नवसाहसाङ्कचरितम्‌ - पञ्चमः सर्गः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट.


अथ सा वदने नवेन्दुकान्ति- स्मितं अङ्के विनिवेश्य चामरं च ।
जगतीपतिं एवं आ बभाषे मसृणं मूर्तिमती विदग्धतेव ॥५-१॥

त्वयि पुण्यवशेन दृष्तिं आप्ते लभते शर्म गतश्रमो ममात्मा ।
उदिते हि विरोचने नलिन्या वितमस्तामरसं विकासं एति ॥५-२॥

अतिमात्रं उपोढसौकुमार्ये वचसि श्रोत्रं उपेयुषि त्वदीये ।
झटिति प्रतिभासते ममायं कठिनश्चन्दनपल्लवावतंसः ॥५-३॥

किं अयं मयि संभ्रमोऽयं आस्तां किं अयं न एव जनः परिच्छदस्ते ।
उपचारविशेषसंविधाने प्रतिपच्चन्द्र इव उदितस्त्वं एव ॥५-४॥

भवदिङ्गितवेदिनैव पृष्टा यदनेनाहं उपान्तवर्तिना ते ।
किं उ तत्कथयामि सम्मतं चेत्क्रियतां मे स्वयं आज्ञया प्रसादः ॥५-५॥


_

नायकनिदेशः

अभिधेहि लवः कुतूहलस्य त्वदुदन्तश्रवणे ममापि जातः ।
इति सा वसुधापतेर्निदेशादथ पातालविलासिनी जगाद ॥५-६॥


_

भुजङ्गलोकवर्णनम्

स तव श्रुतिं आप्त एव तावत्स्मरलीलाभवनं भुजङ्गलोकः ।
उपयाति यदेकदेशसाम्यं न मही नापि पुरी पुरन्दरस्य ॥५-७॥

अतिदुर्लभसूर्यभासि यस्मिंस्तमसां उल्लसतां तिरस्क्रियायै ।
फणिनोऽरुणकान्तिभिः शिरस्थैर्मणिभिर्बालं इवातपं वहन्ति ॥५-८॥

अनुलिम्पति रोदसी यथेन्दुः प्रभया मां न तथेत्यसूययेव ।
पटु यः प्रमादाविलासहास- स्तबकैरिन्दुपरम्पराः प्रसूते ॥५-९॥

सविलासं उदस्तहस्तमुक्तैर्निकरैर्दिग्द्विरदेन्द्रशीकराणां  ।
परितो निचिताः सदैव यस्मिन्ककुभस्तारिका इवावभान्ति ॥५-१०॥

प्रतिभाति दधन्फणाकलापे पृथिवीं यत्र सः शेषनागराजः ।
नभसो निपतञ्जवेन भित्त्वा जगतीं गाङ्ग इव च्युतः प्रवाहः ॥५-११॥


_

भोगवतीवर्णनम्

विदिता खलु वासुकेस्त्रिलोक्यां हरकण्ठाभरणस्य भोगिभर्तुः ।
ललिताद्भुतभूमिरस्ति तस्मिन्नगरी भोगवतीति राजधानी ॥५-१२॥

मणिहर्म्यतलानि रत्नदीपाः फणिकान्तार्धविलोकितानि वीणाः ।
ऋतवोऽप्यखिलाः समेत्य यत्र स्मरसाम्राज्यमहाधुरं वहन्ति ॥५-१३॥

अनुपाधिरुपाहृतो विकासः कमलैर्यत्र विलासदीर्घिकासु ।
अपि यत्र कुमुद्वतीभिरस्तः सहजश्चन्द्रमरीचिपक्षपातः ॥५-१४॥

अभिकानभिसर्तुं उद्यतः सन्सपदि व्यालविलासिनीसमूहः ।
भवति स्वफणामणिप्रदीपे तिमिरोत्सारिणि यत्र साभ्यसूयः ॥५-१५॥

अधिरोहति यत्र वंशमुक्ता- पटलस्मेरतटा सुरस्रवन्ती ।
सरितः श्रियं ईर्ष्ययेव तस्याः सुवते मौक्तिकं एव यत्पयांसि ॥५-१६॥

अतिकान्तगुणाभिराममूर्तिर्मधुरेण ध्वनिना मनोहरन्ती ।
विदधाति सदैव यत्र यूनां पदं अङ्के वनिता च वल्लकी च ॥५-१७॥

शतशो विलसन्त्युदंशुरत्न- स्तबकाः कल्पलता यदङ्गणेषु ।
प्रतिमन्द्रिरं एवं एव यस्यां अपि चिन्तामणयः पदे लुठन्ति ॥५-१८॥

अपि दत्तकुतूहलाः सुराणां अपि वाञ्च्छापदं एकपिङ्गलस्य ।
अपि निर्विषया मनोरथानां उरगान्यत्र विभूतयः श्रयन्ते ॥५-१९॥

वसति स्वयं एव यत्र देवः सदा कल्पितहाटकेश्वराख्यः ।
स्मरं ऊर्ध्वविलोचनार्चिषीव त्रिपुरं यः शरपावके जुहाव ॥५-२०॥


_

शङ्खपालवर्णनम्

निजवंशविशेषकोऽस्ति तस्यां उरगाणां अधिपः सः शङ्खपालः ।
स्रगसाविति यत्फणासु धत्ते वसुधां वासुकिना समानसारः ॥५-२१॥


_

शशिप्रभावर्णनम्

जगदेकललाम तस्य कन्या गुणवत्यस्ति शशिप्रभा नाम्ना ।
सहसैव फणभृतां प्रविष्टा भुवने राहुभयादिवेन्दुलेखा ॥५-२२॥

न कयाप्यतिशय्यतेऽतिशीघ्रं यदियं कन्दुककेलिषु भ्रमन्ती ।
अपरं कृतं अर्थवत्तदस्याः सुतरां नाम सखीभिराशुगेति ॥५-२३॥

स्फुरदद्भुतरूपसम्पदां तां अनुकर्तुं कलयापि धार्ष्ट्यं एति ।
न रतिर्न शची न चित्रलेखा न घृताची न तिलोत्तमा न रम्भा ॥५-२४॥

सुरकिन्नरसिद्धकन्यकाभिः स्वकलाभ्यासवतीभिराप्तसख्या ।
निखिलासु गता परं प्रकर्षं शितधीः शैशवसेव या कलासु ॥५-२५॥

अनिवारितकेलिकौतुका सा सुतनुः स्नेहवंशवदेन पित्रा ।
विहरत्यपचीयमानबाल्या हरशैले मलये हिमालये च ॥५-२६॥

अधुना पुनोऽत्र विन्ध्यपदे विहरन्त्याः कुसुमावचूडनाम्नि ।
क्वचिदप्यगमत्पलाय्य तस्याश्चपलः केलिमृगो मृगायताक्ष्याः ॥५-२७॥

अतिवत्सलया समं सखीभिर्विपिने तं परितस्तया विचित्य ।
पुलिने सरितः शशाङ्कसूतेः श्रमवत्येयं अनीयत त्रियामा ॥५-२८॥

कलहंसकलस्वनैर्विबुद्धा परिवारप्रमदानिदेशितं सा ।
निकषा निचुलप्रवालशय्यां तं अथ प्रेक्षितवत्याप्तनिद्रं॥ ५-२९॥

तपनीयशिलीमुखस्तदङ्गे चकितं चित्ररुचौ तया च दृष्टः ।
जलदे ललितेन्द्रचापभक्तौ अहिमांशोरिव भासुरो मयूखः ॥५-३०॥

अरविन्ददलत्विषा करेण स्वयं उत्पाट्य सकौतुकं गृहीते ।
अवलोकितं एतयाथ तस्मिन्विजयाङ्के नवसाहसाङ्कनाम ॥५-३१॥

अविशन्नरनाथ नाम पूर्वं हृदयेऽस्याः सहसाथ पुष्पकेतुः ।
अमृतांशुमरीचिलुप्तनिद्रे लभते यत्कुमुदेऽन्तरं द्विरेफः ॥५-३२॥

नवमेघमलीमसाद्युगान्ते वसुधां उद्धरतो रथाङ्गपाणेः ।
परितः श्रमवारिबिन्दवो ये निरपीयन्त पयोधशुक्तियूथैः ॥५-३३॥

प्रकृतिः किल यस्य ते परीता परिणामेन तदन्तरेऽत्र हंसः ।
शयनान्तगतं मृणालशङ्कि शृतवान्हारं अधीरलोचनायाः ॥५-३४॥

उदडीयत खे मुखेन बिभ्रद्भुजगेन्द्रप्रतिमं तं अञ्जसा स ।
अपदार्पितवैतनेयशङ्कः फणिकन्यासु मुहूर्तविक्लवासु ॥५-३५॥


स च विन्ध्यवनान्तराजिं एतां अविशन्मारुतपीतपद्मगन्धां  ।
अतिदूरविकृष्टनागकन्या- चकितोदञ्चितदीर्घनेत्रमालः ॥५-३६॥

अहिराजसुतानिदेशतोऽस्मिनसमाप्तेषुविलोकनोत्सवोऽपि ।
अथ हंसं इतस्ततो विचेतुं विजने नागवधूजनः प्रवृत्तः ॥५-३७॥

शबलास्विह कृष्णसारयूथैः समदक्रोडसनाथपल्वलासु ।
गहनास्वपि तद्गवेषणायै वनलेखासु मम त्वयं प्रयत्नः ॥५-३८॥

स मया न तटेषु निर्झराणां सरसां नाप्सु न पुण्डरीकषण्डे ।
सरसीष्वपि नायतोर्मिलेखा न्तरपारिप्लवसारसासु दृष्टः ॥५-३९॥

सितचामरधारणे नियुक्तां दुहितस्तेन भुजङ्गमाधिपेन ।
अवधारय पाटलेति नाम्ना तनयां मां उरगस्य हेमनाम्नः ॥५-४०॥

अचले विचयः पतत्रिणोऽयं फलितः साधु ममाहितश्रमोऽपि ।
यदितः पुरुषोत्तमोऽसि दृष्टो वनमध्ये निबिडश्रियोपगूढः ॥५-४१॥

उपरोधं इमं न मन्यसे चेद्यदि वास्मासु तवास्ति पक्षपातः ।
वद तच्चरता क्वचिद्वनेऽस्मिन्सः सहारो विहगस्त्वया नु दृष्टः ॥५-४२॥

न स दृष्टिं इतस्तवापि मन्ये तदहं तद्विचयादितो निवर्ते ।
ननु ताम्यति कामं आत्तचिन्ता चिरयन्त्यां मयि साहिराजकन्या ॥५-४३॥

अथ वा मृगभङ्गिनोपनीते विधिना सा नवसाहसाङ्कबाणे ।
प्रणयार्पितलोचना सनामन्यधुनाप्यालिखितेव नूनं आस्ते ॥५-४४॥


_

पुनोऽपि पाटलोक्तिः

इति सा समुदीर्य तत्पृषत्कानवलोक्यैव पुनश्चमत्कृता इव ।
स्फुटकेलिमृगोपनीतबाण- स्मरणस्मेरमुखी पुनो जगाद ॥५-४५॥

सो नृलोकशशी त्वं एव मन्ये मृगयाबद्धरुचिः स यत्पृषत्कः ।
भुवनाभयदायिनां अमीषां भवतः संवदतीव सायकानां॥ ५-४६॥

स्थितं एतदय्ॐउखेष्वमीषु स्फुतवर्णं तव नामधेयलक्ष्म ।
अवनीतिलक त्वयि प्ररूढं मम सन्देहलवं बलात्प्रमार्ष्टि ॥५-४७॥

समुपैति सनाथतां किं अन्यत्त्रितयेन त्रितयं नरेन्द्रचन्द्र ।
त्रिदिवं नमुचिद्विषा त्वयेयं वसुधा वासुकिना रसातलं च ॥५-४८॥

सनये नृपतावखण्डिताज्ञे त्वयि शासत्यवनीं दिलीपकल्पे ।
विदधीत पदं सुदुर्नये कस्तं ऋते हारमलिम्लुचं विहङ्गं॥ ५-४९॥

असतां असुहृन्न लज्जतेऽयं किं इति ज्याकिणलाञ्छितो भुजस्ते ।
अवनौ यदनेन रक्षितायां वयं अस्यां मूषिताः पतत्रिणापि ॥५-५०॥

अपयातु खगः सस्तेन कृत्यं न हि मे हारं इह त्वं एव याच्यः ।
न दिशन्ति किं अत्र चोरलुप्तं बत षष्टांशभुजो वसुन्धरायाः ॥५-५१॥

पथि चेदवतिष्ठसे प्रणीते मनुना नाथ तदर्प्यतां स हारः ।
न नरेन्द्र भवादृशाः कदाचित्पदवीं न्यायविदां विलङ्घयन्ति ॥५-५२॥

निजं अर्थयसे शिलीमुखं चेद्भवता यत्नवतापि किं न लभ्यः? ।
त्वं अनागसि यच्छशिप्रभायाः प्रहरन्केलिमृगे कृतव्यालीकः ॥५-५३॥

अथ वा मृगयिष्यते न हारं विशिखं दास्यति चोरगेन्द्रकन्या ।
त्वयि नेत्रपथातिथित्वं आप्ते सुलभोऽस्या हि महाजनोपरोधः ॥५-५४॥

अतिदूरतो दृश्यतेऽयं त्वं इवाभ्युन्नतिमानिनो नगेन्द्रः ।
वहति प्रणयोपरुद्धकूला कलहंसैरमुं अन्तरेण रेवा ॥५-५५॥

अमृतेन्दुकलासहोदरास्याः सुतनुस्तीरतलेऽवतिष्ठते सा ।
उरसीव पयोधिराजकन्या वनमालाभरणे रथाङ्गपाणेः ॥५-५६॥

तदितः स्वयं एव देव गत्वा पुलिनं स्ॐअभुवस्तरङ्गवत्याः ।
खगलुप्तविभूषणं क्षितौ ते फणिराजेन्द्रसुतां विबोधयेहि ॥५-५७॥


इति तद्वचसा स्मरैकदूत- प्रसवोल्लासवसन्तवासरेण ।
सो नृपः कं अपि प्रमोदं आपत्घनराजिध्वनिनेव नीलकण्ठः ॥५-५८॥

अवदच्च विहस्य पार्थिवेन्द्रः फणिराजेन्द्रसुताविलासिनीं तां  ।
वचसोत्कयता मयूरशावान्नवजीमूतनिनादसोदरेण ॥५-५९॥

अपि नाम मृदूनि वेत्सि वक्तुं निपुनं न्यायं अनुज्झती वचांसि ।
प्रसभं विहितास्त्वया यदेते वयं आत्मस्खलितेऽपि सापराधाः ॥५-६०॥

इदं ॐ इति गृह्यते वचस्ते सह मेधाविनि कस्त्वया विवादः ।
यदिमा विशदोद्गमा गिरस्ते पथि सिद्धान्तसमीक्षिते चरन्ति ॥५-६१॥

तदनेन विनोदयाशु तावन्मम हारेण मनः शशिप्रभायाः ।
इह पल्वलसैकतेषु यावत्तदलङ्कारं अवेक्षितुं यतिष्यते ॥५-६२॥


_

हारप्रदानम्

अथ हारं अनादरेण कण्ठात्स्वयं आकृष्य सः कृष्टचन्द्रशोभं  ।
विहसन्नरविन्दकोशताम्रे निददे पाणितले विलासवत्याः ॥५-६३॥

अपि कोशगृहोदरे दुरापं फणिनां भर्तुरुपोढविस्मया सा ।
तं उदञ्चितपक्ष्मणा मृगाक्षी लिखितेनैव ददर्श लोचनेन ॥५-६४॥


_

शशिप्रभाहारप्रदानम्

अवकृष्य सलीलं उत्तरीयात्सितमेघादिव तारकावितानं  ।
उरसा स बभार हारं ईशः स्तनपर्यङ्कशयं शशिप्रभायाः ॥५-६५॥

वदति स्म हसन्रमाङ्गदस्तां उरगस्त्रीं अतह्भर्तुरिङ्गितज्ञः ।
यदि कौतुकवत्यमत्सरस्ते तदितः किं चिदितोऽवलोकयेति ॥५-६६॥

अथ हारलताविकृष्टदृष्टिः सहसा वारिविहङ्गमावलुप्तं  ।
उरगेन्द्रसुताविभूषणं तन्नृपतेर्वक्षसि पाटला ददर्शः ॥५-६७॥


_

पुनः पाटलावाक्यम्

दशनच्छदं आत्तबिम्बशोभं स्नपयन्ती सुधयेव हासकान्त्या ।
अवदच्च वाचांसि पार्थिवं सा चतुरैवं परिहासपेशलानि ॥५-६८॥

अपहर्तुं अगास्त्वं एव हारं किं इतः कल्पितराजहंसरूपः ।
विदितोऽसि घना तवोरगाणां नगरेऽस्त्येव हि कामरूपवार्ता ॥५-६९॥

परवञ्चनपण्डिता मतिस्ते यदि नैवं कथं अन्यथा नरेन्द्र ।
इदं आभरणं हरस्यरण्ये हरहासैकसितं शशिप्रभायाः ॥५-७०॥

अवनीवलये त्वं आत्तदण्डः सहसे नाविनयांशं इत्यवैमि ।
अथ च स्थितिं आत्मना विधत्से विषये दस्युनिषेविते किं एतथ् ॥५-७१॥

क्षितिप स्मयसे किं एष केलिर्न भवत्यर्पय हारं अस्मदीयं  ।
नयवर्त्मजुषो भवादृशाः किं न परस्वग्रहणादिह त्रपन्ते ॥५-७२॥


अथवा परतोऽस्तु नर्म नास्यां भुवि देवेन समोऽस्ति पार्थिवोऽन्यः ।
अपविद्धनया न यस्य दृष्टेरपसर्पन्त्यथ खेचराः किं अन्ये ॥५-७३॥

अनयोः किं अपि त्वया विलासिन्परिवर्तोऽयं अकारि हारयोर्यः ।
वचसां अवकाशं ईश दत्ते स न कस्यानृजुचेतसो जनः? ॥५-७४॥

विहितो न हि वक्षसि त्वयायं नृप हारः फणिराजकन्यकायाः ।
किं अपीप्सितं आत्मनो विधातुर्विहितं सूत्रं इदं मनोभवेन ॥५-७५॥

ननु याम्यमुना शशिप्रभायास्तव हारेण मनो विनोदयामि ।
त्वयि साप्यलं एव सान्द्रचेतः सुतनुः स्नेहरसार्द्रतां उपैतु ॥५-७६॥

उचितं निजसायकानुरोधादहिराजेन्द्रसुतोपसर्पणं ते ।
परतोऽस्तु शरस्त्वदर्थिता सा किं उ न त्यागवशंवदा ददाति ॥५-७७॥

सरसोऽस्य विमुञ्च तीरलेखां अनुरेवा पुलिनं गृहाण यात्रां  ।
उरगाधिपरूपपक्षपातं शमय व्यालवधूविलोचनानां॥ ५-७८॥


_

शशिप्रभादर्शनार्थं गमनम्

इति वल्गु वचो निशम्य तस्याः स नृपः पन्नगवामलोचनायाः ।
स्थितं अत्र वचस्यलङ्घनीये तव कल्याणि मयेति तां उवाच ॥५-७९॥

अथ सानृजुवादिनी विधाय क्षितिपालं पुरतश्चचाल बाला ।
हृदयेन पराममर्श चैवं विलसन्मांसलविस्मयो नरेन्द्रः ॥५-८०॥

अरण्यानी क्वेयं धृतकनसूत्रः क्व स मृगः क्व मुक्ताहारोऽयं क्व च सः पतगः क्वेयं अबला ।
क्व तत्कन्यारत्नं ललितं अहिभर्तुः क्व च वयं स्वं आकूतं धाता किं अपि निभृतं पल्लवयति ॥५-८१॥

अथ मदगजलीलाखेलगामी सः कृत्वा कनकविशिखयाच्ञाव्याजं अव्याजकान्तः ।
अवनिहरिणलक्ष्मा साहसोपार्जितश्रीरहिपरिवृढकन्यालोकनाय प्रतस्थे ॥५-८२॥

इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये शशिप्रभावलोकनार्थप्रस्थानं नाम पञ्चमः सर्गः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP