TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

हर्षचरितम्‌ - चतुर्थ उच्छ्वासः

हर्षचरित संस्कृत में बाणबट्ट द्वारा रचित एक ग्रन्थ है। इसमें भारतीय सम्राट हर्ष का जीवनचरित वर्णित है।


चतुर्थ उच्छ्वासः
योगंस्वप्नेऽपि नेच्छन्ति कुर्वते नकरग्रहं ।
महान्तो नाममात्रेण भवन्ति पतयो भुवः ॥४.१॥
सकलमहीभृत्कम्पकृदुत्पद्यत एव एव नृपवंशे  ।
विपुलेऽपि पृथुप्रतिमो दन्त इव गणाधिपस्य मुखे ॥४.२॥

अथ तस्मात्पुष्पभूतेर्द्विजवरस्वेच्छागृहीतकोषो नाबिपझ इव पुण्डरीकेक्षणात्, लक्ष्मीपुरःसरो रत्नसंचय इव रत्नाकरात्, गुरुबुधकविकलाभृत्तेजस्विभूनन्दनप्रायो ग्रहगण इवोदयस्थानात्, महाभारवाहनयोग्यः सागर इव सगरप्रभावात्, दुर्जयबलसनाथो हरिवंश इव सूरान्निर्जगाम राजवंशः ।
यस्मादविनष्टधर्मधवलाः प्रजासर्गा इव कृतमुखात्, प्रतापाक्रान्तभुवनाः किरणा इव तेजोनिधेः, विग्रहव्याप्तदिङ्मुखा गिरय इव भूभृत्प्रवरात्, धरणिधारणक्षमा दिग्गजा इव ब्रह्नकरात्, उदधीन्पातुमुद्यता जलधरा इव घनागमात्, इच्छाफलदायिनः कल्पतरव इव नन्दनात्, सर्वभूताश्रया विश्वरूपप्रकारा इव श्रीधरादजायन्त राजानः ।
तेषु चैवमुत्पद्यमानेषु क्रमेणोदपादि हूणहरिणकेसरी सिन्धुराजज्वरो गूर्जरप्रजागरो गान्धारादिपगन्धद्विपकूटपाकलो लाटपाटवपाटच्चरो मालवलक्ष्मीलतापरशुः प्रतापशील इति प्रथितापरनामा प्रभाकरवर्धनो नाम राजाधिराजः ।
यो राज्याङ्गसङ्गीन्यभिषिच्यमान एव मलानीव मुमोच धनानि ।
यः परकीयेनापि कातरवल्लभेन रणमुखे तृणेनेव धृतेनालज्जत जीवितेन ।
यः करधृतधौतासिप्रतिबिम्बितेनात्मनाप्यदूयत समितिषु सहायेन रिपूणां पुरः प्रधनेषु धनुषापि नमता यो मानी मानसेनाखिद्यत ।
यश्चान्तर्गतापरिमितरिपुशस्त्रशल्यशङ्कुकीलतामिव निश्चलामुवाह राजलक्ष्मीं ।
यश्च सर्वासु दिक्षु समीकृततटावटविटपाटवीतरुतृणगुल्मवल्मीकगिरिगहनैर्दण्डयात्रापथैः पृथुभिर्भृत्योपयोगाय व्यभजतेव वसुधां बहुधा ।
यं चालब्धयुद्धदोहदमात्मोयोऽपि सकलरिपुसमुत्सारकः परकीय इव तताप प्रतापः ।
यस्य च वह्निमयो हृदयेषु, जलमयो लोचनपुटेषु, मारुतमयो निःश्वसितेषु, क्षमामयोऽङ्गेषु, आकाशमयः शून्यतायां, पञ्चमहाभूतमयो मूर्त इवादृश्यत निहतप्रतिसामन्तान्तःपुरेषु प्रतापः ।
यस्य चासन्नेषु भृत्यरत्नेषु प्रतिबिम्बतेव तुल्यरूपा स प्तलक्ष्यत लक्ष्मीः ।
तथा च यस्य प्रतापाग्निना भूतिः, शौर्योष्मणा सिद्धिः, असिधाराजलेन वंशवृद्धिः, सस्त्रव्रणमुखैः पुरुषकारोक्तिः, धनुर्गुणकिणेन करगृहीतिरभवत् ।
यश्च वैरमुपायनं विग्रहमनुग्रहं समरागमं महोत्सवं शत्रुं निधिदर्शनमरिबाहुल्यमभ्युदयमाहवाह्वानं वरप्रदानभवस्कन्दपातं दिष्टवृद्धिं शस्त्रप्रहारपतनं वसुधारारसममन्यत ।
यस्मिंश्च राजनि निरन्तरैर्यूपनिकरैरङ्कुरितमिव कृतयुगेन, दिङ्मुखविसर्पिभिरध्वरधूमैः पलायितमिव कलिना, ससुधेः सुरालयैरवतीर्णामिव स्वर्गेण, सुरालयशिखरोद्धूयमानैर्धवलध्वजैः पल्लवितमिव धर्मेण, बहिरुपरचितविकटसभासत्रप्रपाप्राग्वंशमण्डपैः प्रसूतमिव ग्रामैः, काञ्चनमयसर्वोपकरणैर्विभवैविशीर्णमिव मेरुणा, द्विजदीयमानैरार्थकलशैः फलितमिव भाग्यसंपदा ।
तस्य च जन्मान्तरेऽपि सती पार्वतीव शङ्करस्य, गृहीतपरहृदया लक्ष्मीरिव लोकगुरोः, स्फुरत्तरलतारका रोहिणीव कलावतः, सर्वजनजननी बुद्धिरिव प्रजापतेः, महाभूभृत्कुलोद्गता गङ्गेव वाहिनीनायकस्य, मानसानुवर्तनचतुरा हंसीव राजहंसस्य, सकललोकाचितचरणा त्रयीव धर्मस्य, दिवानिशममुक्तपार्श्वस्थितिररुन्धतीव महामुने हंसमयीव गतिषु, परपुष्टमयीवालापषु, चक्रवाकमयीव पतिप्रेम्णि, प्रावृण्मयीव पयोधरोन्नतौ, मदिरामयीव विलासेषु, निधिमयीवार्थसंचयेषु, वसुधारामयीव प्रसादेषु, कमलमयीव कोशसंग्रहेषु, कुसुममयीव फलदानेषु, संध्यामयीव वन्द्यत्वे, चन्द्रमयीव निरूष्मत्वे, दर्पणमयीव प्रतिप्राणिग्रहणेषु, सामुद्रमयीव परचित्तज्ञानेषु, परमात्ममयीव व्याप्तिषु, स्मृतिमयीव पुण्यवृत्तिषु, मधुमयीव संभाषणेषु, अमृतमयीव तृष्यत्सु, वृष्टिमयीव भृत्येषु, निर्वृतिमयीव सखीषु, वेतसमयीव गुरुषु, गोत्रवृद्धिरिव विलासानाम्, प्रायश्चित्तशुद्धिरिव स्त्रीत्वस्य, आज्ञासिद्धिरिव मकरध्वजस्य, व्युत्थानबुद्धिरिव रूपस्य, दिष्टवृद्धिरिव रतेः, मनोरथसिद्धिरिव रामणीयकस्य, दैवसंपत्तिरिव लावण्यस्य, वंशोत्पत्तिरिवानुरागस्य, वरप्राप्तिरिव सौभाग्यस्य, उत्पत्तिभूमिरिव कान्तेः, सर्गसमाप्तिरिव सौन्दर्यस्य, आयतिरिव यौवनस्य, अनभ्रवृष्टिरिव वैदग्ध्यस्य, अयश-प्रमृष्टिरिव लक्ष्म्याः, यशःपुष्टिरिव चरित्रस्य, हृदयतुष्टिरिव धर्मस्य, सौभाग्यपरमाणुसृष्टिरिव प्रजापतेः, शमस्यापि शान्तिरिव, विनयस्यापि विनीतिरिव, आभिजात्यस्याप्यभिजातिरिव, संयमस्यापि संयतिरिव, धैर्यस्यापि धृतिरिव, विभ्रमस्यापि विब्रान्तिरिह, यश्ॐअती नाम महादेवी प्राणानां प्रणयस्य विस्रम्भस्य ध्रमस्य सुखस्य च भूमिरभूत् ।
यास्य वक्षसि नरकजितो लक्ष्मीरिव ललास ।
निसर्गत एव च स नृपतिरादित्यभक्तो बभूव ।
प्रतिदिनमुदये दिनकृतः स्नातः सितदुकूलधारी धवलकर्पटप्रावृतशिराः प्राङ्मुखः क्षितौ जानुब्यां स्थित्वा कुङ्कुमपङ्कानुलिप्ते मण्डलके पवित्रपझरागपात्रीनिहितेन स्वहृदयेनेव सूर्यानुरक्तेन रक्तकमलषण्डेनार्घं ददौ ।
अजपच्च जप्यं सुचरितः प्रत्युषसि मध्यन्दिने दिनान्ते चापत्यहेतोः प्राध्वं प्रयतेन मनसा जञ्जपूको मन्त्रमादित्यहृदयं ।
भक्तजनानुरोधविधेयानि तु भवन्ति देवतानां मनांसि ।
यतः सराजा कदाचिद्ग्रीष्मसमये यदृच्छया सितकरकरसितसुधाधवलस्य हर्म्यस्य पृष्टे सुष्वाप ।
वामपार्श्वे चास्य द्वितीयशयने देवी यश्ॐअती शिश्ये ।
पिरणतप्रायायां तु श्यामायाम्, आसन्नप्रभातवेलाविलुप्यमानलावण्ये लिलम्बिषमाणे सीदत्तेजसि तारकेश्वरे, कराग्रस्पृष्टकुमुदिनीप्रमोदजन्मनि शशधरस्वेद इव गलत्यतिशीतलेऽवश्यायपयसि, मधुमदमत्तप्रसुप्तसीमन्तिनीनिःश्वासाहतेषु संक्रान्तमदेष्विव घूर्णमानेष्वन्तःपुरप्रदीपेषु, राजनि च विमलनवप्रतिबिम्बिताभिः संवाह्यमानचरण इव तारकाभिः विस्रब्धप्रसारितैर्दिगङ्गनानामिवार्पितैरङ्गैर्मधुसुगन्धिभिः स्वहस्तकमलतालवृन्तवातैरिव श्वसितैर्मुखश्रिया वीज्यमाने विमलकपोलस्थलस्थितेन सितकुसुमशेखरेणेव रतिकेलिकचग्रहलम्बितेन प्रतिमाशशिबिम्बेन विराजिते स्वपति देवी यश्ॐअती सहसैव "आर्यपुत्र! परित्रायस्व परित्रायस्वऽ इति भाषमाणा भूषणरवेण व्याहरन्तीव परिजनमुत्कम्पमानाङ्गयष्टिरुदतिष्ठत् ।
अथ तेन सर्वस्यामपि पृथिव्यामश्रुतपूर्वेण किमुत देवीमुखे परित्रायस्वेति ध्वनिना दग्ध इव श्रवणयोरेकपद एव निद्रां तत्याज राजा ।
शिरोभागाच्च कोपकम्पमानदक्षिणकराकृष्टेन कर्णोत्पलेनेव निर्गच्छताच्छधारेण धौतासिना सीमन्तयन्निव निशाम्, अन्तरालव्यवधायकमाकाशमिवोत्तरीयांशुकं विक्षिपन्वामकरपल्लवेन, करविक्षेपवेगगलितेन हृदयेनेव भयनिमित्तान्वेषिणा भ्रमता दिक्षु कनकवलयेन विराजमानः, सत्वरावतारितवामचरणाक्रान्तिकम्पितप्रासादः, पुरः पतितेनासिधारागोचरगतेन शशिमयूखखण्डेनेव खण्डितेन हारेण राजमानः, लक्ष्मीचुम्बनलग्नताम्बूलरसरञ्जिताभ्यामिव निद्रया कोपेन चातिलोहिताभ्यां लोचनाभ्यां पाटलयन्पर्यन्तानाशानाम्, बद्धान्धकारया त्रिपताकया भ्रुकुट्या पुनरिव त्रियामां परिवर्तयन्"देवि! न भेतव्यं न भेतव्यम्ऽ इत्यभिदधानो वेगेनोत्पपात ।
सर्वासु च दिक्षु विक्षिप्तचक्षुर्यदा नाद्राक्षीत्किञ्चिदपि तदा पप्रच्छ तां भयकारणं ।
अथ गृहदेवतास्विव प्रधावितासु यामिकिनीषु, प्रबुद्धे च समीपशायिनि परिजने, शान्ते च हृदयोत्कम्पकारिणि साध्वसे सा समभाषत--"आर्यपुत्र! जानामि स्वप्ने भगवतः सवितुर्मण्डलान्निर्गत्य द्वौ कुमारकौ, तेज्ॐअयौ, बालातपेनेवापूरयन्तौ दिग्भागान्, वैद्युतमिव जीवलोकं कुर्वाणौ, मुकुटिनौ, कुण्डलिनौ, अङ्गदिनौ, कवचिनौ, गृहोतशस्त्रौ, इन्द्रगोपकरुचा रुधिरेण स्नातौ, उन्मुखेनोत्तमाङ्गघटमानाञ्जलिना जगता निखिलेन प्रणम्यमानौ, कन्ययैकया च चन्द्रमूर्त्येव सुषुम्णारश्मिनिर्गतयानुगम्यमानौ, क्षितितलमवतीर्णौ ।
तौ च मे विलपन्त्याः शस्त्रेणोदरं विदार्य प्रवेष्टुमारब्धौ ।
प्रतिबुद्धास्मि चारंयपुत्र ।
विकोशयन्ती वेपमानहृदयाऽ इति ।
एतस्मिन्नेव च कालक्रमे राजलक्ष्म्याः प्रथमालापः प्रथयन्निव स्वप्नफलमुपतोरणं रराण प्रभातशङ्खः ।
भावननीं भूतिमिवाभिदधाना दध्वनुरमन्दं दुन्दुभयः ।
चकाण कोणाहतानन्दादिव प्रत्यूषनान्दी ।
जयजयेति प्रबोधमङ्गलपरिपाठकानामुच्चैर्वोचोऽश्रूयन्त ।
पुरुषश्च वल्लभतुरङ्गमन्दुरामन्दिरे मन्दमन्दं सुप्तोत्थितः सप्तीनां कृतमधुरहेषारवाणां पुरश्च्योतत्तुषारसलिलशीकरं किरन्मरकतहरितं यवसं वक्त्रापरवक्त्रे पपाठ--

"निधिस्तरुविकारेण सन्मणिः स्फुरता धाम्ना  ।
शुभागमो निमित्तेन स्पष्टमाख्यायते लोके ॥४.३॥
अरुण इव पुरःसरोरविंपवन इवातिजवो जलागमं ।
शुभमशुभमथापि वा नृणां कथयति पूर्वनिदर्शनोदयःऽ ॥४.४॥

नरपतिस्तु तच्छ्रुत्वा प्रीयमाणेनान्तःकरणेन तामवादीत्--"देवि ।
मुदोऽवसरे विषीदसि ।
समृद्धास्ते गुरुजनाशिषः ।
पूर्णा नो मनोरथाः ।
परिगृहीतासि कुलदेवताभिः ।
प्रसन्नस्ते भगवानंशुमाली ।
न चिरेणैवातिगुणवदपत्यत्रयलाभेनानन्दयिष्यति भवतीम्ऽ इति ।
अवतीर्य च यथाक्रियमाणाः क्रियाश्चकार ।
यश्ॐअत्यपि तुतोष तेन पत्युर्भाषितेन ।
ततः समतिक्रान्ते कस्मिंश्चित्कालांशे देव्यां च यश्ॐअत्यां देवो राज्यवर्धनः प्रथममेव संबभूव गर्भे ।
गर्भस्थितस्यैव च यस्य यशसेव पाण्डुतामादत जननी ।
गुणगौरवक्लान्तेव गात्रमुद्वोढुं न शशाक ।
कान्तिविसरामृतरसतृप्तेवाहारं प्रति पराङ्मुखी बभूव ।
शनैः शनैरुपचीयमानगर्भमरालसा च गुरुभिर्वारितापि वन्दनाय कयमपि सखीभिर्हस्तावलम्बेनानीयत ।
विश्राम्यन्ती सालभञ्जिकेव समीपगतस्तम्भभित्तिष्वलक्ष्यत ।
कमललोभनिलीनैरलिभिरिव वृतावुद्धर्तुं नाशकच्चरणौ ।
मृणाललोभेन च चरणनखमयूखलग्नैर्भवनहंसैरिव संचायेमाणा मन्दमन्द बभ्राम ।
मणिभित्तिपातिनीषु निजप्रतिमास्वपि हस्तावलम्बनलोभेन प्रसारयामास करकमलम्, किमुत सखीषु ।
माणिक्यस्तम्भदीधितीरप्यालम्बितुमाचकाङ्क्ष, कि पुनर्भवनलताः ।
समादेष्टुमप्यसमर्थासोद्गृहकार्याणि, कैव कथा कर्तुं ।
आस्तां नूपुरभारखेदितं चरणयुगलं मनसापि नोदसहत सौधमारोढुं ।
अङ्गान्यपि नाशक्नोद्धारयितुं दूरे भूषणानि ।
चिन्तयित्वापि क्रीडापर्वताधिरोहणमुत्कम्पितस्तनी तस्तान ।
प्रत्युत्थानेषूभयजानुशिखरविनिहतकरकिसलयापि गर्वादिव गर्भेणाधार्यत ।
दिवसं चाध्ॐउखी स्तनपृष्ठसंक्रान्तेनापत्यदर्शनौत्सुक्यादन्तः प्रविष्टेनेव मुखकमलेनैवं प्रीयमाणा ददर्श गर्भं ।
उदरे तनयेन हृदये च भर्वा तिष्ठता द्विगुणितामिव लक्ष्मीमुवाह ।
सख्युत्सङ्गमुक्तशरीरा च शरीरपरिचारिकाणामङ्केषु सपत्नीनां तु शिरःसु पादौ चकार ।
अवतीर्णे च दशमे मासि सर्वोर्वीभृत्पक्षपाताय वज्रपरमाणुबिरिव निर्मितम्, त्रिभुवनभारधारणसमर्थं शेषफणामण्डलोपकरणैरिव कल्पितम्, सकलभूभृत्कम्पकारिणं दिग्गजावयवैरिव विहितमसूत देवं रजियवर्धनं ।
यस्मिंश्च जाते जातप्रमोदा नृत्यमय्य इवाजायन्त प्रजाः ।
पूरितासंख्यशङ्खशब्दमुखरं प्रहतपटहशतपटुरवं गम्भीरबेरीनिनादनिर्भरभरितभुवनं प्रमोदोन्मत्तमर्त्यलोकमनोहरं मासमेकं दिवसमिव महोत्सवमकरोन्नरपतिः ।
अथान्यस्मिन्नतिक्रान्ते कस्मिंश्चित्काले कन्दलिनि कुड्मलितकदम्बतरौ रूढतोक्मतृणस्तम्बे स्तम्बिततामरसे विकसितचातकचेतसि मूकमानसौकसि नभसि मासि देव्या देवक्या इव चक्रपाणिर्यश्ॐअत्या हृदये गर्भे च सममेव संबभूव हर्षः ।
शनैः शनैश्चास्याः सर्वप्रजापुण्यैरिव परिगृहीता भूयोऽप्यापाण्डुतामङ्गयष्टिर्जगाम ।
गर्भारम्भेण श्यामायमानचारुचूचुकचूलिको चक्रवर्तिनः पातुं मुद्रिताविव पयोधरकलशौ बभारोरःस्थलेव ।
स्तन्यार्थमानननिहिता दुग्धनदीव दीर्घस्निग्धधवला माधुर्यमधत्त दृष्टिः ।
सकलमङ्गलगणाधिष्ठितगात्रगरिम्णैव गतिरमन्दायत ।
मर्न्दं-मन्दं संचरन्त्या निर्मलमणिकुट्टिमनिमग्नप्रतिबिम्बनिभेन गृहीत पादपल्लवा पूर्वसेवामिवारेभे पृतिव्यस्याः ।
दिवसमधिशयानायाः शयनीयमपाश्रयपत्रभङ्गपुत्रिकाप्रतिमा विमलकपोलोदरगता प्रसवसमयं प्रतिपाल्यन्ती लक्ष्मीरिवालक्ष्यत ।
क्षपासु सौधशिखराग्रगताया गर्भोन्माथमक्तांशुके स्तनमण्डले संक्रान्तमुडुपतिमण्डलमुपरि गर्भस्य श्वेतातपत्रमिव केनापि धार्यमाणमदृश्यत ।
सुप्ताया वासभवने चित्रभित्तिचामरग्राहिण्योऽपि चामराणि चालयाञ्चक्रुः ।
स्वप्नेषु करविधृतकमलिनीपलाशपुटसलिलैश्चतुर्भिरपि दिक्करिभिरक्रियताभिषेकः प्रतिबुध्यमानायाश्च चन्द्रशालिकासालभञ्जिकापरिजनोऽपि जयशब्दमसकृदजनयत् ।
परिजनाह्वानेष्वादिशेत्यशरीरा वाचो निश्चेरुः ।
क्रीडायामपि नासहताज्ञाभङ्गं ।
अपि च चतुर्णामपि महार्णवानामेकीकृतेनाम्भसा स्नातुं वाञ्छा बभूव ।
वेलावनलतागृहोदरपुलिनपरिसरेषु पर्यटितुं हृदयमभिललाष ।
आत्ययिकेष्वपि कार्येषु सविब्रमं भ्रूलता चचाल ।
संनिहितेष्वपि मणिदर्पणेषु मुखमुत्खाते खडागपट्टे वीक्षितुं व्यसनमासीत् ।
उत्सारितवीणाः स्त्रीजनविरुद्धा धनुर्ध्वनयः श्रुतावसुखायन्त ।
पञ्जकेसरिषु चक्षुररमत ।
गुरुप्रणामेष्वपि स्तम्बितमिव शिरः कथमपि ननाम ।
सख्यश्चास्याः प्रमोदविस्फारितैर्लोचनपुटैरासन्नप्रसवमहोत्सवधियेव धवलयन्त्यो भवनं विकचकुमुदकमलकुवलयपलाशवृष्टिमयं रक्षाबलिनिधिमिवानवरतं विदधाना दिक्षु क्षणमपि न मुमुचुः पार्श्वं ।
आत्मोचितस्थाननिषण्णाश्च महान्तो विविधौषधिधरा भिषजो भूधरा इव भुवो धृतिं चक्रुः ।
पयोनिधीनां हृदयानीव लक्ष्म्या सहागतानि ग्रीवासूत्रग्रन्थिषु प्रशस्तरत्नान्यबध्यत्त ।
ततश्च प्राप्ते ज्येष्ठामूलीये मासि बहुलासु बहुलपक्षद्वादस्यां व्यतीते प्रदोषसमये समारुरुक्षति क्षपायौवने सहसैवान्तःपुरे समुदपादि कोलाहलः स्त्रीजनस्य ।
निर्गत्य च संभ्रमं यशोवत्याः स्वयमेव हृदयनिर्विशेषा धात्र्याः सुता सुपात्रेति नाम्ना राज्ञः पादयोर्निपत्य "देव ।
दिष्ट्या वर्धसे द्वितीयसुतजन्मनाऽ इति व्याहरन्ती पूर्णपात्रं जहार ।
अस्मिन्नेव च काले राज्ञः परमसंमतः शतशः संवादितातीन्द्रियादेशः, दर्शितप्रभावः संकलिती, ज्योतिषि सर्वासां ग्रहसंहितानां पारदृश्वा, सकलगणकमध्ये महितो हितश्च त्रिकालज्ञानभाग्भोजकस्तारको नाम गणकः समुपसृत्य विज्ञापितवान्--"देव! श्रूयते मान्धाता किलैवंविधे व्यतीपातादिसर्वदोषाभिषङ्घरहितेऽहनि सर्वेषूच्चस्थानस्थितेष्वेवं ग्रहेष्वीदृशि लग्ने भेजे जन्म ।
अर्वाक्ततोऽस्मिन्नन्तराले पुनरेवंविधे योगे चक्रवर्त्तिजनने नाजनि जगति कश्चिदपरः ।
सप्तानां चक्रवर्तिनामग्रणरिश्चक्रवर्तिचिह्नानां महारत्नानां च भाजनं सप्तानां सागराणां पालयिता सप्ततन्तूनां सर्वेषां प्रवर्तयिता सप्तसप्तिसमः सुतोऽयं देवस्य जातःऽ इति ।
अत्रान्तरे स्वयमेवानाद्माता अपि तारमधुरं शह्खा विरेसुः ।
अताडितोऽपि क्षुभितजलनिधिजलध्वनिधीरं जुगुञ्जाभिषेकदुन्दुभिः ।
अनाहतान्यपि मह्गलतूर्याणि रेणुः ।
सर्वभुवनाभयघोषणापटह इव दिगन्तरेषु बभ्राम तूर्यप्रतिशब्दः ।
विधुतकेसरसटाश्च साटोपगृहीतहरितदूर्वापल्लवकवलप्रशस्तैर्मुखपुटैः समहेषन्त हृष्टा वाजिनः ।
सलीलमुत्क्षिप्तैर्हस्तपल्लवैर्नृत्यन्त इव श्रवणसुभगं जगर्जुर्गजाः ।
ववौ चाचिराच्चक्रायुधमुत्सृजन्त्या लक्ष्म्या निश्वास इव सुरामोदसुरभिर्दिव्यानिलः ।
यज्वनां मन्दिरेषु प्रदक्षिणशिखाकलापकथितकल्याणागमाः ।
प्रजज्वलुरनिन्धना वैतानवह्नयः ।
भुवस्तलात्तपनीयशृह्खलाबन्धबन्धुरकलशीकोशाः समुदगुर्महानिधयः ।
प्रहतमङ्गलतूर्यप्रतिशब्दनिभेन दिक्षु दिक्पालैरपि प्रमोद दक्रियतेन दिष्टवृद्धिकलकलः ।
तत्क्षण एव च शुक्लवाससो ब्रह्नमुखाः कृतयुगप्रजापतयैव प्रजावृद्धेये समुपतस्थिरे द्विजातयः ।
साक्षाद्धर्म इव शान्त्युदकफलहस्तस्तस्थौ पुरः पुरोधाः ।
पुरातन्यः स्थितय इवादृश्यन्तागता बान्धववृद्धाः ।
प्रलम्बश्मश्रुजालजटिलाननानि बहलमलपङ्ककलङ्ककालकायानि नश्यतः कलिकालस्य बान्धवकुलानीवाकुलान्यधावन्त मुक्तानि बन्धनवृन्दानि ।
तत्कालापक्रान्तस्याधर्मस्य शिबिरश्रेणय इवालक्ष्यन्त लोकविलुण्ठिता विपणिवीथ्यः ।
विलसदुन्मुखवामनकबधिरवृन्दवेष्टिताः साक्षाज्जातमातृदेवता इव बहुबालकव्याकुला ननृतुर्वृद्धधात्र्यः ।
प्रावतत च विगतराजकुलस्थितिरधःकृतप्रतीहाराकृतिरपनीतवेत्रिवेत्रो निर्देषान्तःपुरप्रवेशः समस्वामिपरिजनो निर्विशेषबालवृद्धः समानशिष्टाशिष्टजनो दुर्ज्ञेयमत्तामत्तप्रविभागस्तुल्यकुलयुवतिवेश्यालापविलासः प्रनृत्तसकलकटकलोकः पुत्रजन्मोत्सवो महान् ।
अपरेद्युरारभ्य सर्वाभ्यो दिग्भ्यः स्त्रीराज्यानीवावर्जितानि, असुरविवराणोवापावृतानि, नारायणावरोधानीव प्रस्खलितानि, अप्सरसामिव महीमवतीर्णानि कुलानि, परिजनेन पृथुकरण्डपरिगृहीताः स्नानीयचूर्णावकीर्णकुसुमाः सुमनःस्रजः, स्फटिकशिलाशकलशुल्ककर्पूरखण्डपूरिताः पात्रीः, कुङ्कुमाधिवासभाञ्जि भाजनानि च मणिमयानि, सहकारतैलतिम्यत्तनुखदिरकेसरजालजटिलानि चन्दनधवलपूगफलफालीदन्तुरदन्तशफरुकाणि, गुञ्जन्मधुकरकुलपीयमानपरिजातपारिमलानि पाटलानि पाटलकानि च, सिन्दूरपात्राणि च पिष्टातकपात्राणि च बाललतालम्बमानविटकवीटकांश्च ताम्बूलवृक्षकान्बिभ्राणेनानुगम्यमानानि चरणनिकुट्टनरणितमणिनूपुरमुखरितदिङ्मुखानि नृत्यन्ति राजकुलमागच्छन्ति समन्तात्सामन्तान्तःपुरसहस्राण्यदृस्यन्त ।
शनैः शनैर्व्यजृम्भत च व्कचिन्नृत्तानुचितचिरन्तनशालीनकुलपुत्रकलोकलास्यप्रथितपार्थिवानुरागः, व्कचिदन्तःस्मितक्षितिपालापेक्षितक्षीबक्षुद्रदासीसमाकृष्यमाणराजवल्लभः, व्कचिन्मतकटककुट्टनीकण्ठलग्नवृद्धार्यसामन्तनृत्तनिर्भरहसितनरपतिः, व्कचित्क्षितिपाक्षिसंज्ञादिष्टदुष्टदासेरकगीतसूच्यमानसचिवचौर्यरतप्रपञ्चः, व्कचिन्मदोत्कटकुटहारिकापरिष्वज्यमानजरत्प्रव्रजितजनितजनहासः, व्कचिदन्योन्यनिर्भरस्पर्धोद्धुरविकटचेटकारब्धावाच्यवचनयुद्धः, व्कचिन्नृपाबलाबलात्कारकृष्टनर्त्यमाननृत्तानबिज्ञान्तःपुरपालभावितभुजिष्यः, सपर्वत इव कुसुमराशिभिः, साधारगृह इव सीधुप्रपाभिः, सनन्दनवन इव पारिजातकामोदैः सनीहार इव कर्पूररेणुभिः, साट्टहास इव पटहरवैः, सामृतमथन इव महाकलकलैः, सांवर्त इव रासकमण्डलेः, सर्ॐआञ्च इव भूषणमणिकिरणैः, सपट्टबन्ध इव चन्दनललाटिकाभिः, सप्रसव इव प्रतिशब्दकैः, सप्ररोह इव प्रसाददानैरुत्सवामोदः ।
स्कन्धावलम्बमानकेसरमालाः काम्बोजवाजिन इवास्कन्दन्तः, तरलतारका हरिणा इवोड्डीयमानाः, सगरसुता इव खनित्रैर्निर्दयैश्चरणाभिघातैर्दारयन्तो भुवम्, अनेकसहस्रसंख्याश्चिक्रीडुर्युवानः ।
कथमपि तालावचरचारणचरणक्षोभं चक्षमे क्षमा ।
क्षितिपालकुमारकाणां च खेलतामन्योन्यास्फालैराभरणेषु मुक्ताफलानि फेलुः ।
सिन्दूररेणुना पुनरुत्पन्नहिरण्यगर्भगर्भशोणितशोणाशमिव ब्रह्नाण्डकपालमभवत् ।
पटवासपांसुपटलेन प्रकटितमन्दाकिनीसैकतसहस्रमिव शुशुभे नभस्तलं ।
विप्रकीर्यमाणपिष्टातकपरागपिञ्जरितातपा भुवनक्षोभविशीर्णपितामहकःमलकिञ्जल्करजोराजिरञ्जित इव रेजुर्दिवसाः ।
संघट्टविघटितहारपतितमुक्ताफलपटलेषु चस्खाल लोकः ।
स्थानस्थानेषु च मन्दमन्दमास्फाल्यमानालिङ्ग्यकेन शिञ्जानमञ्जुवेणुना झणझणायमानझल्लरीकेण ताड्यमानतन्त्रीपटहिकेन वाद्यमानानुत्तालालाबुवीणेन कलकांस्यकोशीव्कणितकाहलेन समकालदीयमानानुत्तालतालिकेनातोद्यवाद्येनानुगम्यमानाः, पदे पदे झणझणितभूषणरवैरपि सहृदयैरिवानुवर्तमानताललयाः, कोकिला इव मदकलकाकलीक्ॐअलालापिन्यः, विटानां कर्णामृतान्यश्लीलरासकपदानि गायन्त्यः, समुण्डमालिकाः, सकर्णपल्लवाः, सचन्दनतिलकाः, समुच्छ्रिताभिर्वलयावलीवाचालाभिर्बाहुलतिकाभिः सवितारमिवालिङ्गयन्त्यः, कुह्कुमप्रमृष्टिरुचिरकायाः काश्मीरकिशोर्य इव वल्गन्तयः, नितम्बबिम्बलम्बिविकटकुरणटकशेखराः प्रदीप्ता इव रागाग्निना, सिन्दूरच्छटाच्छुरितमुखमुद्राः, शासनपट्टपङ्क्तय इवाप्रतिहतशासनस्य कन्दर्पस्य, मुष्टिप्रकीर्यमाणकर्पूरपटवासपांसुला मनोरथसंचरणरथ्या इव यौवनस्य, उद्दामकुसुमदामताडिततरुणजनाः प्रतीहार्य इव तरुणमहोत्सवस्य, प्रजलत्पत्रकुण्डला लसन्त्यो लता इव मदनचन्दनद्रुमस्य, ललितपदहंसकरवमुखराः समुल्लसन्त्यो वीचय इव शृङ्गाररससागरस्य, वाच्यावाच्यविवेकशून्या बालक्रीडा इव सौभाग्यस्य, घनपटहरवोत्कण्टकितगात्रयष्टयः केतक्य इव कुसुमधूलिमुद्गिरन्त्यः, आविष्टा इव नरेन्द्रवृन्दपरिवृताः, प्रीतय इव हृदयमपहरन्त्यः, गीतय इव रागमुद्दीपयन्त्यः, पुष्टय इवानन्दमुत्पादयन्त्यः, मदमपि मदयन्त्य इव, रागमपि रञ्जयन्त्य इव, आनन्दमपि आनन्दयन्त्य इव, नृत्यमपि नर्तयमाना इव, उत्सवमप्युत्सवयन्त्य इव, कटाक्षेक्षितेषु पिबन्त्य इवापाङ्गशुक्तिभिः, तर्जनेषु संयमयन्त्य इव नखमयूखपाशैः, कोपाभिनयेषु ताडयन्तय इव भ्रूलताविभागैः, प्रणयसंभाषणेषु वर्षन्त्य इव सर्वरसान्, चतुरचङ्क्रमणेषु विकिरन्त्य इव विकारान्, पण्यविलासिन्यः प्रानृत्यन् ।
अन्यत्र वेत्रिवेत्रवित्रासितजनदत्तान्तरालाः ध्रियमाणधवलातपत्रवना वनदेवता इव कल्पतरुतलविचारिण्यः काश्चित्स्कन्धोभयपालीलम्बमानलम्बोत्तरीयलग्नहस्ता लीलादोलाधिरूढा इव प्रेङ्खन्त्यः, काश्चित्कनककेयूरकोटिविपाट्यमानपट्टांशुकोत्तरङ्गास्तरङ्गिण्य इव तरच्चक्रवाकसीमन्त्यमानस्रोतसः, काश्चिदुद्धूयमानधवलचामरसटालग्नत्रिकण्टकवलितविकटकटाक्षाः सरस्य इव हंसाकृष्यमाणनीलोत्पलवनाः, काश्चिच्चलच्चरणच्युतालक्तकारुणस्वेदशीकरसिच्यमानभवनहंसाः, संध्यारागरज्यमानेन्दुबिम्बा इव क्ॐउदीरजन्यः, काश्चित्कण्ठनिहितकाञ्चनकाञ्चीगुणाञ्चितकञ्चुकिविकाराकुञ्चितब्रुवः कामवागुरा इव प्रसारितबाहुपाशा राजमहिष्यः प्रारब्धनृत्ता विलेसुः ।
सर्वतश्च नृत्यतः स्त्रेणस्य गलदभिः पादालक्तकैररुणिता रागमयीव शुशोण क्षोणी ।
समुल्लसद्भिः स्तनमण्डलैर्मङ्गलकलशमय इव बभूव महोत्सवः ।
भुजलताविक्षेपैर्म-णालवलयमय इव रराज जीवलोकः ।
समुल्लसद्भिर्विलासस्मितैस्तडिन्मय इवाक्रियत कालः ।
चञ्चलानां चक्षुषामं शुभिः कृष्णसारमया इवासन्वासराः ।
समुल्लसद्भिः शिरीषकुसुमस्तबककर्णपूरैः शुकपिच्छमय इव हरितच्छायोऽभूदातपः ।
विस्रंसमानैर्धम्मिल्लतमालपल्वैः कज्जलमयमिवालक्ष्यतान्तरिक्षं ।
उत्क्षिप्तैर्हस्तकिसलयैः कमलिनीमय्य इव बभासिरे सृष्टयः माणिक्येन्द्रायुधानामर्चिषा चार्षिपत्रमया इव चकाशिरे रविमरीचयः ।
रणतामाभरणगणानां प्रतिशब्दकैः किङ्किणीमय्य इव शिशिञ्जिरे दिशः ।
जरत्योऽप्युन्मादिन्य इव रमण्यो रेणुः ।
वर्षीयांसोऽपि ग्रहगृहीता इव नापत्रेपिरे ।
विद्वांसोऽपिमत्ता इवात्मानं विसस्मरुः ।
निनतिषया मुनीनामपि मनांसि विपुस्पुलुः ।
सर्वस्वं च ददौ नरपतिः ।
दिशि दिशि कुबेरकोषा इवालुप्यन्त लोकेन द्रविणराशयः ।
एवं च वृत्ते तस्मिन्महोत्सवे, शनैः शनैः पुनरप्यतिक्रामति काले, देवे चोत्तमाङ्गनिहितरक्षासर्षपे, समुन्मिषत्प्रतापाग्निफुलिङ्ग इव गोरो चनापिञ्जरितवपुषि, समभिव्यज्यमानसहजक्षात्रतेजसीव हाटकबद्धविकटव्याघ्रनखपङ्क्तिमण्डितग्रीवके; हृदयोद्भिद्यमानदर्पाङ्कुर इव, प्रथमाव्यक्तजल्पितेन सत्यस्य शनैःशनैकरोङ्कारमिवकुर्वाणे, मुग्धस्मितैः कुसुमैरिव मधुकरकुलानि बन्धुहृदयान्याकर्षति, जननीपयोधरकलशपयःसीकलरसेकादिव जायमानैर्विलासहसिताङ्कुरैर्दर्शनकैरर्लक्रियमाणमुखकमलके, चारित्रैवान्तः पुरस्त्रीकदम्बकेन पाल्यमाने, मन्त्र इव सचिवमण्डलेन रक्ष्यमाणे, वृत्त इव कुलपुत्रकलोकेनामुच्यमाने, यशसीवात्मवशेन संवर्ध्यमाने, मृगपतिपोत इव रक्षिपुरुषशस्त्रपञ्जरमध्यगते, धात्रीकराङ्गुलिलग्ने पञ्चषाणि पदानि प्रयच्छति हर्षे, षष्ठं वर्षमवतरति च राज्यवर्धने देवी यश्ॐअती गर्भेणाधत्त नारायणमूर्तिरिव वसुधां देवीं राज्यश्रियं ।
पूर्णेषु च प्रसवदिवसेषु दीर्घरक्तनालनेत्रामुत्पलिनीमिव सरसी, हंसमधुरस्वरां शरदमिव प्रावृट्, कुसुमसुकुमारावयवां वनराजिमिव मधुश्रीः, महाकनकावदात वसुधारामिव द्यौः, प्रभावर्षिणीं रत्नजातिमिव वेला, सकलजननयनानन्दकारिणीं चन्द्रलेखामिव प्रतिपत्, सहस्रनेत्रदर्शनयोग्यां जयन्तीमिव शची, सर्वभूभुदभ्यर्थितां गौरीमिव मेना प्रसूतवती दुहितरं ।
यया द्वयोः सुतयोरपि स्तनयोरिवैकावलीलतया नितरामराजत जननी ।
अरिमन्नेव तु काले देव्या यश्ॐअत्या भ्राता सुतमष्टवर्षदेशीयमुद्भूयमानकुटिलकाकपक्षकशिखण्डं खण्डपरशुहुङ्काराग्निधूमलेखानुबद्धमूर्धानं मकरध्वजमिव पुनर्जातम्, एकेनेन्द्रनीलकुण्डलाशुश्यामलितेन शरीरार्धेनेतरेण च त्रिकण्टकमुक्ताफलालोकधवलितेन संपृत्तावतारमिव हरिहरयोर्दर्शयन्तम्, पीनप्रकोष्ठप्रतिष्ठितपुष्पलोहवलयं परशुराममिव क्षत्रक्षपणक्षीणपरसुपाशचिह्नितं बालताड्गतम्, कण्ठसूत्रग्रथितभङ्गुरप्रवालाङ्कुरं हिरण्यकशिपुमिवोरः काठिन्यखण्डितनरसिंहनखरखण्जं गृहीतजन्मान्तरम्, शैशवेऽपि सवाष्टम्भं बीजमिव वोर्यद्रमस्य भण्डिनामानमनुचरं कुमारयोरर्पितवान् ।
अवनिपतेस्तु तस्योपरि पुत्रयोस्तृतीयस्य नेत्रयोरिवेश्वरस्य तुल्यं दर्शनमासीत् ।
राजपुत्रावपि सकलजीवलोकहृदयानाददायिनी तेन प्रकृतिदक्षिणेन मधुमाधवाविव मलयमारुतेनोपेतौ नितरां रेजतुः ।
क्रमेणचापरेणेव भ्रात्रा प्रजानन्देन सह वर्धमानौ यौवनमवतेरतुः ।
स्थिरोरुस्तम्भौ च पृथुप्रकोष्ठौ दीर्घभुजार्गलौ विकटोरःकवाटौ प्रांशुशालाभिरामौ महानगरसंनिवेशाविव सर्वलोकाश्रयक्षमौ बभूवतुः ।
अथ चन्द्रसूर्याविव स्फुरज्ज्योत्स्ना शःप्रतापाक्रान्तभवानावभिरामदुर्निरीक्ष्यौ, अग्निमारुताविव समभिव्यक्ततेजोबलावेकीभूतौ, शिलाकठिनकायबन्धौ हिमवद्विन्ध्याविवाचलौ, महावृषाविव कृतयुगयोग्यौ, अरुणगरुडाविव हरिवाहनविभक्तशरीरौ, इन्द्रोपेन्द्राविव नागेन्दरगतौ, कर्णार्जुनाविव कुण्डलकिरीटधरौ, पूर्वापरदिग्भागाविव सर्वतेजस्विनामुदयास्तमयसंपादनतमर्थौ, अमान्ताविवातिमानेनासन्नवेलार्गलनिरोधसंकटे कुकुटीरके, तेजःपराङ्मुखी छायामपि जुगुप्समानौ, स्वात्मप्रतिबिम्बेनापि पादनखलग्नेन लज्जमानौ, शिरोरुहाणामपि भङ्गेन दुःखमवतिष्टमानौ, चूडामणिसंक्रान्तेनापि द्वितीयेनातपत्रेणापत्रपमाणौ, भगवति षण्मुखेऽपि स्वामिशब्देनासुखायमानश्रवणौ, दर्पणदृष्टेनापि प्रतिपुरुषेण दूयमाननयनौ, संध्याञ्जलिघटनेष्वपि शूलायमानोत्तमाह्गौ, जलधरधृतेनापि धनुषा दोधूयमानहृदयौ, आलेख्यक्षितिपतिभिरप्यप्रणमद्भिः संतप्यमानचरणौ, परिमितमण्डलसंतुष्टं तेजः सवितुरप्यबहुमन्यमानौ, भूभृदपहृतलक्ष्मीकं सागरमप्युपहसन्तौ, बलवन्तमकृतविग्रहं मारुतमपि निन्दन्तौ, हिमवतोऽपि चमरीबालव्यजनवीजितेन दह्यमानौ, जलधीनामपि शङ्खैः खिद्यमानौ, चतुःसमुद्राधिपतिमपरं प्रचेतसमप्यसहमानौ, अनपहृतच्छत्रानपि विच्छायानवनिपालान्कुर्वाणौ, साधुष्वप्यसेवितप्रसन्नौ, मुखेन मधुक्षरन्तौ, दुष्टराजवंशानूष्मणा दूरस्थितानपि म्लानिमानयन्तौ, अनुदिवसं शस्त्राम्यासश्यामिकाकलङ्कितमशेषराजकप्रतापाग्निनिर्वपणमलिनमि व करतलमुद्वहन्तौ, योग्याकालेषु धीरैर्धनुर्ध्वनिभिरभ्यर्णोपभोगादिग्वधूभिरिवालपन्तौ राज्यवर्धन इति हर्ष इति सर्वस्यामेव पृथिव्यामाविर्भूतशब्दप्रादुर्भावौ स्वल्पीयसैव कालेन द्वीपान्तरेष्वपि प्रकाशतां जग्मतुः ।
एकदा च तावाहूय भुक्तवानभ्यन्तरगतः पिता सस्नेहमवादीत्--"वत्सौ! प्रथमं राज्याङ्गं, दुर्लभाः सद्भृत्याः ।
प्रायेण परमाणव इव समवायेष्वनुगुणीभूय द्रव्यं कुर्वन्ति पार्थिवं क्षुद्राः क्रीडारसेन नर्तयन्ततौ मयूरतां नयन्ति बालिशाः ।
दर्पणमिवानुप्रविश्यात्मीयां प्रकृतिं संक्रामयन्ति पल्लविकाः ।
स्वप्ना इव मिथ्यादर्शनैरसद्बुद्धिं जनयन्ति विप्रलम्भकाः ।
गीतनृत्यहसितैरुन्मत्ततामावहन्त्यपेक्षिता विकारा इव वातिकाः, चातका इव तृष्णावन्तो न शक्यन्ते ग्रहीतुमकुलीनाः मानसे मीनमिव स्फुरन्तमेवाभिप्रायं गृह्णन्ति जालिकाः ।
यमपट्टिका इवाम्बरे चित्रमालिखन्त्युद्गीतकाः ।
शल्यं हृदये निक्षिपन्त्यतिमार्गणाः ।
यतः सर्वैरेभिर्देषाभिषङ्गैरसंगतौ बभुधैपधाभिः परीक्षितौ शुची विनीतौ विक्रान्तावभिरूपौ मालवराजपुत्रौ भ्रातरौ बुजाविव मे शरीरादव्यतिरिक्तौ कुमारगुप्तमाधवगुप्तनामानावस्माभिर्भवतोरनुचरत्वार्थमिमौ निर्दिष्टौ ।
अनयोरुपरि भवद्भ्यामपि नान्यपरिजनसमवृत्तिभ्यां भवितव्यम्ऽ, इत्युक्त्वा तयोराह्वानाय प्रतीहारमादिदेश ।
न चिराद्द्वारदेशनिहितलोचनौ राज्यवर्धनहर्षौ प्रतीहारेण सह प्रविशन्तम्, अग्रतो ज्येष्ठमष्टादशवर्षवयसं नात्युच्चं नातिखर्वमतिगुरुभिः पदन्यासैरनेकनरपतिसंचरणचलां निश्चलीकुर्वाणमिवोर्वीम्, अनवरताभ्यस्तलङ्घनघनोपचयकठिनमांसमेदुरादूरुद्वयान्निष्पततेवानुल्वणजानुग्रन्थिप्रसूतेन तनुतरजङ्घाकाण्डयुगलेन भासमानम्, उल्लिखितपार्श्वप्रकाशितक्रशिम्ना मन्दरमिव सुरासुररभसभ्रमितवासुकिकषणक्षीणेन मध्येन लक्ष्यमाणं अतिविस्तीर्णेनोरसा स्वामिसंभावनानामपरिमितानामवकाशमिव प्रयच्छन्तम्, प्रलम्बमानस्य भुजयुगलस्य निभृतललितैर्विक्षेपैरतिदुस्तरं तरन्तमिव यौवनोदधिम्, वामकरकटकमाणिक्यमरीचिगञ्जरीजालिन्या समुद्भिद्यमानप्रतापानलशिखापल्लवयेव चापगुणकिणलेखयाङ्कितपीवरप्रकोष्ठम्, आलोहिनीमुच्चांसतटावलम्बिनीमस्त्रग्रहणव्रतविधृतां रौरवीमिव त्वचं कर्णाभरणमणेः प्रभां बिभ्राणम्, उत्कोटिकेयूरपत्रभङ्गपुत्रिकाप्रतिबिम्बगर्भकपोलं मुखं चन्द्रमसमिव हृदयस्थितरोहिणीकमुद्वहन्तम्, अचपलास्तमिततारकेणाध्ॐउखेन चक्षुषा शिक्षयन्तमिव लक्ष्मीलाभोत्तानितमुखानि पङ्कजवनानि विनयम्, स्वाम्यनुरागमिवाम्लातकमुत्तंसीकृतं शिरसा धारयन्तम्, निर्दयया कङ्कणभङ्गभीतसकलकार्मुकार्पितामिव नम्रतां प्रकाशयन्ततम्, शैशव एव निर्जितैरिन्द्रियैररिभिरिव संयतैः शोभमानम्, प्रणयिनीमिव विश्वासभूमिं कुलपुत्रतामनुव्रतमानम्, तेजस्विनमपि शीलेनाह्लादकेन सवितारमिव शशिनातर्गतेन विराजमानम्, अचलानामपि कायकार्खस्येन गन्धनमिवाचरन्तम्, दर्शनक्रीतमानन्दस्ते विक्रीणानमिव जन सौभाग्येन कुमारगुप्तम्, पृष्ठतस्तस्य कनीयांसमतिप्रांशुतया गौरतया च मनः शिलाशेलमिव संचरन्तम्, अनुल्बणमालतीकुसुमशेखरनिभेन निर्जिगमिषता गुरुण शिरसि चुम्बितमिव यशसा, परस्परविरुद्धयोर्विनययौवनयोश्चिरात्प्रथमसंगमचिह्नमिव भ्रूसंगतकेन कथयन्तम्, अतिधीरतया हृदयनिहिता स्वामिभक्तिमिव निश्चलां दृष्टिं धारयन्तम्, अच्छाच्छचन्दनरसानुलेपनशीतलं संनिहितहारोपधानं वक्षःस्थलमनन्तसामन्तसंक्रान्ति श्रान्तायाः श्रियो विशालं शशिमणिशिलापट्टशयनमिव बिब्राणम्, चक्षुः कुरङ्गकैर्घोणावंशं वराहौः स्कन्धपीठं महिषैः प्रकोष्ठबन्धं व्याघ्रैः पराक्रमं केसरिभिर्गमनं मतङ्गजैर्मृगयाक्षपितशेषैर्भीतैरुत्कोचमिव दत्तं दर्शयन्त माधवगुप्तं ददृशतुः ।
प्रविश्य च तौ दूरादेव चतुर्भिरह्गैरुत्तमाङ्गेन च गां स्पृशन्तौ नमश्चक्रतुः ।
स्निग्धनरेन्द्रदृष्टिनिर्दिष्टामुचितां भूमिं भेजाते ।
मुहूर्तं च स्थित्वा भूपतिरादिदेश तौ--"अद्यप्रभृति भवद्भ्यां कुमारावनुवर्तनीयौऽ इति ।
"यथाज्ञापयति देवःऽ इति मेदिनीदो लायमानमौलिभ्यामुत्थाय राज्यव्रधनहर्षौ प्रणेमतुः ।
तौ च पितरं ।
ततश्चारभ्य क्षणमपि निमेषोन्मेषाविव चक्षुर्गोचरादनपयान्तावुच्छ्वासनिःश्वासाविव नक्तन्दिवमभिमुखस्थितौ भुजाविव सततपार्श्ववर्तिनौ कुमारयोस्तौ बभूवतुः ।
अथ राज्यश्रीरपि नृत्तगीतादिषु विदग्धासु सखीषु सकलासु कलासु च प्रतिदिवसमुपचीयमानपरिचया शनैः शनैरवर्धत ।
परिमितैरेव दिवसैर्यौनवनमारुरोह ।
निपेतुरेकस्यां तस्यां शरा इव लक्ष्यभुवि भूभुजां सर्वेषां दृषश्टयः ।
नूतसंप्रेषमादिभिश्च तां ययाचिरे राजानः ।
कदाचित्तु राजान्तःपुरप्रसादस्थितो बाह्यकक्ष्यावस्थितेन पुरुषेण स्वप्रस्तावागतां गीयमानामार्यामशृणोत्--

"उद्वेगमहावर्ते पातयति पयोधरोन्नमनकाले  ।
सरिदिव तटमनुवर्षं विवर्धमाना सुता पितरम्ऽ ॥४.५॥

तां च श्रुत्वा पार्श्वस्थितां महादेवीमुत्सारितपरिजनो जगाद--"देवि! तरुणीभूता वत्सा राज्यश्रीः ।
एतदीया गुणवत्तेव क्षणमपि हृदयान्नापयाति मे चिन्ता ।
यौवनारम्भ एव च कन्यकानाभिन्धनीभवन्ति पितरः संतापानलस्य ।
हृदयमन्धकारयति मेदिवसमिव पयोधरोन्नतिरस्याः ।
केनापि कृता धर्म्या नाभिमता मे स्थितिरेयं यदङ्गसंभूतान्यङ्कलालितान्यपरित्याज्यान्यपत्यकान्यकाण्ड एवागत्यासंस्तुतैर्नीयन्ते ।
एतानि तानि खल्वङ्कनस्थानानि संसारस्य ।
सेयं सर्वाभिभाविनी शोकाग्नेदहिशक्तिर्यदपत्यत्वे समानेऽपि जातायां दुहितरि दूयन्ते सन्तः ।
एतद्रथं जन्मकाल एव कन्यकाभ्यः प्रयच्छन्ति सलिलमश्रुबिः साधवः ।
एत द्भयादकृतदारपरिग्रहाः परिहृतगृहवसतयः शून्यान्यरण्यान्यधिशेरते मुनयः ।
को हि नाम सहेत सचेतनो विरहमपत्यानां ।
यथा यथा समापतन्ति दूता वराणां वराकी लज्जमानेव चिन्ता तथा तथा नितरां प्रविशति मेहृदयं ।
किं क्रियते ।
तथापि गृहगतैरनुगन्तव्या एव लोकवृत्तयः ।
प्रायेण च सत्स्वप्यन्येषु वरगुणेष्वभिजनमेवानुरुध्यन्ते धीमन्तः ।
धरणीधराणां च मूर्ध्नि स्थितो माहेश्वरा पादन्यास इव सकलभुवननमस्कृतो मौखरो वंशः ।
तत्रापि तिलकभूतस्यावन्तिवर्मणः सूनुरग्रजो ग्रहवर्मा नाम ग्रहपतिरिव गां गतः पितुरन्यूनो गुणैरेनां प्रार्थयते ।
यदि भवत्या अपि मतिरनुमन्यते ततस्तस्मै दातुमिच्छामिऽ इत्युक्तवति भर्तरि दुहितृस्नेहकातरतरहदया साश्रुलोचना महादेवी प्रत्युवाच--आर्यपुत्र! संवर्धनमात्रोपयोगिन्यो धात्रीनिर्विशेषा भवन्ति खलु मातरः कन्यकानां ।
दाने तु प्रमाणमासां पितरः ।
केवलं कृपाकटतविशेषः सुदूरेण तनयस्नेहादतिरिच्यते दुहितृस्नेह ।
यथा नेयं यावज्जवीवमावयोरार्गितां प्रति पद्यते तथार्यपुत्र एव जानातिऽ इति ।
राजा तु जातनिश्चयो दुहितृदानं प्रति समाहूय सुतावपि विदितार्थावकार्षीत् ।
शोभते च दिवसे ग्रहवर्मणा कन्यां प्रार्थयितुं प्रेषितस्य पूर्वागतस्यैव प्रधानदूतपुरुषस्य करे सर्वराजकुलसमक्षं दुहितृदानललमपातयत् ।
जातमुदि कृतार्थे गते च तस्मिन्नासन्नेषु च विवाहदिवसेषूद्दामदीयमानताम्बूलपटवासकुसुमप्रसाधितसर्वलोकम्, सकलदेशादिश्यमानशिल्पिसार्थागमनम्, अवनिपालपुरुषगृहीतसमग्रग्रामीणानीयमानोपकरणसंभारम्, राजदौवारिकोपनीयमानानेकनृपोपायनम्, उपनिमन्त्रितागतबन्धुवर्गसंवर्गण्वयग्रराजवल्लभम्, लब्धमधुमदप्रचण्डचर्मकारकरपुटोल्लालितकोणपटुविघट्टनरणन्मङ्गलपटहम्, पिष्टपञ्चाङ्गुलमण्ड्यमानोलूखलमुकलशिलाद्युपकरणम्, अशेषाशामुखाविर्भूतचारणपरम्परापूर्यमाणप्रकोष्ठप्रतिष्ठाप्यमानेन्द्राणीदैवतम्, सितकुसुमविलेपनवसनसत्कृतैः सूत्रधारैरादीयमानविवाहवेदीसूत्रपातम्, उत्कूर्चककरैश्च सुधाकर्पूरस्कन्धैरधिरोहिणीसमारूढैर्धवैर्धवलीक्रियमाणप्रासादप्रतोलीप्राकारशिखरम्, क्षुण्णक्षाल्यमानकुसुम्भसंभाराम्भःप्लवपूररज्यमानजनपादपल्लवम्, निरूप्यमाणयौतकयोग्यमातङ्गतुरह्गतरङ्गिताङ्गनम्, गणनाभियुक्तगणकगणगृह्यमाणलग्नगुणम्, गन्धोदकवाहिमकरमुखप्रणालीपूर्यमाणक्रीडावापीसमूहम्, हेमकारचक्रप्रक्रान्तहाटकघटनटाङ्कारवाचालितालिन्दकम्, उत्तापिताभिनवभित्तिपात्यमानबहलवालुकाकण्ठकालेपाकुलालेपकलोकम्, चतुरचित्रकरचक्रवाललिख्यमानमाङ्गल्यालेख्यम्, लेप्यकारकदम्बकक्रियमाणमृन्मयमीनकूर्ममकरनारिकेलकदलीपूगवृक्षकम्, क्षितिपालैश्च स्वयमावद्धकक्ष्यैः स्वाम्यर्पितकर्मशोभासंपादनाकुलैः सिन्दूरकुट्टिमभूमीश्च मसृणयद्भिर्विनिहितसरसातर्पणहस्तान्विन्यस्तालक्तकपाटलांश्च चूताशोकपल्लवलाञ्छितशिखरानुद्वाहवितर्दिकास्तम्भानुत्तम्भयद्भिः प्रारब्धविविधव्यापारम्, आसूर्योदयाच्च प्रविष्टाभिः सतीभिः सुभगाभिः सुरूपाभिः सुवेशाभिरविध वाभिः सिन्दूररजोराजिराजितललाटाभिर्वधूवरगो त्रग्रहणगर्भाणि श्रुतिसुभगानि मङ्गलानि गायन्तीभिर्बहुविधवर्णकादिग्धाङ्गुलीभिर्ग्रीवासूत्राणि च चित्रयन्तीभिस्चित्रलतालेख्यकुशलाभिः कलशांश्च धवलिताञ्शीतलशाराजिरश्रेणीश्च मण्डयन्तीभिरभिन्नपुटकर्पासतूलपल्लवांश्च वैवाहिककङ्कणोर्णासूत्रसंनाहांश्च रञ्जयन्तीभिर्बलाशनाघृतघनीकृतकुङ्कुमकल्कमिश्रितांश्चाङ्गरागांल्लावण्यविशेषकृन्ति च मुखालेपनानि कल्पयन्तीभिः कक्कोलमिश्राः स्जातीफलाः स्फुरत्स्फीतस्फाटिककर्पूरशकलखचितान्तराला लवङ्गमाला रचयन्तीभिः समन्तात्सामन्तसीमन्तिनीभिर्व्याप्तम्, बहुविधभक्तिनिर्माणनिपुणपुराणपौरपुरन्ध्रिबध्यमानैर्बद्धैश्चाचारचतुरान्तः पुरजरतीजनितपूजाराजमानरजकरज्यमानै रक्तैश्चोभयपटान्तलग्नपरिजनप्रेङ्खोलितैश्छायासु शोष्यमाणैः शुष्कैश्च कुटिलक्रमरूपक्रियमाणपल्लवपरभागैरपरैरारब्धकुङ्कुमपङ्कस्थासकच्छुरणेरपरैरुद्भुजभुजिष्यभज्यमानभङ्गुरोत्तरीयैः क्ष्ॐऐश्च बादरैश्च दुकूलैश्च लालातन्तुजैश्चांशुकैश्च नेत्रैस्च निर्मोकनिभैरकठोररम्भागर्भक्ॐअलैर्निःश्वासहार्यैः स्पर्शानुमेयैर्वासोभिः सर्वतः स्फुरद्भिरिन्द्रायुधसहस्रैरिव संछादितम्, उज्ज्वलनिचोलकावगुण्ठ्यमानहंसकुलैश्च शयनीयैस्तारामुक्ताफलोपचीयमानैश्च कञ्चुकैरनेकोपायोगपाट्यमानैश्चापरिमितैः पट्टपटीसहस्रैरभिनवरागक्ॐअलदुकूलराजमानैश्च पटवितानैः स्तवरकनिवहनिरन्तरच्छाद्यमानसमस्तपटलैश्च मण्डपैरुच्चित्रनेत्रपटवेष्ट्यमानैश्च स्तम्भैरुज्ज्वलं रमणीयं चौत्सुक्यदं च मङ्गल्यं चासीद्राजकुलं ।
देवी तु यश्ॐअती विवाहोत्सवपर्याकुलहृदया हृदयेन भर्तरि, कुतूहलेन जामातरि, स्नेहेन दुहितरि, उपचारेण निमन्त्रितस्त्रीषु, आदेशेन परिजने, शरीरेण संचरणे, चक्षुषा कृताकृतप्रत्यवेक्षणेषु, आनन्देन महोत्सवे, एकापि बहुधा विभक्तेवाभवत् ।
भूपतिरप्युपर्युपरि विसर्जितोष्ट्रवामीजनितजामातृजोषः सत्यप्याज्ञासंपादनदक्षे मुखेक्षणपरे परिजने समं पुत्राभ्यां दुहितृस्नेहविवलवः सर्वं स्वयमकरोत् ।
एवं च तस्मिन्नविधवामय इव भवति राजकुले, मङ्गलमय इव जायमाने जीवलोके, चारणमयेष्विव लक्ष्यमाणेषु दिङ्मुखेषु, पटहरवमय इव कृतेऽन्तरिक्षे, भूषणमय इव भ्रमति परिजने, बान्धवमय इव दृश्यमाने सर्गे, निर्वृतिमय इवोपलक्ष्यमाणे काले, लक्ष्मीमय इव विजृम्भमाणे महोत्सवे निधान इव सुखस्य, फल इव जन्मनः परिणाम इव पुण्यस्य, यौवन इव विभूतेः, यौवराज्य इव प्रीतेः, सिद्धिकाल इव मनोरथस्य वर्तमाने, गण्यमान इव जनाङ्गुलोभिः, आलोक्यमान इव मार्गध्वजैः, प्रत्युद्गम्यमान इव मड्गल्यवाद्यप्रतिश्बदकैः, आहूयमान इव मौहूर्तिकैः, आकृष्यमाण इव मनोरथैः, परिष्वज्यमान इव वधूसखीहृदयैराजगाम विवाहदिवसः ।
प्रातरेव प्रतीहारैः समुत्सारितनिखिलानिबद्धलोकं विविक्तमक्रियत राजकुलं ।
अथ महाप्रतीहारः प्रविश्य नृपसमीपं "देव! जामातुरन्तिकात्ताम्बूलदायकः पारिजातकनामा संप्ताप्तःऽ इत्यभिधाय स्वाकारं युवानमदर्शयत् ।
राजा तु तं दूरादेव जामातृबहुमानाद्दर्शितादरः "बालक! कच्चित्कुशली ग्रहवर्मा?ऽ इति पप्रच्छ ।
असौ तु समाकर्मितनराधिपध्वनिर्धावमानः कतिचित्पदान्युपसृत्य प्रसार्य च बाहू सेवाचतुरश्चिरं वसुंधरायां निर्धाय मूर्धानमुत्थाय "देव! कुशलौ यथाज्ञापयस्यर्चयति च देवं नमस्कारेणऽ इति व्यज्ञापयत् ।
आगतजामातृनिवेदनागतं च तं ज्ञात्वा कृतसत्कारं राजा "यामिन्याः प्रथमे यामे विवाहकालात्ययकृतो यथा न भवति दोषःऽ इति संदिश्य प्रतीपं प्राहिणोत् ।
अथ सकलकमलवनलक्ष्मीं वधूमुख इव संचार्य समवसिते वासरे, विवाहदिवसश्रियः पादपल्लव इव रज्यमाने सवितरि, वधूवरानुरागलघूकृतप्रेमलज्जितेष्विव विघटमानेषु चक्रवाकमिथुनेषु, सौभाग्यध्वज इव रक्तां शुकसुकुमारवपुषि नभसि स्फुरति संध्यारागे, कपोतकण्ठकर्वुरे वरयात्रागमनरजसीव कलुषयति दिङ्मुखानि तिमिरे, लग्नसंपादनसज्ज इवोज्जिहाने ज्योतिर्गणे विवाहमह्गलकलश इवोदयशिखरिणा समुत्क्षिप्यमाणे वर्धमानधवलच्छाये ताराधिपमण्डले, वधूवदनलावण्यज्योत्स्नापरिपीततमसि प्रदोषे, वृथोदितमुपहसत्स्विव रजनिकरमुत्तानितमुखेसु कुमुदवनेष्वाजगाम मुहुर्मुहुरुल्लासितस्फारस्फुरितारुणचामरैमनोरथैरिवोत्थितरागाग्रपल्लवैः पुरौधावमानैः पादातैरुत्कर्णकटकहयप्रतिहेषितदीयमानस्वागतैरिव वाजिनां वृन्दैरापूरितदिग्विभागः, चलकर्णचामराणां चामीकरमय सर्वोपकरणानां वर्णकलम्बिनां बलिनां घण्टाटाङ्कारिणां करिणां घटाभिः, घटयन्निव पुनरिन्दूदयविलीनमन्धकारम्, नक्षत्रमालामण्डितमुखीं करिणरिं निशाकर इव पौरन्दरीं दिशमारूढः, प्रकटितविविधविहगविरुतैस्तालावचरचारणैः पुरःसरैर्बालो वसन्त इवोपवनैः क्रियमागकोलाहलः, गन्धतैलावसेकसुगन्धिना तीपिकाचक्रवालालोकेन कुङ्कुमपटवासधूलिपटलेनेव पिञ्जरीकुर्वन्सकलं लोकम्, उत्फुल्लमल्लिकामुण्डमालामध्याध्यासितकुसुमशेखरेण शिरसा हसन्निव सपरिवेषक्षपाकर क्ॐउदीप्रदोषम्, आत्मरूपनिर्जितमकरकेतुकरापहृतेन नार्मुकेणेव कौसुमेन दाम्ना विरचितवैकक्षकविलासः, कुसुमसौरभगर्वभ्रान्तभ्रमरकुलकलकलप्रलापसुभगः पारिजात इव जातः श्रिया सह पुनरवतारितो मेदिनीम्, नववधूवदनावलोकनकुतूहलेनेव कृष्यमाणहृदयः पतन्निव मुखेन प्रत्यासन्नलग्नो ग्रहवर्मा ।
राजा तु तमुपद्वारमागतं चरणाभ्यामेव राजचक्रानुगम्यमानः ससुतः प्रत्युज्जगाम ।
अवतीर्णं च तं कृतनमस्कारं मन्मथमिव माधवः प्रसारितभुजो गाढमालिलिङ्ग ।
यथाक्रमं परिष्वक्तराज्यवर्धनहर्षं च हस्ते गृहीत्वाभ्यन्तरं निन्ये ।
स्वनिर्विशेषासनदानादिना चैनमुपचारेणोपचचार ।
न चिराच्च गम्भीरनामा नृपतेः प्रणयी विद्वान्द्विजनमा ग्रहवर्माणमुवाच--"तात! त्वां प्राप्य चिरात्खलु राज्यश्रिया घटितौ तेज्ॐअयौ सकलजगद्गोयमानबुधकर्णानन्दकारिगुणगणौ स्ॐअसूर्यवंशाविव पुष्यभूतिमुकरवंशौ ।
प्रथममेव कौस्तुभमणिरिव गुणैः स्थितोऽसि हृदये देवस्य ।
इदानीं तु शशीव सिरसा परमेश्वरेणासि वोढव्यो जातःऽ इति ।
एवं वदत्येव तस्मिन्नृपमुपसृत्य मौहूर्तिकाः "देव! समासीदति लग्नवेला ।
व्रजतु जामाता कौतुकगृहम्ऽ इत्यूचुः ।
अथ नरेन्द्रेण "उत्तिष्ठ, गच्छऽ इति गदितो ग्रहवर्मा प्रविश्यान्त पुरं जामातृदर्शनकुतूहलिनीनां स्त्रीणां पतितानि लोचनसहस्राणि विकचनीलकुवलयवनानीव लङ्घयन्नाससाद कौतुकगृहद्वारं ।
निवारितपरिजनश्च प्रविवेश ।
अथ तत्र कतिपयाप्तप्रियसखीस्वजनप्रमदाप्रायपरिवाराम्, अरुणांशुकावगुण्ठितमुखीं प्रबातसंध्यामिव स्वप्रभया निष्प्रभान्प्रदीपकान्कुर्वाणां अतिसौकुमार्यशङ्कितेनेव यौवनेन नातिनिर्भरमुपगूढाम्, साध्वसनिरुध्य मानहृदयदेशदुःखमुक्तैर्निभृतायतैः स्वसितैरपयान्तं कुमारभावमिवानुशोचन्तीम्, अत्युत्कम्पिनीं पतनभियेव त्रपया निष्पन्दं धार्यमाणाम्, हस्ततामरसप्रतिपक्षमासन्नग्रहणं शशिनमिव रोहिणीं भयवेपमानमानसामवलोकयन्तीम्, चन्दनधवलतनुलताम्, ज्योत्स्नादानसंचितलावण्यात्कुमुदिनीगर्भादिव प्रसूताम्, कुमुमामोदनिर्हारिणीं वसन्तहृद्यादिव निर्गताम्, निःश्वासपरिमलाकृष्टमधुरकुला मलयमारुतादिवोत्पन्नम्, कृतकन्दर्पानुसरणां रतिमिव पुनर्जाताम्, प्रभालावण्यमदसौरभमाधुर्यैः कौस्तुभशशिमदिरापारिजातामृतप्रभवैः सर्वरत्नगुणैरपराणिव सुरासुरस्षा रत्नाकरेण कल्पितां श्रियम्, स्निग्धेन बालिकालोकेन सितसिरणमरकतप्रभाहरितशाद्वलेन कपोलस्थलीतलेन विनोदयन्तीमिव हारिणीं लोचनच्छायाम्, अध्ॐउखं वरकौतुकालोकनाकुलं मुहुर्मुहुः कुतमुखन्नमनप्रयत्नं सखीजनं हृदयं च निर्भर्त्सयन्ती वधूमपश्यत् ।
प्रविशन्तमेव तं हृदयचौरं वध्वा समर्पितं जग्राह कन्दर्पः ।
परिहासस्मेरम्खीबिश्च नारीभिः कौतुकगृहे यद्यत्कार्यते जामताता तत्तत्सर्वमतिपेशलं चकार ।
कृतपरिणयानुरूपवेशपरिग्रहां गृहीत्वा करे वधूं निर्जगाम जगाम च नवसुधाधवला निमन्त्रितागतैस्तुषारशैलोपत्यकामिव त्र्यम्बकाम्बिकाविवाहाहूतैर्भूभृद्भिः परिवृताम्, सेकसुकुमारयवाङ्कुरदन्तुरैः पञ्चास्यैः कलशैः क्ॐअलवर्णिकाविचित्रैरमित्रमुखैश्च मङ्गल्यफलहस्ताभिरञ्जलिकारिकाभिरूद्भासितपर्यन्ताम्, उपाध्यायोपधीयमानेन्धनधूमायमानाग्निसंधुक्षमाक्षणिकोपद्रष्टृद्विजाम्, उपकृशानुनिहितानुपहतहरितकुशां संनिहितदृषदजिनाज्यस्रुवसमित्पूलीनिवहाम्, नूतनशूर्पार्पितश्यामलशमीपलाशमिश्रलाजहासिनीं वेदीं ।
आरुरोह च तां दिवमिव सज्योत्स्नः शशी ।
समुत्ससर्प च वेल्लितारुणशिखापल्लवस्य शिखिनः कुसुमायुध इव रतिद्वितीयो रक्ताशोकस्य समीपं ।
हुते च हुतभुजि प्रदक्षिणावर्तप्रवृत्ताभिर्वधूवदनविलोकनकुतूहलिनीभिरिव ज्वालाभिरेव सह प्रदक्षिणं बभ्राम ।
पात्यमाने च लाजाञ्जलौ नखमयूखधवलिततनुरदृष्टपूर्ववधूवररूपविस्मयस्मेर इवादृस्यत विभावसुः ।
अत्रान्तरे स्वच्छकपोलोदरसंक्रान्तमनलप्रतिबिम्बमिव निर्वापयन्ती स्थूलमुक्ताफलविकलबाष्पबिन्दुसंदोहदशितदुर्दिना निर्वदनविकारं रुरोद वधूः ।
उदश्रुविलोचनानां च बान्धववधूनामुदपादि महानाक्रन्दः ।
परिसमापितवैवाहिकक्रियाकलापस्तु जामाता वध्वा स्मं प्रणनाम श्वशुरौ ।
प्रविवेश च द्वारपक्षलिखितरतिप्रतिदैवतं, प्रणयिभिरिव प्रथमप्रविष्टैरलिकुलैः कृतकोलाहलम्, अलिकुलपक्षपवनप्रेङ्खोलितैः कर्णोत्पलप्रहारभयप्रकम्पितैरिव मङ्गलप्रदीपैः प्रकाशितम्, एकदेशलिखितस्तबकितरक्ताशोकतरुतलभाजाधिज्यचापेन तिर्यक्कूणितनेत्रत्रिभागेण शरमृजूकुर्वता कामदेवेनाधिष्ठितम्, एकपार्श्वन्यस्तेन काञ्चनाचामरुकेणेतरपार्स्ववतिन्या च दान्तशफरुकधारिण्या कनकपुत्रिकया साक्षाल्लक्ष्म्येवोद्दण्डपुण्डरीकहस्तया सनाथेन सोपधानेन स्वास्तीर्णेन शयनेन शोभमानम्, शयनसिरोभागस्थितेन च कृतकुमुदशोभेन कुसुमायुधसाहायकायागतेन शशिनेव निद्राकलशेन राजतेन विराजमानं वासगृहं ।
तत्र च ह्रीताया नववधूकायाः पराङ्मुखप्रसुप्ताया मणिभित्तिदर्पणेषु मुखप्रतिबिम्बानि प्रथमालापाकर्णनकौतुकागतगृहदेवताननानीव मणिगवाक्षकेषु वीक्षमाणः क्षणदां निन्ये ।
स्थित्वा च श्वशुरकुले शीलेनामृतमिव श्वश्रूहृदये वर्षन्नभिनवाभिनवोपचारैरपुनरुक्तान्यानन्दमयानि दश दिनानि, दत्त्वा च राजदौवारिकमिव राजकुले रणरणकं यौतकनिवेदितानीव शम्बलान्यादाय हृदयानि सर्वलरोकस्य कथङ्कथमपि विसर्जितो नृपेण वध्वा सह स्वदेशमगमदिति ।


इति श्रीमहाकविबाणमट्टकृतौ हर्षचरिते चक्रवर्तिजन्मवर्णनं नाम चतुर्थ उच्छ्वासः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:22.2570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

activity vector analysis

  • क्रिया सदिश विश्लेषण 
RANDOM WORD

Did you know?

’ एकोद्दिष्ट श्राद्ध ’ बद्दल माहिती द्यावी.
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.