TransLiteral Foundation

द्वितीयप्रपाठकः - प्रथमोऽर्द्धः

यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे.


प्रथमोऽर्द्धः
पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः ।
अभि विश्वानि काव्या ॥७७५॥
त्वं समुद्रिया अपोऽग्रियो वाच ईरयन् ।
पवस्व विश्वचर्षणे ॥७७६॥
तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे ।
तुभ्यं धावन्ति धेनवः ॥७७७॥
पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने ।
विश्वा अप द्विषो जहि ॥७७८॥
यस्य ते सख्ये वयं सासह्याम पृतन्यतः ।
तवेन्दो द्युम्न उत्तमे ॥७७९॥
या ते भीमान्यायुधा तिग्मानि सन्ति धूर्वणे ।
रक्षा समस्य नो निदः ॥७८०॥
वृषा सोम द्युमां असि वृषा देव वृषव्रतः ।
वृषा धर्माणि दध्रिषे ॥७८१॥
वृष्णस्ते वृष्ण्यं शवो वृषा वनं वृषा सुतः ।
स त्वं वृषन्वृषेदसि ॥७८२॥
अश्वो न चक्रदो वृषा सं गा इन्दो समर्वतः ।
वि नो राये दुरो वृधि ॥७८३॥
वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे ।
पवमान स्वर्दृशं ॥७८४॥
यदद्भिः परिशिच्यसे मर्मृज्यमान आयुभिः ।
द्रोणे सधस्थमश्नुषे ॥७८५॥
आ पवस्व सुवीर्यं मन्दमानः स्वायुध ।
इहो ष्विन्दवा गहि ॥७८६॥
पवमानस्य ते वयं पवित्रमभ्युन्दतः ।
सखित्वमा वृणीमहे ॥७८७॥
ये ते पवित्रमूर्मयोऽभिक्षरन्ति धारया ।
तेभिर्नः सोम मृडय ॥७८८॥
स नः पुनान आ भर रयिं वीरवतीमिषम्
ईशानः सोम विश्वतः ॥७८९॥
अग्निं दूतं वृणीमहे होतारं विश्ववेदसं ।
अस्य यज्ञस्य सुक्रतुं ॥७९०॥
अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिं ।
हव्यवाहं पुरुप्रियं ॥७९१॥
अग्ने देवां इहा वह जज्ञानो वृक्तबर्हिषे ।
असि होता न ईड्यः ॥७९२॥
मित्रं वयं हवामहे वरुणं सोमपीतये ।
य जाता पूतदक्षसा ॥७९३॥
ऋतेन यावृतावृधावृतस्य ज्योतिषस्पती ।
ता मित्रावरुणा हुवे ॥७९४॥
वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः ।
करतां नः सुराधसः ॥७९५॥
इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ।
इन्द्रं वाणीरनूषत ॥७९६॥
इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा ।
इन्द्रो वज्री हिरण्ययः ॥७९७॥
इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च ।
उग्र उग्राभिरूतिभिः ॥७९८॥
इन्द्रो दीर्धाय चक्षस आ सूर्यं रोहयद्दिवि ।
इन्द्रे अग्ना नमो बृहत्सुवृक्तिमेरयामहे ।
धिया धेना अवस्यवः ॥८००॥
ता हि शश्वन्त ईडत इत्था विप्रास ऊतये ।
सबाधो वाजसातये ॥८०१॥
ता वां गीर्भिर्विपन्युवः प्रयस्वन्तो हवामहे ।
मेधसाता सनिष्यवः ॥८०२॥
वृषा पवस्व धारया मरुत्वते च मत्सरः ।
दिश्वा दधान ओजसा ॥८०३॥
तं त्वा धर्त्तारमोण्यो पवमान स्वर्दृशं ।
हिन्वे वाजेषु वाजिनं ॥८०४॥
अया चित्तो विपानया हरिः पवस्व धारया ।
युजं वाजेषु चोदय ॥८०५॥
वृषा शोणो अभिकनिक्रदद्गा नदयन्नेषि पृथिवीमुत द्यां ।
इन्द्रस्येव वग्नुरा शृण्व आजौ प्रचोदयन्नर्षसि वाचमेमां ॥८०६॥
रसाय्यः पयसा पिन्वमान ईरयन्नेषि मधुमन्तमंशुं ।
पवमान सन्तनिमेषि कृण्वन्निन्द्राय सोम परिषिच्यमानः ॥८०७॥
एवा पवस्व मदिरो मदायोदग्राभस्य नमयन्वधस्नुं ।
परि वर्णं भरमाणो रुशन्तं गव्युर्नो अर्ष परि सोम सिक्तः ॥८०८॥
त्वामिद्धि हवामहे सातौ वाजस्य कारवः ।
त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥८०९॥
स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः ।
गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे ॥८१०॥
अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे ।
यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥८११॥
शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे ।
गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥८१२॥
त्वामिदा ह्यो नरोऽपीप्यन्वज्रिन्भूर्णयः ।
स इन्द्र स्तोमवाहस इह श्रुध्युप स्वसरमा गहि ॥८१३॥
मत्स्वा सुशिप्रिन्हरिवस्तमीमहे त्वया भूषन्ति वेधसः ।
तव श्रवांस्युपमान्युक्थ्य सुतेष्विन्द्र गिर्वणः ॥८१४॥
यस्ते मदो वरेण्यस्तेना पवस्वान्धसा ।
देवावीरघशंसहा ॥८१५॥
जघ्निर्वृत्रममित्रियं सस्निर्वाजं दिवेदिवे ।
गोषातिरश्वसा असि ॥८१६॥
सम्मिश्लो अरुषो भुवः सूपस्थाभिर्न धेनुभि ।
सीदं च्छ्येनो न योनिमा ॥८१७॥
अयं पूषा रयिर्भगः सोमः पुनानो अर्षति ।
पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे ॥८१८॥
समु प्रिया अनूषत गावो मदाय घृष्वयः ।
सोमासः कृण्वते पथः पवमानास इन्दवः ॥८१९॥
य ओजिष्ठस्तमा भर पवमान श्रवाय्यं ।
यः पञ्च चर्षणीरभि रयिं येन वनामहे ॥८२०॥
वृषा मतीनां पवते विचक्षणः सोमो अह्नां प्रतरीतोषसां दिवः ।
प्राणा सिन्धूनां कलशां अचिक्रददिन्द्रस्य हार्द्याविशन्मनीषिभिः ॥८२१॥
मनीषिभिः पवते पूर्व्यः कविर्नृभिर्यतः परि कोशां असिष्यदत् ।
त्रितस्य नाम जनयन्मधु क्षरन्निन्द्रस्य वायूं सख्याय वर्धयन्॥८२२॥
अयं पुनान उषसो अरोचयदयं सिन्धुभ्यो अभवदु लोककृत् ।
अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः ॥८२३॥
एवा ह्यसि वीरयुरेवा शूर उत स्थिरह् ।
एवा ते राध्यं मनः ॥८२४॥
एवा रातिस्तुवीमघ विश्वेभिर्धायि धातृभिः ।
अधा चिदिन्द्र नः सचा ॥८२५॥
मो षु ब्रह्मेव तदिन्द्रयुर्भुवो वाजानां पते ।
मत्स्वा सुतस्य गोमतः ॥८२६॥
इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः ।
रथीतमं रथीनां वाजानां सत्पतिं पतिं ॥८२७॥
सख्ये त इन्द्र वाजिनो मा भेम शवसस्पते ।
त्वामभि प्र नोनुमो जेतारमपराजितं ॥८२८॥
पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः ।
यदा वाजस्य गोमत स्तोतृभ्यो मंहते मघं ॥८२९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:14.2800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

हव्यास

  • पु. १ उत्कट इच्छा ; तृष्णा ; हाव ; छंद ; नाद . २ सोस . ( क्रि० घेणें ; लागणें ). दुर्बोधत्वकथनीं ज्याचा सर्वत्र परम हव्यास । - मोभीष्म १२ . ३८ . या जोशीबुवास पुस्तकसंग्रह करण्याचा हव्यास फार . ३ उत्साह [ अर . हवस् ‍ ; हवें अशी आस ] हव्याशा , हव्यासी - वि . १ सकाम ; सतृष्ण . २ नादी ; छंदी ; सोसबाहुला . 
  • m  Desire; any longing or 
  • ना. उत्कटेच्छा , छंद , तृष्णा , ध्यास , नाद , सोस , हाव . 
  • $itching$. 
RANDOM WORD

Did you know?

हल्ली महिला पौरोहित्य करतात हे धर्मसंमत आहे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.