संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|छन्द आर्चिकः - द्वितीयप्रपाठकः| दशमी दशतिः छन्द आर्चिकः - द्वितीयप्रपाठकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः षष्ठी दशतिः सप्तमी दशतिः अष्टमी दशतिः अष्टमी दशतिः दशमी दशतिः द्वितीयप्रपाठकः - दशमी दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद दशमी दशतिः Translation - भाषांतर यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा ।न किः स दभ्यते जनः ॥१८५॥गव्यो षु णो यथा पुराश्वयोत रथया ।वरिवस्या महोनां ॥१८६॥इमास्त इन्द्र पृश्नयो घृतं दुहत आशिरं ।एनामृतस्य पिप्युषीः ॥१८७॥अया धिया च गव्यया पुरुणामन्पुरुष्टुत ।यत्सोमेसोम आभुवः ॥१८८॥पावका नः सरस्वती वाजेभिर्वाजिनीवती ।यज्ञं वष्टु धियावसुः ॥१८९॥क इमं नाहुषीष्वा इन्द्रं सोमस्य तर्पयात् ।स नो वसून्या भरात् ॥१९०॥आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमं ।एदं बर्हिः सदो मम ॥१९१॥महि त्रीणामवरस्तु द्युक्षं मित्रस्यार्यम्णः ।दुराधर्षं वरुणस्य ॥१९२॥त्वावतः पुरूवसो वयमिन्द्र प्रणेतः ।स्मसि स्थातर्हरीणां ॥१९३॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP