निपत्य जोषमस्थात् ।
देवोऽपि हर्षस्तथैव स्नात्वा धरणितलनिहितकुथाप्रसारितमूर्तिरदूर एवास्य तूष्णीमेव समवातिष्ठत ।
दृष्ट्वा दृष्ट्वा दूयमानसमग्रजन्मानं समस्फुटदिवास्य सहस्रधा हृदयं ।
औरसदर्शनं हि यौवनं शोकस्य ।
लोकस्य तु नरपतिमरणदिवसादपि दारुणतरः स बभूव दिवसः ।
सर्वस्मिन्नेव च नगरे न केनचिदपाचि न केनचिदस्नायि नाभोजि ।
सर्वत्र सर्वेणारोदि ।
केवलमनेन च क्रमेणातिचक्राम दिवसः ।
स च प्रत्यग्रत्वष्टुटङ्कतष्टतनुरिव वमद्वहलरुधिररसमांसच्छेदलोहितच्छविरपरपारावारपयसि ममज्ज मञ्जिष्ठारुणोऽरुणसारथिः ।
मुकुलायमानकमलिनीकोशविकलं चकाण चञ्चरीककुलं कमलसरसि ।
सविधविरहव्याधिविधुरधूबाध्यमानं बबन्ध बन्धाविव विबुद्धबन्धूकभासि भास्वति सास्रां दृशं चक्रवाकचक्रवालं ।
संचरन्त्याः समधुकररवं कैरवाकरं कलहंसरमणीरमणीयं माणिक्यकाञ्जीकिङ्किणीजालमिवाचकाण श्रियः ।
प्रकटकलङ्कमुदयमानं विशङ्कटविषाणोत्कीर्णपङ्कसंकरशङ्करबर्कुरशव्करककुदकूटसंकाशमकाशताकाशे शशाङ्कमण्डलं ।
अस्यां च वेलायामनतिक्रमणीयवचनैरुपसृत्य प्रधानसामन्तैर्वि ज्ञाप्यमानः कथं कथमप्यभुक्त ।
प्रभातायां च शर्वर्यां सर्वेषु प्रविष्टेषु राजसु समीपस्थितं ह्रषदेवमुवाच--"तात! भूमिरसि गुरुनियोगानां ।
शैशव एवाग्राहि गुणवत्पताकेव भवता तातस्य चित्तवृत्तिः ।
यतो भवन्तमेवं विधं विधेयं विधिघिधानोपनतनैर्घृण्यमिदं किमपि बिभणिषति मे हृदयं ।
नावलम्बनीया बालभावसुलभा प्रेमविल्ॐआ वामता ।
वैधेय इव मा कृथाः प्रत्यूहमीहितेऽस्मिन् ।
शृणु, न खलु न जानासि लोकवृत्तं ।
लोकत्रयत्रातरि मान्धातरि मृते किं न कृतं पुरुकुत्सेन? भ्रूलतादिष्टाष्टादशद्वीपे दिलीपे वा रघुणा ।
महासुरसमरमध्याध्यासितत्रिदशरथे दशरथे वा रामेण? गोष्पदीकृतचतुरुदन्वदन्ते दुष्यन्ते वा भरतेन? तिष्ठन्तु तावत्ते तातेनैव शतसमधिकाधिगताध्वरधूमविसरधूसरितवासववयसि सुगृहीतनाम्नि तत्रभवति परासुतां गते पितरि किं नाकारि राज्यम्? यं च किल शोकः स्मभिभवति तं कापुरुषमाचक्षते शास्त्रविदः ।
स्त्रियो हि विषयः शुचां ।
तथापि किं कर्ॐइ ।
स्वभावस्य सेयं कापुरुषता वा स्त्रैणं वा यदेवमास्पदं पितृशोकहुतभुजो जातोऽस्मि ।
मम हि भूभृति पर्यस्ते निरवशेषतः प्रस्रवणानीव स्रुतान्यश्रूण्यस्तमिते महति तेजस्यन्धकारीभूतदशाशस्य प्रनष्टः प्रज्ञालोकः, प्रज्वलितं हृदयम्, आत्मदाहभीत इव स्वप्नेऽपि नोपसर्पति विवेकः, बलीयसा संतापेन जातुषमिव विलीनमखिलं धैर्यम्, पदे पदे दिग्धरोपाहतेव हरिणी मुह्यति मतिः, पुरुषद्वेषिणीव दूरत एव भ्रमति परिहरन्ती स्पृतिः, अम्बेव तातेनैव सह गता धृतिः, वार्धुषिकप्रयुक्तानीव धनानीव प्रतिदिवसं वर्धन्ते, दुःखानि, शोकानलधूमसंभारसंभूताम्भोधरबरितमिव वर्षति नयनवारिधाराविसरं शरीरं ।
सर्वः पञ्चजनः पञ्चत्वमुपगतः प्रयाति ।
वितथमेतद्वदति बालो लोकः ।
तातो हुताशनतामेव केवलामापन्नोऽपि नैवं दहति मां ।
अन्तस्तदेवमिदमसांपरायिकमिव हृदयमवष्टभ्य व्युत्थितः शोकौ दुर्निवारो वाडव इव वारिराशिम्, पविरिव पर्वतम्, क्षय इव क्षपाकरम्, राहुरिव रविम्, दहति दारयति तनूकरोति कवलयति च मां ।
कामं न शक्नोति मे हृदयं तादृशस्य समेरुकल्पस्य कल्पमहापुरुषस्य विनिपातमश्रुबिन्दुभिरेव केवलैरतिवाहयितुं ।
राज्ये विष इव चकोरस्य मे विरक्तं चक्षुः ।
बहुमृतपटावगुण्ठनां रञ्जितरङ्गां जनङ्गमानामिव वंशवाह्यामनार्यां श्रियं त्यक्तुमभिलषति मे मनः ।
क्षणमपि दग्धगृहे शकुनिरिव न पारयामि थातुं ।
सोऽहमिच्छामि मनसि वाससीव सुलग्नं स्नेहमलमिदममलैः शिखरिशिखरप्रस्रवणैः स्वच्छस्रो त्ॐबुभिः प्रक्षालयितुमाश्रमपदे ।
यतस्त्वमन्तरितयौवनसुखामनभिमतामपि जरामिव पुरुराज्ञया गुरोर्गृहाण मे राज्यचिन्तां ।
त्यक्तसकलबालक्रीडेन हरिणेव दीयतामुरो लक्ष्म्यै ।
परित्यक्तं मया शस्त्रम्ऽ ।
इत्यभिधाय च खड्गग्राहिणो हस्तादादाय निजं निस्त्रिंशमुत्ससर्ज धरण्यां ।
अथ तच्छ्रु त्वा निशितशिखेन शूलेनेवाहतः प्रविदीर्णहृदयो देवो हर्षः समचिन्तयत्--"किं नु खलु मामन्तरेणार्यः केनचिदसहिष्णुना किञ्चिद्ग्राहितः कुपितः स्यात् ।
उतानया दिशा परीक्षितुकामो मां ।
उत तातशोकजन्मा चेतसः समाक्षेपोऽयमस्य ।
आहोस्विदार्य एवायं न भवति, किं वार्येणान्यदेवाभिहितमन्यटेवाश्रावि मया शोकशून्येन श्रवणेन्द्रियेण ।
आर्यस्य चान्यद्विवक्षितमन्यदेवापतितं मुखेन ।
अथवा सकलवंशविनाशाय निपातनोपायोऽयं विधेः ।
मम वा निखिलपुण्यपरिक्षयोपक्षेपः ।
कर्मणामननुकूलसमग्रग्रहचक्रवालविलसितं वा ।
अथवा तातविनाशनिःशङ्ककलिकालक्रीडितं येनायं यः कश्चिदिव यत्किञ्चनकारिणं मामपुष्यभूतिवंशसंभूतमिव, अताततनयमिव, अनात्मानुजमिव, अभक्तमिव, अदृष्टदोषमपि श्रोत्रियमिव सुरापाने, सद्भृत्यमिव स्वामिद्रोहे सज्जनमिव नीचोपसर्पणे, सुकलत्रमिव व्यभिचारे, अतिदुष्करे कर्मणि समादिष्टवान् ।
तदेतत्तावदनुरूपं यच्छौर्योन्मादमदिरोन्मत्तसमस्तसामन्तमण्डलसमुद्रमथनमन्दरे तादृशि पितरि मृते तपोवनं वा गम्यते वल्कलानि वा गृह्यन्ते तपांसि वा सेव्यन्ते ।
या तु मयि राजाज्ञा सा दग्धोऽपि दाहकारिणी मय्यवग्रहग्लपिते धन्वनीवाङ्गारवृष्टिः ।
तदसदृशमिदमार्यस्य ।
यद्यपि च विभुरनभिमानः ।
द्विजातिरनेषणः, मुनिररोषणः, कपिरचपलः ।
कविरमत्सरः, वणिगतस्करः प्रियजानिरकुहनः, साधुरदरिद्रः, द्रविणवानखलः, कीनाशोऽनक्षिगतः, मृगयुरहिंस्रः, पाराशरी ब्राह्नण्यः, सेवकः सुखी, कितवः कृतज्ञः, परिव्राडबुभुक्षुः, नृशंसः प्रियवाक्, अमात्यः सत्यवादीः, राजसूनुरदुर्विनीतश्च जगति दुर्लभः, तथापि ममार्य एवाचार्यः ।
को हि नाम तद्विधे निपतिते राजगन्धकुञ्जरे जनयितरि चेदृशे विफलीकृतविशालशिलास्तम्भोरुभुजे भूभुजि भ्रातरि त्यक्तराज्ये ज्यायसि नववयसि तपोवनं गच्छति सकललोकलोचनजलपातापवित्रं मृद्गोलकं वसुधाभिधानं धनमदखेलनिखिलखलमुखविकारलक्षणाख्यायमाननीचाचरणां श्रोसंज्ञिकां सुभटकुटुम्बकर्मकुम्भदासीं चण्डालोऽपि कामयेत ।
कथमिव संभावितमत्यन्तमनुचितमिदमार्येण ।
किमुपलक्षितमनवदातमिदं मयि ।
किं वास्य चेतसश्च्युतः स्ॐइत्रिर्विस्मृता वा वृकोदरप्रभृतयः ।
अनपेक्षितभक्तजना स्वार्थैकनिष्पादननिष्ठुरा नासीदियमार्यस्येदृशी प्रभविष्णुता ।
अपि चार्ये तपोवनं गते जिजीवषुः को मनसापि महीं ध्यायेत् ।
कुलिशशिखरखरनखरप्रचयप्रचण्डचपेटापाटितमत्तमातङ्गोत्तमाड्गमदच्छटाच्छुरितचारुकेसरभारभास्वरमुखे केसरिणि वनविहाराय विनिर्गते निवास गिरिगुहां कः पाति पृष्ठतः ।
प्रतापसहाया हि सत्त्ववन्तः ।
कश्चपलां राजलक्ष्मीं प्रत्यनुरोधोऽयमार्यस्य यदियमपि न चीवरान्तरितकुचा कुशकुसुमसमित्पलाशपूलिकां वहन्ती तत्रैव तपोवने वनमृगीव नीयते जराजालिनी ।
किंवा ममानेन वृथा बहुधा बिकल्पितेन तूष्णीमेवार्यमनुगमिष्यामि ।
गुरुवचनातिक्रमकृतं च किल्विषमेतत्तपोवने तप एवापास्यतिऽ ।
इत्यवधार्य मनसा प्रथमतरं गतस्तपोवनमध्ॐउखस्तूष्णीमवातिष्ठत ।
अत्रान्तरे पूर्वादिष्टेनैव रुदता वस्त्रकर्मान्तिकेन समुपस्थापितेषु वल्कलेषु, निर्दयकरतलताडनभियेव व्कापि गते हृदये, रटति राजस्त्रैणे, तारमब्रह्नण्यमूर्ध्वदोष्णि विरुदति विप्रजने, पादप्रणतिपरे फूत्कुर्वति पौरवृन्दे, विद्राति विद्रुतचेतसि चिरन्तने परिजने, परिजनावलम्बिते गते वर्षीयसि, वेपमानवपुषि, पर्याकुलवाससि, शोकगद्गदवचसि, विगलितनयनपयसि, निवारणोद्यतमनसि, विशति बन्धुवर्गे, निराशेषु नखलिखितमणिकुट्टिमेष्ववाङ्मुखेन निःश्वसत्सु सामन्तेषु, सबालवृद्धासु तपोवनाय प्रस्थितासु सर्वासु प्रजासु सहसैव प्रविश्य शोकविक्लवः प्रक्षरितनयनसलिलो राज्यश्रियः परिचारकः संवादको नाम प्रज्ञाततमो विमुक्ताक्रन्दः सदस्यात्मानमपातयत् ।
अथ संभ्रान्तो भ्रात्रा सह स्वयं देवो राज्यवर्धनस्तं पर्यपृच्छत्-"भद्र! भण भण किमस्मद्व्यसनव्यवसायवर्धनबद्धधृतिः, अवनिपतिमरणमुदितमतिः, अधृतिकरमपरमधिकतरमितो दुःखातिशयं समुपनयति विधिःऽ इति ।
स कथं कथमप्यकथयत्--"देव! पिशाचानामिव नीचात्मनां चरितानि छिद्रप्रहारीणि प्रायशो भवन्ति ।
यतो यस्मिन्नहन्यवनिंपतिरुपरत इत्यभूद्वार्ता तस्मिन्नेव देवो ग्रहवर्मा दुरात्मना मालवराजेन जीवलोकमात्मानः सुकृतेन सह त्याजितः ।
भर्तृदारिकापि राज्यश्रीः कालायसनिगडयुगलचुम्बितचरणा चौराङ्गनेव संयता कान्यकुब्जे कारायां निक्षिप्ता ।
किंवदन्ती च यथा किलानायकं साधनं मत्वा जिघृक्षुः सुदुर्मतिरेतामपि भुवमाजिगमिषति ।
इति विञ्ज्ञापिते प्रभुः प्रभवतीति ।
ततश्च तादृशमनुपेक्षणीयमसंभावितमाकस्मिकमुपरिं व्यतिकरमाकर्ण्याश्रुतपूर्वत्वात्परिभवस्य, परपरिंभवासहिष्णुतया च स्वभावस्य, दर्पबहुलतया च नवयौवनस्य, वीरक्षेत्रसंभवत्वाच्च जन्मनः, कृपाभूमिभूतायाश्च स्वसुः स्नेहात्स तादृशोऽपि बद्धमूलोऽप्यत्यन्तगुरुरेकपद एवास्य ननास्य ननाश शोकावेगः ।
विवेश च सहसा केसरीव गिरिगुहागृहं गभीरहृदयं भयङ्करः कोपावेगः ।
केशिनिषूदनशङ्काकुलकालियभङ्गुरभ्रूभङ्गतरङ्गिणी श्यामायमाना यमस्वसेव प्रथीयसी ललाटपट्टे भीषणा भ्रुकुटिरुदभिद्यत ।
दर्पात्परामृशन्नखकिरणसलिलनिर्झरैः समरभारसंभावनाभिषेकमिव चकार दिङ्नागकुम्भकूटविकटस्य बाहुशिखरकोशस्य वामः पाणिपल्लवः ।
संगलत्स्वेदसलिलपूरितोदरो निर्मूलं मालवोन्मूलनाय गृहीतकेश इव दुर्मदश्रीकचग्रहोत्कण्ठयेव च कम्पमानः पुनरपि समुत्ससर्प भीषणं कृपाणं पाणिरपरः ।
शस्त्रग्रहणमुदितराजलक्ष्मीक्रियमाणदिष्टवृद्धिविधुतसिन्दूरधूलिरि व कपिलः कपोलयोरदृस्यत रोषरागः ।
समासन्नसकलमहीपालचूडामणिचक्राक्रमणजाताहङ्कार इव च समारुरोह वाममूरुदण्डमुत्तानितश्चरणो दक्षिणः ।
निष्ठुराङ्गुष्टकषणनिष्ठ्यूतधूतधूमलेखो निर्वीरोर्वीकरणाय विमुक्तशिख इव लिलेख मणिकुट्टिममितरः पादपझः ।
दर्पस्फुटितसरसव्रणोच्छलितरुधिरच्छटावसेकैः शोकविषप्रसुप्तं प्रबोधयन्निव पराक्रममनुजमवादीत्--"आयुष्मन्! इदं राजकुलम्, अमी बान्धवाः, परिजनोऽयम्, इयं भूमिः, भूपतिभुजपरिघपालिताश्चैताः प्रजाः, गतोऽहमद्यैव मालवराजकुलप्रलयाय ।
इदमेव तावद्वल्कलग्रहणमिदमेव तपः शोकापगमोपायश्चायमेव यदत्यन्ताविनीतारिनिग्रहः ।
सोऽयं कुरङ्गकैः कचग्रहः केसरिणः, भेकैः करपातः काल सर्पस्य, वत्सकैर्बन्दिग्रहो व्याघ्रस्य, अलगर्दैर्गलग्रहो गरुडस्य, दारुभिर्दाहादेशो दहनस्य, तिमिरैस्तिरस्कारो रवेः, यो मालवैः परिभवः पुष्यभूतिवंशस्य ।
अन्तरितस्तापो मे महीयसा मन्युना ।
तिष्ठन्तु सर्व एव राजानः करिणश्च त्वयैव सार्धं ।
अयमेको भण्डिरयुतमात्रेण तुरङ्गमाणामनुयातुमाम्ऽ ।
इत्यभिधाय चानन्तरमेव प्रयाणपटहमादिदेश ।
तं च तथा समादिशन्तमाकर्ण्य जामिजामातृवृत्तान्तविज्ञानप्रकोपाधानदूयमाने मनसि निर्वर्तनादेशेन दूरप्ररूढप्रणयपीड इव प्रोवाच देवो हर्षः--"किमिव हि दोषं पश्यत्यार्यो ममानुगमनेन? यदि बाल इति नितरां तर्हि न परित्याज्योऽस्मि ।
रक्षणीय इति भवद्भुजपञ्जरो रक्षास्थानम्, अशक्त इति व्क परीक्षितोऽस्मि, संवर्धनीय इति वियोगस्तनूकरोति, अक्लेशसह इति स्त्रीपक्षे निक्षिप्तोऽस्मि, सुखमनुभवत्विति त्वयैव सह तत्प्रयाति, महानध्वनः क्लेश इति विरहाग्निविषह्यतरः, कलत्रं रक्षत्विति श्रीस्ते निस्त्रिंशेऽधिवसति, पृष्ठतः शून्यमिति तिष्ठत्येव प्रतापः, राजकमनधिष्ठितमिति तत्सुबद्धमार्यगुणैः, न बाह्यः सहायो महत इति व्यतिरिक्तमेव मां गणयति, प्रलघुपरिकरः प्रयामीति पादरजसि कोऽतिभारः, द्वयोर्गमनमसांप्रतमिति मामनुगृहाण गमनाज्ञया, कातरो भ्रातृस्नेह इति सदृशो दोषः ।
का चेयमात्मंभरिता भुजस्य ते यदेकाकी क्षीरोदफेनपटलपाण्डुरममृतमिव यशः पिपासति ।
अवञ्चितपूर्वोऽस्मि प्रसादेषु ।
तत्प्रसीदत्वार्यो नयतु मामपिऽ --
इत्यभिधाय क्षितितलविनिहितमौलिः पादयोरपतत् ।
तमुत्थाप्य पुनरग्रजो जगाद--
"तात! किमेवमतिमहारम्भपरिग्रहणेन गरिमाणमारोप्यते बलादतिलघीयानप्यहितः ।
हरिणार्थमतिह्रेपणः सिंहसंभारः ।
तृणानामुपरि कति कवचयन्त्याशुशुक्षणयः ।
अपि च तवाष्टादशद्वीपाष्टमङ्गलकमालिनी मेदिन्यस्त्येव विक्रमस्य विषयः ।
नहि कुलशैलनिवहवाहिनो वायवः संनह्यन्त्यतितरले तूलराशौ ।
न सुमेरुवप्रप्रणयप्रगल्भा वा दिव्करिणः परिणमन्त्यणीयसि वल्मीके ।
ग्रहीष्यसि सकलपृथ्वीपतिप्रलयोत्पातमहाधूमकेतुं मान्धातेव चारुचामीकरपह्कपत्रलतालङ्काराङ्ककायं कार्मुकं ककुभां विजये ।
मम तु दुर्निवारायामस्यां विपक्षक्षपणक्षुधि क्षुभितायां क्षम्यतामयमेकाकिनः कोपकवल एकः ।
तिष्ठतु भवान्ऽ ।
इत्यभिधाय च तस्मिन्नेव वासरे निर्जगामाभ्यमित्रं ।
अथ तथागते भ्रातरि, उपरते च पितरि, प्रोषितजीविते च जामातरि, मृतायां च मातरि, संयतायां च स्वसरि, स्वयूथभ्रष्ट इव वन्यः करी देवो हर्षः कथं कथमप्येकाकी कालं तमनैषीत् ।
अतिक्रान्तेषु बहुषु वासरेषु कदाचित्तयैव भ्रातृगमनदुःखासिकया दत्तप्रजागरसिभागशेषायां त्रियामायां यामिकेन सीयमानामिमामार्यां शुश्राव--

द्वीपोपगीतगुणमपि समुपार्जितरत्नराशिसारमपि  ।
पोतं पवन इव विधिः पुरुषमकाण्डे निपातयति ॥६.३  ॥

तां च श्रुत्वा सुतरामनित्यताभावनया दूयमानहृदयः प्रक्षीणभूयिष्ठायां क्षपायां क्षणमिव निद्रामलभत ।
स्वप्ने चाब्रंलिहं लोहस्तम्भं भज्यमानमपश्यत् ।
उत्कम्पमानहृदयश्च पुनः प्रत्यबुध्यत ।
अचिन्तयच्च--
"किं नु खलु मामेवममी सततमनुबध्नन्ति दुःस्वप्नाः ।
स्फुरति च दिवानिशमकल्याणाख्यानविचक्षणमदक्षिणमक्षि ।
सुदारुणास्चाक्षुद्रक्षितिपक्षयमाचक्षाणाः क्षणमपि न शाम्यन्ति पुनरुत्पाताः ।
प्रत्यहं राहुरविकलकायबन्ध इव कबन्धवति ब्रध्नबिम्बे घटमानो विभाव्यते ।
तपःकरणकालकवलितानिव धूसरितसमग्रग्रहानुद्गिरन्ति धूमोद्गारान्सप्तर्षयः ।
दिने दिने दारुणा दिशां दाहा दृश्यन्ते ।
दिग्दाहभस्मकणनिकर इव निपतति नभस्तलात्तारागणः ।
तारापातशुचेव निष्प्रभः शसी ।
निशि निशि इतस्ततः प्रज्वलिताभिरुल्काभिरुग्रं ग्रहयुद्धमिव वियति विलोकयन्ति विलोलतारकाः ककुभः ।
राज्यसंचारसूचकः संचारयतीव क्ष्मां व्कापि वहद्बहलरजःपटलकलिलशर्कराशकलसूत्कारी मारुतः ।
न कुशलमिव पश्यामि लग्नस्य ।
अस्मिन्नस्मद्वंशे करिण इव करीरं क्ॐअलमपि कलयतः कृतान्तस्य कः परिपन्थी? सर्वथा स्वस्ति भवत्वार्यायऽ ।
इति चिन्तयित्वा च अन्तर्भिन्नं भ्रातृस्नेहकातरं द्रवदिव हृदयं कथं कथमपि संस्तभ्योत्थाय यथाक्रियमाणं क्रियाकलापमकरोत् ।
आस्थानगतश्च सहसैव प्रविशन्तम्, अनुप्रविशता विषण्णवदनेन लोकेनानुगम्यमानम्, असह्यदुःखोष्णनिःश्वासधूमरक्ततन्तुनेव मलिनेन पटेन प्रावृतवपुषम्, जीवितधारणलज्जयेवावनतमुखम्, नासावंशस्याग्रे ग्रथितदृष्टिम्, दुःखदूरप्ररूढर्ॐणा मूकेनापि मुखेन स्वामिव्यसनमविच्छिन्नैरश्रुबिन्दुभिर्विज्ञापयन्तं कुन्तलं नाम बृहदश्ववारम्, राज्यवर्धनस्य प्रसादभूमिमभिज्ञाततमं ददर्श ।
दृष्ट्वा च जाताशङ्कश्चक्षुषि सलिलेन, मुखशशिनि श्वसितेन, हृदये हुताशनेन उत्सङ्गे भुवा, दारुणाप्रियश्रवणसमये सममिव सर्वेष्वङ्गष्वगृह्यत लोकपालैः ।
तस्माच्च हेलानिर्जितमालवानीकमपि गौडाधिपेन मिथ्योपचारोपचितविश्वासं मुक्तशस्त्रमेकाकिनं विश्रब्धं स्वभवन एव भ्रातरं व्यापादितमश्रौषीत् ।
श्रुत्वा च महातेजस्वी प्रचण्डकोपपावकप्रसरपरिचीयमानशोकावेगः सहसैव प्रजज्वाल ।
ततश्चामर्षविधुतशिरःशीर्यमाणशिखामणिशकलाङ्गाकिताङ्गमिव रोषाग्निमुद्वमन्ननवरतस्फुरितेन पिबन्निव सर्वतेजस्विनामायूंषि रोषनिर्भुग्नेन दशनच्छदेव, लोहितायमानलोचनालोकविक्षेपैर्दिग्दाहानिव दर्शयन्, रोषानलेनाप्यसह्यसहजशौर्य्योष्मदहनदह्यमानेनेव वितन्यमानस्वेदसलिलशीकरासारदुर्दिनः, स्वावयवैरप्यदृष्टपूर्वप्रकोपभीतैरिव कम्पमानैरुपेतः, हर इव कृतभैरवाकारः, हरिरिव प्रकटितनरसिंहरूपः, सूर्यकान्तशैल इवापरतेजःप्रसरदर्शनप्रज्वलितः, क्षयदिवस इवोदितद्वादशदिनकरदुर्निरीक्ष्यमूर्तिः, महोत्पातमारुत इव सकलभूभृत्प्रकम्पकारी, विन्ध्य इव वर्धमानविग्रहोत्सेधः, महाशीविष इव दुर्नरेन्द्राभिभवरोपितः, परीक्षित इव सर्वभोगिदहनोद्यतः वृकोदर इव रिपुरुधिरतृषितः, सुरगज इव प्रतिपक्षवारणप्रधावितः, पूर्वागम इव पौरुषस्य, उन्माद इव मदस्य, आवेग इवावलेपस्य, तारुण्यावतार इव तेजसः, सर्वोद्योग इव दर्पस्य, युगागम इव यौवनोष्मणः, राज्याभिषेक इव रणरसस्य, नीराजनदिवस इवासहिष्णुतायाः परां भीषणतामयासीत् ।
अवादीच्च गौडाधिपाधममपहाय कस्तादृशं महापुरुष तत्क्षण वे निर्व्याजभूजवीर्यनिर्जितसमस्तराजकं मुक्तशस्त्रं कलशयोनिमिव कृष्णवर्त्मप्रसूतिरीदृशेन सर्ववीरलोकविमर्दितेन मृत्युना शमयेदेवमार्यं ।
अनार्यं च तं मुक्त्वा भागीरथीफेनपटलपाण्डुराः केषां मनःसु सरःसु राजहंसा इव परशुरामपराक्रमस्मृतिकृतो न कुर्युरार्यशौर्यगृणाः पक्षपातं ।
कथमिवात्युग्रस्यास्यार्यजीवितहरणे निदाघरवेरिव कमलाकरसलिलशोषणेऽनपेक्षितप्रीतयः प्रसृताः कराः ।
कां नु गतिं गमिष्यति, कां वा योनिं प्रवेक्ष्यति, कस्मिन्वा नरके निपतिष्यति ।
श्वपाकोऽपि क इदमाचरेत् ।
नामापि च गृह्णतोऽस्य पापकारिणः पापमलेन लिप्यत इव मे जिह्वा ।
किं वाङ्गीकृत्य कार्यमार्यस्तेन क्षुद्रेणानुप्रविश्य विगतघृणेन घुणेनेव सकलभुवनाह्लादनचतुरश्चन्दनस्तम्भः क्षयमुपनीतः ।
नूनं नानेन मूढेन मधुरसास्वादलुब्धेन मध्विवार्यजीवितमाकर्षता भावी दृष्टः शिलीमुखसंपातोपद्रवः ।
निजगृहदूषणं जालमार्गप्रदीपकेन कज्जलमिवातिमलिनं केवलमयशः संचितं गौडाधमेन ।
न्तवाश्वेवास्तमुपगतवत्यपि त्रिभुवनचूडामणौ सवितरि वेधसादिष्टः सत्पथशत्रोरन्धकारस्य निग्रहाय ग्रहषण्डविहारैकहरिणाधिपः शशी ।
विनयविधायिनि भग्नेऽपि चाङ्कुशे विद्यत एव व्यालवारणस्य विनयाय सकलमत्तमातङ्गकुम्भस्थलस्थिरशिरोभागभिदुरः खलतरः केसरिनखरः ।
तादृशाः कुवैकटिका इव तेजस्विरत्नविनाशकाः कस्य न वध्याः ।
क्वेदानीं यास्यति दुबुन्द्भिः?ऽ इत्येवमभिदधत एवास्य पितुरपि मित्रं सेनापतिः समग्रविग्रहप्राग्रहरो हरितालशैलावदातदेहः परिणतप्रगुणसालप्रकाण्डप्रकाशः प्रांशुः, अतिशौर्योष्मणेव परिपाकमागतो गतभूयिष्ठे वयसि वर्तमानः, बहुशरशयनसुप्तोत्थितोऽपि हसन्निव शान्तनवमतिदीर्घणायुषा, दुरभिभवशरीरतया जरयापि भीतभीतयेव प्रकटितप्रकम्पया परामृष्टः, कथमपि सारमयेषु शिरोरुहेषु शशिकरनिकरसितसरलशिरोरुहसटालां सैंहीमिव निष्कपटपराक्रमरसरचितां संक्रान्तो जीवन्नेवजातिम्, परस्वामिमुखदर्शनमहापातकपरिजिहीर्षयेव भ्रूयुगलेन वलितशिथिलप्रलम्बचर्मणा स्थगितदृष्टिः, धवलस्थूलगुञ्जापिच्छप्रच्छादितकपोलभागभास्वरेण वमन्निव विक्रमकालमकालेऽपि विकाशिकाशकाननविशदं शरदारम्भं भीमेन मुखेन, मृतमपि हृदयस्थितं स्वामिनमिव सितचामरेण वीजयन्नाभिलम्बेन कूर्चकलापेन, परिणामेऽपि धौतासिधाराजलपानतृषितैरिव विवृतवदनैर्बृहद्भिर्व्रणविदारैर्विषमितविशालवक्षाः, निशितशस्त्रटङ्ककोटिकुट्टितबहुबृहद्वणक्षिरपङ्क्तिनिरन्तरतया च सकलसमरविजयपर्वगणनामिव कुर्वन्पूर्वपर्वत इव पादचारी, विविधवीररसवृत्तान्तरामणीयकेन महाभारतमपि लघयन्निव, प्रतिपक्षक्षपपणातिनिर्बन्धेन परशूराममपि शिक्षयन्निव, अब्भ्रामणेनानादरश्रीसमाकर्षणविभ्रमेण मन्दरमपि मन्दयन्निव, वाहिनीनायकमर्यादानुवर्तनेनाम्भोधिमप्यभिभवन्निव, स्थैर्यकार्कस्योन्नतिभिरचलानपि ह्रेपयन्निव, सहजप्रचण्डतेजःप्रसरपरिस्फुरणेन सवितारमपि तृणीकुर्वन्निवर्, इश्वरभारोद्वहनघृष्टपृष्ठतया हरवृषभमपि हसन्निव, अरणिरमर्षाग्नेः, ऐश्वर्यं शौर्यस्य, विसर्पो दर्पस्य, हृदयं हठस्य, जीवितं जिगीषुतायाः, समुच्छ्वसितमुत्साहस्य, अङ्कुशो दुर्मदानाम्, नागदमनो दुष्टभोगिनाम्, विरामो वरमनुष्यतायाः, कुलगुरुर्वीरगोष्ठीनाम्, तुला शौयशालिनाम्, सीमान्तदृश्वा शस्त्रग्रामस्य, निर्वोढा प्रौढवादानाम्, संस्तम्भयिता भग्नानाम्, पारगः प्रतिज्ञायाः, मर्मज्ञो महाविग्रहाणाम्, आघोषणापटहः समरार्थिनाम्, संनिधावेवसमुपविष्टः सिंहनादनामा स्वरेणैव दुन्दुभिघोषगम्भीरेण सुभटानां समररसमानयन्विज्ञापितवान्--
"देव! न व्कचित्कृताश्रयया मलिनया मलिनतराः कोकिलया काका इव कापुरुषा हतलक्ष्म्या विप्रलभ्यमानमात्मानं न चेतयन्ते ।
श्रियो हि दोषा अन्धतादयः कामला विकाराः ।
छत्रच्छायान्तरितरवयो विस्मरन्त्यन्यं तेजस्विनं जडधिय ।
किं वा करोतु वराकः यनातिभीरुतया नित्यपराङ्मुखेन नतु दृष्टान्येव सर्वातिशायिशौर्यातिशयश्वयथुकपिलकपोलपुलकपल्लवितकोपानलानि  कुपितानां तेजस्विनां मुखानि ।
नासौ तपस्वी जानात्येवं यथाभिचारा इव विप्रकृताः सद्यः सकलकुलप्रलयमुपाहरन्ति मनस्विन इति ।
जलेऽपि ज्वलन्ति ताडितास्तेजस्विनः ।
सकलवीरगोष्ठीबाह्यस्य तस्यैवेदमुचितमनुत्तारनिरयनिपातनिपुणं कर्म ।
मनस्विनां हि प्रधनप्रधानधने धनुषि ध्रियमाणे सति च कमलाकलहंसीकेलिकुवलयकानने कृपाणे कृपणोपायाः पयोधिमथनप्रभृतयोऽपि श्रीममत्थानस्य किं पुनरीदृशाः ।
येषां च धात्रा धरित्रीं त्रातुं नियुक्ताः स्वयमसमर्था इव कुलशकर्कशभुजपरिघप्रहरणहेतोरुद्गिरन्ति गिरयोऽपि लोहानि ते कथमिव बाहुशालिनो मनसापि विमलयशोभान्धवा ध्यायेयुरकार्यं ।
सर्वग्रहाभिभवभास्वराणां हि सुभटकराणामग्रतो दिग्ग्रहणे पङ्गवः पतङ्गकराः ।
महामहिषशृङ्गतरङ्गभङ्गभह्गुरभीषणान्तराला लोकप्रवादमात्रेण च दक्षिणाशा परमार्थतो भटम्रुकुटिरधिवासो यमस्य ।
चित्रं च यदुन्मुक्तसिंहनादानां सहसा साहसरभसरसर्ॐआञ्चकण्टकनिकरेण सह न निर्यान्ति सटाः शूराणां रणेषु ।
द्वयमेव च चतुःसागरसंभृतस्य भूतिसंभारस्य बाजनं प्रतिपक्षदाहि दारुणं वडवामुखं वा महापुरुषहृदयं वा ।
तेजस्विनः सकलाननवाप्य पयोराशिसहजस्य कुतो निवृत्तिरूष्मणः ।
वृथाविततविपुलफणाभारो भुजह्गानां भर्ता बिभर्ति यो भोगेन मृत्पिण्डमेव केवलं ।
अप्रतिहतशासनाक्रान्त्युपभोगसुखरसं तु रसायां दिक्कुञ्जरभारभास्वरप्रकोष्ठा वीरबाहव एव जानन्ति ।
रविरिवोन्मुखपझाकरगृहीतपादपल्लवः सुखेनाखण्डिततेजा दिवसान्नयति शूरः ।
कातरस्य तु शशिन इव हरिणहृदयस्य पाण्डुरपृष्ठस्य सुतो द्विरात्रमपि निश्चला लक्ष्मीः ।
अपरिमितयशःप्रकरवर्षी विकासी वोररसः ।
पुरःप्रवृत्तप्रतापप्रहताः पन्थानः पौरुषस्य ।
शब्दविद्रुतविद्विषन्ति भवन्ति द्वाराणि दर्पस्य ।
शस्त्रालोकप्रकाशिताः शून्या दिशः शौर्यस्य ।
रिपुरुधिरशीकरासारेण भूरिव श्रीरप्यनुरज्यते ।
बहुनरपतिमुकुटमणिशिलाशाणकोणकषणेन चरणनखराजिरिव राजताप्युज्ज्वलीभवति ।
अनवरतशस्त्राभ्यासेन करतलानीव रिपुमुखान्यपि श्यामीभवन्ति ।
विविधव्रणबद्धपट्टकशतैः शरीरमिव यशोऽपि धवलीभवति ।
कवचिषु रिपूरःकवाटेषु पात्यमानाः, पावकशिखामिव श्रियमपि वमन्ति निष्ठुरा निस्त्रिंशप्रहाराः ।
यस्छाहितहतस्वजनो मनस्विजनो द्विषद्योषिदुरस्ताडनेन कथयति हृदयदुःखं परुषासिलतानिपातपवनेनोच्छ्वसिति निरुच्छ्वसितशत्रुधारापातेन रोदिति विपक्षवनिताचक्षुषा ददाति जलं स श्रेयान्नेतरः ।
न च स्वप्नदृष्टनष्टेष्विव क्षणिकेषु शरीरेषु निबध्नन्ति बन्धुबुद्धिं प्रबुद्धाः ।
स्थायिनि यशसीव शरीरधीर्वीराणां ।
अनवरतप्रज्वलिततेजःप्रसरभास्वरस्वभावं च मणिप्रदोपमिव कलुषः कज्जलमलो न स्पृशत्येवातितेजस्विनं शोकः ।
सत्वं सत्त्ववतामग्रणीः प्राग्रहरः प्राज्ञानां प्रथमः समर्थानां प्रष्ठोऽभिजातानामग्रेसरस्तेजस्विनामादिरसहिष्णूनां ।
एताश्च सततसंनिहितधूमायमानकोपाग्नयः सुलभासिधारातोयतृप्तयो विकटबाहुवनच्छायोपगूढा धीरताया निवासशिशिरभूमयः स्वायत्ताः सुभटानामुरःकवाटभित्तयः ।
यतः किं गौडाधिपाधमैकेन ।
तथा कुरु यथा नान्योऽपि कश्चिदाचरत्येवं भूयः ।
सर्वोर्वीश्रद्धाकामुकानामलीकविजिगीषूणां संचारय चामराण्यन्तःपुरपुरन्ध्रिनिःश्वसितैः ।
उच्छिन्धि रुधिरगन्धान्धगृध्रमण्डलच्छादनैश्चत्त्रच्छायाव्यसनानि ।
अपाकुरु कदुष्णशोणितोदकस्वैदैः कुलक्ष्मीकुलटाकटाक्षचक्षूरागरोगान् ।
उपशमय निशितशरशिरावेधैरकार्यशौर्यश्वयथून् ।
उन्मूलय लोहनिगडापीडमालामलमहौषधैः पादपीठदोहददुर्ललितपादपटुमान्द्यानि ।
क्षपय तीक्ष्णाज्ञाक्षरक्षारपातैर्जयशब्दश्रवणकर्णकण्डूः ।
अपनय चरणनखमरीचिचन्दनचर्चाललाटलेपैरनमितस्तिमितमस्तकस्तम्भविकारान् ।
उद्धर करदानसंदेशसंदंशैर्द्रविणदर्पोष्मायमाणदुःशीललीलाशल्यानि ।
भिन्धि मणिपादपीठदीधितिदीप्रप्रदीपिकाभिः शुष्कसुभटाटोपभ्रुकुटिबन्धान्धकारान् ।
जय चरणलङ्घनलाघवगलितशिरोगौरवारौग्यैर्मिथ्याभिमानमहासंविपातान् ।
म्रदय सततसेवाञ्जलिमुकुलितकरसंपुटोष्मबिरिष्वसनगुणकिणकार्कश्यानि ।
येनैव च ते गतः पिता पितामहः प्रपितामहो वा तमेव मा हासीस्त्रिभुवनस्पृहणीयं पन्थानं ।
अवहाय कुपुरुषोचितां शुचं प्रतिपद्यस्व कुलक्रमागतां केसरीव कुरङ्गीं राजलक्ष्मीं ।
देव! देवभूयं गते नरेन्द्रे दुष्टगौडभुजङ्गजग्धजीविते च राज्यवर्धने वृत्तेऽस्मिन्महाप्रलये धरणीधारणायाधुना त्वं शेषः ।
समाश्वासय अशरणाः प्रजाः ।
क्ष्मापतीनां शिरःसु शरत्सवितेव ललाटन्तपान्प्रयच्छ पादन्यासान् ।
अहितानामभिनवसेवादीक्षादुःखसंतप्तश्वासधूममण्डलैर्नखंपचैः प्रचलितचूडामणिचक्रवालबालातपैश्चायाहि कल्माषपादतां ।
अपि च हते पितर्येकाकी तपस्वी मृगैः सह संवर्धितः सहजब्राह्नण्यमार्दवसुकुमारमनाः कृतनिश्चयचण्डचापवनाटनिटाङ्कारनादनिर्मदीकृतदिग्गजं गुञ्जज्ज्याजालजनितजगज्ज्वरं समग्रमुद्यतमेकविंशतिकृत्वः कृतवंशमुत्खातवान्राजन्यकं परशुरामः, किं पुनर्नैसर्गिककायकार्कश्यकुलिशायमानमानसो मानिनां मूर्धन्यो देवः ।
तदद्यैव कृतप्रतिज्ञो गृहाण गौडाधिपाधमजीवितध्वस्तये जीवितसंकलनाकुलकालाकाण्डदयात्राचिह्नध्वजं धनुः ।
न ह्ययमरातिरक्तचन्दनचर्चाशिशिरोपचारमन्तरेण साम्यति परिभवानलपच्यमानदेहस्य देवस्य दुःखदाहज्वर सुदारुणः ।
निकारसंतापशान्तयुपायपरिक्षये हि हिडिम्बाचुम्बनास्वादितमिव रिपुरुधिरामृतममन्दरोपायमपायि पवनात्मजेन ।
जामदग्न्येन च शाम्यन्मन्युशिखिशिखासंज्वरसुखायमानस्पर्शशीतलेषु क्षत्रियक्षतजह्रदेष्वस्नायिऽ ।
इत्युक्त्वा व्यरंसीत् ।
देवस्तु हर्षस्तं प्रत्यवादीत्--
"करणीयमेवेदमभिहितं मान्येन ।
इतरथा हि मे गृहीतभुवि भोगिनाथेऽपि दायाददृष्टिरीर्ष्यालोर्भुजस्य ।
उपरि गच्छतीच्छति निग्रहाय ग्रहगणेऽपि दायाददृष्टिरीर्ष्यालोर्भुजस्य ।
उपरि गच्छतीच्छति निग्रहाय ग्रहगणेऽपि भ्रूलता चलितुं ।
अनमत्सु शैलेष्वपि कचग्रहमभिलषति दातुं करः ।
तेजोदुर्विदग्धानर्ककरानपि चामराणि ग्राहयितुमीहते हृदयं ।
राजशब्दरूपा मृगराजानामपि शिरांशिवाञ्छति पादः पादपीठीकर्तुं ।
स्वच्छन्दलोकपालस्वेच्छागृहीतानामाक्षेपादेशाय दिशामपि स्फुरत्यधरः ।
किं पुनरीदृशे दुर्जाते जाते जातामर्षनिर्भरे च मनसि नास्त्येवावकाशः सोकक्रियाकरणस्य? अपि च हृदयविषमशल्ये मुसल्ये जीवति जाल्मे जगद्विगहिते गौडाधिपाधमचण्डाले जिह्रेमि शुष्काधरपुटः पीजेव प्रतिकारशून्यं शुचा शूत्कर्तुं ।
अकृतरिपुबलाबलाविलोललोचनोदकदुर्दिनस्य मे कुतः करयुगलस्य जलाञ्जलिदानम्, अदृष्टगौडाधमचिताधूममण्डलस्य वा चक्षुषः स्वल्पमप्यश्रुसलिलं ।
श्रूयतां मे प्रतिज्ञा--
"शपाम्यार्यस्यैव पादपांसुस्पर्शेन, यदि परिगणितैरेव वासरेः सकलचापचापलदुर्ललितनरपतिचरणरणरणायमाननिगडां निर्गौडं गां न कर्ॐइ ततस्तनूनपाति पीतसर्पिषि पतङ्ग इव पातकी पातयाम्यात्मानम्ऽ इत्युक्त्वा च महासन्धिविग्रहाधिकृतमवन्तिकमन्तिकस्थमादिदेश--
"लिख्यतां ।
आ रविरथचक्रचीत्कारजकितचारणमिथुनमुक्तसानो रुदयाचलात्, आ त्रिकूटकटककुट्टाकटङ्कलिखितकाकुत्स्थलङ्कालुण्ठनव्यतिकरात्सुवेलात्, आ वारुणीमदस्खलितवरुणवरनारीनूपुररवमुखरकुहरकुक्षेरस्तगिरेः, आ गुह्यकगेहिनीपरिमलसुगन्धिगन्धपाषाणवासितगुहागृहाच्च गन्धमादनात्सर्वेषां राज्ञां सज्जीक्रियन्तां कराः करदानाय शस्त्रग्रहणाय वा, गृह्यन्तां दिशश्चामराणि वा, नमन्तु शिरांसि धनूंषि वा, कर्णपूरीक्रियन्तामाज्ञा मौर्व्यो वा, शेखरीभवन्तु पादरजांसि शिरस्त्राणि वा, घटन्तामञ्जलयः करिघटाबन्धा वा, मुच्यन्तां भूमय इषवो वा, समालम्ब्यन्तां वेत्रयष्टयः कुन्तयष्टयो वा, सुदृष्टः क्रियतामात्मा मच्चरणनखेषु कृपाणदर्पंणेषु वा ।
परागतोऽहं ।
पङ्गोरिव मेकुतो निवृत्तिस्तावद्यावन्न कृतः सर्वद्वीपान्तरसंचारी सकलनरपतिमुकुटमणिशिलालोकमयः पादलेपःऽ ।
इति कृतनिश्चयश्च मुक्तास्थानो विसर्जितराजलोकः स्नानारम्भाकाङ्क्षी सभामत्याक्षीत् ।
उत्थाय च स्वस्थवन्निःशेषमाह्निकमकार्षीत् ।
अगलच्च दर्पप्रसर इव श्रुतप्रतिज्ञस्य शाम्यदूष्मा दिवसस्त्रिभुवनस्य ।
ततश्च निजाधिकारापहारभीत इव भगवत्यपि व्कापि गते गततेजस्यहिमभासि, तामरसवनेष्वपि निगूढशिलीमुखालापेषु त्रासादिव संकुचत्सु, विहगगणेष्वपि समुपसंहृतनिजपक्षविक्षेपनिश्चलेषु भियेवाप्रकटीभवत्सु, भुवनव्यापिनीं सन्ध्यां प्रतिज्ञामिव मानयति नतशिरसि घटिताञ्जलिवने जने सकले, स्वपदच्युतिचकितदिक्पालदीयमानाभ्रलिहलोहप्राकारवलयकलितास्वि व बहलतिमिरमालातिरौधीयमानासु दिक्षु प्रदोषास्थाने नातिचिरं तस्थौ ।
नमन्नृपलोकलोलांशुकपवनकम्पितशिखैर्दीपिकाचक्रवालैरपि प्रणम्यमान इव प्राहिणोल्लोकं प्रतिषिद्धपरिजनप्रवेशश्च शयनगृहं प्राविशत् ।
उत्तानश्च मुमोचाङ्गानि शयनतले ।
दीपद्वितीयं च तमभिसर इव लब्धावसरस्तरसा भ्रातृशोको जग्राह ।
जीवन्तमिव हृदये निमीलितलोचनी ददर्शाग्रजं ।
उपर्युपरि भ्रातृजीवितान्वेषिण इव प्रसस्रुः श्वासाः ।
धवलांशुकपटान्तेनेव चाश्रुजलप्लवेन मुखमाच्छाद्य निःशब्दमतिचिरं रुरोद ।
चकार चेतसि--
"कथं नामाकृतेस्तादृस्या युक्तः परिणामोऽयमीदृशः ।
पृथुशिलासंघातकर्कशकायबन्धात्तातादचलादिव लोहधातुः कठिनतर आसीदार्यः ।
कथं चास्य मे हतहृदयस्यार्यविरहे सकृदपि युक्तं समच्छ्वसितुं ।
इयं सा प्रीतिर्भक्तिरनुवृत्तिर्वा ।
बालिशोऽपि कः संभावयेदार्यमरणे मज्जीवितं ।
तत्तादृशमैक्यमेकपद एव व्कापि गतं ।
अयत्नेनैव हतविधिना पृथक्कृतोऽस्मि ।
दग्धरोषान्तरितशुचा सुचिरं रुदितमपि न मुक्तकण्ठं गतघृणेन मया ।
सर्वथा लूतातन्तुच्छटाच्छिदुरास्तुच्छाः प्रीतयः प्राणिनां ।
लोकयात्रामात्रनिबन्धना बान्धवता यत्राहमपि नाम पर इवार्ये स्वर्गस्थे स्वस्थ इवासे ।
दैवहतकेन फलमासादितमीदृशि परस्परप्रीतिबन्धनिर्वृतहृदये सुखभाजि भ्रातृमिथुने विघटिते ।
तथा च चन्द्रमया इव जगदाह्लादिनो लोकान्तरीभूतस्य लग्नचिताग्नय इवार्यस्य त एव दहन्ति गुणाः इत्येतानि चान्यानि च हृदयेन पर्यदेवत ।
प्रभातायां च शर्वर्यां प्रतीहारमादिदेशाशेषगजसाधनाधिकृतं स्कन्दगुप्तं द्रष्टुमिच्छामीति ।
अथ युगपत्प्रधावितबहुपुरुषपरम्पराहूयमानः, स्वमन्दिरादप्रतिपालितकरेणुश्चरणाभ्यामेव संभ्रान्तः, ससंभ्रमैर्दण्डिभिरुत्सार्यमाणजनपदः, पदे पदे प्रणमतः प्रतिदिशमिभभिषग्वरान्वरवारणानां विभावरीवार्ताः पृच्छन्नुच्छ्रितशिखिपिच्छलाञ्छितवंशलतावनगहनगृहीतदिगायामैर्विन्ध्यवनैरिव वारणबन्धविमर्देद्योगागतैः, पुरःप्रधावद्भिरनायत्तमण्डलैराधोरणगणैश्च मरकतहरितघासमुष्टीश्च दर्शयद्भिर्नवग्रहगजपतींश्च प्रार्थयमानैश्च लब्धाभिमतमत्तमातङ्गमुदितमानसैश्च सुदूरमुपसृत्य नमस्यद्भिरात्मीयमातङ्गमदागमांश्च निवेदयद्भिः, डिण्डिमाधिरोहणाय च विज्ञापयद्भिः, प्रमादपतितापराधापहृतद्विरददुःखधृतदीर्शश्मश्रुबिरग्रतो गच्छद्भिः, अभिनवोपसृतैश्च कर्पटिभिर्वारणाप्तिसुखप्रत्याशया धावमानैः, गणिकाधिकारिगणैश्चिरलब्धान्तरैरुच्छ्रितकरैः, कर्मण्यकरेणुकासंकथनाकुलैरुल्लासितपल्लवचिह्नाभिररण्यपालपङ्क्तिभिश्च, निष्पादितनवग्रहनागनिवहनिवेदनोद्यताभिरुत्तम्भिततुह्गतोत्रवनाभिर्महामात्रपेटकैश्च प्रकटितकरिकर्मचर्मपुटैः, अभिनवगजसाधनसंचरणवार्तानिवेदनविसर्जितैश्च नागवनवीथीपालदूतवृन्दैः, प्रतिक्षणप्रत्यवेक्षितकरिकवलकूटैश्च, कटभङ्गसंग्रंह ग्रामनगरनिगमेषु निवेदयमानैः, कटककदम्बकैः क्रियमाणकोलाहलः, स्वामिप्रसादसंभृतेन महाधिकाराविष्कारेण स्वाभाविकेन चावष्टम्बाभोगेनोदासीनोऽप्यादिशन्निव, असंख्यकरिकर्णशङ्खसम्पत्सम्पादनाय समुद्रानाज्ञापयन्निव, शृङ्गारगैरिकपह्काङ्गरागर्सग्रहाय गिरीन्मुष्णन्निव, दिग्गजाधिकारं ककुभामैरावतमिवापहरन्हरेर्हरपदभरनमितकैलासगिरिगुरुबिः पादन्यासैर्गुरुभारग्रहणगर्वमुर्व्याः संहरन्निव, गतिवशविलोलस्य चाजानुलम्बस्य बाहुदण्डद्वयस्य विक्षेपैरालानशिलास्तम्भमालामिवोभयतो निखनन्नीषदुत्तङ्गलम्बेनाधरबिम्बेनामृतरसस्वादुना नवपल्लवक्ॐअलेन कवलेनेव श्रीकरेणुकां विलोभयन्निजनृपवंशदीर्घं नासावंशं दधानः, अतिस्निग्धमधुरधवलविशालतया पीतक्षीरोदेनेव पिबन्नीक्षणयुग्मायामेन दिशामायामं मेरुतटादपि विकटविपुलालिकः, सततविच्छिन्नच्छत्रच्छायाप्ररूढिवशादिव नितान्तायतनीलक्ॐअलच्छविसुभगेन स्वभावभङ्गुरेण कुन्तलबालवल्लरीवेल्लितविलासिना लुनन्निव लुप्तालोकानर्ककरान्बर्बरकेणारिपक्षयपरित्यक्तकार्मुककर्मापि सकलदिगन्तश्रूयमाणगुरुगुणध्वनिः, आत्मस्थसमस्तमत्तमातङ्गसाधनोऽप्यस्पृष्टो मदेन भूतिमानपि स्नेहमयः पार्थिवोऽपि गुणमयः करिणामिव दानवतामुपरि स्थितः, स्वामितामिव स्पृहणीयां भृत्यतामप्यपरिभूतामुद्वहन्नेकभर्तृभक्तिनिश्चलां कुलाङ्गनामिवानन्यगम्यां प्रबुप्रसादभूमिमारूढः, निष्कारणबान्दवो विदग्धानाम्, अभृतभृत्यो भजताम्, अक्रीतदासो विदुषाम्, स्कन्दगुप्तो विवेश राजकुलं ।
दूरादेव चोभयकरकमलावलम्बितं स्पृशन्मौलिना महीतलं नमस्कारमकरोत् ।
उपविष्टं च नातिनिकटे तं तदा जगाद देवो हर्षः--
"श्रुतो विस्तर एवास्यार्यव्यतिकरस्यास्मच्चिकीर्षितस्य च ।
अतः शीघ्रं प्रवेश्यन्तां प्रचारनिर्गतानि गजसाधनानि ।
न क्षाम्यत्यतिस्वल्पमप्यार्यपरिभवपीडापावकः प्रयाणविलम्बम्ऽ ।
इत्येवमभिहितश्च प्रमम्य व्यज्ञापयत्--"कृतमवधारयतु स्वामी समादिष्टं कितु स्वल्पं विज्ञप्यमस्ति भर्तृभक्तेः ।
तदाकर्णयतु देवः ।
देवेन हि पुष्यभूतिवंशसंभूतस्याभिजनस्याबिजात्यस्य सहजस्य तेजसोदिक्करिकरप्रलम्बस्य बाहुयुगलस्यासाधारणस्य च सोदरस्नेहस्य सर्वं सदृशमुपक्रान्तं ।
काकोदराबिधानाः कृपणाः कृमयोऽपि न मृष्यन्ति निकारं किमुत भवादृशास्तेजसां राशयः ।
केवलं देवराज्यवर्धनोदन्तेन कियदपि दृष्टमेव देवेन दुर्जनदौरात्म्यं ।
रिदृशाः खलु लोकस्वभावाः प्रतिग्रामं प्रतिनगरं प्रतिदेशं प्रतिद्वीपं प्रतिदिशं च भिन्ना वेशाश्चाकाराश्चाहाराश्च व्याहाराश्च व्यवहाराश्च जनपदानां ।
तदियमात्मदेशाचारोचिता स्वभावसरलहृदयजा त्यज्यतां सर्वविश्वासिता ।
प्रमाददोषाबिषङ्गेषु श्रुतबहुवार्त एव प्रतिदिनं देवः ।
यथा नागकुलजन्मनः सारिकाश्रावितमन्त्रस्यासीन्नाशो नागसेनस्य पझावत्यां ।
शुकश्रुतरहस्यस्य च श्रीरशीर्यत श्रुततवर्मणः श्रावस्त्यां ।
स्वप्नायमानस्य च मन्त्रभेदोऽभून्मृत्यवे मृत्तिकावत्यां सुवर्णचूडस्य ।
चूडामणिलग्नलेखप्रतिबिम्बवाचिताक्षरा च चारुचामोकरचामरग्राहिणी यमतां ययौ यवनेश्वरस्य ।
लोभबहुलं च बहुलनिशि निधानमुत्खनन्तमुत्खातखड्गप्रमाथिनी ममन्थ माथुरं बृहद्रथं विदूरथवरूथिनी ।
नागवनविहारशीलं च मायामातङ्गाङ्गान्निर्गता महासेनसैनिका वत्सपतिं न्ययंसिषुः ।
अतिदयितलास्यस्य च शैलूषमद्यमध्यास्य मूर्धानमसिलतया मृणालमिवालुनादग्निमित्रात्मजस्य सुमित्रस्य मित्रदेवः ।
प्रियतन्त्रीवाद्यस्यालाबुवीणाभ्यन्तरशुषिरनिहितनिशिततरवारयो गान्धर्वच्छात्रच्छझानः चिच्छिदुरश्मकेस्वरस्य शरभस्य शिरो रिपुपुरुषाः ।
प्रज्ञादुर्बलं च बलदर्शनव्यपदेशदर्शिताशेषसैन्यः, सेनानीरनार्यो मौर्यं बृहद्रथं पिपेष पुष्यमित्रः स्वामिनं ।
आश्चर्यकुतूहली च दण्डोपनतयवननिर्मितेन नभस्तलयायिना यन्त्रयानेनानीयत व्कापि काकवर्णः शैशुनागिश्च नगरोपकण्ठे कण्ठे निचकृते निस्त्रिंशेन ।
अतिस्त्रीसङ्गरतमनङ्गपरवसं शुङ्गममात्यो वसुदेवो देवभूतिदासीदुहित्रा देवीव्यञ्जनया वीतजीवितमकारयत् ।
असुरविवरव्यसनिनं, चापजह्ररपरिमितरमणीमणिनूपुरझणझणाह्लादरम्यया मागध गोवर्धनगिरिसुरुङ्गया स्वविषयं मेकलाधिपमन्त्रिण ।
महाकालमहे च मनामांसविक्रयवादवातूलं वेतालस्तालजङ्घो जघान जघन्यजं प्रद्योतस्य पौणकिं कुमारं कुमारसेनं ।
रसायनरसाबिनिवेशिनश्च वैद्यव्यञ्जनाः सुबहुपुरुषानतरप्रकाशितौषधिगुणा गणपतेर्विदेहराजसुतस्य राजयक्ष्माणमजनयन् ।
स्त्रीविश्वासिनस्च महादेवीगृहगूढभित्तिभाग्भूत्वा भ्राता भद्रसेनस्याभवन्मृत्यवे कालिङ्गस्य वीरसेनः ।
मातृशयनीयतूलिकातलनिषण्णश्च तनयोऽन्यं तनयमभिषेक्तुकामस्य दध्रस्य करूषाधिपतेरभवन्मृत्यवे ।
उत्सारकरुचिं चरहसि ससचिवमेव दूरीचकार चकोरनाथं शूद्रकदूतश्चन्द्रकेतुं जीवितात् ।
मृगयासक्तस्य च मथ्नतो गण्डकानुद्दण्डनड्वलनलवननिलीनास्च चम्पाधिपचमूचरभटास्चामुण्डीपतेराचेमुः प्राणान्पुष्करस्य ।
बन्दिरागपरं च परप्रयुक्ता जयशब्दमुखरमुखा मङ्खा मौखरिं मूर्खं क्षत्रवर्माणमुदखनन् ।
अरिपुरे च परकलत्रकामुकं कामिनीवेशगुप्तश्च चन्द्रगुप्तः शकपतिमशातयदिति ।
प्रमत्तानां च प्रमदाकृता अपि प्रमादाः श्रुतिविषयमागता एव देवस्य ।
यथा मधुमोदितं मधुरकसंलिप्तैर्लाजैः सुप्रभा पुत्रराज्यार्थं महासेन काशिराजं जघान ।
व्याजजनितकन्दर्पदर्पा च दर्पणेन क्षुरधारापर्यन्तेनायोध्याधिपतिं परन्तपं रत्नवती जारूथ्यम्, विषचूर्णचुम्बितमकरन्देन च कर्णेन्दीवरेण देवकी देवरानुरुक्ता देवसेनं सौह्न्यम्, योगपरागविरसवर्षिणा च मणिनूपुरेण वल्लभा सपत्नीरुषा वैरन्त्यं रन्तिदेवम्, वेणीविनिगूढेन च शस्त्रेण बिन्दुमतीं वृष्णिं विन्दूरथम्, रसदिग्धमद्येन च मेखलामणिना हसवती सौवीरं वोरसेनम्, अदृश्यागदविलिप्तवदना च विषवारुणीगण्डूषपायनेन पौरवी पौरवेश्वरं स्ॐअकम्ऽ ।
इत्युक्त्वा विरराम स्वाम्यादेशसंपादनाय च निर्जगाम ।
देवोऽपि हषः सकलराज्यस्थितीश्चकार ।
ततश्च तथा कृतप्रतिज्ञे प्रयाणं विजयाय दिशां समादिशति देवे हर्षे गतायुषां प्रतिसामन्तानामुदवसितेषु बहुरूपाण्युपलिङ्गानि वितेनिरे ।
तथा ह्यविप्रकृष्टाः कालदूतदृष्टय इवेतस्ततश्चटुलाः कृष्णशारश्रेणयः ।
प्रचलितलक्ष्मीनूपुरप्रणादप्रतिमा मधुसरघासंघातझङ्कारा जह्रादिरे ।
चिरं विवृतविकृतवदनविव रविनिःसृतवह्निविसरा वासरेऽपि विरसं विरेसुश्चिरमशिवार्थमशिवाः शिवाः ।
शवपिशितप्ररूढप्रसरा इव कपिपोतकपोलकपिलपक्षतयः काननकपोताः पेतुः ।
आमन्त्रयमाणा इव दधुरकालकुसुमानि सममुपवनतरवः ।
तरलकरतलप्रहारप्रहतपयोधरा रुरुदुः प्रसभं सभाशालभञ्जिकाः ।
ददृशुरासन्नकचग्रहभयोद्भ्रान्तोत्तमाङ्गमिवात्मानं कबन्धमादर्शोदरेषु योधाः ।
चूडामणिषु चक्रशह्खकमललक्ष्माणः प्रादुरभवन्पादन्यासा राजमहिषीणां ।
चेटीचामराण्यकस्मादधावन्त पाणिपल्लवात् ।
प्रणयकलहेऽपि दत्तपृष्ठाश्चिरमभवन्भटाः पराङ्मुखा मानिनीनां ।
करिकपोलेषु व्यघटन्त मधुलिहां मधुमदिरापानगोष्ठ्यः ।
समाघ्रातयममहिषगन्धा इव ताम्यन्तः स्तम्बकरिमपि हरयो हरितं नवयवसं न चेरुः ।
चलवलयावलीवाचालबालिकातालिकातोद्यलालिता अपि न नृतुर्मन्दा मन्दिरमयूराः ।
निशि निशि रजनिकरहरिणनिहितनयन इवोन्मुखस्तारमुपतोरणमकारणमकाणीत्कौलेयकगणः ।
गणयन्तीवगतायुषस्तर्जनतरलया तर्जन्या दिवसमाट वाटकेषु कोटवी ।
कुट्टिमेषु कुटिलहरिणखुरवेणीतरङ्गिण्यश्च शष्पराजयोऽजायन्त ।
जनितवेणीबन्धानि निरञ्जनरोचनारोचींषि चषकमधुनि मुखकलप्रतिबिम्बान्यदृश्यन्त भटीनां ।
समासन्नात्मापहारचकिता इव चकम्पिरे भूमयः ।
वध्यालङ्काररक्तचन्दनरसच्छटा इवालक्ष्यन्त शूराणां पतिताः शरीरेषु विकसितबन्धूककुसुमशोणितशोचिषः शोणितवृष्टयः ।
पर्यग्नीकुर्वाणा इव विनश्वरीं श्रियमविरलस्फुरत्स्फुलिङ्गाह्गारोद्गारदग्धतारागणा गणशः पतन्तः प्रज्वलन्तो न व्यरंसिषुरुल्कादण्डाः ।
प्रथममेव प्रतिहारीवापहरन्ती प्रतिभवनं चामरातपत्रव्यजनानि परुषा बभ्राम वात्येति ।

इति श्रीबाणमट्टकृतौ हर्षचरिते राजप्रतिज्ञावर्णनं नाम षष्ठ उच्छ्वासः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:22.7100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

DALA(दल)

  • The son of King Parīkṣit of the dynasty of Ikṣvāku. The mother of Dala was Suśobhanā, the daughter of the King of Maṇḍūka. Dala had an elder brother called Śala. Dala became king when Śala was killed. Hermit Vāmadeva was the priest of this King. [M.B. Vana Parva, Chapter 192]. See Parīkṣit II. 
RANDOM WORD

Did you know?

मंत्राग्नी आणि भडाग्नी मध्ये म्हणजे काय? ते केव्हां देतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.