TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

हर्षचरितम्‌ - प्रथम उच्छ्वासः

हर्षचरित संस्कृत में बाणबट्ट द्वारा रचित एक ग्रन्थ है। इसमें भारतीय सम्राट हर्ष का जीवनचरित वर्णित है।


प्रथम उच्छ्वासः
नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे  ।
त्रैलोक्यनगरारम्भमूलस्तम्भाय शम्भवे ॥१.१॥

हरकण्ठग्रहानन्दमीलिताक्षी नमाम्युमां ।
कालकूटविषस्पर्शजातमूर्च्छागमामिव ॥१.२॥

नमः सर्वविदे तस्मै व्यासाय कविवेधसे  ।
चक्रे पुण्यं सरस्वत्या यो वर्षमिव भारतं॥ १.३॥

प्रायः कुकवयो लोके रागाधिष्ठितदृष्टयः  ।
कोकिला इव जायन्ते वाचालाः कामकारिणः ॥१.४॥

सन्तिश्वान इवासंख्या जातिभाजो गृहे-गृहे  ।
उत्पादका न बहवः कवयः शरभा इव ॥१.५॥

अन्यवर्णपरावृत्त्या बन्धचिह्ननिगूहनैः  ।
अनाख्याताः सतां मध्ये कविश्चौरो विभाव्यते ॥१.६॥

श्लेषप्रायमुदीच्येषु प्रतीच्येष्वर्थमात्रकं ।
उत्प्रेक्षा दाक्षिणात्येषु गौडेष्वक्षरडेम्बरं॥ १.७॥

नवोर्ऽथो जातिरग्राम्या श्लेषोऽक्लिष्टः स्फुटो रसः  ।
विकटाक्षरबन्धश्च कृत्स्नमेकत्र दुष्करं॥ १.८॥

किं कवेस्तस्य काव्येन सर्ववृत्तान्तगामिनी  ।
कथेव भारती यस्य न व्याप्नोति जगत्त्रयं॥ १.९॥

उच्छ्वासान्तेऽप्यखिन्नास्ते येषां वक्त्रे सरस्वती  ।
कथमाख्यायिकाकारा न ते वन्द्यः कवीश्वराः ॥१.१०॥

कवीनामगलद्दर्पो नूनं वासवदत्तया  ।
शक्त्येव पाण्डुपुत्राणां गतया कर्णगोचरं॥ १.११॥

पदबन्धोज्ज्वलो हारी कृतवर्णक्रमस्थितिः  ।
भट्टारहरिश्चन्द्रस्य गद्यबन्धो नृपायते ॥१.१२॥

अविनाशिनमग्राम्यमकरोत्सातवाहनः  ।
विशुद्धजातिभिः कोशं रत्नैरिव सुभाषितैः ॥१.१३॥

कीर्तिः प्रवरसेनस्य प्रयाता कुमुदोज्ज्वला  ।
सागरस्य परं पारं कपिसेनैव सेतुना ॥१.१४॥

सूत्रधारकृतारम्भैर्नाटकैर्बहुर्भूमिकैः  ।
सपताकैर्यशो लेभे भासो देवकुलैरिव ॥१.१५॥

निर्गतासु न वा कस्य कालिदासस्य सूक्तिषु  ।
प्रीतिर्मधुरसान्द्रासु मञ्जरीष्विव जायते ॥१.१६॥

समुद्दीपितकन्दर्पा कृतगौरीप्रसाधना  ।
हरलीलेव नो कस्य विस्मयाय बृहत्कथा ॥१.१७॥

आढ्यराजकृतोत्साहैर्हृदयस्थैः स्मृतैरपि  ।
जिह्वान्तःकृष्यमाणेव न कवित्वे प्रवर्तते ॥१.१८॥

तथापि नृपतेर्भक्त्वा भीतो निर्वहणाकुलः  ।
कर्ॐयाख्यायिकाम्भोधौ जिह्वाप्लवनचापलं॥ १.१९॥

सुखप्रबोधललिता सुवर्णघटंनोज्ज्वलैः  ।
शब्दैराक्यायिका भाति शय्येव प्रतिपादकैः ॥१.२०॥
जयति ज्वलत्प्रतापज्वलनप्राकारकृतजगद्रक्षः  ।
सकलप्रणयिमनोरथसिद्धिश्रीपर्वतो हर्षः ॥१.२१॥

एवमनुश्रूयते--पुरा किल भगवान्स्वलोकमधितिष्ठन्परमेष्ठी विकासिनि पझविष्ठरे समुपविष्टः सुनासीरप्रमुखैर्गीर्वाणैः परिवृतो ब्रह्नोद्याः कथाः कुर्वन्नन्याश्च निरवद्या विद्यागोष्ठीर्भावयन्कदाचिदासाञ्चक्रे ।
तथासीनं च तं त्रिभुवनप्रतीक्ष्यं मनुदक्षचाक्षुषप्रभृतयः प्रजापतयः सर्वे च सप्तर्षिपुरःसरा महर्षयः सिषेविरे ।
केचिदृचः स्तुतिचतुराः समुदचारयन् ।
केचिदपचितिभाञ्जि यजूंष्यपछन् ।
केचित्प्रशंसासामानि सामानि जगुः ।
अपरे विवृतक्रतुक्रियातन्त्रान्मन्त्रान्व्याचचक्षिरे ।
विद्याविसंवादकृताश्च तत्र तेषामन्योन्यस्य विवादाः प्रादुरभवन् ।
अथातिरोषणः प्रकृत्या महातपा मुनिरत्रेस्तनयस्तारापतेर्भ्रता नाम्ना दुर्वासा द्वितीयेन मन्दपालनाम्ना मुनिना सह कलहायमानः सामगायन्क्रोधान्धो विस्वरमकरोत् ।
सर्वेषु च तेषु शापभयप्रतिपन्नमौनेषु मुनिष्वन्यालापलीलया चावधीरयति कमलसम्भवे, भगवती कुमारी किञ्चिदुन्मुक्तबालभावे भूषितनवयौवने वयसि वर्तमाना, गृहीतचामरप्रचलद्भुजलता पितामहमुपवीजयन्ती, निर्भर्त्सनताजनजातरागाभ्यामिव स्वभावारुणाभ्यां पादपल्लवाभ्यां समुद्भासमाना, शिष्यद्वयेनेव पदक्रममुखरेण नूपुरयुगलेन वाचालितचरणयुगला, धर्मनगरतोरणस्तम्भविभ्रमं बिभ्राणा जङ्घाद्वितयम्, सलीलमुत्कलहंस कुलकलालापप्रलापिनि मेखलादाम्नि विन्यस्तवामहस्तकिसलया, विद्वन्मानसनिवासलग्नेन गुणकलापेनेवांसावलम्बिना ब्रह्नासूत्रेण पवित्रीकृतकाया, भास्वन्मध्यनायकमनेकमुक्तानुयातमपवर्गमार्गमिव हारमुद्वहन्ती, वदनप्रविष्टसर्वविद्यालक्तकरसेनेव पाटलेन स्फुरता दशनच्छदेन विराजमाना, संक्रान्तकमलासनकृष्णाजिनप्रतिमां मधुरगीताकर्णनावतीर्णशशिहरिंणामिव कपोलस्थलीं दधाना, तिर्यक्सावज्ञनुन्नमितकभ्रूलता, श्रोत्रमेकं विस्वरश्रवणकलुषितं प्रक्षालयन्तीवा पाङ्गनिर्गतेन लोचनाश्रुजलप्रवाहेणेतरश्रवणेन च विकसितसितसिन्धु वारमञ्जरीजुषा हसतेव प्रकटितविद्यामदा, श्रुतिप्रणयिभिः प्रणवैरिव कर्णावतंस कुसुममधुकरकुलैरपास्यमाना, सूक्ष्मविमलेन प्रज्ञाप्रतानेनेवांशुकेनाच्छादितशरीरा, वाङ्मयमिव निर्मलं दिक्षु दशनज्योत्स्नालोकं विकिरन्ती देवी सरस्वती श्रुत्वा जहास ।
दृष्ट्वा च तां तथा हसन्तीं स मुनिः "आः पापकारिणि, दुर्गृहीतविद्यालवावलेपदुर्विदग्धे, मामुपहससिऽ इत्युक्त्वा शिरःकम्पशीर्यमाणबन्धविशरारोरुन्मिषत्पिङ्गलिम्नो जटाकलापस्य रोचिषा सिञ्चन्निव रोषदहनद्रवेण दश दिशः, कृतकालसन्निधानामिवान्धकारितललाटपट्टाष्टापदामन्तकान्तः पुरमण्डनपत्रभङ्गमकरिकां भ्रुकुटिमावध्नन्, अतिलोहितेन चक्षुषामर्षदेवतायै स्वरुधिरोपहारमिव प्रयच्छन्, निर्दयदष्टदशनच्छदभयपलायमानामिव वाचं रुन्धन्दन्तांशुच्छलेन, असावस्रंसिनः शापशासनपट्टस्येव ग्रथ्नन्ग्रन्थिमन्यथा कृष्णाजिनस्य, स्वेदकमप्रतिबिम्बितैः शापशङ्काशरणागतरिव सुरासुरमुनिभिः प्रतिपन्नसर्वावयवः, कोपकम्पतरलिताङ्गुलिना करेण प्रसादनलग्नामक्षरमालामिवाक्षमालामाक्षिप्य कामण्डलवेन वारिणा समुपस्पृश्य शापजलं जग्राह ।
अत्रान्तरे स्वयम्भुवोऽभ्याशे समुपविष्टा देवी मूर्तिमती पीयूषफेनपटलपाण्डुरं कल्पद्रुमदुकूलवल्कलं वसाना, विसतन्तुमयेनांशुकेनोन्नतस्तनमध्यबद्धगात्रिकाग्रन्थिः, तपोबलनिर्जितत्रिभुवनजयपताकाभिरिव तिसृभिर्भस्मपुण्ड्रकराजिभिर्विराजितललाटाजिरा, स्कन्धावलम्बिना सुधाफेनधवलेन तपःप्रभावकुण्डलीकृतेन गङ्गास्रीतसेव योगपट्टकेन विरचितवैकक्ष्यका, सव्येन ब्रह्नोत्पत्तिपुण्डरीकमुकुलमिव स्फटिककमण्डलुं करेण कलयन्ती, दक्षिणमक्षमालाकृतपरिक्षेपं कम्बुनिर्मितोर्मिकादन्तुरितं तर्जनतरङ्गिततर्जनीकमुत्क्षिपन्ती करम्, "आः पाप, क्रोधोपहत, दुरात्मन्, अज्ञ, अनात्मन्, अज्ञ, अनात्मज्ञ, ब्रह्नबन्धो, मुनिशेट, अपसद, निराकृत, कथमात्मस्खलितविलक्षः सुरासुरमुनिमनुजवृन्दवन्दनीयां
 त्रिभुवनमातरं भगवतीं सरस्वतीं शप्तुमभिलषसिऽ इत्यभिदधाना, रोषविमुक्तवेत्रासनैरोङ्कारमुखरित मुखेरुत्क्षेप दोलायमानजटाभारभरितदिग्भिः परिकरबन्धभ्रमित कृष्णाजिनाटोपच्छायाश्यामायमानदिवसैरमर्षनिःश्वासदोलाप्रेङ्खोलितब्रह्नलोकैः स्ॐअरसमिव स्वेदविसरव्याजेन स्रवद्भिरग्निहोत्रपवित्रभस्मस्मेरललाटैः कुशतन्तुचामरचीरचीवरिभिराषाढिभिः प्रहरणीकृतकमण्डलुमण्डलैर्मूर्तैश्चतुर्भिर्वेदैः सह बृसीमपहाय सावित्री समुत्तस्थौ ।
ततो "मर्षय भगवन्, अभूमिरेषा शापस्यऽ इत्यनुनाथ्यमानोऽपि विबुधैः, "उपाध्याय ।
स्खलितमेकं क्षमस्वऽ इति बद्धाञ्जलिपुटैः प्रसाद्यमानोऽपि स्वशिष्यैः, "पुत्र, मा कृथास्तपसः प्रत्यूहम्ऽ इति निवार्यमाणोऽप्यत्रिणा, रोषावेशविवशो दुर्वासाः "दुर्विनीते! व्यपनयामि ते विद्यजनितामुन्नतिमिमाम्, अधस्ताद्गच्छ मर्त्यलोकम्ऽ इत्युक्त्वा तच्छा पोदकं विससर्ज ।
प्रतिशापदानोद्यतां सावित्रीं "सखि, संहर रोषम्, असंस्कृतमतयोऽपि जात्यैव द्विजन्मानो माननीयाःऽ इत्यभिदधाना सरस्वत्येव न्यवारयत् ।
अथ तां तथा शप्तां सरस्वतीं दृष्ट्वा पितामहो भगवान्कमलोत्पत्तिलग्नमृणालसूत्रामिव ध्वलयज्ञोपवीतिनीं तनुमुद्रहन्, उद्गच्छदच्छाङ्गुलीयमरकतमयूखलताकलापेन त्रिभुवनोपप्लवप्रशमकुशापीडधारिणेव दक्षिणेन करेण निवार्य शापकलकलम्, अतिविमलदीर्घैर्भाविकृतयुगारम्भसूत्रपातमिव दिक्षु पातयन्दशनकिरणैः सरस्वतीप्रस्थानमङ्गलपटहेनेव पूरयन्नाशाः, स्वरेण सुधीरमुवाच--"ब्रह्नन्, न खलु साधुसेवितोऽयं पन्ता ।
येनासि प्रवृत्तः ।
निहन्त्येष पररतात् ।
उद्दामप्रसृतेन्द्रियाश्वसमुत्थापितं हि रजः कलुषयति दृष्टिमनक्षजितां ।
कियद्दूरं वा चक्षुरीक्षते ।
विशुद्धया हि धिया पश्यन्ति कृतबुद्धयः सर्वानर्थानसतः सतो वा ।
निसर्गविरोधिनी चेयं पयःपावकयोरिव धर्मक्रोधयोरेकत्र वृत्तिः ।
आलोकमपहाय कथं तमसि निमज्जसि! क्षमा हि मूलं सर्वतपसास् ।
परदोषदर्शनदक्षा दृष्टिरिव कुपिता बुद्धिर्न ते आत्मरागदोषं पश्यति ।
क्व महापोभारवैवधिकता, क्व पुरोभागित्वम्? अतिरोषणश्चक्षुष्मानन्ध एव जनः ।
नहिं कोपकलुषिता विमृशति मतिः कर्तव्यमकर्तव्यं वा ।
कुपितस्य प्रथममन्धकारीभवति विद्या, ततो भ्रुकुटिः ।
आदाविन्द्रियाणि रागः समास्कन्दति, चरमं चक्षुः ।
आरम्भे तपो गलति, पश्चात्स्वेदसलिलं ।
पूर्मयसः स्फुरति, अनन्तरमधरः ।
कथं लोकविनाशाय ते विषपादपस्येव जटावल्कलानि जातानि ।
अनुचिता खल्वस्य मुनिवेषस्य हारयष्टिरिव वृत्तमुक्ता चित्तवृत्तिः ।
शैलूष इव वृथा वहसि कृत्रिममुपशमशून्येन चेतसा तापसाकल्पं ।
अल्पमपि न ते पश्यामि कुशलजातं ।
अनेनातिलघिम्नाद्याप्युपर्येव प्लवसे ज्ञानोदन्वतः ।
न खल्वेनहमूका एडा जडा वा सर्वं एते महर्षयः ।
रोषदोषनिषद्ये स्वहृदये निग्राह्ये किमर्थमसि निगृहीतवाननागसां सरस्वतीं ।
एतानि तान्यात्मप्रमादस्खलितवैलक्ष्याणि, यैर्याप्यतां यात्यविदग्धो जनःऽ इत्युक्त्वा पुनराह-- "वत्से सरस्वति, विषादं मा गाः ।
एषा त्वामनुयास्यति सावित्री ।
विनोदयिष्यति चास्मद्विरहदुःखितां ।
आत्मजमुखकमलावलोकनावधिश्च ते शापोऽयं भविष्यतिऽ इति ।
एतावदभिधाये विसर्जितसुरासुरमुनिमनुजमण्डलः ससंभ्रमोपगतनारतस्कन्धविन्यस्यहस्तः समुचिताह्निककरणायोदतिष्ठत् ।
सरस्वत्यपि शप्ता किञ्चिदध्ॐउखी धवलकृष्णशारा कृष्णाजिनलेखामिव दृष्टिमुरसि पातयन्ती सुरभिनिः- श्वासपरिमललग्नैर्मूर्तैः शापाक्षरेरिव षट्चरणचक्रैराकृष्यमाणा शापशोकशिथिलितहस्ताध्ॐउखीभूतेनोपदिव्यमानमर्त्यलोकावततरणमार्गेवनखमयूखजालकेन नूपुरव्याहाराहूतैर्भवनकलहंसकुलैर्ब्रह्नलोकनिवासिहृदयैरिवानुगम्यमाना समं सावित्र्या गृहमगात् ।
अत्रान्तरे सरस्वत्यवतरणवार्तामिव कथयितुं मध्यमं लोकमवततारांशुमाली ।
क्रमेण च मन्दायमाने मुकुलितविसिनीविसरव्यसनविषण्णसरसि वासरे, मधुमदमुदितकामिनीकोपकुटिलकटाक्षक्षिप्यमाण इव क्षेपीयः क्षितिधरशिखरमवतरति तरुणतरकपिलपनलोहिते लोकैकचक्षुषि भगवति, प्रस्नुतमुखमाहेयीयूथक्षरत्क्षीरधाराधवलितेष्वासन्नचन्द्रोदयोददामक्षीरोदलहरीक्षालितेष्विव दिव्याश्रमोपशल्येषु, अपराह्णप्रचारचलिते चामरिणि च्रामीकरतटताडनरणितरदने रदति सुरस्रवन्तीरोधांसि स्वैरमैरावते, प्रसृतानेकविद्याधराभिसारिकासहस्रचरणालक्तकरसानुलिप्त इव प्रकटयति च तारापथे पाटलताम्, तारापथप्रश्थितसिद्धदत्तदिन्करास्तमयार्घ्यविर्जिते रञ्जितककुभि, कुसुम्भभासि स्रवति पिनाकिप्रर्णातमुदितसंध्यास्वेदसलिल इव रक्तचन्दनद्रेवे, वन्दारुमुनिवृन्दारकवृन्दबध्यमानसंध्याञ्जलिवने, ब्रह्नोत्पत्तिकमलसेवागतसकलकमलाकर इव राजति ब्रह्यलोके; समुच्चारिततृतीयसवनब्रह्नणि ब्रह्नणि, ज्वलितवैतानज्वलनज्वालाजटालाजिरेष्वारब्धधर्मसाधनशिबिरनीराजनेष्विव सप्तर्षिमन्दिरेषु, अघमर्षणमुषितकिल्बिषविषगदोल्लाघलघुषु यतिषु संध्योपासनासीनतपस्विपङ्क्तिपूतपुलिने प्लवमाननलिनयोनियानहंसहासदन्तुरितोर्मिणि मन्दाकिनीजले, जलदेवतातपत्रे पत्ररथकुलकलत्रान्तःपुरसौधे निजमधुमधुरामोदिनि कृतमधुपमुदि मुमुदिषमाणे कुमुदवने, दिवसावसानताम्यत्तामरसमधुरमधुसपीतिप्रीते सुषुप्सति मृदुमृणालकाण्डकण्डूयनकुण्डलितकन्धरे धुतपत्रराजिवीजितराजीवसरसि राजहंसयूथे, तटलताकुसुमधूलिधूसरितसरिति सिद्धपुरपुरन्ध्रिधम्मिल्लमल्लिकागन्धग्राहिणि सायन्तने तनीयसि निशानिश्वासनिभे नभस्वति, संकोचोदञ्चदुच्चकेसरकोटिसंकटकुशेशयकोशकोटरकुटीशायिनि षट्चरणचक्रे, नृत्योद्धूतधूर्जटिजटाटवीकुटजकुढ्मलनिकरनिभे नभस्तलं स्तबकयति तारागणे, संध्यानुबन्वताम्रे परिणमत्तालफलत्वक्त्विषि कालमेघमेदुरे, मेदिनीं मीलयति नववयसि तमसि तरुणतरतिमिरपटलपाटनपटीयसि स,मुन्मिषति यामिनीकामिनीकर्णपूरचम्पककलिकाकदम्बके प्रदीपप्रकरे, प्रतनुतुहिनकिरणकिरणलावण्यालोकपाण्डुन्याश्याननीलनीरमुक्तकालिन्दीकुलबालपुलिनायमाने शातक्रतवे क्रशयति तिमिरमाशामुखे, समुचि मेचकितविकचितकुवलयसरसि शशधरकरनिकरकचग्रहाविले विलोयमाने मानिनीमनसीव सर्वरीशब्दचिकुरचये चाषपक्षत्विषि तमसि, उदिते भगवत्युदयगिरिशिखरकटककुहरहरिखरनखरनिवहहेतिनि हतनिजहरिणगलितरधिरनियानिचितमिव लोहितं वपुरुदयरागधरमधरमिव विभावरीवध्वा धारयति श्वेतभानौ, अचलच्युतचन्द्रकान्तजलधाराधौत इव ध्वस्ते ध्वान्ते, गोलोकगलितदुग्धविसरवाहिनि दन्तमयकरमुखमहाप्रणाल इवापूरयितुं प्रकृते पयोधिमिन्दुमण्डले, स्पष्टे प्रदोसमये सावित्री शून्यहृदयामिव किमपि ध्यायन्तीं सास्रां सरस्वतीमवादीत्--"सखि, त्रिभुवनोपदेशदानदक्षायास्तव पुरो जिह्वा जिह्रेति मे जलपन्ती ।
जानास्येव यादृश्यो विसंस्थुला गुणवत्यपि जने दुर्जनवन्निर्दाक्षिण्याः क्षणभङ्गिन्यो दुरतिक्रमणीया न रमणीया दैवस्य वामा वृत्तयः ।
निष्कारणा च निकारकणिकापि कलुषयति मनस्विनोषपि मानसमसदृशजनादापतन्ती ।
अनवरतनयनजलसिच्यमानश्च तरुरिव विपल्लवोऽपि सहस्रधा प्ररोहति ।
अतिसुकुमारं च जनं संतापपरमाणवो मालतीकुसुममिव म्लानिमानयन्ति ।
महतां चोपरि तिपतन्नणुरपि सृणिरिव करिणां क्लेशः कदर्थनायालं ।
सहजस्नेहपाशग्रन्थिबन्धनाश्च बान्धवभूता दुस्तयजा जन्मभूमयः ।
दारयति दारुणः क्रकच्पात इव हृदयं संस्तुतजनविरहः, सा नार्हस्येवं भवितुं ।
अभूमिः खल्वसि दुःखक्ष्वेडाङ्कुरप्रसवानां ।
अपि च पुराकृते कर्मणि बलवति शुभेऽशुभे वा फलकृति तिष्ठत्यधिष्ठातरि प्रराकृते कर्मणि बलवति शुभेऽशुभे वा फलकृति तिष्ठत्यधिष्ठातरि प्रष्ठे पृष्ठतश्च कोऽवसरो विदुषि शुचां ।
इदं च ते त्रिभुवनमङ्गलैककमलममङ्गलभूताः कथमिव मुखमपवित्रयन्त्यश्रुबिन्दवः ।
तदलं ।
अधुना कथय कतमं भुवो भागमलङ्कर्तुमिच्छिसि ।
सक्मिन्नवतितीर्षति ते पुण्यभाजि प्रदेश हृदयं ।
कानि वा तीर्थान्यनुग्रहीतुमभिलषसि ।
केषु वा धन्येषु तपोवनधामसु तपस्तन्ती रथातुमिच्छसि ।
सज्जोऽयमुपचरणचतुरः सहपांशुक्रीडापरिचयपेशलः प्रेयान्सखीजनः क्षितितलावतरणाय ।
अनन्यशरणा चैद्यैव प्रभृति प्रतिपद्यस्व मनसा वाचा क्रियया च सर्वविद्याविधातार दातारं च श्वःश्रेयसस्य चरणरजःपवित्रितत्रिदशासुरं सुधासूतिकलिकाकल्पितकर्णवतंसं देवदेवं त्रिभुवनगुरुं त्र्यम्बकं ।
अल्पीयसैव कालेन स ते शापशोकविरतिं वितरिष्यितऽ इति ।
एवमुक्ता मुक्तमुक्ताफलधवललोचनजललवा सरस्वती प्रत्यवादीत्--"प्रियसखि, त्वया सह विचरन्त्या न मे काञ्चिदपि पीणामुत्पादयिष्यति ब्रह्नलोकविरहः शापशोको वा ।
केवलं कम्लसनसेवासुखमार्द्रयति मे हृदयं ।
अपि च त्वमेव वेत्सि मे भुवि धर्मधामानि समाधिसाधानानि योगयोग्यानि च स्थानानि स्थातुम्ऽ इत्येवमभिधाय विरराम ।
रणरणकोपनीतप्रजागरा चानिमीलितलोचनैव ता निशामनयत् ।
अन्येद्युरुदिते भगवति त्रिभुवनशेखरे खणखणायमानस्खलत्खलीनक्षतनिजतुरगमुखक्षिप्तेन क्षतजेनेव पाटलितवपुष्युदयाचलचूडामणौ जरत्कृकवाकुचूडारुणारुणपुरःसरे विरोचते नातिदूरवर्ती विविच्य पितामहविमान हंसकुलपालः पर्यटन्नपरवक्त्रमुच्चैरगायत्-- "तरलयसि दृशं किमुत्सुकामकलुषमानसवासलालिते ।
अवतर कलहंसि वापिकां पुनरपि यास्यसि पङ्कजालयम्ऽ॥
तच्छ्रुत्वा सरस्वती पुनरचिन्तयत्-"अहमिवानेन पर्यनुयुक्ता ।
भवतु ।
मानयामि मुनेर्वचनम्ऽ इत्युक्त्वोत्थाय कृतमहीतलावतरणसंकल्पा परित्यज्य वियोगविक्लवं स्वपरिजनं ज्ञातिवर्गमविगणय्यावगणा त्रिः प्रदक्षिणीकृत्य चतुर्मुखं कथमप्यनुनयनिवर्तितानुयायिव्रतिव्राता ब्रह्नलोकतः सावित्रीद्वितीया निर्जगाम ।
ततः क्रमेण ध्रुवप्रवृत्तां धर्मधेनुमिवाधोधावमानधवलपयोधराम्, उद्धुरध्वनिम्, अन्धकमथनमौलिमालतीमालिकाम्, आलीयमानबालखिल्यरुद्धरोधसम्, अरुन्धतीधौततारवत्वचं त्वङ्गत्तुङ्गतरङ्गतरत्तरलतरतारतारकाम्, तापसवितीर्णतरलतिलोदकपुलकितपुलिनां आप्लवनपूतपितामहपातितपितृपिण्डपाण्डुरितपाराम्, पर्यन्तसुप्तसप्तर्षिकुशशयनसूचितसूर्यग्रहसूतकोपवासाम्, आचमनशुचिशचीपतिमुच्यमानार्चनकुसुमनिकरशाराम्, शिवपुरपतितनिर्माल्यमन्दरदामकाम्, अनादरदारितमन्दरदरीदृषदम्, अनेकनाकनायकनिकायकामिनोकुचकलशविलुलितविग्रहाम्, ग्राहग्रावग्रामस्खलनमुखरितस्रोतसम्, सुषुम्णास्रुतशशिसुधाशीकरस्तबकतारकिततीराम्, धिषणाग्निकार्यधूमधूसरितसैकताम्, सिद्धविरचितवालुकालिङ्गलङ्घनत्रासविद्रुतविद्याधराम्, निर्मोकमुक्तिमिव गगनोरगस्य, लीलाललाटिकामिवत्रिविष्टपविटस्य, विक्रयवीथीमिव पुण्यपण्यस्य, दत्तार्गलामिंव नरकनगरद्वारस्य, अंशुकोष्णीषपट्टिकामिव सुमेरुनृपस्य, दुगूलकदलिकामिव कैलासकुञ्जरस्य, पद्धतिमिवापवर्गस्य, नेमिमिव कृतयुगस्य सप्तसाग्राजमहिषीं मन्दाकिनीमनुसरन्ती मर्त्यलोकमवततार ।
अपश्यच्चाम्बरतलस्थितैव हारमिव वरुणस्य, अमृतनिर्झरमिव चन्द्राचलस्य, शशिमणिनिष्यन्दमिव विन्ध्यस्य, कर्पूरद्रुमद्रवप्रवाहमिव दण्डकारण्यस्य, लावण्यरसप्रस्रवणमिव दिशाम्, स्फाटिकशिलापट्टशयनमिवाम्बरश्रियाः स्वच्छशिशिरसुरसवारिपूणं भगवतः पितामहस्यापत्यं हिरण्यवाहनामानं महानदम्, यं जनाः शोण इति कथयन्ति ।
दृष्ट्वाच तं रामणीयकहृतदया तस्यैव तीरे वासमरचयत् ।
उवाच च सावित्री--"सखि, मधुरमयूरविरुतयः कुसुमपांशुपटलसिकतिलतरुतलाः परिमलमत्तमधुपवेणीवीणारणितरमणीया रमयन्ति मां मन्दीकृतमन्दाकिनीद्युतेरस्य महानदस्योपकण्ठभूमयः ।
पक्षपाति च हृदयमत्रैव स्थातुं मेऽ इति ।
अभिनन्दितवचना च तथेति तया तस्य पश्चिमे तीरे समवातरत् ।
एकस्मिंश्च शुचौ शिलातलसनाथे तटलतामण्डपे गृहबुद्धिं बबन्ध ।
विश्रान्ता च नातिचिरादुत्थाय सावित्र्या सार्धंमुच्चितार्चनकुसुमा सस्नौ ।
पुलिनपृष्ठप्रतिष्ठितशिवलिङ्गा च भक्त्या परमया परब्रह्नपुरःसरां सम्यङ्मुद्राबन्धविहितपरिकरां ध्रुवागीतिगर्भामवनिपवनवनगगनदहनतपनतुहिनकिरणयजमानमयीर्मूर्तिरष्टावपि ध्यायन्ती सुचिरमष्टपुष्पिकामदात् ।
अयत्नोपनतेन फलमूलेनामृतरसममप्यतिशिशयिषमाणेन च स्वादिम्ना शिशिरेण शोणवारिणा शरीस्थितिमकरोत् ।
अतिवाहितदिवसा च तस्मिंल्लतामण्डपशिलातले कल्पितपल्लवशयना सुष्वाप ।
अन्येद्युरप्यनेनैव क्रमेण नक्तन्दिनमत्यवाहयत् ।
एवमतिक्रामत्सु दिवसेषु गच्छति च काले याममात्रोद्गते च रवावुत्तरस्यां ककुभि प्रतिशब्दपूरितवनगह्वरं गम्भीरतारतरं तुरङ्गहेषितह्लादमशृणोत् ।
उपजातकुतूहला च निर्गत्य लतामण्डपाद्विलोकयन्ती विकचकेतकीगर्भपत्रपाण्डुरं रजःसङ्घातं नातिदवीयसि संमुखमपितन्तमपश्यत् ।
क्रमेण च सामीप्योपजायमानाभिव्यक्ति तस्मिन्महति शफरोदरधूसरे रजसि पयसीव मकरचक्रं प्लवमानं पुरः प्रधावमानेन, प्रलम्बकुटिलकचपल्लवघटितललाटजजूटकेन, धवलदन्तपत्रिकाद्युतिहसितकपोलभित्तिना, पिनद्धकृष्णागुरुपङ्ककल्कच्छुरणकृष्णशबलकषायकञ्चुकेन, उत्तरीयकृतशिरोवेष्टनेन, वामप्रकोष्ठनिविष्टस्पष्टहाटककटकेन, द्विगुणपट्टपट्टिकागाढग्रन्थिग्रथितासिधेनुना, अनवरतव्यायामकृतकर्कशशरीरे, वातहंरिणयूथेनेव मुहुर्मुहुः खमुड्डीयमानेन, लङ्घितसमविषमावटविटपेन, कोणधारिणा, कृपाणपाणिना, सेवागृहीतविविधवनकुसुमफलमूलपर्णेन, "चल चल, याहि याहि, अपसर्पापसर्प, पुरः प्रयच्छ पन्थानम्ऽ इत्यनवरतकृतकलकलेन युवप्रायेण, सहस्रमात्रेण पदातिजनेन सनाथमश्ववृन्दं सददर्श ।
मध्ये च तस्य सार्धचन्द्रेण मुक्ताफलजालमालिना विविधरत्नखण्डखचितेन शङ्खक्षीरफेनपाण्डुरेण क्षीरोदेनेव स्वयं लक्ष्मीं दातुमागतेन गगनगतेनातपत्रेण कृतच्छायम्, अच्छाच्छेनाभरणद्युतीनां निवहेन दिशामिव दर्शनानुरागलग्नेन चक्रवालेनानुगम्यमानम्, आनितम्बविलम्बिन्या मालतीशेखरस्रजा सकलभुवनविजयार्जितया रूपपताकयेव विराजमानम्, उत्सर्पिभिः शिखण्डखण्डिकापझरागमणेररुणैरंशुजालैरदृश्यमानवनदेवताविधृतैर्बालपल्लवैरिव प्रमृज्यमानमार्गरेणुपरुषवपुषम्, बकुलकुड्मलमण्डलीमुण्डमालामण्डनमनोहरेण कुटिलकुन्तलस्तबकमालिना मौलिना मीलितातपं पिबन्तमिव दिवसम्, पशुपतिजटामुकुटमृगाङ्कद्वितीयशकलघटितस्येव सहजलक्ष्मीसमालिङ्गितस्य ललाटपट्टस्य मनःशिलापङ्कपिङ्गलेन लावण्येन लिम्पन्तमिवान्तरिक्षम्, अभिनवयौवनारम्भावष्टम्भप्रगल्भदृष्टिपाततृणीकृतत्रिभुवनस्य चक्षुषः प्रथिम्ना विकचकुमुदकुवलयकमलसरःसहस्रसछादितदशदिशं शरदमिव प्रवर्तयन्तम्, आयतनयननदीसीमान्तसेतुबन्धेन ललाटतटशशिमणिशिलातलगलितेन आन्तिसलिलस्रोतसेव द्राघीयसा नासावंशेन शोभमानम्, अतिसुरभिसहकारकर्पूरकक्कोललवङ्गपारिजातकपरिमलपुचा मत्तमधुकरकुलकोलाहलमु खरेण मुखेन सनन्दनवनं वसन्तमिवावतारयन्तम्, आसन्नसुहृत्परिहासभावनोत्तानितमुखमुग्धहसितैर्दशनज्योत्स्नास्नपितदिङ्मुखैः पुनःपुनर्नभसि संचारिणं चन्द्रालोकमिव कल्पयन्तम्, कदम्बमुकुलस्थलमुक्ताफलयुगलमध्याध्यासितमरकतस्य त्रिकष्टककर्णाभरणस्य प्रेङ्खतः प्रभया समुत्सर्पन्त्या कृतसकुसुमहरितकुन्दपल्लवकर्णावतंसमिवोपलक्ष्यमाणम्, आमोदितमृगमदपङ्कलिखितपत्रभङ्गभास्वरम्, भुजयुगलमुद्दाममकराक्रान्तशिखरमिव मकरकेतुकेतोः दण्डद्वयं दधानम्, धवलब्रह्नसूत्रसीमन्तितं सागरमथनसामर्षगङ्गास्रोतःसंदानितमिव मन्दरं देहमुद्वहन्तम्, कर्पूरक्षोदमुष्टिच्छुरणपांशुलेनेव कान्तोच्चकुचचक्रवाकयुगलविपुलपुलिनेनोरःस्थलेन स्थूलभुजायामपुञ्जितम्, पुरो विस्तारयन्तमिव दिक्चक्रम्, पुरस्तादीषदधोनाभिनिहितककोणकमनीयेन पृष्ठतः कक्ष्याधिकक्षिप्तपल्लवेनोभयतःसंवलनप्रकटितोरुत्रिभागेन हारीतहरिता निबिडनिपीडितेनाधरवाससा विभज्यमानतनुतरमध्यभागम्, अनवरतश्रमोपचितमांसकठिनविकटमक रमुखसंलग्नजानुभ्यामतिविशालवक्षःस्थलोपलवेदिकोत्तम्भनशिलास्तम्भाभ्यां चारुचन्दनस्थासकस्थूलतरकान्तिभ्यामुरुदण्डाभ्यामुपहसन्तमिवैरावतकरायामम्, अतिभरितोरुभारवहनखेदेनेव तनुहसन्तमिवैरावतकरायामम्, अतिभरितोरुभारवहनखेदेनेव तनुतरजङ्घाकाण्डम्, कल्पपादपपल्लवद्वयस्येव पाटलस्योभयपार्श्वावलम्बिनः पादद्वयस्य दोलायमानैर्नखमयूखैरश्वमण्डनचामरमालामिव रचयन्तम्, अभिमुखमुच्चैरुदञ्चद्भिरतिचिरमुपरिविश्राम्यद्भिरिव वलितविकटं पतद्भिः खुरैः खण्डितभुवि प्रतिक्षणदशनविमुक्तखणखणायितखरखलीने दीर्घघ्राणलीनलालिके ललाटलुलितचारुचामीकरचक्रमे शिञ्जानशातक्ॐभायानशोभिनि मनोरंहसि गोलाङ्गूलकपोलकालकायल्ॐनि नीलसिन्धुवारवर्णे वाजिनि महति समारूढम्, उभयतः पर्याणपट्टश्लिष्टहस्ताभ्यामासन्नपरिचारकाभ्यां दोधूयमानधवलचामरिकायुगलम्, अग्रतः पठतो वन्दिनः सुभाषितमुत्कण्टकितकपोलफलकेन लग्नकर्णोत्पलकेसरपक्ष्मशकलेनेव मुखशशिना बावयन्तं ।
अनङ्गयुगावतारमिव दर्शयन्तम्, चन्द्रमयीमिव सृष्टिमुत्पादयन्तम्, विलासप्रायमिव जीवलोकं जनयन्तम्, अनुरागमयमिव सर्गान्तमारचयन्तम्, शृङ्गारमयमिव दिवसमापादयन्तम्, रागराज्यमिव प्रवर्तयन्तम्, आकर्षणाञ्जनमिव चक्षुषोः, वशीकरणमन्त्रमिव मनसः, स्वस्थावेशचूर्णमिवेन्द्रियाणाम्, असंतोषमिव कौतुकस्य, सिद्धयोगमिव सौभाग्यस्य, पुनर्जन्मदिवसमिव मन्मथस्य, रसायनमिव यौवनस्य, एकाराज्यमिव रामणीयकस्य, कीर्तिस्तम्भमिव रूपस्य, मूलकोशमिव लावण्यस्य, पुण्यकर्मपरिणाममिव संसारस्य, प्रथमाङ्कुरमिव कान्तिलतायाः, सर्गाभ्यासफलमिव प्रजापतेः, प्रतापमिव विभ्रमस्य, यशःप्रवाहमिव वैदग्धयस्य, अष्टादशवर्षदेशीयं युवानमद्राक्षीत् ।
पार्श्व च तस्य द्वितीयमपरसंश्लिष्टतुरङ्गम्, प्रांशुमुत्तप्ततपनीयस्तम्भाकारम्, परिणतवयसमपि व्यायामकठिनकायम्, नीचनखश्मश्रुकेशम्, शुक्तिखलतिर्म्, इषत्तुन्दिलम्, र्ॐअशोरःस्थलम्, अनुल्वणोदारवेषतया जरामपि विनयमिव शिक्षयन्तम्, गुणानपि गरिमाणमिवानयन्तम्, महानुभावतामपि शिष्यतामिवानयन्तम्, आचारस्याप्याचार्यमिव कुर्वाणम्, वलक्षवारबाणधारिणम्, धौतदुकूलपट्टिकापरिवेष्टितमौलिं पुरुषं ।
अथ स युवा पुरोयायिनां यथादर्शनं प्रतिनिवृत्यातिविस्मितमनसां कथयतां पदातीनां सकाशादुपलभ्य दिव्याकृति तत्कन्यायुगलमुपजातकुतूहलः प्रतूर्णतुरगो दिदृक्षुस्तं लतामण्डपोद्देशमाजगाम ।
दूरादेव च तुरगादवततार ।
निवारितपरिजनश्च तेन द्वितीयेन साधुना सहचरणाभ्यामेव सविनयमुपससर्प ।
कृतोपसंग्रहणौ तौ सावित्री समं सरस्वत्या किसलयासनदानादिना सकुसुमफलार्घ्यावसानेन वनवासोचितेनातिथ्येन यथाक्रममुपजग्राह ।
आसीनयाश्च तयोरासीन नातिचिरमिव स्थित्वा तं द्वितीयं प्रवयसमुद्दिश्यावादीत्--"आर्य, सहजलज्जाधनस्य प्रमदाजनस्य प्रथमाभिभाषणमशालीनता, विशेषतो वनमृगीमुग्धस्य कुलकुमारीजनस्य ।
केवलमियमालोकनकृतार्थाय चक्षुषे स्पृहयन्ती प्रेरयत्युदन्तश्रवणकुतूहलिनी श्रोत्रवृत्तिः ।
प्रथमदर्शने चोपायनमिवोपनयति सज्जनः प्रणयं ।
अप्रगल्भमपि जनं प्रभवता प्रश्रयेणार्पितं मनो मध्विव वाचालयति ।
अयत्नेनैवातिनम्रे साधौ धनुषीव गुणः परां कोटिमारोपयति विस्रम्भः ।
जनयन्ति च विस्मयमतिधीरधियामप्यदृष्टपूर्वा दृश्यमाना जगति स्रष्टुः सृष्ट्यतिशयाः ।
यतस्त्रिभुवनाभिभावि रूपमिदमस्य महानुभावस्य ।
सौजन्यपरतन्त्रा चेयं देवानांप्रियस्यातिभद्रता कारयति कथां न तु युवतिजनसहोत्था तरलता ।
वत्कथयागमनेनापुण्यभाक्कतमो विजृम्भितविरहव्यथः शून्यतां नीतो देशः? क्व वा गन्तव्यम्? को वायमपहृतहरहुङ्काराहङ्कारोऽपर इवानन्यजो युवा? किंनाम्नो वा समृद्धतपसः पितुरयममृतवर्षी कौस्तुभमणिरिव हतेर्हृदयमाह्लादयति? का चास्य त्रिभुवननमस्या विभातसंध्येव महतस्तेजेसो जननी? कानि वास्य पुण्य भाञ्जि भजन्त्यभिक्यामक्षराणि? आर्यपरिज्ञानेऽप्ययमेव क्रमः कौतुकानुरोधिनो हृदयस्यऽ इत्युक्तवत्यां तस्यां प्रकटितश्रयोऽसौ प्रतिव्याजहार--"आयुष्मति, सतां हि प्रियंवदता कुलविद्या ।
न केवलमाननं हृदयमपि च ते चन्द्रमयमिव सुधाशीकरशीतलैराह्लादयति वचोभिः ।
सौजन्यजन्मभूमयो भूयसा शूभन सज्जननिर्माणशिल्पकला इव भावदृश्यो दृश्यन्ते ।
दूरे तावदन्योन्यस्याभिलपनमभिजातैः सह दृशोऽपि मिश्रीभूता महतीं भूमिमारोपयन्ति ।
श्रूयताम्--अयं खलु भूषणं भार्गववंशस्य भगवतो भूर्भुवःस्वस्त्रितयतिलकस्य, अदभ्रप्रभावस्तम्भितजम्भारिभुजस्तम्भस्य, सुरासुरमुकुटमणिशिलाशयनदुर्ललितपादपङ्केरुहस्य, निजतेजःप्रसरप्लुष्टपुल्ॐनश्च्यवनस्य बहिर्वृत्तिजीर्वितं दधीचो नाम तनयः ।
जन्यन्यस्य जितजगतोऽनेकपार्थिवसहस्रानुयातस्य शर्यातस्य सुता राजपुत्री त्रिभुवनकन्यारत्नं सुकन्या नाम ।
तां खलु देवीमन्तर्वत्नीं विदित्वा वैजनने मासि प्रसवाय पिता पत्युः पार्श्वात्स्वगृहमानाययत ।
असूत च सा तत्र देवी दीर्घायुषमेनं ।
अवर्धतानेहसा च तत्रैवायमानन्दितज्ञातिवर्गो बालस्तारकराज इव राजीवलोचनो राजगृहे ।
भर्तृभवनमागच्छन्त्यामपि दुहितरि नासेचनकदर्शनमिमममुञ्चन्मातामहो मनोविनोदनं नप्तारं ।
अशिक्षतायं तत्रैव, सर्पा विद्याः सकलाश्च कलाः ।
कालेन चोपारूढयौवनमिममालोक्याहमिवासावप्यनुभवतु मुखकमलावलोकनानन्दमस्येति मातामहः कथङ्कथमप्येनं पितुरन्तिकमधुना व्यसर्जयेत् ।
मामपि तस्यैव देवस्य सुगृहीतनाम्नः शर्यातस्याज्ञाकारिणं विकुक्षिनामानं भृत्यपरमाणुमवधारयतु भवती ।
पितुः पादमूलमायान्तं मया साभिसारमकरोत्स्वामी ।
तद्धि नः कुलक्रमागतं राजकुलं ।
उत्तमानां च चिरन्तनता जनयत्यनुजीविन्यपि जने कियन्मात्रमपि मन्दाक्षं ।
अक्षीणः खलु दाक्षिण्यकोशो महतां ।
एतश्च गव्यूतिमात्रमिव पारेशोणं तस्य भगवतश्च्यवनस्य स्वनाम्ना निर्मितव्यपदेशं च्यावनं नाम चैत्ररथकल्पं काननं निवासः ।
तदवधिरेवेयं नौ यात्रा ।
यदि च वो गृहीतक्षणं दाक्षिण्यमनवहेलं वा हदयमस्माकमुपरि भूमिर्वा प्रसादानामयं जनः श्रवणार्हे वा, ततो न विमाननीयोऽयं नः प्रथमः प्रणयः कुतूहलस्य ।
वयमपि शुश्रूषवो वृत्तान्तमायुष्मत्योः ।
नेयमाकृतिर्दिव्यतां व्यभिचरति ।
गोत्रनामनी तु श्रोतुमभिलषति नौ हृदयं ।
तत्कथय कतमो वंशः स्पृहणीयतां जन्मना गीतः ।
का चेयमत्रभवती भवत्याः समीपे समवाय इव विरोधिनां पदार्थानां ।
तथा हि, सन्निहितबालान्धकारा भास्वन्मूर्तिश्च, पुण्डरीकमुखी हरिणलोचना च, बालातपप्रभाधारा कुमुदहासिनी च, कलहंसस्वना समुन्नतपयोधरा च, कमलक्ॐअलकरा हिमगिरिशिलापृथुनितम्बा च, करभोरुर्विलम्बितगमना च, अमुक्तकुमारभावा स्निग्धतारका चऽ इति ।
सा त्वावादीत्--"आर्य, श्रोष्यसि कालेन ।
भूयसो दिवसानत्र स्थातुमभिलषति नौ हृदयं ।
अल्पीयांश्चायमध्वा ।
परिचय एव प्रकटीकरिष्यति ।
आर्येण न विस्मरणीयोऽयमनुषङ्गदृष्टो जनःऽ इत्य भिधाय तूष्णीमभूत् ।
दचीचस्तु नवाम्भोभरगभीराम्भोधरध्वाननिभया भारत्या नर्तयन्वनलताभवनभाजो भुजङ्गभुजः सुधीरमुवाच--"आर्य, करिष्यति प्रसादमार्याराध्यमाना ।
पश्यामस्तावत्तातं ।
उत्तिष्ठ ।
षजामःऽ इति ।
तथेति च तेनाभ्यनुज्ञातः शनकैरुत्थाय कृतनमस्कृतिरुच्चचाल ।
तुरगारूढं च तं प्रयान्तं सरस्वती सुचिरमुत्तम्भितपक्ष्मणा निश्चलतारकेण लिखितेनेव चक्षुषा व्यलोकयत् ।
उत्तीर्य च शोणम चिरेणैव कालेन दधीचः पितुराश्रमपदं जगाम ।
गत च तस्मिन्सा तामेव दिशमालोकयन्ती सुचिरमतिष्ठत् ।
कृच्छ्रादिव च संजहार दृशं ।
अथ मुहूर्तमात्रमिव स्थित्वा स्मृत्वा च तां तस्य रूपसपदं पुनःपुनर्व्यस्म यतास्या हृदयं ।
भूयोऽपि चक्षुराककाङ्क्ष तद्दर्शनं ।
अवशेव केनाप्यनीयत तामेव दिशं दृष्टिः ।
अप्रिहतमपि मनस्तेनैव साधंमगातजायत च नवपल्लव इव बालवनलतायाः कुतोऽप्यस्या अनुरागश्चेतसि ।
ततः प्रभृति च सालस्येव शून्येव सनिद्रेव दिकसमनयत् ।
अरतमुपयाति च प्रत्यक्पर्यस्तमण्डले लाङ्गलिकास्तबकताम्रत्विषि कमलिनीकामुके कठोरसालसशिरःशोणशोचिषि सावित्रे त्रयीमये तेजसि, तरुणतरतमालश्यामले च मलिनयति व्य्ॐअ व्य्ॐअव्यापिनि तिमिरसंचये, संचरत्सिद्धसुन्दरीनूपुररवानुसारिणि च मन्दं मन्दं मन्दाकिनीहंस इव समुत्सर्पति शशिनि गगनतलं कृतसंध्याप्रणामा निशामुख एव निपत्य विमुक्ताङ्गी पल्लवशयने तस्थौ ।
सावित्र्यपि कृत्वा यथाक्रियमाणं सायन्तनं क्रियाकलापमुचिते शयनकाले किसलयशयनमभजत जातनिद्रा च सुष्वाप ।
इतरा तु मुहुर्मुहुरङ्गवलनैर्विलुलितकिसलयशयनतला निमीलितनयनापि नालभत निद्रां ।
अचिन्तयच्च--"मर्त्यलोकः खलु सर्वलोकानामुपरि, यस्मिन्नेवंविधानि भवति त्रिभुवनभूषणानि सकलगुणग्रामगुरूणि रत्नानि ।
तथा हि--तस्य मुखलावण्यप्रवाहस्य निष्यन्दबिन्दुरिन्दुः ।
तस्य च चक्षुषो विक्षेपाः कुमुदकुवलयकमलाकाराः ।
तस्य चाधरमणेर्दीधितयो विकसितबन्धकवनराजयः ।
तस्य चाङ्गस्य परभागोपकरणमनङ्गः ।
पुण्यभाञ्जि तानि चक्षूंषि चेतांसि यौवनानि वा स्त्रैणानि, येषामसावविषयो दर्शनस्य ।
क्षणं नु दर्शयता च तमन्यजन्मनितेनेव मे फलितमधर्मेण ।
का प्रतिपत्तिरिदानीम्?ऽ इति चिन्तयन्त्येव कथङ्कथमप्युपजातनिद्रा चिरात्क्षणमशेत ।
सुप्तापि च तमेव दीर्घलोचनं ददर्श ।
स्वप्नासादितद्वितीयदर्शना चाकर्णाकृष्टकार्मुकेण मनसि निर्दयमताड्यत मकरकेनुना ।
प्रतिबुद्धाया मदनशराहतायाश्च तस्या वार्तामिवोपलब्धुमरतिराजगाम ।
तथा हि--ततः प्रभृति कुसुमधूलिधवलाभिर्वनलताभिस्ताडितापि वेदनामधत्त ।
मन्दमन्दमारुतविधुतेः कुसुमरजोभिरदूषितलोचनाप्यश्रुजलं मुमोच ।
हंसपक्षतालवृन्तवातव्रातविततैः शोणशीकरैरसिक्ताप्यार्द्रतामगात् ।
प्रेङ्खत्कादम्बमिथुनाभिरनूढाप्यघूर्णत वनकमलिनीकल्लोलदोलाभिः ।
विघटमानचक्रवाकयुगलविस्éष्टैरस्पृष्टापि श्यामतामाससाद विरहनिःश्वासधूमैः ।
पुष्पधूलिधूसरैरदष्टापि व्यचेष्ट मधु करकुलैः ।
अथ गणरात्रापगमे निवर्तमानस्तेनैव वर्त्मना तं देशं समागत्य तथैव निवारितपरिजनश्छत्रधारद्वितीयो विकुक्षिर्डुढौके ।
सरस्वती तु तं दूरादेव संमुखमागच्छन्तं प्रीत्या ससंभ्रममुत्थाय वनमृगीवोद्ग्रीवा विलोकयन्ती मार्गपरिश्रान्तमस्नपयदिव धवलितदशदिशा दृशा ।
कृतासनपरिग्रहं तु तं प्रीत्या सावित्री पप्रच्छ--"आर्य, कच्चित्कुशली कुमारः?ऽ इति ।
सोऽब्रवीत्--"आयुष्मति, कुशली ।
स्मरति च भवत्योः ।
केवलममीषु दिवसेषु तनीयसीमिव तनु बिभर्ति ।
अविज्ञायमाननिमित्तां च शून्यतामिवाधत्ते ।
अपि च ।
अन्वक्षमागमिष्यत्येव मालतीति नाम्ना बाणिनी वार्तां वो विज्ञातुं ।
उच्छ्वसित हि सा कुमारस्यऽ इति ।
तच्छ्रुत्वा पुनरपि ।
सावित्री समभाषत--"अतिमहानुभावः खलु कुमारो येनैवनमविज्ञायमाने क्षणदृष्टेऽपि जने परिचितिमनुबध्नाति ।
तस्य हि गच्छतो यदृच्छया कथमप्यंसुकमिव मार्गलतासु मानसमस्मासु मुहूर्तमासक्तमासीत् ।
अशून्यं हि सौजन्यमाबिजात्येन वः स्वामिसूनोः ।
अलसः खलु लोको यदेवं सुलभसौहार्दानि येन केनचिन्न क्रीणाति महतां मनांसि ।
सोऽयमौदार्यातिशयः सोऽपि महात्मनामितरजनदुर्लभो येनोपकरणीकुर्वन्ति त्रिभुवनम्ऽ इति ।
विकुक्षिस्तूच्चावचैरालापैः सुचिरमिव स्थित्वा यथाभिलषितं देशमयासीत् ।
अपरेद्युरुद्यति भगवति द्युमणावुद्दामद्युतावभिद्रुततारके तिरस्कृततमसि तामरसव्यासव्यसनिनि सहस्ररश्मौ शोणमुतीर्यायान्ती, तरलदेहप्रभावितानच्छलेनात्यच्छं सकलं शोणसलिलमिवानयन्तीं, स्फुटितातिमुक्तककुसुमस्तबकसमत्विषि सटाले महति मृगपताविव गौरी तुरङ्गमे स्थित, सलीलमुरोबन्धारोपितस्य तिर्यगुत्कर्णतुरगाकर्ण्य, माननूपुरपटुरणितस्यातिबहलेन पिण्डालक्तकेन पल्लवितस्य कुङ्कुमपिञ्जरितपृष्ठस्य चरणयुगलस्य प्रसरद्भिरतिलोहितैः प्रभाप्रवाहैरुभयतस्ताडनदोहदलोभागतानि किसलयितानि रक्ताशोकवनानीवाकर्षयन्ती, सकलजीवनलोकहृदयहठहरणाघोषणयेव रशनया शिञ्जानजघनस्थला, धौतधवलनेत्रनिर्मितेन निर्मोकलघुतरेणाप्रपदीनेन कञ्चुकेन तिरोहिततनुलता, छातकञ्चुकान्तरदृश्यमानैराश्यानचन्दनधवलैरवयवैः स्वच्छसलिलाब्यन्तरविभाव्यमानमृणालकाण्डेव सरसी, कुसुम्भरागपाटलं पुलकबन्धचित्रं चण्डातकमन्तःस्फुटं स्फटिकभूमिरिव रत्ननिधानमादधाना, हारेणामलकीफलनिस्तुलमुक्ताफलेन स्फुरितस्थूलग्रहगणशारा शारदीव श्वेतविरलजलधरपटलावृता द्यौः, कुचपूर्णकलशयोरुपरि रत्नप्रालम्बमालिकामरुणहरितकिरणकिसलयिनीं कस्यापि पुण्यवतो हृदयप्रवेशवनमालिकामिव बद्धां धारयन्ती, प्रकोष्ठनिविष्टस्यैकस्य हाटककटकस्य मरकतमकरवेदिकासनाथस्य हरितीकृतदिगन्ताभिर्मंयूखसंततिभिः स्थलकमलिनीबिरिव लक्ष्मीशङ्खयानुगम्यमाना, अतिबहलताम्बूलकृष्णिकान्धकारितेनाधरसंपुटेन मुखशशिपीतं ससंध्यारागं तिमिरमिव वमन्ती, विकचनयनकुवलयकुतूहलालीनयालिकुलसंहत्या नीलांशुकजालिकयेव निरुद्धाधवदना, नीलीरागनिहितनीलिम्ना शिखिद्योतमाना, बकुलफलानुकारिणीभिस्तिसृभिर्मुक्ताभिः कल्पितेन बालिकायुगलेनाध्ॐउखेनालोकजलवर्षिणा सिञ्चन्तीवातिक्ॐअले भुजलते, दक्षिणकर्णावतंसितया केतकीगर्भपलाशलेखया रजनिकरजिह्वालतयेवलावण्यलोभेन लिह्यमानकपोलतला, तमालश्यामलेन मृगमदामोदनिष्यदिना तिलकबिन्दुना मुद्रितमिव मनोभवसर्वस्वं वदनमुद्वहन्ती, ललाटलासकस्य सीमन्तचुम्बिनश्चटुलातिलकमणेरुदञ्चता चटुलेनांशुजालेनेव रक्तांशुकेनेव कृतशिरावगुण्ठना, पृष्ठप्रेङ्खदनादरसंयमनशिथिलजूटिकाबन्धा नीलचामरावकूलिनीव, चूडामणिमकरिकासनाथा मकरकेतुपताकेव कुलदेवतेव चन्द्रमसः, पुनःसञ्जीवनौषधिरिव पुष्पधनुषः, वेलेव रागसागरस्य, ज्योत्स्नेव यौवनचन्द्रोदयस्य, महानदीव रतिरसामृतस्य, कुसुमोद्गतिरिव सुरततरोः, बालविद्येव वैदग्ध्यस्य, क्ॐउदीव कान्तेः, धृतिरिव धैर्यस्य, गुरुशालेव गौरवस्यबीजभूमिरिव विनयस्य, गोष्ठीव गुणानाम्, मनस्वितेव महानुभावतायाः, तृप्तिरिव तारुण्यस्य, कुवलयदलदामदीर्घलोचनया पाटलाधरया कुन्दकुढ्मलस्फुटदशनया शिरीषमालासुकुमारभुजयुगलया कमलक्ॐअलकरया बकुलसुरभिनिःश्वसितया चम्पकावदातदेहया कुसुममय्येव ताम्बूलकरण्डवाहिन्या मालती समदृश्यत ।
दूरादेव च दधीचप्रेम्णा सरस्वत्या लुण्ठितेव मनोरथैः, आकृष्टेव कुतूहलेन, प्रत्युद्गतेवोत्फलिकाभिः, आलिङ्गितेवोत्कण्ठया, अन्तःप्रवेशितेव हृदयेन, स्नपितेवानन्दाश्रुभिः, विलिप्तेव स्मितेन, वीजितेवोच्छ्वसितैः, आच्छादितेव चक्षुषा, अम्यर्चितेव वदनपुण्डरीकेण, सखीकृतेवाशया सविधमुपययौ ।
अवतीर्य च दूरादेवानतेन मूर्ध्ना प्रणाममकरोत् ।
आलिड्गिता च ताभ्यां सविनयमुपाविशत् ।
सप्रश्रयं ताभ्यां संबाषिता च पुण्यभाजनमात्मानममन्यत ।
अकथयच्च दधीचसंदिष्टं शिरसि निहितेनाञ्जलिना नमस्कारं ।
अगृह्णाच्चाकरतः प्रभृत्यग्राम्यतया तैस्तरतिपेशलैरालापैः सावित्रीसरस्वत्योर्मनसी ।
क्रमेण चातीते मध्यन्दिनसमये शोणमवतीर्णायां सावित्र्यां स्नातुमुत्सारितपरिजना साकूतेव मालती कुसुमस्रस्तशायिनीं समुपसृत्य सरस्वतीमाबभाषे--देवि, विज्ञाप्यं नः किञ्चिदस्ति रहसि ।
यतो मुहूर्तमवधानदानेन प्रसादं क्रियमाणमिच्छामिऽ इति ।
सरस्वती तु दधीचसदेशाशङ्किनी किं वक्ष्यतीति स्तननिहितवामकरनखरकिरणदन्तुरितमुद्भिद्यमानकुतूहलाङ्कुरनिकरमिव हृदयमुत्तरीयकूलवल्कलैकदेशेन संछादयन्ती, गलतावतंसपल्लवेन श्रोतुं श्रवणेनेव कुतूहलाद्धावमानेनाविरतश्वाससंदोहदोलायितां जीविताशामिव समासन्नतरुणतरुलतामवलम्बमाना, समुत्फुल्लस्य मुखशशिनो लावण्यप्रवाहेण शृङ्गाररसेनेवाप्लावयन्ती सकलं जीवलोकम्, शयनकुसुमपरिमललग्नैर्मधुकरकदम्बकैर्मदनानलदाहश्यामलैर्मनोरथैरिव निर्गत्य मूर्तैरुत्क्षिप्यमाणा, कुसुमशयनीयात्स्मरशरसंज्वरिणी, मन्दं मन्दमुदागात् ।
"उपांशु कथयऽ इति कपोलतलनतिबिम्बितां लज्जया कर्णमूलमिव मालतीं प्रवेशयन्ती मधुरया गिरा सुधीरमुवाच--"सखि मालति, किमर्थमेवमभिदधासि? काहमवधानदानस्य शरीरस्य प्राणानां वा? सर्वस्याप्रार्यितोऽपि प्रभवत्येवातिवेलं चक्षुष्यो जनः ।
सा न काचिद्या न भवसि मे स्वसा सखी प्रणयिनी प्राणसमा च ।
नियुज्यतां यावतः कार्यस्य क्षमं क्षोदीयसी गरीयसी वा शरीरकमिदं ।
अनवस्करमाश्रवं त्वयि हृदयं ।
प्रीत्या प्रतिसरा विधेयास्मि ते ।
व्यावृणु वरवर्णिनि, विवक्षितम्ऽ इति ।
सा त्ववादीत्--"देवि, जानास्येव माधुर्यं विषयाणाम्, लोलुपतां चेन्द्रियग्रामस्य, उन्मादितां च नवयौवनस्य, पारिप्लवतां च मनसः ।
प्रख्यातैव मन्मथस्य दुर्निवारता ।
अतो न मामुपालम्भेनोपस्थातुमहसि ।
न च बालिशता चपलता चारणता वा वाचालतायाः कारणं ।
न किञ्चिन्न कारयत्यसाधारणा स्वामिभक्तिः ।
सा त्वं देवि, यदैव दृष्टासि देवेन तत एवारब्यास्य कामो गुरुः, चन्द्रमा जीवितेशः, मलयमरुदुच्छ्वासहेतुः, आधयोऽन्तरङ्गस्थानेषु, संतापः, परमसुहृत्, प्रजागर आप्तः, मनोरथाः सर्वगताः, निःश्वासा विग्रहाग्रेसराः, मृत्युः पार्श्ववर्ती, रणरणकः संचारकः संकल्पा बुद्ध्युपदेशवृद्धाः ।
किञ्च विज्ञापयामि ।
अनुरूपो देव इत्यात्मसंभावना, शीलवानिति प्रक्रमविरुद्धम्, धोर इत्यवस्थाविपरीतम्, सुभग इति त्वदायत्तम्, स्थिरप्रीतिरिति निपुणोपक्षेपः, जानाति सेवितुमित्यस्वामिबावोचितम्, इच्छति दासभावमामरणात्कर्तुमिति धूर्तालापः, भवनस्वामिनी भवेत्युपप्रलोभनम्, पुण्यभागिनी भजति भर्तारं तादृशमिति स्वामिपक्षपातः, त्वं तस्य मृत्युरित्यप्रियम्, अगुणज्ञासीत्यधिक्षेपः, स्वप्नेऽप्यस्य बहुशः कृतप्रसादासीत्यसाक्षिकम्, प्राणरक्षार्थमर्थयत इति कातरता, तत्र गम्यतामित्याज्ञा, वारितोऽपि बलादागच्छतीति परिभवः ।
तदेवमगोचरे गिरामसीति श्रुत्वा देवी प्रमाणम्ऽ इत्यभिधाय तूष्णीमभूत ।
अथ सरस्वती प्रीतिविस्फारितेन चक्षुषा प्रत्यवादीत-"अयि, न शक्न्ॐइ बहु बाषितुं ।
एषास्मि ते स्मितवादिनि वचसि स्थिता ।
गृह्यन्ताममी प्राणाःऽ इति ।
मालती तु देवि, यदाज्ञापयसि, अतिप्रसादायऽ इति व्याहृत्य प्रहर्षपरवशा प्रणम्य प्रजविना तुरगेण ततार शोणं ।
अगाच्च दधीचमानेतु च्यवनाश्रमपदं ।
इतरा तु सखीस्नेहेन सावित्रीमपि विदितवृत्तान्तामकरोत् ।
उत्कण्ठाभारभृता च ताम्यता चेतसा कल्पायितं कथङ्कथमपि दिवसशेषमनैषीत् ।
अस्तमुपगते च भगवति गभस्तिमति, स्तिमिततरमवतरति तमसि, प्रहसितामिव सितां दिशं पौरन्दरीं दरीमिव केसरिणि मुञ्चति चन्द्रमसि सरस्वती शुचिनि चीनांशुकसुकुमारतरे तरङ्गिणि दुगूलक्ॐअलशयन इव शोणसैकते समुपविष्टा स्वप्नकृतप्रार्थना पादपतनलग्नां दधीचचरणनखचन्द्रिकामिव ललाटिकां दधाना, गण्डस्थलादर्शप्रतिबिम्बतेन "चारुहासिनि, अयमसावाहृतो हृदयदयितो जनःऽ इति श्रवणसमीपवर्तिना निवेद्यमानमदनसंदेशेवेन्दुना, विकीर्यमाणनखकिरणचक्रवालेन वालव्यजनीकृतचन्द्रकलाकलापेनेव करेण वीजयन्ती स्वेदिनं कपोलपट्टम्, "अत्र दधीचादृते न केनचित्प्रवेष्टव्यम्ऽ इति तिरश्वीनं चित्तभुवा पातितां विलासवेत्रलतामिव बालमृणालिकामधिस्तनं स्तनयन्ती कथमपि हृदयेन वहन्ति प्रतिपालयामास आसीच्चास्या मनसि--"अहमपि नाम सरस्वती यत्रामुना मनौजन्मना जानत्येव परवशीकृता ।
तत्र का गणनेतरासु तपस्विनीष्वतितरलासु तरुणीषुऽ इति ।
आजगाम च मधुमास इव सुरभिगन्धवाहः, हंस इव कृतमृणालधृतिः, शिखण्डीव घनप्रीत्युन्मुखः, मलयानिल इवाहितसरसचन्दनघवलतनुलतोत्कम्पः, कृष्यमाण इव कृतकरकचग्रहेण ग्रहपतिना, प्रेर्यमाण इव कन्दर्पोद्दीपनदक्षेण दक्षिणानिलेन, उउह्यमान इवोत्कलिकाबहुलेन रतिसरसेन, परिमलसंपातिना मधुपपटलेन पटेनेव नीलेनाच्छादिताङ्गयष्टिः, अन्तःस्फुरता मत्तमदनकरिकर्णशह्खायमानेन प्रतिमेन्दुना प्रथमसमागमविलासविलक्षस्मितेनेव धवलीक्रियमाणैककपोलोदरो मालतीद्वितीयो दधीचः ।
आगत्य च हृदयगतदयितानूपुररवविमिश्रयेव हंसगद्गदया गिरा कृतसंभाषणो यथा मन्मथः समाज्ञापयति, यथा यौवनमुपदिशति, यथा विदग्धताध्यापयति, यथानुरागः शिक्षयति, तथा तामभिरामां रामामरमयत् ।
उपजातविस्रम्भा चात्मानमकथयदस्य सरस्वती ।
तेन तु सार्धमेकदिवसमिव संवत्सरमधिकमनयत् ।
अथ दैवयोगात्सरस्वती बभार गर्भं ।
असूत चानेहसा सर्वलक्षणाभिरामं तनयं ।
तस्मै च जातमात्रायैव "सम्यक्सरहस्याः सर्वेवेदाः सर्वाणि च शास्त्राणि सकलाश्च कला मत्प्रभावात्é स्वयमाविर्भविष्यन्तिऽ इति वरमदात्é ।
सद्भर्तृश्लाघया दर्शयितुमिव हृदयेनादाय दधीचं पितामहादेशात्समं सावित्र्या पुनरपि ब्रह्नलोकमारुरोह ।
गतायां च तस्यां दधीचोऽपि हृदये ह्रादिन्येवाभिहतो भार्गववंशसंभूतस्य भ्रातुर्ब्राह्नणस्य जायामक्षमालाभिधानां मुनिकन्यकामात्मसूनोः संवर्धनाय नियुज्य विरहातुरस्तपसे वनमसात् ।
यस्मिन्नेवावसरे सरस्वत्यसूत तनयं तस्मिन्नेवाक्षमालापि सुतं प्रसूतवती ।
तौ तु सा निर्विशेषं सामान्यस्तन्यादिना शनैः शनैः शिशू समवर्धयत् ।
एकस्तयोः सारस्वताख्य एवाभवत्é, अपरोऽपि वत्सनामासीत् ।
आसीच्च तयोः सोदर्ययोरिव स्पृहणीया प्रीतिः ।
अथ सारस्वतो मातुर्महिम्ना यौवनारम्भ एवाविर्भूताशेषविद्यासंभारस्तस्मिन्सवयसि भ्रातरि प्रेयसि प्राणसमे सुहृदि वत्से वाङ्मयं समस्तमेव संचारयामास ।
चकार च कृतदारपरिग्रहस्यास्य तस्मिंन्नेव प्रदेशे प्रीत्या प्रीतिकूटनामानं निवासं ।
आत्मनाप्याषाढी, कृष्णाजिनी, अक्षवलयी, वल्कली, मेखली, जटी च भूत्वा तपस्यतो जनयितुरेव जगामान्तिकं ।
अथ वत्सात्प्रवर्धमानादिपुरुषजनितात्मचरणोन्नतिः, निर्गतप्रघोषः, परमेश्वरशिरोधृतः, सकलकलागमगम्भीरः, महामुनिमान्यः, विपक्षक्षोभक्षमः, क्षितितललब्धायतिः, अस्खलितप्रवृत्तो भागीरथीप्रवाह इव पावनः प्रावर्तत विमलो वंशः ।
यस्मादजायन्त वात्स्यायनो नाम नृहमुनयः, आश्रितश्रौता अप्यनालम्बितालीकबककाकवः, कृतकुक्कुटव्रता अप्यबैडालवृत्तयः, विवर्जितजनपङ्क्तयः, परिहृतकपटकौरुकुचीकूर्चाकूताः, अगृहीतगह्वराः, न्यक्कृतनिकृतयः, प्रसन्नप्रकृतयः, विहतविकृतयः, परपरीवादपराचीनचेतोवृत्तयः, वर्णत्रयव्यावृत्तिविशुद्धान्धसः, धीरविषणः, विधूताध्येषणाः, असङ्कसुकस्वभावाः, प्रणतप्रणयिनः, शमितसमस्तशाखान्तरसंशीतयः उद्धाटितसमग्रग्रन्थार्थग्रन्थयः, कवयः, वाग्मिनः, विमत्सराः, परसुभाषितव्यसनिनः, विदग्धपरिहासवेदिनः, परिचयपेशलाः, सर्वातिथयः, सर्वसाधुसंमताः, सर्वसत्त्वसाधारणसौहार्दद्रवार्द्रीकृतहृदयाः, तथा सर्वगुणोपेता राजसेनानभिभूताः, क्षमाभाज आश्रितनन्दनाः, अनिस्त्रिंशा विद्याधराः, अजडाः कलावन्तः, अदोषास्तारकाः, अपरोपतापिनो भास्वन्तः, अनुष्माणो हुतभुजः, अकुसृतयो भोगिनः, अस्तम्भाः पुण्यालयाः, अलुप्तक्रुतुक्रिया दक्षाः, अव्यालाः कामजितः, असाधारणा द्विजातयः ।
तेषु चैवमुत्पद्यनमानेषु, संसरति च संसारे, यात्सु युगेषु, अवतीर्णे कलौ, वहत्सु वत्सरेषु, व्रजत्सु वासरेषु, अतिक्रामति च काले प्रसवपरम्पराभिरनवरतमापतति विकाशिनि वात्स्यायनकुले, क्रमेण कुबेरनामा वैनतेय इव गुरुपक्षपाति द्विजो जन्म लेभे ।
तस्याभवन्नच्युतरिशानो हरः पाशुपतश्चेति चत्वारो युगारम्भा इव ब्राह्नतेजोजन्यमानप्रजाविस्तारा नारायणबाहुदण्जा इव सच्चक्रनन्दकास्तनयाः ।
तत्र पाशुपतस्यैक एवाभवद्भूभार इवाचलकुलस्थितिः स्थिरश्चतुरुदधिगम्भीरोर्ऽथपतिरिति नाम्ना समग्राग्रजन्मचक्रचूडामणिर्महात्मा सूनुः ।
सोऽजनयद्भृगुं हंसं शुचिं कविं महीदतं धर्मं जातवेदसं चित्रभानुं त्र्यक्षं महिदत्तं विश्वरूपं चेत्येकादश रुद्रानिव स्ॐआमृतरसशीकरच्छुरितमुखान्पवित्रान्पुत्रान् ।
अलभत च चित्रभानुस्तेषां मध्ये राजदेव्यभिधानायां ब्राह्नण्यां बाणमात्मजं ।
स बाल एव बलवतो विधेर्वशादुपसंपन्नया व्ययुज्यत जनन्या ।
जातस्नेहस्तु नितरां पितैवास्य मातृतामकरोत ।
अवर्धत च तेनाधिकतरमाधीयमानधृतिर्धाम्नि निजे ।
कृतोपनयनादिक्रियाकलापस्य समावृत्तस्य चास्य चतुर्दशवर्षदेशीयस्य पितापि श्रुतिस्मृतिविहितं कृत्वा द्विजजनोचितं निखिलं पुण्यजातं कालेनादशमीस्थ एवास्तमगमत् ।
संस्थिते च पितरि महता शोकेनाभीलमनुप्राप्तो दिवानिशं दह्नमानहृदयः कथङ्कथमपि कतिपयान्दिवसानात्मगृह एवानैषीत् ।
गते च विरलतां शोके शनैः शनैरविनयनिदानतया स्वातन्त्रयस्य, कुतूहलबहुलतया च बालभावस्य, धैर्यप्रतिपक्षतया च यौवनारम्भस्य, शैशवोचितान्यनेकानि चापलान्याचरन्नित्वरो बभूव ।
अभवंश्चास्य सवयसः समानाः सुहृदः सहायाश्च ।
तथा च ।
भ्रातरौ पारशवौ चन्द्रसेनमातृषेणौ, भाषाकदिरीशानः परं मित्त्रम्, प्रणयिनौ रुद्रनारायणौ, विद्वांसो वारबाणवासबाणौ, वर्णकविर्वेणीभारतः प्राकृतकृत्कुलपुत्रो वायुविकारः, बन्दिनादनङ्गबाणसूचीबाणौ, कत्यायनिका चक्रवाकिका, जाङ्गुलिको मयूरकः, कलादस्चामीकरः हैरिकः सिन्धुषेणः, लेखको गोविन्दकः, चित्रकृ-द्वीरवर्मा, पुस्तकृत्कुमारदत्तः, मार्दङ्गिको जीमूतः, गायनौ स्ॐइलग्रहादित्यौ, सैरन्ध्री कुरङ्गिका, वांशिकौ मधुकरपारावतौ, गान्धर्वोपाध्यायो दर्दुरकः, संवाहिका, केरलिका लासकयुवा ताण्डविकः, आक्षिक आखण्जलः, कितवो भीमकः, शैलालियुवा शिखण्डकः, नर्तकी हरिणिका, पाराशरी सुमतिः, क्षपणको वीरदेवः, कथकोजयसेनः, शैवो वक्रघोणः, मन्त्रसाधकः करालः, असुरविवरव्यसनी लोहिताक्षः, धातुवादविद्विहङ्गमः, दार्दुरिको दामोदरः, ऐन्द्रजालिकश्चकीराक्षः, मस्करी ताम्रचूडकः ।
स एभिरन्यैश्चानुगम्यमानो बालतया निघ्नतामुपगतो देशान्तरावलोकनकौतुकाक्षिप्तहृदयः सत्स्वपिपितृपितामहोपात्तेषु ब्राह्नणजनोचितेषु विभवेषु सति चाविच्छिन्ने विद्याप्रसङ्गे गृहान्निरगात् ।
अगाच्च निरवग्रहो ग्रहवानिव नवयौवनेन स्वैरिणा मनसा महतामुपहास्यतां ।
अथ शनै ।
शनैरत्युदारव्यवहृतिमनोहृन्ति बृहन्ति राजकुलानि वीक्षमाणः, निरवद्यविद्याविद्योतितानि गुरुकुलानि च सेवमानः, महार्हालापगम्भीरगुणवद्गोष्ठीश्चोपतिष्ठमानः, स्वभावगम्भीरधीर्धनानि विदग्धमण्डलानि च गाहमानः, पुनरपि तैमेव वैपश्चितीमात्मवंशोचितां प्रकृतिमभजत्é ।
महतश्च कालात्तमेव भूयो वात्स्यायनवंशाश्रममात्मनो जन्मभुवं ब्राह्नणाधिवासमगमत्é ।
तत्र च चिरदर्शनादभिनवीभूतस्नेहसद्भावैः ससंस्तवप्रकटितज्ञातेयैराप्तैरुत्सवदिवस इवानन्दितागमनो बालमित्रमण्डलमध्यगतो मोक्षसुखमिवान्वभवत्é ।


इति श्रीमहाकविबाणमट्टकृतौ हर्षचरिते वात्स्यायनवंशवर्णनं नाम प्रथम उच्छ्वासः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:20.6630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

moment

  • न. आघूर्ण 
  • न. (as a tendency or measure of tendency to produce motion, esp. about a point or axis; the product of quantity, as a force, and the distance to a particular axis or point; as a turning effect) आघूर्ण 
  • पु. (of time) क्षण 
  • impulsive moment आवेगी आघूर्ण 
More meanings
RANDOM WORD

Did you know?

कोणतेही कार्य करतांना मुहूर्त कां पहावा? त्यामागची संकल्पना काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.