TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

हर्षचरितम्‌ - तृतीय उच्छ्वासः

हर्षचरित संस्कृत में बाणबट्ट द्वारा रचित एक ग्रन्थ है। इसमें भारतीय सम्राट हर्ष का जीवनचरित वर्णित है।


तृतीय उच्छ्वासः
निजवर्षाहितस्नेहा बहुभक्तजनान्विताः ।
सुकाला इव जायन्ते प्रजापुण्येन भूभुजः ॥३.१॥
साधूनामुपकर्तु लक्ष्मीं द्रष्टुं विहायसा गन्तुम् ।
न कुतूहलिकस्यमनश्चरितं च महात्मनां श्रोतुं ॥३.२॥

अथ कदाचिद्विरलितबलाहके, चातकातङ्ककारिणि क्वणत्कादम्बे, दर्दुरद्वेष मयूरमदमुषि, हंसपथिकसार्थसर्वातिथौ, धौतासिनिभनभसि, भास्वरभास्वति, शुचिशशिनि, तरुणतारागणे, गलत्सुनासीरशरासने, सीदत्सौदामनीदाम्नि, दामोदरनिद्राद्रुहि, द्रुतवैदूर्यवर्णार्णसि घूर्णमानमिहिकालघुमेघमोघमघवति, निमीलन्नीपे, निष्कुसुमकुटजे, निर्मुकुलकन्दले, क्ॐअलकमले, मधुस्यन्दीन्दीवरे, कह्लाराह्लादिनि, शेफालिकाशीतलीकृतनिशे, यूथिकामोदिनि, मोदमानकुमुदावदातदशदिशि, सप्तच्छदधूलिधूसरितसमीरे, स्वबकिलबन्धुरबन्धूकावध्यमानाकाण्डसध्ये, नीराजितवाजिनि, उद्दामदन्तिनि दर्पक्षीबौक्षके, क्षीयमाणपङ्कचक्रवाले, बालपुलिनपल्लवितसिन्धुरोधसि, परिणामाश्यानश्यामाके, जनितप्रियङ्गमञ्जरीरजसि, कठोरितत्रपुसत्वचि, कुसुमस्मेरशरे, शरत्समयारम्भे राज्ञः समीपाद्वाणो बन्धून्द्रष्टुं पुनरापि तं ब्राह्नणाधिवासमगात् ।
समुपलब्धभूपालसंमानातिशयपरितुष्टास्त्वस्य ज्ञातयः श्लाघमाना निर्ययुः ।
क्रमेण च कांश्चिदभिवादयमानः, कश्चिदभिवाद्यमानः, कैश्चिच्छिरसि चुम्ब्यमानः, कांश्चिन्मूर्ध्नि समाजिघ्रन्, कैश्चिदालिङ्ग्यमानः, कांश्चिदालिङ्गन्, अन्यैराशिषानुगृह्यमाणः, पराननुगृह्णन्, बहुबन्धुमध्यवर्ती परं मुमुदे ।
संभ्रान्तपरिजनोपनीतं चासनमासीनषु गुरुषु भेजे ।
भजमानश्चार्चादिसत्कारं नितरां ननन्द ।
प्रीयमाणेन च मनसा सर्वांस्तान्पर्यपृच्छर्त्--"काच्चदेतावतो दिवसान्सु कनो यूयम्? अप्रत्यूहा वा सम्यक्करणपरितोषितद्विजचक्रा क्रातवी क्रिया क्रियते? ययावदविकलमन्त्रभाञ्जि भुञ्जते वा हवींषि हुतभुजः? यथाकालमधोयते वा बटवः? प्रतिदिनमविच्छिन्नो वा वेदाभ्यासः? कच्चित्स एव चिरन्तनो यज्ञविद्याकर्नण्यभियोगः? तान्येव व्याकरणे परस्परस्पर्धानुबन्धाबन्ध्यदिवसदर्शितादराणि व्याख्यानमण्डलानि, सैव वा पुरातीनी परित्यक्तान्यकर्तव्या प्रमाणगोष्ठी, स एव वा मन्दीकृतेतरशास्त्ररसो मीमांसायामतिरसः? कच्चित्त एवाभिनवसुभाषितसुधावर्षिणः काव्यालापाः?ऽ इति ।
अथ ते तमूचु-"तात! संतोषजुषां सततसंनिहितविद्याविनोदानां वैतानवह्निमात्रसहायानां कियन्मात्रं न कृत्यं सुखितया सकलभुवनभुजिभृजङ्गराजदेहदीर्घे रक्षति क्षितिं क्षितिभुजे ।
सर्वथा सुखिन एव वयम्, विशेषेण तु त्वयि विमुक्तकौसीद्ये परमेश्वरपार्श्ववर्तिनि वेत्रासनमधितिष्ठति ।
सर्वे च यथाशक्ति यथाविभवं यथाकाल च संपाद्यन्ते विप्रजनोचिताः क्रियाकलापाःऽ इत्येवमादिभिरालापैः स्कन्दावारवार्ताभिश्च शैशवातिक्रान्तक्रीडानुस्मरणैः पूर्वजकथाभिश्च विनोदितमनास्तैः सह सुचिरमतिष्ठत् ।
उत्थाय च मध्यन्दिने यथाक्रियमाणाः स्थितीरकरोत् ।
भुक्तवन्तं च त सर्वे ज्ञातयः पर्यवारयन् ।
अत्रान्तरे दुकूलपट्टप्रभवे शिखण्ड्यपाङ्गपाण्डुनी पौण्ड्रे वाससी वसानः स्नानावसानसमये वन्दितया तोर्थमृदा गोरोचनया च रचिततिलकः, तैलामलकमसृणितमौलिः, अनुच्चचूडाचुम्बिना निबिजेन कुसुमापोडकेन समुद्भासमानः, असकृदुपयुक्तताम्बूलविमलाधररागकान्तिः, एकशलाकाञ्जनजनितलोचनरुचिः, अचिरभुक्तः, विनीतमार्यं च वेषं दधानः, पुस्तकवाचकः सुदृष्टिराजगाम ।
नातिदूरवर्तिन्यां चासन्द्यांनिषसाद ।
स्थित्वा च मुदूर्तमिव तत्कालापनीतसूत्रवेष्टनमपि नखकिरणैर्मृदुमृणालसूत्रौरवावेष्टितं पुस्तकं पुरोनिहितशरशलाकायन्त्रके निधाय, पृष्ठतः सनीडसंनिविष्टाभ्यां मधुकरपारावताभ्यां वंशिकाभ्यां दत्ते स्थानके प्राभातिकप्रपाठकच्छेदचिह्नीकृतमन्तरं पत्रमुत्क्षिप्य, गृहीत्वा च कतिपयपत्रलघ्वीं कपाटिकां क्षालयन्निव मषीमलिनान्यक्षराणि दन्तकान्तिभिः, अर्चयन्निव सितकुसुममुक्तिभिर्ग्रन्थम्, मुखसंनिहितसरस्वतीनूपुररवैरिव गमकैर्मधुरैराक्षिपन्मनांसि श्रोत्éणां गीत्या पवमानप्रोक्तं पुराणं पपाठ ।
तस्मिंश्च तथा श्रुतिसुभगगीतिगर्भं पठति सुदृष्टौ नातिदूरवर्ती वन्दी सूचीबाणस्तारमधुरेण गीतिध्वनिमनुवर्तमानः स्वरेणेदमार्यायुगलमगायत्--

तदपि मुनिगीतमतिपृथु तदपि जगद्व्यापि पावनं तदपि ।
हर्षचरितादभिन्नं प्रतिभाति हि मे पूराणमिदं ॥३.३॥
वंशानुगमविवादि स्फुटकरणं भरतमार्गभजनगुरु ।
श्रीकण्ठविनिर्यात गीतमिदं हर्षराज्यमिव  ॥३.४॥

तच्छ्रुत्वा बाणस्य चत्वारः पितामहमुखपझा इव वेदाभ्यासपावत्रितमूर्तयः, उपाया इव सामप्रयोगललितमुखाः, गणपतिः, अधिपतिः, तारापतिः, श्यामल इति पितृव्यपुत्रा भ्रातरः, प्रसन्नवृत्तयः, गृहीतवाक्याः, कृतगुरुपदन्यासाः, न्यायवादिनः, सुकृतसंग्रहाभ्यासगुरवो लब्धसाधुशब्दा लोक इव व्याकरणेऽपि सकलपुराणराजर्षिचरिताभिज्ञाः, महाभारतभावितात्मानः, विदितसकलेतिहासाः, महाविद्वांसः, महाकवयः, महापुरुषवृत्तान्तकुतूहलिनः, सुभाषितश्रवणरसरसायनाः, वितृष्णाः, वयसि वचसि यशसि तपसि सदसि महसि वपुषि यजुषि च प्रथमाः, पूर्वमेव कृतसंगराः, विवक्षवः, स्मितसुधाधवलितकपोलोदराः, परस्परस्य मुखानिव्यलोकयन् ।
अथ तेषां कनीयान्कमलदलदीर्घलोचनः श्यामलो नाम बाणस्य प्रेयान्प्राणानामपि वशयिता दत्तसंज्ञस्तैः सप्रणयं दशनज्योत्स्नास्नपितककुभा मुखेन्दुना बभाषे--"तात बाण! द्विजानां राजा गुरुदारग्रहणमकार्षीत्पुरूरवा ब्राह्नणधनतृष्णया दयितेनायुषा व्ययुज्यत ।
नहुषः परकलत्राभिलाषा महाभुजङ्ग आसीत् ।
ययातिराहितब्राह्नणीपाञिग्रहणः पपात ।
सुद्युम्नः स्त्रीमय एवाभवत् ।
स्ॐअकस्य प्रख्याता जगति जन्तुवधनिर्घृणता ।
मान्धाता मार्गणव्यसनेन सपुत्रपौत्रो रसातलमगात् ।
पुरुकुत्सः कुत्सितं कर्म तपस्यन्नपि मेकलकन्धकायामकरोत् ।
कुवलयाश्वो भुजङ्गलोकपरिग्रहादश्वतरकन्यामपि न परिजहार ।
पृथुः प्रथमपुरुषकः परिभूतवान्पृथिवीं ।
नृगस्य कृकलासभावेऽपि वर्णसंकरः समदृश्यत ।
सौदासेन नरक्षिता पयाकुलीकृता क्षिति ।
नलमवशाक्षहृदयं कलिरभिभूतवान् ।
सवरणो मित्रदुहितरि विक्लवतामगात् ।
दशरथ इष्टरामोन्मादेन मृत्युमवाप ।
कार्तवीर्यो गोब्राह्नणातिपीडनेन निधनमयासीत् ।
मरुत्त इष्टवहुसुवर्णकोऽपि देबद्विजबहुमतो न बभव ।
शन्तनुरतिव्यसनादेकाकी वियुक्तो वाहिन्या विपिने विललाप ।
पाण्डुर्वनमध्यगतो मत्स्य इव मदनरसाविष्टः प्राणान्मुमाच ।
युधिष्ठिरो गुरुभयविषण्णहृदयः समरशिरसि सत्यमुत्सृष्टवान् ।
इत्थं नास्ति राजत्वमपकलङ्गमृते देवदेवादमतः सर्वद्वीपभूजो हर्षात् ।
अस्य हि बहून्याश्चर्याणि श्रूयन्ते ।
तथा हि-अत्र बलजिता निश्चलीकृताश्चलन्तः कृतपक्षाः क्षितिभृतः ।
अत्र प्रजापतिना शेषभोगिमण्डलस्योपरि क्षणा कृता ।
अत्र पुरुषोत्तमेन सिन्धुराजं प्रमथ्य लक्ष्मीरात्मीकृता ।
अत्र बलिना मोचितभूभृद्वेष्टनो मुक्तो महानागः ।
अत्र देवेनाभिषिक्तः कुमारः ।
अत्र स्वामिनैकप्रहारपातितारातिना प्रख्यापिता शक्तिः ।
अत्र नरसिंहेन स्वहस्तविशसितारातिना प्रकटीकृतो विक्रमः ।
अत्र परमेश्वरेण तुषारशैलभुवो दुर्गाया गृहीतः करः ।
अत्र लोकनाथेन दिशां मुखेषु परिकल्पिता लोकपालाः, सकलभुवनकोशश्चाग्रजन्मनां विभक्तः, इत्येवमादयः प्रथमकृतयुगस्येव दृश्यन्ते महासमारम्भाः ।
अतोऽस्य सुगृहीतनाम्नः पुरायराशेः पूर्वपुरुषवंशानुक्रमेणादितः प्रभृति चरितमिच्छामः श्रोतुं ।
सुमहान्कालो नः शुश्रूषमाणानां ।
अयस्कान्तमणय इव लोहानि नीरसनिष्ठुराणि क्षुल्लकानामप्याकर्षन्ति मनांसि महतां गुणाः, किमुत स्वभावसरसमृदूनीतरेषां ।
कस्य न द्वितीयमहाभारते भवेदस्य चरिते कुतूहलम्? आचष्टा भबान् ।
भवतु भार्गवोऽयं वंशः शुचिनानेन पुण्यराजर्षिचरितश्रवणेन सुतरां शुचितरः, इत्येवमभिधाय तूष्णीमभूत् ।
बाणस्तु विहस्याब्रवीत्--आर्य! न युक्त्यनुरूपमभिहितं ।
अघटमानमनोरथमिव भवतां कुतूहलमवकल्पयामि ।
शक्याशक्यपरिसंख्यानशून्याः प्रायेण स्वार्थतृषः ।
परगुणानुरागिणी प्रियजनकथाश्रवणरसरभसमोहिता च मन्ये महतामपि मतिरपहरति प्रविवेकं ।
पश्यत्वार्यः क्व परमाणुपरिमाणं बटुहृदयम्, क्व समस्तब्रह्नस्तम्भव्यापि देवस्य चरितम्? क्व पारमितवर्णर्वृत्तयः कतिपये शब्दाः, क्व संख्यातिगास्तद्गुणाः? सर्वज्ञस्याप्ययमविषयः, वाचस्पतेरप्यगोचरः, सरस्वत्या अप्यतिभारः, किमुतास्मद्विधस्य? कः खलु पुरुषायुषशतेनापि शक्नुयादविकलमस्य चरितं वर्णयितुम्? एकदेशे तु यदि कुतूहलं वः, सज्जा वयं ।
इयमधिगतकतिपयाक्षरलवलधीयसी जिह्वा क्वोपयोगं गमिष्यति? भवन्तः श्रोतारः ।
वण्यते हर्षचरितं ।
किमन्यत् ।
दिवसः पश्चाल्लम्बनमानकपिलकिरणजटाभारभास्वरो भगवान्भार्गवराम इव समन्तपञ्चकरु धेरमहाह्रदे निमज्जति सध्यारागपटले पूषा ।
श्वो निवेदयितास्मि इति ।
सर्वे च ते "तथाऽ इति प्रत्यपद्यन्त ।
नातिचिरादुत्थाय संध्यामुपासितुं शोणमयासीत् ।
अथ मधुमदपल्लवितमालवीकपोलक्ॐअलातपे मुकुलितेऽह्नि, कमलिनीमीलनादिव लोहिततमे तमोलिहि रवौ लम्बमाने, रविरथतुरगमार्गानुसारेण यममहिष इव धावति नभसि तमसि, क्रमेण च गृहतापसकुटोरकपटलावलम्बिषु रक्तातपच्छेदैः सह सहृतेषु वल्कलेषु, कलिकल्मषमुषि मुष्णति गगनमग्निहोत्रधामधूमे, सनियमे यजमानजने मनौव्रतिनि, विहारवेलाविलोले पर्यटति पत्नीजने, विकीर्यमाणहरितश्यामाकशालिपूलिकासु दुग्धासु ह्ॐअकपिलासु, हूयमाने वैतानतनूनपाति, पूतविष्टरोपविष्टे कृष्णाजिनजटिले जटिनि जपति बटुजने, ब्रह्नासनाध्यासिनि ध्यायति योगिगणे, तालध्वनिधावमानानन्तान्तेवासिनि अलसवृद्धश्रोत्रियानुमतेन गलद्ग्रन्थदण्डकोद्गारिणि सद्यां समवधारयति वठरविटबटुसमाजे, समुन्ज्जति च ज्योतिषि तारकाख्ये खे, प्राप्ते प्रदोषारम्भे भवनमागत्योपविष्टः स्निग्धैर्बन्धुभिश्च सार्ध तयैव गोष्ठया तस्थौ ।
नीतप्रथमयामश्च गणपतेर्भवने परिकल्पितं शयनीयमसेवत ।
इतरेषां तु सर्वषां निमीलितदृशामप्यनुपजातनिद्राणां कमलवनानामिव सूर्योदयं प्रतिपालयतां कुतूहलेन कथमपि सा क्षपा क्षयमगच्छत् ।
अथ यामिन्यास्तुर्ये याम प्रतिबुद्धः स एव बन्दी श्लोकद्वयमगायत्--

"पश्चादङ्घ्रिं प्रसार्य त्रिकनतिवितत द्राघयित्वाङ्गमुच्चैर्
आसज्याभुग्नकण्ठो मुखमुरसि सटा धृलिधूम्रा विधूय  ।
घासग्रासाभिलाषादनवरतचलत्प्रोथतुण्डस्तुरङ्गो
मन्दं शब्दायमानो विलिखति शयनादुत्थितः क्ष्मां खुरेणऽ ॥३.५॥
कुर्वन्नाभुग्नपृष्ठो मुखनिकटकटि कन्धरामातिरश्चीं
लोलेनाहन्यमानं तुहितकणमुचा चञ्चता केसरेण  ।
निद्राकण्डूकषायं कषति निबिडितश्रोत्रशुक्तिस्तुरङ्गस्
त्वङ्गत्पक्ष्माप्रलग्नगन्तनुवुसकणं कोणमक्ष्णः खुरेण ॥३.६॥

बाणस्तु तच्छ्रत्बा समुत्सृज्य निद्रामुत्थाय प्क्षाल्य वदनमुपास्य च भगवतीं संध्यामुदिते च भगवति सवितरि गृहीतताम्बूलस्तत्रैवातिष्ठत् ।
अत्रान्तरे सर्वेऽस्य ज्ञातयः समाजग्मुः, परिवाये चासांचक्रिरे ।
असावपि पूर्वोद्धातेन विदिताभिप्रायस्तेषां पुरो हर्षचरितं कथयितुमारेभे-- श्रूयताम्--अस्ति पुण्यकृतामधिवासो वासवावास इव वसुधामवतीर्णः सततमसकीर्णवर्णव्यवहारस्थितिः कृतयुगव्यवस्थः, स्थलकमलबहलतया पोत्रोन्मूल्यमानमृणालैरुद्गीतमेदिनीसारगुणैरिव कृतमधुकरका लाहलैर्हरुल्लिख्यमानक्षेत्रः, ज्ञीरोदपयः पायिपयोदसिक्ताभिरिव पुण्ड्रेक्षुवाटसंततिभिर्निरन्तरः, प्रतिदिशमपूर्वपर्वतकैरिव खलधानधामभिर्विभज्यमानैः सस्यकूटैः संकटसकलसीमान्तः, समन्तादुद्धातघटीसिच्यमानैर्जीरकजूटैर्जटिलितभूमिः, उर्वरावरीयोभिः शालेयैरलङ्कृतः, पाकविशरारुराजमाषनिकरकिर्मीरितैश्चस्फुटितमुद्गफलकोशीकपिशितैर्गोधूमधामभिः स्थलीपृष्ठैरधिष्ठितः, महिषपृष्ठप्रतिष्ठितगायद्गोपालपालितैश्च कीटपटललम्पट चटकानुसृतैरवटुघटितघण्टाघटीरटितरमणीयैरटद्भिरटवीं हरवृषभपीतमामयाशङ्कयाबहुधा विभक्तं क्षीरोदमिव क्षीरं क्षरद्भिर्बाष्पच्छेद्यतृणतृप्तैर्गोधनैर्धवलितविपिनः, विविधमखह्ॐअधूमान्धशतमन्युमुक्तैर्लोचनौरव सहस्रसंख्यैः कृष्णशारैः शारीकृतोद्देशः, धवलधूमिमुचा केतकीवनानां रजोभिः पाण्डुरीकृतैः प्रथमोद्धूलनभस्मधूसरैः शिवपुरस्येव प्रवेशैः प्रदेशैरुपशोभितः, शाककन्दलश्यामलितग्रामोपकण्ठकाश्यपीपृष्ठः, पदे पदे करभपालीभिः पीलुपल्लवप्रस्फोटितैः करपुटपीडितक्ॐअलमातुलुङ्गादलरसोपलिप्तैः स्वेच्छाविचितकुङ्कुमकेसरकृतपुष्पप्रकरैः प्रत्यग्रफलरसपानसुखसुप्तपथिकैर्वनदेवतादीयमानामृतरसप्रपागृहैरिव द्राक्षालतामण्डपैः स्फुरत्फलानां च बीजलग्नशुकचञ्चु रागाणामिव समारूढकपिकुलकपोलसंदिह्यमानकुसुमानां दाडमीना वनैर्विलोभनीयोपनिर्गमः, वनपालपीयमाननारिकेलरसासवैश्च पथिकलोकलुप्यमानपिण्डखर्जूरैर्गोलाङ्गललिह्यमानमधुरामोदपिण्डीरसैश्चकोरचञ्चुजर्जरितारुकैरुपवनैरभिरामः, तुङ्गार्जुनपालोपरिवृतैश्च गोकुलावतारकलुषितकूलकीलालैरध्वगशतशरण्यैररण्यवरुणधराबन्धैरवध्यवनरन्ध्रः, करभीयकुमारकपाल्यमानैरौष्ट्रकैरौरभ्रकैश्च कृतसंबाधः, दिशि दिशि रविरथतुरगविलोभनायैव विलोठनमृदितकुङ्कु मस्थलीरससमालब्धानामुत्प्रोथपुटैरुन्मुखैरुदरशायिकिशोरकजवजननाय प्रभञ्जनमिव चापिबन्तीनां वातहरिणीनामिव स्वच्छन्दचारिणीनां वडवानां वृन्दैर्विचरद्भिराचितः, अनवरतक्रतुधूमान्धकारप्रवृत्तैर्हंसयूथैरिव गुणैर्धवलितभुवनः, संगीतगतमुरजरवमत्तैर्मयूरैरिव विभवैर्मुखरितजीवलोकः, शशिकरावदातवृत्तैर्मुक्ताफलैरिव गुणिभिः प्रसाधितः, पथिकशतविलुप्यमानस्फीतफलैर्महातरुभिरिव सर्वातिथिभिरभिगमनीयः, मृगमदपरिमलवाहिमृगर्ॐआच्छादितैर्हिमवत्पादैरिव महत्तरैः स्थि रीकृतः, प्रोद्दण्डसहस्रपत्रोपविष्टद्विजोत्तमैर्नारायणनाभिमण्डलैरिव तोयाशयैर्मण्डितः, मथितपयःप्रवाहप्रक्षालितक्षितिभिः क्षीरोदमथनारम्भैरिव महाघोषैः पूरिताशः श्रीकण्ठो नाम जनपदः ।
यत्र त्रेताग्निधूमाश्रुपातजलज्ञालिता इवाक्षीयन्त कुदृष्टयः ।
पच्यमानचयनेष्टकादहनदग्धानीव नादृश्यन्त दुरितानि ।
छिद्यमानयूपदारुपरशुपाटित इव व्यदीर्यताधर्मः ।
मखशिखिधूमजलधराधाराधौत इव ननाश वर्णसंकरः ।
दीयमाननेकगोसहस्रशृङ्गखण्ड्यमान इवापलायत कलिः ।
सुरालयशिलाघट्टनटङ्कनिकरनिकृता इव व्यदीर्यन्त विपदः ।
महादानविधानकलकलाभिद्रुता इव प्राद्रवन्नुपद्रवाः ।
दोप्यमानसत्रमहानससहस्रानलसतापिता इव व्यलीयन्त व्याधयः, वृषविवाहप्रहतपुण्यपटहपटुरव त्रासिता इव नोपासर्पन्नपमृत्यवः संततब्रह्नघोषबधिरीकृता इवापजग्मुरीतयः ।
धर्माधिकारपरिभूतमिव न प्राभवद्दुर्वैवं ।
तत्र चैवंविधे नानारामाभिरामकुसुमगन्धपरिमलसुभगो यौवनारम्भ इव भुवनस्य, कुङ्कुममलनपिञ्जिरितबहुमहिषीसहस्रशोभितोऽन्तःपुरनिवेश इव धर्मस्य, मरुदुद्धूयमानचमरीबालव्यजनशतधवलितप्रान्त एकदेश इव सुरराज्यस्य, ज्वलन्मखशिखिसहस्रदीप्यमानदशदिगन्तः शिविरसंनिवेश इव कृतयुगस्य; पझासनस्थितब्रह्नर्षिध्यानाधीयमानसकलाकुशलप्रशमः प्रथमोऽवतार इव ब्रह्नलोकस्य, कलकलमुखरमहावाहिनीशतसंकुलो विपक्ष इवोत्तरकुरूपणाम्, रिश्वरमार्गणसंतापानभिज्ञसकलजनो विजिगीषुरिव त्रिपुरस्य, सुधारससिक्तधवलगृहपङ्क्तिपाण्डुरः प्रतिनिघिरिव चन्द्रलोकस्य, मधुमदमत्तकाशिनीभूषणरवभरितभुवनो नामाभिहार इव कुबेर नगरस्य, स्थाण्वीश्वराख्यो जनपदविशेषः ।
यस्तपोवनमिति मुनिभिः, कामायतनमिति वेश्याभिः, संगीतशालेति लासकैः, यमनगरमिति शत्रुभिः, चिन्तामणिभूमिरित्यर्थिभिः वीरक्षेत्रमिति शस्त्रोपजीविभिः, गुरुकुलमिति विद्यार्थिभिः, गन्धर्वनगरमिति गायनैः, विश्वकर्ममन्दिरमिति विज्ञानिभिः, लाभभूमिरिति वन्देहकैः, द्यूतस्थानमिति बन्धिभिः, साधुसमागम इति सद्भिः, वज्रपञ्जरमिति शरणागतैः, विटगोष्ठीति विदग्धैः, सुकृतपरिणाम इति पथिकैः, असुरविवरमिति वातिकैः शाक्याश्रम इति शमिभिः, अप्सरःपुरमिति कामिभिः, महोत्सवसमाज इति चारणैः, वसुधारेति च विप्रैरगृह्यत ।
यत्र च मातङ्गामिन्यः शीलवत्यश्च, गौर्यो विभवरताश्च, श्मामाः पझरागिण्यश्च, धवलद्विजशुचिवदना मदिरामोदिश्वसनाश्च, चन्द्रकान्तवपुषः शिरीषक्ॐअलाङ्गयश्च, अभुजङ्गगम्याः कञ्चुकिन्यश्च, पृथुकलत्रश्रियो दरिद्रमध्यकलिताश्च, लावण्यवत्यो मधुरभाषिण्यश्च, अप्रमत्ताः प्रसन्नोज्ज्वलमुखरागाश्च अकौतुकाः प्रौढाश्च प्रमदाः ।
यत्र च प्रमदानां चक्षुरेव सहजमुण्डमालामण्डनं भारः कुवलयदलदामानि, अलकप्रतिबिम्बान्येव कपीलतलगतान्यक्लिष्टाः श्रवणावतंसाः पनरुक्तानि तमालकिसलयानि, प्रियकथा एव सुभगाः कर्णालकारा आडम्बरः कुम्डलादिः, कपोला एव सततमालोककारका विभवो निशासु मणिप्रदोपाः सुरभिनिःस्वासाकृष्टं मधुकरकुलमेव रमणीयं मुखावरणं कुलस्त्रीजनाचारो जालिका, वाण्येव मधुरतरा वीणा बाह्यविज्ञानं तन्त्रीताडनम्, हासा एवातिशयसुरभयः पटवासा निरर्थकाः कर्पूरपांसवः, अधरकान्तिविसर एवोज्ज्वलतरोऽङ्गरागो निर्गुणो लावण्यकलङ्कः कुङ्कुमपङ्कः, बाहव एव क्ॐअलतमाः, परिहासप्रहारवेत्रलता निष्प्रयोजनानि मृणालानि, यौवनोष्मस्वेदबिन्दव एव विदग्धाः कुचाककृतयो हारास्तु भाराः, श्रोण्य एव विशालस्फटिकशिलातलचतुरस्रा रागिणां विश्रमकारणमनिमित्तं भवनमणिवेदिकाः ।
कमललौभनिलानान्यलिकुलान्येव मुखराणि पदाभरणकानि निष्फलानीन्द्रनीलमणिनूपुराणि ।
नूपुररवाहृता भवनकलहंसा एव समुचिताः संचरणसहाया ऐश्वर्यप्रपञ्चाः परिजनाः ।
तत्र च साक्षात्सहस्राक्ष इव सर्ववर्णधरं धनुर्दधानः, मेरमय इव कल्याणप्रकृतित्वे, मन्दरमय इव लक्ष्मीसमाकर्षणे, जलनिधिमय इव मर्यादायाम्, आकाशमय इव शब्दप्रादुर्भावे, शशिमय इव कलासंग्रहे, वेदमय इवाकृत्रिमालापत्वे, धरणिमय इव लोकधृतिकरणे, पवनमय इव सर्वपार्थिवरजोविकारहरणे, गुरुर्वचसि, पृथुरुरसि, विशालो मनसि, जनकस्तपसि, सुयात्रस्तेजसि, सुमन्त्रो रहसि, बुधः सदसि, अर्जुनो यशसि, भीष्मो धनुषि, निषधो वपुषि, शत्रुघ्नः समरे, शूरः शूरसेनाक्रमणेदशः प्रजाकर्मणि, सर्वादिराजतेजःपुञ्जनिर्मित इव राजा पुष्यभूतिरिति नाम्ना बभूव ।

पृषुना गौरिवेयं कृतेति यः स्पर्धमान इव महीं महिषीं चकार ।
निसर्गस्वैरिणी स्वरुच्यनुरोधिनी च भवति हि महतां मतिः ।
यतस्तस्य केनचिदनुपदिष्टा सहजैव शैशवादारभ्यानन्यदेवता भगवति, भक्तिसुरभे, भुवनभृति, भूतभावने, भवच्छिदि, भवे भूयसी भक्तिरभूत् ।
अकृतवृषभध्वजपूजाविधिर्न स्वप्नेऽप्याहारमकरोत् ।
अजम्, अजरम्, अमरगुरुम्, असुरपुररिपुम्, अपरितगणपतिम्, अवलदुहितृपतिम्, अखिलभुवनकृतचरणनतिम्, पशूपतिं प्रपन्नोऽन्यदेवताशून्यमन्यत त्रलोक्यं ।
भर्तृचित्तानुवर्तिन्यश्चानुजीविनां प्रकृतयः ।
तथा हि-गृहे गृहे भगवानपूज्यत खण्डपरशुः ।
ववुरस्य ह्ॐआलवालानलविलीयमानबहलगुग्गुलु गन्धगर्भाः स्नपनक्षीरशीकरक्षोदक्षारिणो विल्वपल्लवदामदलोद्वाहिनः पुण्य विषयेषु वायवः ।
शिवसपर्यासमुचितैरुपायनैः प्राभृतैश्च पौराः पादोपजीविनः सचिवाः स्वभुजबलनिर्जिताश्च करदीकृता महासामन्तास्तं सिषेविरे ।
तथा हि-कैलासकूटधवलैः कनकपत्रलालङ्कृतविषाणकोटिभिर्महा पट्टैश्चयमणियष्टिप्रदीपैश्चब्रह्नसूत्रैश्च महार्हमाणिक्यखण्डखचितैश्च मुखकोषैः परितोषमस्य मनसि चक्रुः ।
अन्तःपुराण्यपि स्वयमारब्वबालेयतण्डुलकण्डनानि देवगृहोपलेपनलोहिततरकरकिसलयानि कुसुमग्रथनव्यग्रसमस्तपरिजनानि तस्याभिलषितमन्ववर्तन्त ।
तथा च परममाहेश्वरः स भूपालो लोकतः शुश्राव भुवि भगवन्तमपरमिव साक्षाद्दक्षमखमथनं दाक्षिणात्य बहुविधविद्याप्रभावप्रख्यातैर्गुणैः शिष्यैरिवानेकसहस्रसंख्यैर्व्याप्तमर्त्यलोकं भैरवाचार्यनामानं महाशैवं ।
उपनयन्ति हि हृदयमदृष्टमपि जनं शीलसंवादाः ।
यतः स राजा श्रवणसमकालमेव तस्मिन्भेरवाचार्ये भगवति द्वितीय इव कपर्दिनि दूरगतेऽपि गरीयसीं बबन्ध भक्तिं ।
आचकाङ्क्ष च मनोरथरप्यस्य सर्वथा दर्शनं ।
अथ कदाचित्पर्यस्तेऽस्ताचलचुम्बिनि वासरेऽन्तःपुरवर्तिनं राजानमपसृत्य प्रतीहारी विज्ञापितवती--"देव! द्वारि परिव्राडास्ते, कथयति च भैरवाचार्यवचनाद्देवमनुप्राप्तोऽस्मिऽ इति ।
राजा तु तच्छ्रत्वा सादरम्--"क्वासौ? आनयात्रैव, प्रवेशयैनम्ऽ इति चाब्रवीत् ।
तथा चाकरोत्प्रतीहारी ।
न चिराच्च प्रांवशन्तं प्रांशुम्, आजानुभुजम्, भैक्षक्षाममपि स्थूलास्थिभिरवयवैः पीवरमिवोपलक्ष्यमाणम्, पृथूत्तमाङ्गम्, उत्तुङ्गवलिभङ्गस्थपुटललाटम्, निर्मांसगण्डकूपकम्, मधुबिन्दुपिङ्गलपरिमण्डलाक्षर्म्, इषदावक्रधोणम्, अति प्रलम्बैककर्णपाशम्, अलाबुबीजविकटोन्नतदन्तपङ्क्तिम्, तुरगानूकश्लथाधरलेखम्, लम्बचिबुकायततरलपनम्, अंसावलम्बिना काषायेण योगपट्टकेन विरचितवैकक्षकम्, हृदयमध्यनिबद्धग्रन्थिना च रागेणेव खण्डशः कृतेन धातुरसारुणेन कर्पटेन कृतोत्तरासङ्गम्, पुनरुक्तबालप्रग्रहवेष्टननिश्चलमूलेन बद्धमृत्परिशोधनवंशत्वक्तितौना कौपीनसनाथशिखरेण खर्जूरपुटसमुद्गकगर्भीकृतभिक्षाकपालकेन दारवफलकत्रयत्रिकोणत्रियष्टिनिविष्टकमण्डलुना बहुरुपपादितपादुकावस्थानेन स्थूलदशासूत्रनियन्त्रितपुस्तिकापूलकेन वामकरधृतेन योगभारकेणाध्यासितस्कन्धम्, इतरकरगृहीतवेत्रासनं मस्करिणमद्राक्षीत् ।
क्षितिपतिरप्युगपतमुचितेन चैनमादरेणान्वग्रहीत् ।
आसीनं च पप्रच्छ--"क्व भैरवाचार्यः?ऽ इति ।
सादरनरपतिवचनमुदितमतिस्तु परिव्राट्तमुपनगरं सरस्वतीतटवनावलम्बिनि शून्यायतने स्थितमाचचक्षे ।
भूयश्चाबभाषे--"अर्चयति हि महाभागं भगवानाशीर्वतचसाऽ इत्युक्त्वा चोपनिन्ये योगभारकादाकृष्य भैरवाचार्यप्रहितानि रत्नवन्ति बहलालोकलिप्तान्तः पुराणि पञ्च राजतानि पुण्डरीकाणि ।
नरपतिस्तु प्रियजनप्रणयभङ्गकातरो दाक्षिण्यमनुरुध्यमानो ग्रहणलाघवं च लङ्घयितुमसमर्थो दोलायमानेन मनसा स्थित्वा चिरं कथकथमप्यतिसौजन्यनिघ्नस्तानि जग्राह ।
जगाद च--"सर्वफलप्रसवहेतुः शिवभक्तिरियं नो मनोरथदुर्लभानि फलति फलानि ।
येनैवमस्मासु प्रीयते तत्रभगवान्भुवनगुरुर्भैरवाचार्यः ।
श्वो द्रष्टास्मि भगवन्तम्ऽ इत्युक्त्वा च मस्करिणं व्यसर्जयत् ।
अनया च वार्तया परां मुदमवाप ।
अपरेद्युश्च प्रातरेवोत्थाय वाजिनमधिरुह्य समुच्छ्रितश्वेतातपत्रः समुद्धूयमानधवलचामरयुगलः कतिपयैरेव राजपुत्रैः परिवृतो भैरवाचार्यं सवितारमिव शशी द्रष्टुं प्रतस्थे ।
गत्वा च किञ्चिदन्तरं तदीयमेवाभिमुखमापतन्तमन्यतमं शिष्यमद्राश्रीत् ।
अप्राक्षीच्च--"क्व भगवानास्ते?ऽ इति ।
सोऽकथयत्--"अस्य जीर्णमातृगुहस्योतरेण बिल्ववाटिकामध्यास्तेऽ इति ।
गत्वा च तं प्रदेशमवततार तुरगात् ।
प्रविवेश च बिल्ववाटिकां ।
अथ महतः कार्पठिकवृन्दस्य मध्ये प्रातरेव स्नातम्, तद्दाष्टपुष्पिकम्, अनुष्ठिताग्निकार्यम्, कृतभस्मरेखापरिहारपरिकरे हरितग्ॐअयोपलिप्तक्षितितलवितते व्याघ्रचर्मण्युपविष्टम्, कृष्णकम्बलप्रावरणनिभेनासुरविवरप्रवेशाशङ्कया पातालान्धकारावासमिवाभ्यस्यन्तम्, उन्मिषिता विद्युत्कपिलेनात्मतेजसा महामांसविक्रयक्रीतेन मनः शिलापङ्केनेव शिष्यलोकं लिम्पन्तम्, जयाकृतैकदेशलम्बमानरुद्राक्षशङ्खगुटिकेनोर्ध्वबद्धेन शिखापाशेन बध्नन्तमिव, विद्यावलेपदुर्विदग्धानुपरिसंचरतः सिद्धान्, धवलकतिपयशिरोरुहेण वयसा वञ्चपञ्चाशतं वर्षाण्यतिक्रामन्तम्, खालित्यक्षीयमाणशङ्कल्ॐअलेशम्, ल्ॐअशकर्णशष्टलीप्रहेशम्, पृथुललाटतटम्, तिरश्यामभस्मलटिका बहुशः शिरोर्घतदन्धगुग्गुलुसंतापस्फुटितकपालास्थिपाण्डुरराज ङ्कामिव जनयन्तम्, सहजललाटबलिभङ्गसकोचितकूर्चभागां बम्रुभासं भ्रूसंगत्या निरन्तरामायामिनीमेकामिव भ्रूलेखां बिभ्राणम्, रिषत्काचरकनीनिकेन रक्तापाह्गनिगन्तंशुप्रतानेन मध्यध्वलभासेन्द्रायुधेनेवातिदीर्घेण लोचनयुगलेन परितो महामण्डलमिवानेकवर्णरागमालिखन्तम्, सितपीतलोहित पटाकावलिश्बलम्, शिवनलीमिव दिक्षु विक्षिपन्तम्, तार्क्ष्यतुण्डकोटिकुब्जाग्रघोणम्, दूरविदीर्णसृक्कसंक्षिप्तकपोलम्, किञ्चिद्दन्तुरतयासदाहृदयसंनिहितहरणौलिचन्द्रातपेनेव निर्गच्छता दन्तालोकेन धवल यन्तं दिशं जालम्, जिह्वास्रस्थितसर्वशैवसंहितातिभारणेव मनाक्प्रलम्बितौष्ठम्, प्रलम्बश्रवमपालीप्रेङ्खिताभ्यां स्फाटिककण्डलाभ्या शुक्रबृहस्पतिभ्यामिव सुरासुरविजयविद्यासिद्धिश्रद्वयानुबध्यमानम्, बद्धविवि घौषधिमन्त्रसूत्रपङ्क्तिना सरोहवलयेने प्रकष्ठ्शङ्खण्डं पूष्णओ दन्ततमिव भगवता भवेन भग्ने भक्त्या भृषणीकृतं कलयन्तम्, अखिलरसकूपोदञ्चनघटीयन्त्रमालामिव रुद्राक्षमालां दक्षिणेन पाणिना भ्रमयन्तम्, उरसि दोलायमानेनापिङ्गलाग्रेण कूटकचकलापेन संमार्जयन्तमिवान्तर्गतं निजरजोनिकरम्, अतिनिबिडनीलल्ॐअमण्डलविचितं च ध्यानलब्धेन ज्योतिषा दग्धमिव हृदयदेशं दधानर्म्, इषत्प्रशिथिलवलिबलयबध्यमानतुन्दम्, उपयमानस्फिङ्मांसपिण्डकम्, पाण्डुरपवित्रक्ष्ॐआवृकौपीनम्, सावष्ठम्भपर्यङ्कबन्धमण्डलितेनामृतफेनश्वेतरुचा योगपट्टकेन वासुकिनेवाप्रतिहता नेकमन्त्रप्रभावाविर्भूतेन प्रदक्षिणीक्रियम्णम्, अरुणताभरससुकुमारतरतलस्य पादयुगलस्य निर्मलैनैखमयूखजालकैर्जर्जरयन्तमिव महानिघानोद्धरणरसेन रसातलम्, तोयक्षालितशुचिना शौतपादुकायुगले हंसमिथुनेनेव भाघीरथीतीर्थयात्रापरिचयागतेनामुच्छमानचरणान्तिकम्, शिखर निखातकुब्जकालायसकण्टकेन वैणवेन विशाखिकादण्डेन सर्वविद्यययासिद्धिविघ्नविनायकापनयनाङ्कुशेनेव सततपार्श्ववर्तिना विराजमानम्, अबहुभाषिणं मन्दहासिनं सर्वोपकारिणं कुमारब्रह्नचारिणम्, अतितपस्विनम्, महामनस्विनं सृतक्रोधन्, अकृशानुरोधम्, महानगरमिवादीनप्रकृतिशोभितम्, मेरुमिव कल्पतरुपच्चवराशिसुकुमारच्छायम्, कैलासमिव पशुपतिचरणरजःपवित्रितशिरसम्, शिवलोकमिव माहेश्वरगणानुयातम्, जलनिधिमिवानेकनदनदीसहस्रप्रक्षालितशरीरम्, जाङ्नवीप्रवाहमिव बहु पुण्यतीर्थस्थानशूचिम्, धाम धर्मस्य, तीर्थं तथ्यस्य, कोशं कुशलस्य, पत्तनं पूततायाः शाला शोलस्य, क्षेत्रं क्षमायाः शालेयं शलीनतायाः, पत्तनं पूततायाः, शाला शोलस्य, क्षेत्रं क्षमायाः शालेयं शालीनतायाः, स्थानं स्थितेः, आधारं धृतेः आकरं करुणायाः, निकेतन कौतुकस्य, आरामं रामणेयकम्य, पासादं प्रसादस्य, आगारं गौरवस्य, समाज सौजन्यस्य, संभवं सद्भावस्य, कालं कलेः, भगवन्तं सक्षादिव विरूपाक्षं भैरवाचार्यं ददर्श ।
भैरवाचार्यस्तु दूरादेव राजानं दृष्ट्वा शशिनमिव जलनिधिश्चचाल ।
प्रथमतरोत्थितशिष्यलोकश्चोत्थाय प्रत्युज्जगाम ।
समर्पितश्रीफलोपायनश्चजह्नुकर्णसमुद्गीर्यमाणगङ्गाप्रवाहह्रदगम्भीरया गिरा स्वस्तिशब्दमकरोत् ।
नरपतिरपि प्रीतिविस्तार्यमाणधवलिम्ना चक्षुषा प्रत्यर्पयन्निव बहुतराणि पुण्डरीकवनानि ललाटपट्टपर्यस्तेन चोदंसुना शिखामणिना महेश्वरप्रसादमिव तृतीयनयनोद्गमेनप्रकाशयन्नावर्जितकण्पल्लवपलायमानमधुकरः शिवसेवासमुन्मूलिताशेषपापलवमुच्यमान इव दूरादवनतः प्रणाममभिनवं चकार ।
आचार्योऽपि--"आगच्छ अत्रोपविशऽ इति शार्दूलचर्मात्मीयमदर्शयत् ।
उपदर्शितप्रश्रयस्तु राजा मत्तहसकलगद्गदस्वरसुभगां मधुरसमयीं महानदीमिव प्रवर्तयन्वाचं व्याजहार--"भगवन्! नार्हसि मामन्यनृपस्खलितैः खलीकर्तुं ।
अशेषराजकोपेक्षिताया हतलक्ष्म्याः खल्वयं शीलापराधो द्रविणदौरात्म्यं वा यदेवमाचरति मयि गुरुः ।
अभूमिरयमुपचाराणां ।
अलमतियन्त्रणया ।
दूरस्थितोऽपि मनोरथशिष्योऽयं जनो भवतां ।
माननीयं च गुरुवन्नोल्लङ्घनमर्हति गुरोरासनं ।
आसतां च भवन्त एवात्रऽ इति व्याहृत्या परिजनोपनीते वाससि निषसाद ।
भैरवाचार्योऽपि प्रीत्यानतिक्रमणीयं नृपवचनमनुवर्तमानः पूर्ववत्तदेव व्याघ्राजिनमभजत ।
आसीने च सराजके परिजने शिष्यजने च समुचितमर्ध्यादिकं चक्रे ।
क्रमेण च नृपमाधुर्यहृतान्तःकरणः शशिकरनिकरविमला दशनदीधितीः स्फुरन्तीः शिवभक्तीरिव साक्षाद्द्रशयन्नुवाच-"तात! अतिनम्रतैव ते कथयति गुणानां गौरवं ।
सकलसंपत्पात्रमसि ।
विभवानुरूपास्तु प्रतिपत्तयः ।
जन्मनः प्रभत्यदत्तदृष्टिरेवास्मि स्वापतेयेषु ।
यतः सकलदोषकलापानलेन्धनैर्धनैरविक्रीतं क्वचिञ्च्छरीरकमस्ति ।
भैक्षरक्षिताः सन्ति प्राणाः ।
दुर्गृहीतानि कतिचिद्विद्यन्ते विद्याक्षराणि ।
भगवच्छिवभट्टारकपादसेवया समुपार्जिताः कियत्योऽपि संनिहिताः पुण्यकणिकाः ।
स्वीक्रियतां यदत्रोपयोगार्हं ।
प्रतनुगुणग्राह्याणि कुसुमानीव हि भवन्ति सतां मनांसि ।
अपि च, विद्बत्संमताः श्रूयमाणा अपि साधवः शब्दा इव सुधोरेऽपि हि मनसि यशांसि कुवंन्ति ।
विवरं विशतः कुतूहलस्य फेनधवर्लः स्रोतोभिरिवापह्रियमाणो गुणगणैरानोतोऽस्मि कल्याणिनाऽ इति ।
राजा तु तं प्रत्यवादीत्--"भगवन्! अनुरक्तेष्वपि शरीरादिष साधूनां स्वामिन एव प्रणयिनः ।
युष्मद्दर्शनादुपार्जितमेव चापरिमितं कुशलजातं ।
अनेनैवागमनेन स्पृहणीयं पदमारोपितोऽस्मि गुरुणाऽ इति विविधाभिश्च कथाभिश्चिरं स्थित्वा गृहमगात् ।
अन्यस्मिन्दिवसे भैरवाचार्योऽपि राजानं द्रष्टुं ययौ ।
तस्मै च राजा सान्तःपुरं सपरिजनं सकोषमात्मानं निवेदितवान् ।
स च विहस्यावाच--"तात! क्व विभवाः, क्व च वयं वनवर्धिताः? धनोष्मणा म्लायत्यलं लतेव मनस्विता ।
खद्योतानामिवास्माकमियमपरोपतापिनी राजते तेजस्विता ।
भवादृशा एव भाजनं भूतेःऽ इति स्थित्वा च कञ्चित्कालं जगाम ।
परिव्राट्तेनैव क्रमेण पञ्च पञ्च राजतानि पुण्डरीकाण्युपायनीचकार ।
एकदा तु श्वेतकर्पटावृतं किमप्यादाय प्राविशत् ।
उपविश्य च पूर्ववत्स्थित्वा मुहूर्तमब्रवीत्--"महाभाग! भवन्तमाह भगवान्यथास्मच्छिष्यः पातालस्वामिनामा ब्राह्नणः ।
तेन ब्रह्नराक्षसहस्तादपहृतो महासिरट्टहासनामा ।
सोऽयं भवद्भुजयोग्यो गृह्यताम्ऽ इत्यभिधायापहृतकर्पटावच्छादनात्परिवारादाचकर्ष शरद्गगनतलमिव पिण्डतां नीतम्, कालिन्दीप्रवाहमिव स्तम्भितजलम्, नन्दकजिगीषया कृष्णकोपितं कालियमिव कृपामतां गतम्, लोकविनाशाय प्रकाशितधारासारं प्रलयकालमेघखण्डमिव नभस्तलात्पतितम्, दृश्यमानविकटदन्तमण्डलं हासमिव हिंसायाः, हरिबाहुदण्डमिव कृतदृढमुष्टिग्रहम्, सकलभुवनजीवितापहरणक्षमेण कालकूटेनेव निर्मितम्, कृतान्तकोपानलतप्तेनेवायसा घटितम्, अतितीक्ष्णतया पवनस्पर्शेनापि रुषेव क्वणन्तं मणिसभाकुट्टिमपतत्प्रतिबिम्बच्चझनात्मानमपि द्विधेव पाटयन्तम्, अरिशिरश्छेदलग्नैः कचैरिव किरणैः करालितधारम्, मुहुर्मुहुस्तडिदुन्मेषतरलैः प्रभाचक्रच्छुरितैर्जर्जरितातपम्, खण्डशश्छिन्दन्तमिव दिवसम्, कटाक्षमिव कालरात्रेः, कर्णोत्पलमिव कालस्य, ओङ्कारमिव क्रौयस्य अलकारमहङ्कारस्य, कुलमित्रं कोपस्य, देहं दर्पस्य, सुसहायं साहसस्य, अपत्यं मृत्योः, आगमनमार्गं लक्ष्म्याः, निर्गमनमार्गं कीर्तेः, कृपाणं ।
अवनिपतिस्तु तं गृहीत्वा करेणायुधप्रीत्या प्रतिमानिभेनालिह्गन्निव सुचिरं ददर्श ।
संदिदेश च-"वक्तव्यो भगवान्परद्रव्यग्रहणावज्ञादुर्विदग्धमपि हि मे मनो युष्मद्विषये न शक्नोति वचनव्यतिक्रमव्यभिचारमाचरितुम्ऽ इति ।
परिब्राट्तु गृहीते तस्मिन्परितुष्टः "स्वस्ति भवते ।
साधयामःऽ इत्युक्त्वा निरयासीत् ।
नृपश्च प्रकृत्या वीररसानुरागी तेन कृपाणेनामन्यत करतलवर्तिनी मेदिनीं ।
अथ बजत्सु दिवसेष्वकदा भैरवाचार्यो राजानमुपङ्वरे सोपग्रहमवादीत्--"तात! स्वार्थालसाः परोपकारदक्षाश्च प्रकृतयो भवन्ति भव्यानां ।
भवादृशां चार्थिदर्शनं महोत्सवः प्रणयनमाराधनमर्थग्रहणमुपकारः ।
भूमिरसि सर्वलोकमनोरथानां ।
येनाभिधीयसे ।
श्रूयतां ।
भगवतो महाकालहृदयनाम्नो महामन्त्रस्य कृष्णस्रगम्बरानुलेपनेनाकल्पेन कल्पकथितेन महाश्मशाने जपकोट्या कृतपूर्वसेवोऽस्मि ।
तस्य च वेतालसाधनावसाना सिद्धिः ।
असहायैश्च सा दुरवापा ।
त्वं चालमस्मै कर्मणे ।
त्वयि च गृहीतभरे भविष्यन्त्यपरे सहायास्त्रयः ।
एकः स एवास्माकं टाटिभनामा बालमित्रं मस्करी यो भवन्तमुपतिष्ठते ।
द्वितीयः स पातालस्वामी ।
अपरो मच्छिष्य एव कणतालनामा द्राविडः ।
यदि साधु मन्यसे ततो नीयतामयं दिङ्नागहस्तदीर्घो गृहीताट्टहासो निशामेकामेकदिङ्मुखार्गलतां बाहुः ।
ऽ इति कृतवचसि च तस्मिन्नन्धकारप्रविष्ट इव दृष्टप्रकाशः प्राप्तोपकारादकाशः प्रमुदितेनान्तरात्मना नरेन्द्रः समभाषत--"भगवन्! परमनुगृहीतोऽस्म्यनेन शिष्यजनसामान्येन निदेशेन कृतपरिग्रहमिवात्मानमवैमिऽ इति ।
ननन्द च तेन नरेन्द्रव्याहृतेन भैरवाचार्यः ।
चकार च संकेतम्--"अस्यामेवागामिन्यामसितपक्षचतुर्दशीक्षणयामियत्यां बेलायाममुष्मिन्महाश्मशानसमीपभाजि शून्यायतने शस्त्रद्वितीयेनायुष्मता द्रष्टव्या वयम्ऽ इति ।
अथातिक्रान्तेष्वहःसु प्राप्तायां च तस्यामेव कृष्णचतुर्दश्यां शैवेन विधिना दीक्षितः क्षितिपो नियमानभूत ।
कृताधिवासं च संपादितगन्धधूपमाल्यादिपूजं खड्गमट्टहासमकरोत् ।
ततः परिणते दिवसे केनापि कर्मसाधनाय कृतरुधिरबलिविधानास्विव लोहितायमानासु दिक्षु रुधिरबलिलम्पटासु च बेलालजिह्वास्विव लम्बमानासु च रविदीधितिषु, नरेन्द्रानुरागेण गृहीतापरदिशि स्वयमिव दिक्पालतां चिकीर्षति सवितरि, यातुधानीष्विव वर्धमानासु तरुच्छाया, पातालतलवासिषु विघ्नाय दानवेष्विवोत्तिष्ठत्सु तम्ॐअण्डलेषु, नभसि पुञ्जीभवति रौद्रं कर्म दिदृक्षमाणा इव नक्षत्रगणे विगाढायां शर्वर्याम्, सुप्तजने निःशब्दस्तिमिते निशीथे, राजा सान्तःपुरं परिजनं वञ्चयित्वा वामकरस्फुरत्सरुर्दक्षिणकरेणोत्खात खड्गमट्टहासमादाय विसर्पता च खड्गप्रभापटलेन नीलांशुकपटेनेव दर्शनभयादवगुण्ठितनिखिलगात्रयप्टिरनादिष्टयाप्यनुगम्यमानो राजलक्ष्म्या पृष्ठतः परिमललग्नमधुकरवेणिव्याजेन केशेष्विव कर्मसिद्धिमाकर्षन्नेकाकी नगरान्निरगात् ।
अगाच्च तमुद्देशं ।
अथ प्रत्युपजग्मुस्ते त्रयोऽपि द्रौणिकृपकृतवर्माण इव सौप्तिके संनद्धाः स्नाताः स्रग्विणो गृहीतविकटवेषाः, कुसुमशेखरसंचारिभिः क्रियमाणमन्त्रशिखाबन्धा इव गुञ्जद्भिः षटचरणेरुष्णीषपट्टकांल्ललाटमध्यघटितविकटस्वस्तिकाग्रन्थीन्महामुद्राबन्धानिव धारयन्तो मूर्धबिः एकश्रवणविवरविततविमलदन्तपत्रप्रभालोकलेपधवलिततकपोलैर्मुखैरापिबन्त इव निशाचरापचयचिकीर्षया शार्वरमन्धकारम्, इतरकर्णावलम्बिनां रत्नकुण्डलानामच्छया रुचा गोरोचनयेव मन्त्रपरिजप्तया समालब्धाङ्गाः, स्वप्रतिबिम्बगर्भान्कर्मसिद्धये दत्तपुरुषोपहारानिवोल्लासयन्तो निशितान्निस्त्रिंशान्, निस्त्रिंशांशुसंतानसीमान्तततिभिरामात्मीयात्मीयदिग्विभागसंरक्षणाय त्रिधेव त्रियामां पाटयन्तः सार्धचन्द्रैः कलधौतबुद्बुदावलितरलतारागणैर्निशाया इव पुरषासिदारानिकृत्तैः खण्डैर्गृहीतैश्चमफलकैरकाण्डशर्वरीमपरां घटयन्तः, काञ्चनशृंङ्खलाकलापनियमितनिबिडनिष्परवाणयः, बद्धासिधेनवः, टीटिभकर्णतालपातालस्वामिनो निवेदितवन्तश्चात्मानं ।
अवनिपतिस्तु--"कोऽत्र कः?ऽ इति त्रीनपृच्छत् ।
आच्चक्षिरे च स्वं स्व नाम त्रयोऽपि ते ।
तैरेव चानुगम्यमानो जगाम तां बलिदीपा लोकजर्जरितगुग्गुलुधूपधूमगृह्यमाणदिग्विभागतया विक्षिप्यमाणरक्षासर्षपार्धदग्धान्धकारपलायमाननिशामिव समुपकल्पितसर्वोपकरणां निःशब्दां च गम्भीरां च भीषणां च साधनभूमिं ।
तस्यां च कुमुदधूलिधवलेन भस्मना लिखितस्य महतो मण्डलस्य मध्ये स्थितं दीप्ततरतेजःप्रसरम्, पृथुपरिवेशपरिक्षिप्तमिव शरत्सवितारम्, मथ्यमानक्षीरोदावर्त्तवर्तिनमिव मन्दरम्, रक्तचन्दनानुलेपिनो रक्तस्रगम्बराभरणस्योत्तानशयस्य शवस्योरस्युपविश्य जातजातवेदसि मुखकुहरे प्रारब्धाग्निकार्यम्, कृष्णोष्णीषम्, कृष्णाङ्गरागम्, कृष्णप्रतिसरम्, कृष्णवाससम्, कृष्णतिलाहुतिनिभेन विद्याधरत्वतृष्णया मानुषनिमणिकारणकालुष्यपरमाणूनिव क्षयमुपनयन्तम्, आहुतिदानपर्यस्ताभिः प्रेतमुखस्पर्शदूषितं प्रक्षालयन्तमिवाशुशुक्षणिं करनखदीधितिभिः, धूमालोहितेन चक्षुषा क्षतजाहुतिमिव हुतभुजि पातयन्तर्म्, इषद्विवृताधरपुटप्रकटितसितदसनशिखरेण दृश्यमानमूतंमन्त्राक्षरपङ्क्तिनेव मुखेन किमपि जपन्तम्, ह्ॐअश्रमस्वेदसलिलप्रतिबिम्बिताभिरासन्नदीपिकाभिर्दहन्तमिव कर्मसिद्धये सर्वावयवान्, अंसावलम्बिना बहुगुणेन विद्याराजेनेव ब्रह्नसूत्रण परिगृहीतं भैरवाचार्यमपश्यत् ।
उपसृत्य चाकरोन्नमस्कारं ।
अभिनन्दितश्च तेन स्वव्यापारमन्वतिष्ठत् ।
अत्रान्तरे पातालस्वामी शातक्रतवीमाशामह्गीचकार, कर्णतालः कोबेरीम्परिव्राट्प्राचेतसीं ।
राजा तु त्रैशङ्कवेन ज्योतिषाङ्कितां ककुभमलङ्कृतवान् ।
एवं चावस्थितेषु दिक्पालेषु दिक्पालभुजपञ्जरप्रविष्टे विस्रब्धं कर्म साधयति भैरवं भैरवाचार्येऽतिचिरं च कृतकोलाहलेषु निष्फलप्रयत्नषु प्रत्यूहकारिषु शान्तेषु कौणपेषु गलत्यर्धरात्रसमये मण्डलस्य नातिदवीयस्युत्तरेणाकस्मादेव प्रलयमहावराहदंष्ट्राविवरमिव दर्शयन्ती क्षितिरदीर्यत ।
सहसैव च यस्माद्विवरादाशावारणोत्क्षिप्त इवालानलोहस्तम्भः, महावराहपीवरस्कन्धपीठो नरकासुर इव भुवो गर्भादुद्भूतो बलिदानव इव भित्वोत्थितः पातालम्, इन्द्रनीलप्रासाद इवोपरिज्वलितरत्नप्रदीपः, स्निग्धनीलघननिबिडकुटिलकुन्तलकान्तमौलिरुन्मीलन्मालतीमुण्डमालः, गद्गदतया स्वरस्य स्वभावपाटलतया च चक्षुषः क्षीब इव यौवनमदेन वल्गद्गलदामकः, करसंपुटमृदितया मृदा दिङ्नागकुम्भाभावंसकूटौपुनःपुनः परिपङ्कयन्सान्द्रचन्दनकर्दमदत्तैरव्यवस्थास्थासकैरतिसितजलधरशकलशारित इव शारदाकाशैकदेशः, केतकीगर्भपत्रपाण्डुरस्य चण्डातकस्योपरि क्षामतरीकृतकुक्षिः, कज्ञ्याबन्धं विधाय विलासविक्षिप्तेन धवलव्यायामफालीपटान्तेन धरणितलगतेन धार्यमाण इव पृष्ठतः शेपेण, स्थिरस्थूलोरुदण्डः, भूमिभङ्गभयेनेव मन्थराणि स्थापयन्पदानि निर्भरगर्वगुरु कथमपि शैलमिव गात्रमुद्वहन्दर्पेण मुहुर्मुहुरुरसि द्विगुणिते दोष्णि वामे तिर्यगुत्क्षिप्ते च दक्षिणे जङ्घाकाण्डे कुण्डलिते च चण्डास्फोटनटाङ्कारैः कर्णविघ्ननिर्घातानिव पातयन्नेकेन्द्रियविकलमिव जीवलोकं कुर्वन्कुवलयश्यामलः पुरुष उज्जगाम जगाद च विहस्य नरसिंहनादनिर्घोषघोरया भारत्या--"भो विद्याधरोश्रद्धाकामुक! किमयं "वद्यावलेपः सहायमदो वा यदस्मै जनायाविधाय बलिं बालिश इव सिद्धिमभिलषसि? का ते दुर्बुद्धिरियम्? एतावता कालेन क्षेत्राधिपतिरस्य मन्नाम्नैव लब्धव्यपदेशस्य देशस्य नागतस्ते श्रोत्रोपकण्ठं श्रीकण्ठनामा नागोऽहम्? अनिच्छति मयि का शक्तिर्ग्रहणस्यापि गन्तुं गगने ।
भूनाथोऽप्ययमनाथस्तपस्वी यस्त्वादृशैः शैवापसदैरुपकरणीक्रियते ।
सहस्वेदानीं सहामुना दुर्नरेन्द्रेण दुर्नयस्य फलम्ऽ इत्यभिधाय च निष्ठुरैः प्रकोष्ठप्रहारैस्त्रीनपि टीटिभप्रभृतीनभिमुखं प्रधावितान्सशरीरावरणकृपाणानपातयत् ।
अथापूर्वाधिक्षेपश्रवणादशस्त्रव्रणैरप्यमर्षस्वेदच्छलेनानेकसमरपीतमसिधाराजलमिव वमद्भिरवयवैरपि र्ॐआञ्चनिबेन मुक्तशरशतशल्यनिकरभरलघुमिवात्मानं रणाय कुर्वद्भिरट्टहासेनापि प्रतिबिम्बिततारागर्णन स्पष्टदृष्टधवलदन्तमालामवज्ञया हसतव कथ्यमानसत्वावष्टम्भः परिकरबन्धविब्रमभ्रमितकरनखकिरणचक्रवालेन व्यपगमनाशङ्क्या नागदमनमन्त्रमण्डलबन्धेनेव रुन्धन्दशदिशो नरनाथः सावज्ञमवादीत्--"अरे काकोदर काक! मयि स्थिते राजहंसे न जिह्रेषि बलिं याचितुम्? अमीभिः किं वा परुषभाषितैः? भुजे वीर्यं निवसति, न वाचि ।
प्रतिपद्यस्व शस्त्रं ।
अयं न भवसि ।
अगृहीतहेतिष्वशिक्षितो मे भुजः प्रहर्तुम्ऽ इति ।
नागस्त्वनादृततरम्--"एहि, किं शस्त्रेण? भुजाभ्यामेवभनजज्मि भवतो दर्पम्ऽ इत्यभिधायास्फोटयामास ।
नरपतिरपि निरायुधमायुधेन युधि लज्जमानो जेतुमुत्सृज्य सचर्मफलकमट्टहासमसिमर्धोरुक्सयोपरि बबन्ध बाहुयुद्धाय कक्ष्यां ।
युयुधाते च निर्दयास्फोटनस्फुटितभुजरुधिरशीकरसिच्यमानौ शिलास्तम्भैरिव पतद्भिर्बाहुदण्डैः शब्दमयमिव कुर्वाणौ भुवनं तौ ।
न चिराच्च पातयामाय भूतले भुजङ्गमं भूपतिः ।
जग्राह च केशेषु ।
उच्चखान च शिरश्छेत्तुमट्टहासं ।
अपश्यच्च वैकक्षकमालान्तरेणास्य यज्ञोपवीतं ।
उपसंहृतशस्त्रव्यापारश्चावादीत्--दुर्विनीत! अस्ति ते दुर्नयनिर्वाहबीजमिदं ।
यतो विश्रब्धमेवाचरसि चापलानिऽ इत्युक्त्वोत्ससर्ज च तं ।
अनन्तरं च सहसैवातिबहलां ज्योत्स्नां ददर्श ।
शरदि विकसतां कमलवनानामिव च घ्राणावलेपिनमामोदमजिघ्रत् ।
झटिति च नूपुरशब्दमशृणोत् ।
व्यापारयामास च शब्दानुसारेण दृष्टिं ।
अथ करतलस्थितस्याट्टहासस्य मध्ये तडितमिव नीलजलधरोदरे स्फुरन्तीं प्रभया पिबन्तीमिव त्रियामाम्, तामरसहस्ताम्, क्ॐअलाङ्गुलिरागराजिजालकानि च चरणलग्नानि वेलाबालविद्रुमलतावनानीवाकर्षन्तीम्, करपङ्कजसंकोचाशङ्कया शशाङ्कमण्डलमिव खण्डशः कृतं निर्मलचरणनखनिवहनिभेन बिभ्रतीम्, गुल्फावलम्बिनूपुरपुटतया स्थितनिबिडकटकावलिबन्धनादिव परिभ्रश्यागताम्, बहुविधकुसुमशकुनिशतशोभितात्पवनचलिततनुतरङ्गादतिस्वच्छादंशुकादुदधिसलिलादिवोत्तरन्तीम्, उदधिजन्मप्रेम्णा त्रिवलिच्छलेन त्रिपथगयेव परिष्वक्तमध्याम्, अत्युन्नतस्तनमण्डलाम्, दृश्यमानदिङ्नागकुम्भामिव ककुभम्, मदलग्नैरावतकरशीकरनिकरमिव शरत्तारागणतारं हारमुरसा दधानाम्, धवलचामरैरिव च मन्दमन्दनिःश्वासदोलायितैर्हारकिरणैरुपवीज्यमानाम्, स्वभावलोहितेन मदान्धगन्धेभकुम्भास्फालनसंक्रान्तसिन्दूरेणेन करद्वयेन द्योतमानाम्, हरशिखण्डेन्दुद्वितीयखण्डेनेव कुण्डलीकृतेन ज्योत्स्नामुचा दन्तपत्रेण विभ्राजमानाम्, कौस्तुभगभस्तिस्तबकेनेव च श्रवणलग्नेनाशोककिसलयेनालङ्कृताम्, महता मत्तमातङ्गमदमयेन तिलकेनादृश्यच्छत्रच्छायामण्डलसेनेवाविरहितललाटाम्, आपादतलादासीमन्ताच्च चन्द्रातपधवलेन चन्दनेनादिराजयशसेव धवलीकृताम्, धरणितलचुम्बिनीबिः कण्ठकुसुममालाभिः सरिद्भिरिव सागराधिष्ठात्रीभिरधिष्ठिताम्, मृणालक्ॐअलैरवयवैः कमलसंभवत्वमनक्षरमाचक्षाणा स्त्रियमपश्यत् ।
असंभ्रान्तश्च पप्रच्छ--"भद्रे! कासि, किमर्थं वा दर्शनपथमागतासि?ऽ इति ।
सा तु स्त्रीजनविरुद्धेनावष्टेम्भेनाभिवन्तीवाभाषत तम्--"वीर! विद्धि मां नारायणोरःस्थलीलीलाविहारहरिणीम्, पृथुभरतभगीरथादिराजवंशपताकाम्, सुभटभुजजयस्तम्भविलासशालभञ्जिकाम्, रणरुधिरतरङ्गिणोतरङ्गक्रीडादोहददुर्ललितराजहंसीम्, सितनृपच्छत्रषण्डशिखण्डिनीम्, अतिनिशितशस्त्रधारावनभ्रमणविभ्रमसिंहीम्, असिधाराजलकमलिनीं श्रियं ।
अपहृतास्मि तवामुना शौर्यरसेन ।
याचस्व ।
ददामि ते वरमभिरषितम्ऽ इति ।
वीराणां त्वपुनरुक्ताः परोपकाराः यतो राजा तां प्रणम्य स्वार्थविमुखो भैरवाचार्यस्य सिद्धिं ययाचे ।
लक्ष्मीस्तु देवी प्रीततरहृदया विस्तीर्यमाणेन चक्षुषा क्षीरोदेनेवोपरि पर्यस्तेनाभिषिञ्चन्ती भूपालं "एवमस्तुऽ इत्यब्रवीत् ।
अवादीच्च पुनः--"अनेन सत्त्वोत्कर्षेण भगवच्छिवभट्टारकभक्त्या चासाधारणया भवान्भुवि सूर्याचन्द्रमसोस्तृतीय इवाविच्छिन्नस्य प्रतिदिनमुपचीयमानवृद्धेः शुचिसुभगमान्यसत्यत्यागशौर्यशौण्डपुरुषप्रकाण्डप्रायस्य महतो राजवंशस्य कर्ता भविष्यति ।
यस्मिन्नुत्पत्स्यते सर्वद्वीपानां भोक्ता हरिश्चन्द्र इव हर्षनामा चक्रवर्ती त्रिभुवनविजिगीषुर्द्वितीयो मान्धातेव यस्यायं करः स्वयमेव कमलमपहाय ग्रीहष्यति चामरम्ऽ इति वचसोऽन्ते तिरोबभूव ।
भूमिपालस्तु तदाकर्ण्य हृदयेनातिमात्रमप्रीयत ।
भैरवाचार्योऽपि तस्या देव्यास्तेन वचसा कर्मणा च सम्यगुपपादितेन सद्य एव कुन्तलो किरीटी कुण्डली हारी केयूरी मेखली मुद्गरी खढ्गी च भूत्वावाप विद्याधरत्वं ।
प्रोवाच च--"राजन्! अदूर्वयापिनः फल्गुचेतसामलसानां मनोरथाः ।
सतां तु भुवि विस्तारवत्यः स्वभावेनैवोपकृतयः ।
स्वप्नेऽप्यसंबावितां दातुमिमां दक्षिणां क्षमः कोऽन्यो भवन्तमपहाय ।
संपत्कणिकामपि प्राप्य तुलेव लघुप्रकृतिरुन्नतिमायाति ।
त्वदोयैर्गुणैरुपकरणीकृतस्य त्वत्त एव च लब्धात्मलाभस्य निर्लज्जते यमस्य मूढहृदयस्य ।
तदिच्छामि येन केनचित्कार्यलवोपपादनोपयोगेन स्मरयितुमात्मानम्ऽ इति ।
प्रत्युपकारदुष्प्रवेशास्तु भवन्ति धीराणां हृदयावष्टम्भाः ।
यतस्तं राजा "भवत्सिद्धयैव परिसमाप्तकृत्योऽस्मि ।
साधयतु मान्यो यथासमीहितं स्थानम्ऽ इति प्रत्याचचक्षे ।
तथोक्तश्च भूभुजा जिगमिषुः सुदृढं समालिङ्ग्य टीटिभादीन्कुवलयवनेनेवाश्यायशीकरस्राविणा सास्रेण चक्षुषा वोक्षमाणः क्षितिपतिं पुनरुवाच--"तात! ब्रवीमि यामीति न स्नेहसदृशं ।
त्वदीयाः प्राणा इति पुनरुक्तं ।
गृह्यतामिदं शरीरकमिति व्यतिरेकेणार्थकरणं ।
तिलशः क्रीता वयमिति नोपकारानुरूपं ।
बान्धवोऽसीति दूरीकरणमिव ।
त्वयि स्थितं हृदयमित्यप्रत्यक्षं ।
त्वद्विरहानुकारिणी कारणेयं न सिद्विरित्यश्रद्धेयं ।
निष्कारणस्तवोपकार इत्यनुवादः ।
स्मर्तव्या वयमित्याज्ञा ।
सर्वथा कृतघ्नालापेष्वसज्जनकथासु च चेतसि कर्तव्योऽयं स्वार्थनिष्ठुरो जनःऽ इत्यभिधाय वेगच्छिन्नहारोच्छलितमुक्ताफलनिकरताडिततारागणं गगनतलमुत्पपात ।
ययौ च सीमन्तितग्रहग्रामः सिद्ध्युचितं धाम ।
श्रीकण्ठोऽपि--"राजन्! पराक्रमक्रीतः कर्तव्येषु नियोगेनानुग्राह्यो ग्राहितविनयोऽयं जनःऽ इत्यभिधाय राजानुमोदितस्तदेव भूयो भूविवरं विवेश ।
नरपतिस्तु क्षीणभूयिष्ठायां क्षपायां, प्रवातुमारब्धे प्रबुध्यमानकमलिनीनिःश्वाससुरभौ, वनदेवताकुचांशुकापहरणपरिहासस्वेदिनीव सावश्यायशीकरे परिमलाकृष्टमधुकृति कुमुदनिद्रावाहिनि निशापरिणतिजडे तुषारलेशिनि वनानिले, विरहविधुरचक्रवाकचक्रनिःश्वसितसंतापितायामिवापरजलनिधिमवतरन्त्यां त्रियामायां, साक्षादागतलक्ष्मीविलोकनकुतूहलिनीष्विव समुन्मीलन्तीषु नलिनीषु, उन्निद्रपक्षिणि क्षरति कुसुमविसरमिव तुहिनकणनिकरं मृदुपवनलासितलते कानने, कमललक्ष्मीप्रबोधमङ्गलशङ्खेष्विव रसत्स्वन्तर्बद्धध्वनन्मधुकरेषु मकुलायमानेषु कुमुदेषु, उज्जिहानरविरथवाजिविसृष्टैः प्रोथपटुपवनैः प्रोत्सायमाणास्विव वारुण्यां ककुभि पुञ्जीभवन्तीषु श्यामालताकलिकासु तारकासु, मन्दरशिखराश्रयिणि मन्दानिललुलितकल्पलतावनकुसुमधूलिविच्छुरित इव धूसरीभवति सप्तर्षिमण्डले, सुरवारणाङ्कुश इव च्युते गलति तारामये मृगे त्रीनपि टीटिभादीन्गृहीत्वा नागयुद्धव्यतिकरमलीमसानि शुचिनि वनवापीपयसि प्रक्षाल्याङ्गानि नगरं विवेश ।
अन्यस्मिन्नहनि तेषामात्मशरीरानन्तरं स्नानभोजनाच्छादनादिना प्रीतिकमरोत् ।
कतिपयदिवसापगमे च पिरव्राड्भूभुजा वार्यमाणोऽपि वनं ययौ ।
पातालस्वामिकर्णतालौ तु शौर्यानुरक्तौ तमेव सिषेवाते ।
संपादितमनोरथातिरिक्तविभवौ च सुभटमण्डलमध्ये निष्कृष्टमण्डलाग्रौ समरमुखेषु प्रथममुपयुज्यमानौ कथान्तरेषु चान्तरान्तरा समादिष्टो विचित्राणि भैरवाचार्यचरितानि शैशववृत्तान्तांश्च कथयन्तौ तेनैव सार्धं जरामाजग्मतुरिति ।


इति महाकविश्रीबाणभट्टकृते हर्षचरिते राजदर्शनं नाम दृतीय उच्छ्वासः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:20.7870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

whalebone

  • तिमि अस्थि 
RANDOM WORD

Did you know?

हिंदू धर्मात मुलाचे जावळ काढतात परंतु मुलीचे का काढत नाहीत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site